०४ होमः

बलिहरणम्

01 अथ वाग्यतो बलीन्हरेत् ...{Loading}...

अथ वाग्-यतो बलीन् हरेत् १

02 भाषेतान्नसंसिद्धिमतिथिभिः कामं सम्भाषेत ...{Loading}...

भाषेतान्न-संसिद्धिम्, अतिथिभिः कामं सम्भाषेत २

होमः

03 अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ ...{Loading}...

अथ हविष्यस्यान्नस्योद्धृत्य
हविष्यैर् व्यञ्जनैर् उपसिच्याग्नौ जुहुयात् - तूष्णीं पाणिनैव ३

04 प्राजापत्या पूर्वाहुतिर्भवति सौविष्टकृत्युत्तरा ...{Loading}...

प्राजापत्या पूर्वाहुतिर् भवति, सौविष्टकृत्य् उत्तरा ४

बलिहरणम्

05 अथ बलीन्हरेद्बाह्यतो वान्तर्वा ...{Loading}...

अथ बलीन् हरेद् बाह्यतो वान्तर् वा सुभूमिं कृत्वा ५

06 सकृदपो निनीय चतुर्धा ...{Loading}...

सकृद् अपो निनीय, चतुर्धा बलिं निदध्यात्, सकृद् अन्ततः परिषिञ्चेत् ६

07 एकैकं वानुनिधानमुभयतः परिषिञ्चेत् ...{Loading}...

एकैकं वा ऽनुनिधानम् उभयतः परिषिञ्चेत् ७

08 स यत्प्रथमं निदधाति ...{Loading}...

स यत् प्रथमं निदधाति -
स पार्थिवो बलिर् भवत्य्,
अथ यद् द्वितीयं - स वायव्यो,
यत् तृतीयं - स वैश्वदेवो,
यच् चतुर्थं - स प्राजापत्यः ८

09 अथापरान्बलीन्हरेदुदधानस्य मध्यमस्य द्वारस्याब्दैवतः ...{Loading}...

अथापरान् बलीन् हरेद् -
उद-धानस्य मध्यमस्य द्वारस्य +++(च)+++ - अब्-दैवतः प्रथमो बलिर् भवत्य्,
ओषधि-वनस्पतिभ्यो द्वितीय,
आकाशाय तृतीयः ९

10 अथापरं बलिं हरेच्छयनम् ...{Loading}...

अथापरं बलिं हरेच्
छयनं वाधिवर्चं+++(=कायमलादि-निवारण-स्थाने)+++ वा -
स कामाय वा बलिर् भवति, मन्यवे वा १०

11 अथ सस्तूपं स ...{Loading}...

अथ स-स्तूपं+++(→अवकरे)+++ - स रक्षो-जनेभ्यः ११

12 अथैतद्बलिशेषमद्भिरभ्यासिच्यावसलवि दक्षिणा निनयेत्तत्पितृभ्यो ...{Loading}...

अथैतद् बलि-शेषम् अद्भिर् अभ्यासिच्याऽव-सलवि+++(← सल् गतौ =अवदक्षिणम् = प्रसव्यम् [अङ्गुलीर् वर्तयित्वा हस्तस्थपितृतीर्थेन])+++ दक्षिणा निनयेत् -
तत् पितृभ्यो भवति १२

आसनम्

13 आसीन एवाग्नौ जुहुयात् ...{Loading}...

आसीन एवाग्नौ जुहुयात् १३

14 आसीनः पितृभ्यो दद्याद्यथोपपादमितरान् ...{Loading}...

आसीनः पितृभ्यो दद्याद्,
यथोपपादम् इतरान् १४

कर्ता

15 स्वयं त्वेवैतान्यावद्वसेद्बलीन्हरेत् ...{Loading}...

स्वयं त्व् एवैतान्, यावद् वसेद्, बलीन् हरेत् १५

16 अपि वान्यो ब्राह्मणः ...{Loading}...

अपि वान्यो ब्राह्मणः १६

17 दम्पती एव ...{Loading}...

दम्पती एव १७

18 इति गृहमेधिव्रतम् ...{Loading}...

इति गृह-मेधि-व्रतम् १८

19 स्त्री ह सायम् ...{Loading}...

स्त्री ह सायं, प्रातः पुमान् इति १९

करणे ऽपवादाः

20 सर्वस्य त्वेवान्नस्यैतान्बलीन्हरेत्पित्र्\! यस्य ...{Loading}...

