[[गोभिलीयं Source: EB]]
[
[TABLE]
.
[TABLE]
.
ॐ
गोभिलीयं
गृह्यसूत्रम्।
प्रथमप्रपाठके प्रथमखण्डः।
ॐ नमः सामवेदाय।
ॐ नमो गोभिलाचार्य्याय।
वेदान्तप्रतिपाद्यमेकममलं मानैरमेयञ्च यत्
सर्व्वैराश्रमधर्म्मकर्म्मनिकरैराराध्य शुद्धान्तराः।
यस्मात् प्राप्य यथार्थवस्तुनियतामाचार्य्यवर्य्यान्मतिं
यत्तत्सत् पदमाप्नुवन्ति मुनयः कस्मैचिदस्मै नमः॥
वन्दे पितृपदद्वन्द्वमरविन्दमिव श्रितम्।
मकरन्दमिवादातुं शिष्यैर्मधुकरैरिव॥
महर्षिं गोभिलाचार्य्यंप्रणम्य परमादरात्।
भाष्यन्तगृह्यसूत्राणां यथाबुद्धि विधीयते॥
इह खलु बुभुत्सितमर्थंबिबोधयिषवः सर्व्व एव प्रेक्षापूर्वकारिणः द्वारानुग्रहपराः सन्तो वाग्व्यापारं प्रतिपद्यन्ते। बुभुत्सवश्च
तद्वचनतात्पर्य्यमवधार्य्यबुभुत्सितमर्थमवबुध्यन्ते अवबुध्यमानास्तमनुतिष्ठन्ति। अनुतिष्ठन्तञ्च श्रेयसासमीहितेन संसृज्यन्ते। बुभुत्सितश्चार्थः श्रेयःसाधनमेव सर्वेषां प्राणभृद्भेदानाम्। श्रेयः पुनः सुखं, दुःखनिवृत्तिवेत्याह। प्राणिनः खलु सुखमुत्पिपादयिषवः जिहासवञ्च दुःखमुपलभ्यन्ते पशवोऽपि, किं पुनर्मनुष्याविवेकशक्तिमन्तः। तदिदं प्रत्यात्ममभीप्सितमपि सुखं दुःखहानं च निरतिशयमेवाभ्यर्हितमित्यपवर्ग एव तावत् परमोऽर्थः। स खल्वनभिसंहितफलैरीश्वरसमर्पितैर्नित्य नैमित्तिकैः कर्मभिः प्रशुद्धचित्तस्याधिकारिणः तत्त्वावबोधात् सम्पद्यते इत्याचक्षते। भवति चात्रागमः। “तमेतं वेदानुवचनेन ब्राह्मणविविदिषन्ति यज्ञेन -”इति, “तपमा ब्रह्म विजिज्ञासस्व” इति चैवमादिः। मनुरपि,-
“अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्म्मभिः।
तपसश्चरणैश्चोग्रैः माधयन्तीह तत्पदम्”॥
इति स्मरति।
“कषाये कर्म्मभिः पक्वेततो ज्ञानं प्रजायते”
इति च स्मर्य्यते पुराणेषु। अतएव भगवान् वादरायण आचार्यः शारीरके – “सर्व्वापेक्षा च यज्ञादिश्रुतेरश्ववत्” इति सूत्रयाम्बभूव। “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” इति, “समाधिभावनार्थः क्लेशतनूकरणार्थश्च” इति, तथा, “योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” इति, “यमनियमासनप्राणायामप्रत्याहारधारणध्यान समाधयोऽष्टावङ्गानि” इति, “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” इति च पातञ्चलानि सूत्राणि। “ताभ्यः पावित्र्यमुपक्रमात्”- इति च शाण्डिल्यसूत्रम्।
तदेवं धर्म एव साधनतयाप्रथममाश्रयणीय इति स्फुटतरमवगम्यते। येषान्तु, वेदान्ताः कर्तृदेवतादिप्रकाशकतयैव प्रमाणमिति दर्शनं, तेषामभ्यर्हितत्वं धर्मस्य सुतरामिति शिष्यते। अर्थकामावपि नान्तरेण धर्म्ममुत्पद्येते। न खल्वधार्मिकस्यार्थः कामोवाऽस्ति कश्चिदिति धर्म्ममेव तदुपायतया स्मरति भगवान् व्यासः।
“कामार्थौलिप्यमानस्तु धर्म्ममेवादितश्चरेत्।
न हि धर्म्मादपेतोऽर्थः कामो वापि कदाचन”॥
