०२ साधारणनियमाः

यज्ञोपवीतम्

01 यज्ञोपवीतं कुरुते सूत्रम् ...{Loading}...

यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वापि वा कुशरज्जुम् एव १

02 दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय ...{Loading}...

दक्षिणं बाहुम् उद्धृत्य शिरो ऽवधाय सव्येऽँसे प्रतिष्ठापयति - दक्षिणं कक्षम् अन्व्-अवलम्बं भवत्य् - एवं यज्ञोपवीती भवति २

03 सव्यं बाहुमुद्धृत्य शिरोऽवधाय ...{Loading}...

सव्यं बाहुम् उद्धृत्य शिरो ऽवधाय दक्षिणेऽँसे प्रतिष्ठापयति - सव्यं कक्षम् अन्व्-अवलम्बं भवत्य् एवं प्राचीनावीती भवति ३

04 पितृयज्ञे त्वेव प्राचीनावीती ...{Loading}...

पितृ-यज्ञे त्व् एव प्राचीनावीती भवति ४

आचमनम्

05 उदङ्ङग्नेरुत्सृप्य प्रक्षाल्य पाणी ...{Loading}...

उदङ्ङ् अग्नेर् उत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचाम्, एद् द्विः परिमृजीत ५

06 पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ...{Loading}...

पादाव् अभ्युक्ष्य शिरो ऽभ्युक्षेत् ६

07 इन्द्रियाण्यद्भिः संस्पृशेत् ...{Loading}...

इन्द्रियाण्य् अद्भिः संस्पृशेत् ७

08 अक्षिणी नासिके कर्णाविति ...{Loading}...

अक्षिणी नासिके कर्णाविति ८

09 यद्यन्मीमाँ स्यं स्यात्तत्तदद्भिः ...{Loading}...

यद् यन् मीमाँस्यं +++(अङ्गं)+++ स्यात् तत् तद् अद्भिः संस्पृशेत् ९

10 तत्रैतदाहुः ...{Loading}...

तत्रैतद् आहुः १०

11 नोऽपस्पृशेद् व्रजन् ...{Loading}...

नोऽपस्पृशेद् व्रजन् ११

12 न तिष्ठन् ...{Loading}...

न तिष्ठन् १२

13 न हसन् ...{Loading}...

न हसन् १३

14 न विलोकयन् ...{Loading}...

न विलोकयन् १४

15 नाप्रणतः ...{Loading}...

नाप्रणतः १५

16 नाङ्गुलीभिः ...{Loading}...

नाङ्गुलीभिः +++(आपः क्षिपन्)+++ १६

17 नातीर्थेन ...{Loading}...

नातीर्थेन १७

18 न सशब्दम् ...{Loading}...

न सशब्दम् १८

19 नानवेक्षितम् ...{Loading}...

नानवेक्षितम् १९

20 न बाह्याँ सः ...{Loading}...

न +++(अभुग्नत्वाद्)+++ बाह्याँसः +++(-तेन कुक्कुटासनम् प्रसज्यते)+++ २०

21 नान्तरीयैकदेशस्य कल्पयित्वोत्तरीयताम् ...{Loading}...

नान्तरीयैकदेशस्य +++(शाटिकामिव)+++ कल्पयित्वोत्तरीयताम् २१

22 नोष्णाभिः ...{Loading}...

नोष्णाभिः २२

23 न सफेनाभिः ...{Loading}...

न सफेनाभिः २३

24 न च सोपानत्कः ...{Loading}...

न च सोपानत्कः क्वचित् २४

25 कासक्तिकः ...{Loading}...

कासक्तिकः+++(=शिरसक्तवस्त्रः)+++ २५

26 गले बद्धः ...{Loading}...

गले बद्धः २६

27 चरणौ न प्रसार्य ...{Loading}...

चरणौ न प्रसार्य च २७

28 अन्ततः प्रत्युपस्पृश्य शुचिर्भवति ...{Loading}...

अन्ततः प्रत्य्-उपस्पृश्य शुचिर् भवति २८

29 हृदयस्पृशस्त्वेवाप आचामेत् ...{Loading}...

हृदय-स्पृशस् त्व् एवाप आचामेत् २९

30 उच्छिष्टो हैवातोऽन्यथा भवतीति ...{Loading}...

उच्छिष्टो हैवातोऽन्यथा भवतीति ३०

31 अथ प्रत्युपस्पर्शनानि ...{Loading}...

अथ प्रत्युपस्पर्शनानि +++(आचमनविधौ)+++ ३१

32 सुप्त्वा भुक्त्वा क्षुत्वा ...{Loading}...

सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा +++(वस्त्राणि)+++ विपरिधाय च रथ्याम् आक्रम्य श्मशानं चाचान्तः पुनर् आचामेत् ३२


  1. 2, 1-4. Rules regarding the Upavīta. Khādira-Gṛhya I, 1, 4-6. Compare the detailed description of the nine threads of which the Upavīta-string should consist, in the Gṛhya-saṃgraha II, 48 seqq. A string was evidently considered as the regular and preferable form of the Upavīta; with regard to the second kind of Upavīta mentioned in Sūtra 1, the commentary says, ‘A garment (is used), p. 17 if the Upavīta has been lost, for instance, in a forest, and if it is impossible to get a string.’ A similar remark is given with reference to the third kind of Upavīta, the rope of Kuśa grass. ↩︎

  2. 5-32. Rules regarding the ācamana and upasparśana. Khādira-Gṛhya I, 1, 7-10; Manu II, 60 seqq. ↩︎

  3. As to the Tīrthas (or parts of the hand) sacred to the different deities or beings, comp. Vasiṣṭha III, 64 seqq., &c. See also Manu II, 58. ↩︎

  4. According to the commentary he has to hold his hands between his knees. Comp. Śāṅkh.-Gṛhya I, 10, 8. Thus the shoulders are brought forward. ↩︎

  5. 21-27. These Sūtras form three regular Śloka hemistichs. Only at the end of the second hemistich there is a metrical irregularity (sopānatkaḥ kvacit standing at the end of the verse). ↩︎

  6. Kāsaktikaḥ, which the commentary explains as a compound of ka, ’the head,’ and āsaktikā = āveṣṭikā. ↩︎

  7. Khādira-Gṛhya I, 1, 10. ↩︎

  8. In other texts (for instance, Manu II, 62; Vasiṣṭha III, 31 seqq.) it is stated that a Brāhmaṇa should sip water that reaches his heart, a Kṣatriya water reaching his throat, a Vaiśya water that wets his palate; a Śūdra should only touch water with his lips. ↩︎

  9. This Sūtra again forms a Sloka, though a slightly irregular Sloka. ↩︎