०१ विवाहः

01 पुण्ये नक्षत्रे दारान्कुर्वीत ...{Loading}...

पुण्ये नक्षत्रे दारान् कुर्वीत १

कन्याचितिः

02 लक्षणप्रशस्तान्कुशलेन ...{Loading}...

लक्षण-प्रशस्तान् कुशलेन २

03 तदलाभे पिण्डान् ...{Loading}...

तद्+++(=प्रशस्त-कन्या)+++-अलाभे पिण्डान् ३

04 वेद्याः सीताया हृदाद्गोष्ठाच्चतुष्पथादादेवनादादहनादिरिणात् ...{Loading}...

वेद्याः सीताया+++(=भूकर्षणगर्ततः)+++ हृ+++(ह्र)+++दाद् गोष्ठाच् चतुष्पथाद् आदेवनाद्+++(=द्यूतस्थानात्)+++ आदहनाद् इरिणात्+++(=अनुर्वरभूमेः)+++ ४

05 सर्वेभ्यः सम्भार्यं नवमम् ...{Loading}...

+++(तथा)+++ सर्वेभ्यः सम्भार्यं नवमम् ५

06 समान्कृतलक्षणान् ...{Loading}...

समान-कृतलक्षणान् ६

07 पाणावाधाय कुमार्या उपनामयेदृतमेव ...{Loading}...

पाणाव् आधाय कुमार्या +++(अग्रे तान्)+++ उपनामयेद् - “ऋतम् एव प्रथमम्। ऋतं नात्येति कश्चनर्त इयं पृथिवी श्रिता। सर्वम् इदम् +++(ऋतपूर्णम्)+++ असौ भूयाद्” इति तस्या नाम गृहीत्वैषाम् एकं गृहाणेति ब्रूयात् ७

08 पूर्वेषां चतुर्णां गृह्णन्तीमुपयच्छेत् ...{Loading}...

पूर्वेषां चतुर्णां गृह्णन्तीम् उपयच्छेत् ८

09 सम्भार्यमपि त्वेके ...{Loading}...

  • सम्भार्यम्+++(→मिश्रम्)+++ अपि +++(इति)+++ त्व् एके ९

कन्या-संस्कारः

10 क्लीतकैर्यवैर्माषैर्वाप्लुतां सुहृत्सुरोत्तमेन सशरीराम् ...{Loading}...

क्लीतकैर् यवैर् माषैर् वाप्लुतां सुहृत् सुरोत्तमेन सशरीरां त्रिर् मूर्धन्य् अभिषिञ्चेत् - “काम वेद ते नाम - मदो नामासी"ति। समानयाऽमुम् इति पतिनाम गृह्णीयात् - स्वाहाकारान्ताभिर् उपस्थम् उत्तराभ्यां प्लावयेत् १०

11 ज्ञातिकर्मैतत् ...{Loading}...

  • +++(स्त्री)+++ज्ञाति-कर्मैतत् +++(5)+++११

12 पाणिग्रहणे पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो ...{Loading}...

पाणिग्रहणे पुरस्ताच् +++(गृह)+++छालाया उपलिप्ते ऽग्निर् उपसमाहितो भवति १२

13 अथ जन्यानामेको ध्रुवाणामपाम् ...{Loading}...

अथ जन्यानामेको ध्रुवाणामपां कलशं पूरयित्वा सहोदकुम्भः प्रावृतो वाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते १३

14 प्राजनेनान्यः ...{Loading}...

प्राजनेनान्यः १४

15 शमीपलाशमिश्राँ श्च लाजाँ ...{Loading}...

शमीपलाशमिश्राँ श्च लाजाँ श्चतुरञ्जलिमात्राञ् छूर्पेणोऽपसादयन्ति पश्चादग्नेः १५

16 दृषत्पुत्रं च ...{Loading}...

दृषत्पुत्रं च १६

17 अथ यस्याः पाणिम् ...{Loading}...

अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साप्लुता भवति १७

18 अहतेन वसनेन पतिः ...{Loading}...

अहतेन वसनेन पतिः परिदध्याद्या अकृन्तन्नित्येतयर्चा परिधत्त धत्त वाससेति च १८

19 प्रावृतां यज्ञोपवीतिनीमभ्युदानयन्जपेत्सोमोऽददद्गन्धर्वायेति ...{Loading}...

प्रावृतां यज्ञोपवीतिनीमभ्युदानयन्जपेत्सोमोऽददद्गन्धर्वायेति १९

20 पश्चादग्नेः संवेष्टितं कटमेवञ्जातीयम् ...{Loading}...

पश्चादग्नेः संवेष्टितं कटमेवञ्जातीयं वान्यत्पदा प्रवर्तयन्तीं वाचयेत्प्र मे पतियानः पन्थाः कल्पतामिति २०

21 स्वयं जपेदजपन्त्यां प्रास्या ...{Loading}...

स्वयं जपेदजपन्त्यां प्रास्या इति २१

22 बर्हिषोऽन्तं कटान्तं प्रापयेत् ...{Loading}...

बर्हिषोऽन्तं कटान्तं प्रापयेत् २२

23 पूर्वे कटान्ते दक्षिणतः ...{Loading}...

पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्यो-पविशति २३

24 दक्षिणेन पाणिना दक्षिणमँ ...{Loading}...

दक्षिणेन पाणिना दक्षिणमँ समन्वारब्धायाः षडाज्याहुतीर्जुहोत्यग्निरेतु प्रथम इत्येतत्प्रभृतिभिः २४

25 महाव्याहृतिभिश्च पृथक् ...{Loading}...

महाव्याहृतिभिश्च पृथक् २५

26 सम स्ताभिश्चतुर्थीम् ...{Loading}...

सम स्ताभिश्चतुर्थीम् २६


  1. 1, 1-4. Description of the wedding. Comp. Indische Studien, V, 288, 305 seq.; 312 seq.; 368 seq. ↩︎

  2. In translating kuśalena I have been guided by the comparison of I, 5, 26 (comp. Böhtlingk-Roth, s.v. kuśala). The commentary understands the Sūtra in a different way. He should take a woman who possesses auspicious characteristics commended by one versed (kuśala) in the characteristics of women. If he can find no such person who is able to judge, he should, &c. (Sūtra 3). ↩︎

  3. Comp. Āśvalāyana-Gṛhya I, 5, 5; Gṛhya-saṃgraha II, 21-23. ↩︎

  4. Āśvalāyana-Gṛhya, l.l. § 4. ↩︎

  5. See Sūtra 5. ↩︎

  6. ‘With Klītaka,’ &c., means, with water into which Klītaka, &c., has been thrown; comp. Gṛhya-saṃgraha II, 15. ‘Surā of first quality’ is Surā prepared from molasses; see Gṛhya-saṃgraha II, 16. Comp., however, also Gṛhya-saṃgraha II, 41. ↩︎

  7. Khādira-Gṛhya I, 3, 5; Gṛhya-saṃgraha II, 25. 26. ‘Firm water’ seems to be water which does not dry up. The Gṛhya-saṃgraha says: ‘Water that has its smell, its colour, and its taste, which is in great rivers, in wells and other receptacles, and in ponds: such water is called “firm;” this is the fixed meaning.’ Comp. Bloomfield’s note, Z.D.M.G. XXXV, 574. ↩︎

  8. 17-19. Khādira-Gṛhya I, 3, 6. Yajñopavītinīm in Sūtra 19 means, according to the commentary, that she wears her outer garment arranged like the sacrificial cord, over her left shoulder; for women are not allowed to wear the sacrificial cord itself. ↩︎

  9. Gṛhya-saṃgraha II, 27 seq. ↩︎

  10. 24-26. Khādira-Gṛhya I, 3, 11-13. ↩︎