इति। “धर्म्मादर्थश्च कामश्च" इति च महाभारते। तदेवमालोच्य परमकारुणिको गोभिलाचार्य्योगृहस्थधर्म्मंछन्दोगानामुपदिदिक्षुर्मंन्त्रब्राह्मण-पठितानां “देव सवितः”- इत्यादिमन्त्राणां विनियोगपरं गृह्यसूत्राख्यमिदं शास्त्रं रचयाञ्चकार।‘सूत्र’-मिति हि सूत्र्यतेयेनार्थस्तदुच्यते, शास्त्रत्वञ्चास्यानुशासनादिति श्लिष्टतरम्।
तदिदं गृह्यसूत्रं गोभिलाचार्य्यप्रणीतमिति आचार्य्यपुत्रकृते ‘गॄह्यासंग्रहे’ स्पष्टम्। सखल्वयमाचार्य्यो राणायनीयानां सूत्रकार इति हेमाद्रिः। कौथुमा अपि राणायनीयप्रभेदा इति तेषामप्येतदेव गृह्यसूत्रम्। तथाच चरणव्यूहपरिशिष्टम्। “तत्र राणायनीया नाम सप्तभेदा भवन्ति राणायनीयाः शाव्यमुग्राः कालोपामहाकालोपा लाङ्गलायनाः शार्द्दूलाः कौथुमाश्चेति” इति। सामोदधौ कौथुमिशाखाया द्विपञ्चाशद्भन्धगणनायामपि गोभिलगृह्यं
परिगणितम्। कौथुमराणायनीयादौनामेतत् सूत्रमिति भट्टनारायणोऽप्याह। “गौतमगोभिलीये ( गृह्यसूत्रे ) छन्दोगैरेव परिगृहीते” इति चोक्तंतन्त्रवार्त्तिके। तदस्य गृह्यसूत्रस्य विशदार्था वृत्तिरियमारभ्यते। व्याचिख्यासितस्य गृह्यसूत्रशास्त्रस्येदमादिमं सूत्रम्,—
अथातो गृह्याकर्म्माण्युपदेक्षामः॥ १॥
तत्रायमथशब्दो विशिष्टमानन्तर्य्यं प्रतिपादयति। प्रतियोगिविशेषापेक्षं स्वत्वानन्नय्यर्थं विशिष्टं भवति। तच्च वेदाध्ययनं तदर्थविचारश्चेत्येवमादिकम्। “वेदमधीत्य स्नायात्" इति, “अथातोधर्मजिज्ञासा" इति चैवमादिशास्त्रेभ्यः। तदनेनाथशब्देन शास्त्रस्यादौ मङ्गलमपि कृतं भवति।
“ॐ कारञ्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ”।
इति गृह्यासंग्रहोक्तेः। न चाथशब्दो मङ्गलार्थः। अर्थान्तरप्रयुक्त एव ह्यथशव्दः श्रुत्यामङ्गलप्रयोजनो भवति। अन्यार्थोपनीतमपि दधिदूर्व्वादिकमिवावलोकनमात्रेण गन्तुकामस्येति। सोऽयमथशब्दो मङ्गलमर्थः प्रयोजनं (न पुनरभिधेयं) यस्येति मङ्गलार्थ उच्चते, न खलु मङ्गलमप्यस्यार्थोऽभिधेयं वाच्यमित्येतत्। तथा ब्रह्मचारिणो यथावद्वेदाध्ययनाद्यनन्तरमित्यथशब्दस्यार्थः।
अतःशब्दो हेत्वर्थः। यस्मात् —
“अतः परं समावृत्तः कुर्य्याद्दारपरिग्रहम्”। इति।
“वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्
अविश्रुतब्रह्मचर्य्योगृहस्थाश्रममाविशेत्”।
इति चैवमादिस्मरणात्, यथावद्विचारशास्त्राधिगमानन्तरं गार्हस्यानुसरणं शास्त्रार्थः। यस्माच्च–
“यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्।
गृहस्थेनैव धार्य्यन्ते तस्मात् ज्येष्ठो गृहाश्रमी”।
इत्येवमादिशास्त्रेभ्यस्तदुत्तमत्वमवगम्यते। ‘अतः’ एतस्मात्कारणात् - इत्यतःशब्दार्थः।
अयमपरोऽतःशब्दार्थः। यतो वृत्तेन वेदाध्ययनादिना कर्म्मावबोधात्तस्य कर्त्तव्यत्वमिदानीमापतितम्। तथा चाहूःशास्त्रतात्पर्य्यविदः।“दृष्टो हि तस्यार्थः कर्मावबोधनं नाम” इति। स्मरन्ति च।
“चरितार्थं न यः कुर्य्यादधीत्य श्रुतिमादितः।
तस्य तद्वारणं व्यर्थमगन्धाया इव स्रजः”।
इति। यतश्चाश्रमान्तरेषु गार्हस्थ्यस्य प्राथम्यं। ‘अतः’ एतस्मात् कारणात्।
