०७ पार्वणव्रतम्

हविर्निर्वापः

01 अथोलूखलमुसले प्रक्षाल्य शूर्पम् ...{Loading}...

अथोलूखल-मुसले प्रक्षाल्य शूर्पं च पश्चाद् अग्नेः प्राग्-अग्रान् दर्भान् आस्तीर्योपसादयति १

02 अथ हविर्निर्वपति व्रीहीन्वा ...{Loading}...

अथ हविर् निर्वपति - व्रीहीन् वा यवान् वा - कँसेन वा चरु-स्थाल्या वा २

03 अमुष्मै त्वा जुष्टम् ...{Loading}...

“अमुष्मै त्वा जुष्टं निर्वपामी"ति देवतानामादेशं सकृद्, द्विस् तूष्णीम् ३

04 अथ पश्चात्प्राङ्मुखोऽवहन्तुमुपक्रमते दक्षिणोत्तराभ्याम् ...{Loading}...

अथ पश्चात् प्राङ्मुखो ऽवहन्तुम् उपक्रमते दक्षिणोत्तराभ्यां +++(सव्याधराभ्याञ्च)+++ पाणिभ्याम् ४

05 त्रिःफलीकृताँ स्तण्डआ\!न्स्त्रिर्देवेभ्यः प्रक्षालयेदित्याहुर्द्विर्मनुष्येभ्यः ...{Loading}...

त्रिःफलीकृताँस् तण्डुलान्स् त्रिर् देवेभ्यः प्रक्षालयेद् इत्याहुर्, द्विर् मनुष्येभ्यः, सकृत् पितृभ्य इति ५

पाकः

06 पवित्रान्तर्हिताँ स्तण्डुलानावपेत् ...{Loading}...

पवित्रान्तर्हिताँस् तण्डुलान् आवपेत् +++(पाकपात्रे)+++ ६

07 कुशलशृतमिव स्थालीपाकं श्रपयेत्प्रदक्षिणमुदायुवन् ...{Loading}...

कुशल-शृतम्+++(=पक्वं)+++ इव स्थालीपाकं श्रपयेत्- प्रदक्षिणम् उदायुवन्+++(=मिश्रयन्)+++ ७

08 शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ...{Loading}...

शृतम् अभिघार्योदग् उद्वास्य प्रत्य्-अभिघारयेत् ८

परिस्तरणम्

09 अग्निमुपसमाधाय कुशैः समन्तम् ...{Loading}...

अग्निम् उपसमाधाय कुशैः समन्तं परिस्तृणुयात् - पुरस्ताद् दक्षिणत उत्तरतः पश्चाद् इति ९

10 सर्वतस्त्रिवृतं पञ्चवृतं वा ...{Loading}...

सर्वतस् त्रिवृतं पञ्चवृतं वा १०

11 बहुलमयुग्मसंहतम् ...{Loading}...

बहुलम् अयुग्म-संहतम् ११

12 प्रागग्रैरग्रैर्मूलानि च्छादयन् ...{Loading}...

प्राग्-अग्रैर् अग्रैर् मूलानि च्छादयन् १२

13 पश्चाद्वास्तीर्य दक्षिणतः प्राञ्चम् ...{Loading}...

पश्चाद् वास्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण +++(तेनात्र द्विकोनाकृतिं सृजन्)+++ १३

14 दक्षिणोत्तराण्यग्राणि कुर्यात् ...{Loading}...

दक्षिणोत्तराण्य्+++(=दक्षिणदर्भाग्राण्य् उपरि यथा स्युस् तथा)+++ अग्राणि कुर्यात् १४

15 एष परिस्तरणन्यायः सर्वेष्वाहुतिमत्सु ...{Loading}...

एष परिस्तरणन्यायः सर्वेष्व् आहुतिमत्सु १५

16 परिधीनप्येके कुर्वन्ति शामीलान्पार्णान्वा ...{Loading}...

परिधीनप्येके कुर्वन्ति शामीलान् पार्णान् वा १६

17 उत्तरतोऽपां पूर्नः स्रुवः ...{Loading}...