सर्वस्य त्व् एवान्नस्यैतान् बलीन् हरेत् -
पित्र्यस्य वा +++(ब्राह्मणभोजनेन)+++ स्वस्त्य्-अयनस्य वार्थार्थस्य वा २०

21 यज्ञादेव निवर्तते ...{Loading}...

यज्ञाद् एव +++(कारणात् वैश्वदेवान्)+++ निवर्तते २१

22 यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेतान्यतरस्य ...{Loading}...

यद्य् एकस्मिन् काले व्रीहि-यवौ प्रक्रियेत -
अन्यतरस्य कृत्वा कृतं मन्येत २२

23 यद्येकस्मिन्काले पुनः पुनरन्नम् ...{Loading}...

यद्य् एकस्मिन् काले पुनः पुनर् अन्नं पच्येत
सकृद् एवैतद् बलि-तन्त्रं कुर्वीत २३

24 यद्येकस्मिन्कुले बहुधान्नं पच्येत ...{Loading}...

यद्य् एकस्मिन् कुले बहुधा ऽन्नं पच्येत
गृह-पति-महानसाद् एवैतद् बलि-तन्त्रं कुर्वीत २४

25 यस्य त्वेषामग्रतः सिध्येन्नियुक्तमग्नौ ...{Loading}...

यस्य त्व् एषाम् अग्रतः सिध्येन् नियुक्तम्
अग्नौ कृत्वा ऽग्रं ब्राह्मणाय दत्त्वा भुञ्जीत २५

26 यस्यो जघन्यं भुञ्जीतैवेति ...{Loading}...

यस्यो जघन्यं भुञ्जीतैवेति २६

27 अथाप्युदाहरन्ति ...{Loading}...

अथाप्य् उदाहरन्ति २७

28 एतस्यैव बलिहरणस्यान्ते कामम् ...{Loading}...

एतस्यैव बलिहरणस्यान्ते कामं प्रब्रुवीत - भवति हैवास्य +++(कामपूर्तिः)+++ २८

आशस्यबलिः

29 स्वयं त्वेवाशस्यं बलिम् ...{Loading}...

स्वयं त्व् एवाशस्यं+++(←आ+सस्यम्)+++ बलिं हरेद् -
यवेभ्यो ऽध्य् आ-व्रीहिभ्यो +++(उत्पन्नेभ्यः)+++,
व्रीहिभ्यो ऽध्य् आ-यवेभ्यः +++(उत्पन्नेभ्यः)+++ -
स त्व् आशस्यो नाम बलिर् भवति २९

30 दीर्घायुर्हैव भवति ...{Loading}...

दीर्घायुर् हैव भवति ३०

31 विश्राणिते फलीकरणानामाचामस्यापामिति बलिम् ...{Loading}...

+++(दाने)+++ विश्राणिते+++(=दत्ते)+++
फली-करणानाम् आचामस्य+++(=ओदनपाके जातस्य फेनस्य)+++ +अपाम्
इति बलिं हरेत् -
स रौद्रो भवति, स रौद्रो भवति ३१


  1. 4, 1 seqq. The daily Bali offering. Khādira-Gṛhya I, 5, 20 seqq. ↩︎

  2. According to the commentary the first of these three Balis has p. 23 to be offered near the water-pot, the second near the middle door of the house, the third (comp. Gautama V, 16) in the air. With the genitives the word samīpe is supplied. It is difficult to understand why the author, if his intention had been to state three places in which the Balis had to be offered, should have mentioned only two. Thus I believe that the right explanation is that-of Professor Knauer, who takes madhyama in the sense of the middle post of the house (comp. III, 3, 31). ↩︎

  3. The commentary explains avasalavi nere, as is frequently the case, by pitṛtīrthena. I agree with the opinion pronounced in the Petersburg Dictionary, in rejecting this explanation. ↩︎

  4. Comp. Manu III, 121. ↩︎

  5. Kāla I take, as the commentator does, for bhojanakāla. ↩︎

  6. Here again kāla occurs in the same sense. Comp. Khādira-Gṛhya I, 5, 34. ↩︎

  7. Khādira-Gṛhya I, 5, 37. The barley-harvest is in the hot season, the rice-harvest in autumn (see Zimmer, Altindisches Leben, 243). The sacrificer offers barley from the barley-harvest till the rice-harvest; and rice from the rice-harvest till the barley-harvest. [fp. 25 ↩︎

  8. Khādira-Gṛhya I, 5, 30. The repetition of the last words makes it probable that this Sūtra was at one time considered the end of the first book. Comp. Introduction, p. 11. ↩︎