स्मृतिश्चेयमविरक्तविषया द्रष्टव्या।नातो “ब्रह्मचर्य्यादेव प्रव्रजेत्” इति श्रुतिविरोधः। सा हि श्रुतिः - “यदहरेव विरजेत्, तदहरेव प्रव्रजेत्” इत्येवमभिदधाना विरक्तमेव स्पृशति नान्यम्। एतेन “वीरहा वा एष देवानां योऽग्निमुद्वासयते” इति, “एकाश्रम्यन्त्वाचार्य्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य” इति चैवमाद्याः श्रुतिस्मृतयोऽपि व्याख्याताः। इत्यन्यदेतत्।
अयमप्यपरोऽतः शब्दार्थः। यस्मात् यथोक्तानन्तरं, गृह्यकर्म्मप्रतिपित्सवोऽन्तेवासिनो यथावदुपसन्नाः, ‘अतः’ एतस्मात्कारणात्—
‘गृह्या’ छान्दसत्वाद्गुह्याणि, — गृहे गृहस्थाश्रमे साधूनि योग्यानि, ‘कर्म्माणि’ धर्मभूतानि, बहुवचनात् किमप्यन्यत्, ‘उपदेक्ष्याम’ कथयिष्यामः।
अत्र च कर्म्मणामुपदेशकर्म्मत्वं प्रतिजानन्नाचार्य्यस्तेषां धर्म्मत्वमभिद्योतयति। श्रभिमतश्रेयः साधनवस्तुकथनरूपस्योपदेशस्यान्तरेण धर्म्मत्वममीषामसम्भवात्। न खन्वश्रेयः साधनमुपदिश्यते। श्रेयः साधनं नाम धर्मो न भवति चोदनालक्षणोऽपौत्यनुमन्धेयम्। तथा चोक्तम्। “चोदनालक्षणोऽर्थो धर्मः” इति। “यज्ञेन यज्ञमजयन्त देवास्तानि धर्माणि—” इति च यजतिशब्दवाच्यमेव धर्म्ममाचक्षते। अतएवोक्तम्। उपसन्नस्यान्तेवासिनः स्वर्गापवर्गादिप्राप्तिसाधकपदार्थकथनमुपदेशः - इति।
अयमपरो गृह्याकर्म्माणत्यस्यार्थः। गृहे साध्वी ; कुशला, योग्या, हिता वेति गृह्या पत्नी, तया सहितस्य यानि कर्त्तव्यानि कर्माणि तानीमानि गृह्याकर्माण्युपदेक्ष्यामः। स्मात्तोऽग्निर्वा गृह्यशब्देनोचते। गृह्यः शालाग्निरावसथ्य औपासन इति ह्यनर्थान्तरम्। छान्दसं दीर्घत्वम्। तस्मिन् गृह्ये स्मार्ततेऽग्नौयानि कर्त्तव्यानि कर्माणि तानीत्यादि पूर्व्ववदर्थः। अथवा गृहस्थस्य व्रतविशेषो गृह्यशब्दार्थः। तथा च श्रावणविधावुक्तम्। “सामवेदे अष्टो व्रतानि भवन्ति उपनयनं गोदानं व्रातिकमादित्यव्रतमौपनिषदं ज्येष्ठसामग्रतं महानाम्निकमिति ब्रह्मचारिणोभौतिकं सार्व्वभौतिकमष्टमं गृह्यमिति गृहस्थस्य” इति। तस्मिन् यानि कर्त्तव्यानि कर्म्माणीत्यादि समानमन्यत्।
गृह्येति वा प्रस्तुतायाः स्मृतेरभिधानम्। गृह्येति खल्वियमभिधीयते स्मृतिराचार्य्यप्रणीता। तथा चाचार्य्यपुत्रेण कृतोऽस्याएव स्मृतेः संग्रहः ”गृह्यासंग्रहः” इत्याख्यायते, न “गृह्यसंग्रहः” इति। तथाचाचार्य्यपुत्र आह।
“पत्न्यः पुत्राश्च कन्याश्चजनिष्याश्चापरे सुताः।
गृह्याइति समाख्याता यजमानस्य दायकाः॥
तेषां संस्कारयोगेन शान्तिकर्म्मक्रियासु च।
प्राचार्य्यविहितः कल्पस्तस्माद्गृह्याइति स्थितिः”॥
इति। तस्यां यानि कर्माण्युपदेष्टव्यानि तान्युपदेक्षामइत्यर्थः। ‘गृह्यआकर्माणीति त्रीणि पदानि। आ इति शब्दस्योपदेक्षामइत्यनेन सह संबन्ध इति। आ ति शब्द ईषदर्थ।ईषदुपदेक्ष्यामः। ग्रन्थगौरवपरिजिहीर्षयाऽल्पैरेवाचरैः’ इति भट्टभाष्यम्।
अन्ये त्वाहुः। ‘अथशब्दो वेदाध्ययनानन्तर्य्यमभिधत्ते। अतः शब्दो हेत्वर्थम्। यस्मात्, वेदाध्ययनादर्व्वाक्न किञ्चिदध्येतव्यम्,-
“योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः”॥