उत्तरतो ऽपां पूर्णः स्रुवः - प्रणीता +++(इति ज्ञेयाः)+++ १७

18 भवेन वा स्यादित्येके ...{Loading}...

+++(पूर्व)+++भवेन वा स्याद् इत्य् एके १८

आज्यसंस्कारः

19 बर्हिषि स्थालीपाकमासाद्येध्ममभ्याधायाज्यां संस्कुरुते ...{Loading}...

बर्हिषि स्थालीपाकम् आसाद्येध्मम् अभ्याधायाज्यां संस्कुरुते १९

20 सर्पिस्तैलं दधि पयो ...{Loading}...

सर्पिस् तैलं दधि पयो यवागूं वा +++(5)+++ २०

21 तत एव बर्हिषः ...{Loading}...

तत एव बर्हिषः प्रादेशमात्रे पवित्रे कुरुते २१

22 ओषधिमन्तर्धाय च्छिनत्ति न ...{Loading}...

ओषधिम् अन्तर्धाय च्छिनत्ति - न नखेन - पवित्रे स्थो वैष्णव्याव् - इति २२

23 अनेन अद्भिरनुमार्ष्टि विष्णोर्मनसा ...{Loading}...

अनेन +++(यजुषा)+++ अद्भिर् अनुमार्ष्टि - विष्णोर् मनसा पूते स्थ - इति २३

24 सम्पूयोत्पुनात्युदगग्राभ्यां पवित्राभ्याम् ...{Loading}...

+++(पवित्रान्तर्हिते पात्र आज्यस्यानयनेन)+++ सम्पूयोत्पुनात्य् उदगग्राभ्यां पवित्राभ्याम् २४

25 अङ्गुष्ठाभ्यां चोपकनिष्ठिकाभ्यां चाङ्गुलिभ्यामभिसङ्गृह्य ...{Loading}...

अङ्गुष्ठाभ्यां चोपकनिष्ठिकाभ्यां चाङ्गुलिभ्याम् अभि-सङ्गृह्य प्राक्शस् त्रिर् उत्पुनाति - देवस् त्वा सवितोत्पुनात्व् अच्छिद्रेण पवित्रेण, वसोः सूर्यस्य रश्मिभिर् - इति सकृद् यजुषा, द्विस् तूष्णीम् २५

26 अथैने अद्भिरभ्युक्ष्याग्नावप्युत्सृजेत् ...{Loading}...

अथैने अद्भिर् अभ्युक्ष्याग्नाव् अप्युत्सृजेत् २६

27 अथैतदाज्यमधिशृत्योदगुद्वासयेत् ...{Loading}...

अथैतद् आज्यम् +++(अग्नितापेन विलाप्य)+++ अधिशृत्योदग् उद्वासयेत् २७

28 एवमाज्यस्य संस्करणकल्पो भवतीति ...{Loading}...

एवम् आज्यस्य संस्करणकल्पो भवतीति २८


  1. 7, 2, 3. Khādira-Gṛhya II, 1, 9. ↩︎

  2. 4, 5. Comp. Hillebrandt, Neu- and Vollmondsopfer, pp. 29 seqq. Khādira-Gṛhya II, 1, 10-13. ↩︎

  3. Hillebrandt, p. 39. ↩︎

  4. Khādira-Gṛhya I, 2, 10. ↩︎

  5. This seems to me the most probable translation of ayugmasaṃhatam, on which expression Dr. Knauer’s note on pp. viii seq. of his Introduction should be compared. Comp. Hillebrandt, pp. 64 seq. ↩︎

  6. 13-14. This is the same way of strewing the grass which is described in the Mānava-Gṛhya I, 10, 4. 5; Khādira-Gṛhya I, 2, 9. ↩︎

  7. Comp. Gṛhya-saṃgraha I, 85. 97. ↩︎

  8. All the substances which are stated in this Sūtra can be considered as Ājya. Gṛhya-saṃgraha I, 106. 107. ↩︎

  9. 21 seqq. Khādira-Gṛhya I, 2, 12 seqq. ↩︎

  10. As to sampūyotpunāti, comp. Hiraṇyakeśin I, 1, 1, 23: pavitrāntarhite pātreऽpa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya . . . ↩︎