०२

01 हुत्वोपोत्तिष्ठतः ...{Loading}...

हुत्वोपोत्तिष्ठतः १

02 अनुपृष्ठं पतिः परिक्रम्य ...{Loading}...

अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिं गृहीत्वा २

03 पूर्वा माता लाजानादाय ...{Loading}...

पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ३

04 पाणिग्राहो जपतीममश्मानमारोहेति ...{Loading}...

पाणिग्राहो जपतीममश्मानमारोहेति ४

05 सकृत्सङ्गृहीतं लाजानामञ्जलिं भ्राता ...{Loading}...

सकृत्सङ्गृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ५

06 तं सोऽपस्तीर्णाभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिमियम् ...{Loading}...

तं सोऽपस्तीर्णाभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिमियं नार्युपब्रूत इति ६

07 अर्यमणं नु देवम् ...{Loading}...

अर्यमणं नु देवं पूषणमि-त्युत्तरयोः ७

08 हुते पतिर्यथेतं परिव्रज्य ...{Loading}...

हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वा ब्राह्मणः कन्यला पितृभ्य इति ८

09 परिणीता तथैवावतिष्ठते तथाक्रामति ...{Loading}...

परिणीता तथैवावतिष्ठते तथाक्रामति तथा जपति तथावपति तथा जुहोति ९

10 एवं त्रिः ...{Loading}...

एवं त्रिः १०

11 शूर्पेण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्त्येकमिष ...{Loading}...

शूर्पेण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्त्येकमिष इति ११

12 दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ...{Loading}...

दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् १२

13 मा सव्येन दक्षिणमतिक्रामेति ...{Loading}...

मा सव्येन दक्षिणमतिक्रामेति ब्रूयात् १३

14 ईक्षकान्प्रतिमन्त्रयेत सुमङ्गलीरियं वधूरिति ...{Loading}...

ईक्षकान्प्रतिमन्त्रयेत सुमङ्गलीरियं वधूरिति १४

15 अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्धदेशेऽवसिञ्चति ...{Loading}...

अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्धदेशेऽवसिञ्चति तथेतरां समञ्जन्त्वित्येतयर्चा १५

16 अवसिक्तायाः सव्येन पाणिनाञ्जलिमुपोद्गृह्य ...{Loading}...

अवसिक्तायाः सव्येन पाणिनाञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठमुत्तानं गृहीत्वैताः षट् पाणि ग्रहणीया जपति गृभ्णामि त इति १६

17 समाप्तासूद्वहन्ति ...{Loading}...

समाप्तासूद्वहन्ति १७


  1. 2, 1 seqq. Khādira-Gṛhya I, 3,16 seqq. ↩︎

  2. The roasted grain is that mentioned chap. 1, 15, the stone, Sūtra 16. ↩︎

  3. Comp. Gṛhya-saṃgraha II, 34. ↩︎

  4. On the repetitions of the lājāhoma, see below, Sūtras 9. 10. ↩︎

  5. As to the words ‘in the same way,’ see the second Sūtra of this chapter. ↩︎

  6. 14-16. Khādira-Gṛhya I, 3, 27-31. ↩︎

  7. Comp. Śāṅkhāyana-Gṛhya I, 12, 5 note (vol. xxix, p. 33) The water-carrier is the person mentioned chap. 1, 13. ↩︎