इति स्मरणात्। ‘अतः’ एतस्मात् कारणात्, वेदाध्ययनानन्तरं, गृह्यकर्माणीत्यादि पूर्व्ववदर्थः। इदानीमधीतवेदस्य गृह्यस्मृतेरध्ययनसम्भवात्’, इति। “न वेदमनधीत्यान्यां विद्यामधीयीतान्यत्र
वेदाङ्गस्मृतिभ्यः” इति हारीतेन त्वनधीतवेदस्यापि स्मृत्यध्ययनमनुज्ञातम्।
स चायमुपदेशः प्रायशः साक्षादेव। क्वचिदतिदेशादपि। यथा “एषोऽत ऊर्द्धं हविराजतिषु न्यायः” —इति। क्वचिद्ग्रन्थान्तरापेक्षतया। यथा, “पृथगवैतस्य ज्ञानस्याध्यायो भवति” इत्यादौ।क्वचिच्चाङ्गानादरेण प्रधानोक्त्या। यथा, “शुचौ देशब्राह्मणाननिन्द्यानयुग्मानुदङ्मुखानुपवेश्य” —इति। वैश्वदेवं चाङ्गत्वानोकमित्यादिकमनुमन्धेयम्।
तदनेन सूत्रेणाभिधेयादीन्यपि शिष्यप्रवृत्त्युपयोगोनि प्रतिपादितानि। तत्राभिधेयं कर्म्म यथोक्तं, श्रेयः प्रयोजनम्। सम्बन्धोऽपि यथायथं सुबोधः प्रतिपाद्यप्रतिपादकभावादिः। अथशब्देन चानन्तर्य्यावगमादधिकारी च प्रतिपादित एवेत्यास्तां विस्तरः॥*॥ १॥*॥
तत्र तावत् साधारणकमशेषभूताः केचन धर्म्मापरिभाष्यन्ते सौकर्य्यार्थम्। प्रतिपदं खल्वमीषामुत्कीर्त्तनेऽनर्थकमेव ग्रन्थगौरवमापद्येत, श्रोतारश्च वितुष्येरन्निति। परिभाषितव्येषु खलु कर्म्मशेषभूतेषु धर्मेषु कृतिसाध्यत्वात् कर्मणां कृतिमतः कर्त्तुरेव धर्मांस्तावत् परिभाषते॥
यज्ञोपवीतिनाऽऽचान्तोदकेन कृत्यम्॥२॥
यज्ञोपवीतं यस्यास्ति सोऽयं यज्ञोपवीती। आचान्तं, ‘चमु भक्षणे - इति स्मरणात् भक्षितं, उदकं जलं येन, सोऽयमाचान्तोदकः। आशब्दो भक्षणस्य वैशिष्यं द्योतयति। गृह्याकर्माणीति पूर्व्वस्मादिहानुषञ्जनीयमेकत्वेन विपरिणमय्य -कर्मेति। तदयमर्थः। सर्व्वमेव कर्म्मवक्ष्यमाणं, कर्तायज्ञोपवीतिना,आचान्तोदकेन च, सता, कृत्यं कर्त्तव्यमित्येतत्। तदत्रैकमेव कर्त्तारमनूद्य द्वयं परिभाव्यते ; यज्ञोपवीतिना, इति, आचान्तोदकेन, - इति च। कथं पुनरेकेन वाक्येन द्वयमिह परिभाष्यते? नैष दोषः। वाक्यानेकत्वोपपत्तेः। वाक्यद्वयमिह विज्ञायते, यज्ञोपवीतिना कृत्यमाचान्तोदकेन कृत्यमित्यर्थभेदात्। परमिह युगपदेव धर्मद्वयसम्बन्धसम्भवादेकत्वादवबोधस्यैकमिव वाक्यमवभासते इत्येकत्र सूचितमित्यदोषः।
अत्र च “यज्ञोपवीतं कुरुते” इति।
“वैणवींधारयेत् यष्टिं सोदकञ्च कमण्डलुम्।
यज्ञोपवीतं वेदञ्च उभे रौक्नेच कुण्डले”॥
इति। “दाक्षायणी ब्रह्मसूत्री” इति चैवमादिशास्त्रान्तरविहितस्य पुरुषार्थस्यैव यज्ञोपवीतस्य कर्म्मार्थतामात्रमनुजानात्याचार्य्यौ, न पुनः पुरुषार्थादन्यदिह विदधाति। कस्मादेवमवगम्यते? यज्ञोपवीतान्तरविधाने गौरवात्। यज्ञोपवीतिनेति सिद्धवदुपदेशाच्च। यज्ञोपवीतीति खलु यज्ञोपवीतं यस्यास्ति सिद्धं, सोऽभिधीयते। यथा स्रग्वीति यस्य स्रगस्ति सिद्धा सएवोच्यते, न यस्य सा विधित्सितेति। तदा हि स्रग्वी भवेदित्येवमादिकं प्रयुञ्जते लौकिकाः। न खल्वत्र यज्ञोपवीतीभवेदिति, यज्ञोपवीतिना भाव्यमिति वा, कात्यायनइवाकथयदाचार्य्यः। अपि च। न खल्वेतदनेन विधीयते ; वाक्यभेदप्रसङ्गात्। कथं? अर्थभेदात्। पुरुषस्तावद् यज्ञोपवीती भवेत्, तेन च सता कृत्यमिति, - यदि द्वावप्यर्थो विधित्सितौ, भिद्येत तर्हि वाक्यम्। अर्थैक्याद्धि वाक्यमेकं मन्यन्ते तान्त्रिकाः, न चैवमर्थैक्यं भवति। भिन्नो खल्लिमावर्थौभवतः – यश्चापूर्व्वस्य यज्ञोपवीतस्य विधिः, यश्च तस्य कर्म्मसंयोगः, — इति।
कथमेकस्य यज्ञोपवीतस्योभयार्थतता? इति चेन्न, संयोगभेदोपपत्तेः। न स्यादेकस्योभयार्थता ; यद्येक एव संयोगः स्यात्। संयोगद्वयन्त्विह दृश्यते। एकश्च यज्ञोपवीतपुरुषसंयोगः– “यज्ञोपवीतं कुरुते”इत्येवमादिशास्त्रेषु। अपरश्च यज्ञोपवीतकर्म्मसंयोगः— “यज्ञोपवीतिना कृत्यम्” इति। तस्मादिह वाक्यद्वयेन संयोगभेदात् दध्नइवोभयार्थता यज्ञोपवीतस्येतिसिद्धम्। अतएव—
“
सदोपवीतिना भाव्यं सदा बद्धशिखेन तु।
विभिखोव्युपवीतश्च च यत् करोति न तत् कृतम्”।
इति पूर्वार्द्धप्रक्रान्तं पुरुषार्थमेव यज्ञोपवीतमुत्तरार्द्धे कर्मार्थमनुजानानः कात्यायन आचार्य्यस्यैवमेवाशयं स्पष्टयाञ्चकार। सखलु—
“अथातोगोभिलोक्तानामन्येषामपि कर्मणाम्।
अस्पष्टानां विधिं सम्यग् दर्शयिष्ये प्रदीपवत्
”
।
इति प्रतिज्ञातवान्। अत्राह। उपवीतपदमिदं विशिष्टमेवाभिधत्ते–“उपवीतं यज्ञसूत्रं प्रोद्धृतेदक्षिणे करे” इति। नैतदेवम्। यज्ञसूत्रमात्राभिधायकत्वादस्य यज्ञसूत्रमात्रमेव खल्वयमुपवीतशब्दोऽवगमयति, न विशिष्टमन्यत्। कस्मात्? सङ्कोचकारणानुपलम्भात्। उपवीत पदन्तावत् यज्ञसूत्रमात्रमभिधत्ते, विशिष्टमप्यभिधत्ते, न पुनर्विशिष्टमेव। “कार्पासमुपवीतं स्यात्” इति, “यज्ञोपवीतं कुरुते” इति चैवमादिशास्त्रेभ्यः। यथा मृगपदं— पशुसामान्यमभिधत्ते, पशुविशेषमप्यभिधत्ते। तथाऽत्रापि। तत्रेवं सति विशिष्टमेवावगमयिय्यत्युपवीतपदं न सामान्यमित्येतस्मिन् सङ्कोचे कारणं नास्ति। तस्मादयुत्कमेतत्।
नन्वाचार्य्यपरिभाषैव– “एवं यज्ञोपवीती भवति” इति कारणमिति चेन्न, उपवीतिपरिभाषाऽभावात्। एवं यज्ञोपवीतीभवतीति खल्वाचार्य्यः परिबभाषे, न त्वेवमुपवीती भवतीति। अर्थैक्यमनयोरितिचेत्, तथापि न सङ्कोचे प्रमाणं भवति। उपवीतिपदमेवमभिधत्ते इति परिभाषातोऽवगम्यते चेदवगम्यतां नाम। परन्तत एव सङ्कोच इति प्रमाणं नास्ति। कर्म्मार्थं खल्वियं परिभाषा - “एवं यज्ञोपवीतो भवति” इति, “एवं प्राचीनावीती भवति” इति च। पुरुषार्थश्चेदमुपवीतं यज्ञसूत्रमात्रम्,– “सदोपवीतिना भाव्यम्”– इति। “यज्ञोपवीतं कुरुते” इति, “दाक्षायणी ब्रह्मसूत्री” इति चैवमादिशास्त्रेभ्यइत्यवोचाम।
अथास्ति यज्ञोपवीतं विन्यासविशेषविशिष्टं पुरुषार्थस्तदिहानुद्यते। उच्यते। नैतदस्ति - विशिष्टं यज्ञोपवीतं पुरुषार्थ इति। कस्मात्? प्रमाणाभावात्। न खल्वस्ति प्रमाणं विशिष्टं यज्ञोपवीतं पुरुषार्थ इति। यज्ञसूत्रमात्रं पुरुषार्थ इत्यवोचाम। अतएव जैमिनिराचार्य्यः – “अपदेशो वा अर्थस्य विद्यमानत्वात्”
इति सूत्रयाञ्चकार। व्याख्यातञ्चैतदाचार्येण “पदेश इतिज्ञायमानस्य वचनं। स एष न विधिः— अनुवाद —एषः। कुतः? अर्थस्य विद्यमानत्वात्। प्राप्त एवार्थो यन्त्रिवीतं मनुष्याणां, निवीतं हि मनुष्याः प्रायशः स्वायं कुर्व्वन्ति तस्मात् अनुवादः” - इति। विशिष्टस्य पुरुषार्थत्वे स्वार्थं निवीतं कुर्वाणाः प्रत्यवेयुः।
यद्यपि इदं पूर्व्वपक्षकक्षयामेवाशङ्कासूत्रम्, सिद्धान्ते तु निवीतश्रवणस्योपवीतस्तुत्यर्थतामेव सूत्रयामास— “अर्थवादोवा प्रकरणात्” इति, “विधिना चैकवाक्यत्वात्” इति च। तथापि नैतावता वस्तुनोऽप्यन्यथात्वं शक्यते वक्तुम्। यद्ययमर्थ एव नास्थास्यत्- नाशङ्किव्यताचार्योऽर्थस्य विद्यमानत्वादिति। न खल्वविद्यमानमपि विद्यमानमुच्यते वादकथायामपि। यदि पूर्व्वपक्षइतिकृत्वा अविद्यमानमपि विद्यमानं कयाचिन्मत्या समाचचक्षे, किमित्युत्तरकालं न निराचक्रे – “नायमर्थो विद्यमानः, कथमुच्यतेऽर्थस्य विद्यमानत्वादिति”।आशङ्कायाः खल्वस्या निराकरणमित्थसूत्रयदाचार्य्यः- “विधिस्त्वपूर्व्वत्वात् स्यात्” इति। विवृतञ्चैतद्भाष्यकारेण - “विधिरेव भवेत् तथा प्रयोजनवान्, इतरथा वादमाजमनर्थकं। पूर्व्ववान् अनुवादो भवति, अयन्त्वपूर्वो—यन्नियमेन निव्यातव्यमिति”। न खल्वविद्यमानत्वे निवीतस्य, पुरुषार्थत्वे वा विशिष्टस्योपवीतस्य, एतन्निराकरणं सम्भवति— नियमेन निव्यातव्यमिति। तदनेनावगम्यते— यज्ञसूत्रमात्रं पुरुषार्थोन विन्यासविशेषविशिष्टमिति।
यदि पुनरविद्यमानमपि विद्यमानमित्युक्वाऽशङ्किष्यत, तन्निराकरणमित्थमसूत्रयिष्यत “नाविद्यमाने विद्यमानत्ववचनात्” इति। यथा भगवानचपादः- “अर्थापत्तिरप्रमाणमनैकान्तिक त्वात्” इत्यस्य निराकरणमित्थमसूत्रयत्- “अनर्थापत्तावर्थापत्त्यभिमानात्” इति। यथा वा “वाक्छलमेवोपचारलं तदविशेषात्” – इत्यस्य, “न तदर्थान्तरभावात्”– इति। जैमिनिरप्याचार्य्यस्त र्कपादे - “उत्पत्तौ वाऽवचनाः स्युरर्थस्थातन्निमित्तत्वात्”– इत्यस्योत्तर मित्थमसूत्रयत्— “तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात्” - इति। तस्मान विन्यास विशेषविशिष्टं यज्ञोपवीतमत्रोपवीतशब्दार्थः। आचान्तोदकेन कृत्यमित्यत्र भिद्यते वाक्यमिति चेन्नैष दोषः।
“उपस्पृश्य द्विजोनित्यं शुद्धः पूतोभवेन्नरः”
इति, “त्रिराचामेत्”– इतिचैवमादिशास्त्रविहितस्य पुरुषार्थस्यैवाचमनस्येहानुवादादिति नास्त्यनुपपत्तिः।
अपिच-
“त्रिवृदूर्द्धवृतं कार्य्यं तन्तुत्रयमधोवृतम्।
त्रिवृतञ्चोपवीतं स्यात्तस्यैकोग्रन्थिरिष्यते।
पृष्ठवंशे च नाभ्याञ्च घृतं यद्विन्दते कटिम्।
तद्धार्य्यमुपवीतं स्यान्नातोलम्बं न चोच्छ्रितम्”॥
इत्यभिधाय।“सदोपवीतिना भाव्यम्”– इत्यभिधानात्, यज्ञसूत्रमात्रमेवास्मिन्नुपवीतपदार्थ इत्यवगम्यते। कस्मात्? उपक्रमे यज्ञसूत्रमात्रे उपवीतशब्ददर्शनात् ;- त्रिवृतञ्चोपवीतं स्यादिति, तद्धार्य्यमुपवीतं स्यादिति च। अत्र हि त्रिवृतञ्चोपवीतं स्यादिति
स्वरूपमुपवीतस्याभिधाय, तद्धार्थमुपवीतं स्यादिति च परिमाणं, सदोपवीतिना भाव्यमिति पुरुषसंयोगमस्य विधत्ते। म खखन्यत्र प्राचीनावौतित्वादावन्यत् स्वरूपं परिमाणञ्चास्ति। न चोपवीतशब्दस्य सामान्यमर्थ परित्यव्य विशेषमर्थ प्रकस्य, तदन्यत्र तयोदेव स्वरूपपरिमाणयोः सांदृष्टिकन्यायेन परिकल्पनायां किञ्चित् प्रयोजनं वैदग्ध्यं वोपलभामहे।येनैष प्रयास सफलो भवति।
अतएव— सदोपवीतिना भाव्यमिति सदा-श्रुतिरनुगृह्यते। अन्यथा यदा प्राचीनावीतित्वादिना भाव्यते, तदेयं सदा-श्रुति-रुपरुध्येत। न च गोदोहेन चमसस्येव, फलचमसेन सोमस्येव च, नैमित्तिकेन नित्यस्य बाधो न दोषाय इति वाच्यम्। वैषम्यात्। न खलु चमसादौ सदा श्रुतिरस्ति इति विषमोदृष्टान्तः। अन्यथा चोपपत्तेः। अन्यथा चात्रोपपद्यते – यज्ञसूत्रमाजस्योपवीत शब्दार्थतया। न खल्बविरुद्धं सामान्यमर्थमुत्सृज्य विरुद्धं विशिष्टमर्थं प्रकल्प्य बाधः कल्पयितुमुचितः। न खल्वविरोधेन सम्भवति वचनार्थे विरोधः कल्पयितुं युक्तः।
तस्मात् यथा - “प्रेतु होतुश्चममः” — इति होत्रा यत्र चम्यते, तेन पात्रेण होमविधानात्—चमने प्राप्ते सोमस्यैव चमनं कल्प्यते, —पवित्रस्य सोमस्य भक्षणेन पात्रस्यानुच्छिष्टत्वात्तेन होमश्च सम्पत्स्यते; शास्त्रान्तरञ्च न विरोत्स्यते इति। न तु द्रव्यान्तरस्यापि चमनं प्रकल्य वचनबलादुच्छिष्टेनापि पात्रेण होम इति शास्त्रान्तरस्य बाधः कल्प्यते। एवमिहापि यज्ञसूत्रमात्रमुपवीतपदार्थः परिगृह्यते - सदा - श्रुतिः शास्त्रान्तरेण न विरोस्यते इति। शास्त्रे च यज्ञसूत्रमात्रे यज्ञोपवीतपदं बहुलमुपलभ्यते प्रयुक्तम्।चमसादौ त्वमायत्या बाधः कस्यते। न हि तथान्या गतिरस्ति।
सदा बद्धशिखेन इत्यत्रापि शिखायां सत्यां सदा बन्धनं विधीयते इति यत्र शिवाऽयुष्यते वचनबलात्, न तत्र वैगुण्यम्। विशिखोव्युपवीतञ्च इति शिखाऽभावेऽपि वैगुण्यं दर्शयति इति चेत्। कामं दर्शयतु वैगुष्यं, न तु सदा बद्धशिखेनेति सदा श्रुतिरुपरुध्यते, सत्यां शिखायां सदा बन्धनसम्बन्धात्। अपि। नैतत् शिखाऽभावे वैगुण्यंदर्शयति। कस्मात्? वाक्यभेदप्रसङ्गात्। कथं? विहितन्तावत् शिखाबन्धनं —सदा बद्धशिखेन, – इति। शिखाऽभावेऽपि चेत् वैगुण्यमभिप्रेयते, शिखाऽपि तर्हि विधातव्येति भिद्येत वाक्यम्। पूर्व्वशेषत्वाच्चोत्तरस्य। पूर्वार्द्धशेषतया खल्लिहोत्तरार्द्धमाम्नायते— पूर्वार्द्धविहितस्य शिखाबन्धनस्य कर्मसंयोग इहोच्यते इति कथं शिखाऽभावेऽपि वैगुण्यमुच्येत। एवं हि उपक्रमोपसंहारयोर्भिन्नार्थतया द्वयमप्यनर्थकमापद्येत। तस्मादुपक्रमानुरोधाद्वा उपसंहारोनेतव्यः- उपसंहारानुरोधाद्वा उपक्रम इत्यवश्यं वक्तव्यम्। तत्र च – “मुख्यं वा पूर्वं चोदनात् लोकवत्” - इति न्यायादुपक्रम एवानुग्रहीतव्यः, नोपसंहार इति विशिखो विशिखाबन्धन इति लक्षणया कल्प्यते। यथा – “प्रजापतिर्वरुणायाश्वमनयत्” – इत्युपक्रमवशेन – “योऽश्वं प्रतिगृह्णाति” – इत्युपसंहारो नीतः – योऽश्वं प्रतिग्राहयति - प्रव- छतीति। पवमिहापीत्यदोषः।
अपिच। पूर्वार्द्धविहितं शिखाबन्धनमुपवीतञ्च व्यतिरेक–
निन्दया स्तौतीदमुत्तरार्द्धमिति सुव्यक्तमुपक्रमानुगतत्वमेतस्य। “न हि निन्दा निद्यं निन्दितुं प्रयुज्यते, अपितु निन्दितादितरत् प्रसंशितुम्”–इति हि न्यायः। यदि चोपसंहारानुरोधादुपक्रमोऽत्र नीयेत, — बद्धशिखेनेति सशिखेनेत्यर्थः स्यात्। बद्धपदं तर्हिप्रमादपाठः स्यात्। न चैतदुचितम्। अपिचैवमबन्ध नेऽप्यवैगुण्यं स्यात्। शिखाबन्धनस्य पुरुषार्थत्वेशिखामात्रस्य कर्मार्थत्वेऽप्येव मेवदोषप्रसङ्गः।तस्माद्गत्या विशिख इति लक्षणयाविशिखाबन्धन इत्यर्थः कल्प्यते। एवमुपक्रमोऽनुग्रहीष्यते इति। लक्षणाऽपि हि लौकिकी।
एतेन, यदुक्तंपरिशिष्टप्रकाशकृता–“विशिखदत्यनेन चासत्यामपि शिखायां शिखाबन्धाभावे कर्म्मवैगुण्यं न तु सत्यामेवेत्युक्तं” —इति। तदसङ्गतं वेदितव्यम्। अवश्यञ्च तेनापि शिखाबन्धनस्यैव पुरुषार्थस्य कर्म्मार्थत्वमभ्युपगम्यते, शिखाबन्धाभावे इत्यभिधानात्। न चासत्यां शिखायां पुरुषार्थं बन्धनमस्ति। येन तदनुद्य कर्मार्थत्वमस्य विधायिष्यते। अतएव सम्वर्त्तस्मरणम्।
“अकृत्वा पादशौचन्तु तिष्ठन्मुक्तशिखोऽपि वा।
विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत्”।
इति। यदि चानायत्या तत्रोपरुध्येतापि सदावचनं, तर्ह्यन्यत्रापि सम्भवन्त्यामपि गतौ तदुपरोद्धव्यमिति न किञ्चिन्नियामकमस्ति। तस्मान्न किञ्चिदेतत्। अस्यैव च सूत्रस्य स्खल्वयं परिशेषः- सदोपवीतिना भाव्यम् - इत्येवमादिः। तदनेन कुत एव विशिष्टमभिधौयेत ! न खल्वियं परिभाषा दैवकर्ममात्रपरा, गृह्याकर्म्ममात्रपरत्वात्—इति पितृयज्ञादावस्याभावाद्वैगुण्यं वाऽऽपद्येत बाधा वा अवकल्प्येत!तदुभयमप्यनुचितम्। सेयं यज्ञोपवीतश्रुतिर्यज्ञसूत्रमात्रं परामृशति, “दाक्षायणीब्रह्मसूत्री” इत्येवमादिशास्त्रेभ्यः। तस्मात्, -“एवं यज्ञोपवीतीभवति” इति, “एवं प्राचीनावीती भवति” इति चैवमादिकायां सर्व्वस्यामेवावस्थायां यज्ञोपवीतमस्यास्तीति यज्ञोपवीती भवति, इत्यनवद्यम्।
“यज्ञोपवीते द्वे धार्य्येश्रौतस्मार्त्तेषु कर्म्मसु।
तृतीयञ्चोत्तरीयार्थं वस्त्रालाभे तदिव्यते”॥
इति च स्मृत्यन्तरं यज्ञसूत्रमात्रस्य कर्मार्थतामाह। कस्मात्? श्रौतस्मार्तेषु सर्व्वेष्वेव कर्म्मसु यज्ञोपवीतद्वयधारणाभिधानात्। उत्तरार्द्धे च सर्व्वकर्म्मशेषभूतस्योत्तरीयस्य समाम्नानात्। तदिदंयज्ञसूत्रद्वयमुत्तरीयञ्च खल्विह कर्ममात्रशेषतया विधित्सितं, विन्यासविशेषस्तु उत्तरीयस्येव यज्ञसूत्रस्यापि तत्र तत्र तत्तद्वाक्यादवगन्तव्य इत्यभिप्रायः। अतएव–
“प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा।
पित्र्यमानिधनात् कार्य्यं विधिवद्दर्भपाणिना”॥
इति कर्म्माङ्गतया प्राप्तं यज्ञसूत्रमनूद्य, तदीयविन्यासविशेषस्य प्राचीनावीतित्वस्य विधिरुपपद्यते। अन्यथा विशिष्टस्य यज्ञोपवीतस्य कर्मार्थत्वेतस्य च शास्त्रान्तरबलात् दैवकृत्यमात्रपरतया पित्र्ये कर्मण्यपूर्वं विन्यासविशषविशिष्टं यज्ञोपवीतं विधित्सितं भवति–
इति भिद्येत वाक्यम्। भिन्नौ खल्बिमावर्थौ- यच्चापूर्वं विन्यासविशेषविशिष्टं यज्ञोपवीतं, यश्चास्यकर्म्मसंयोग इति।
“यज्ञोपवीतं त्रिपुष्करं ब्रह्मसूत्रमित्यर्थः। तदस्यास्तीति यज्ञोपवीती” इति च भट्टभाष्यम् !
यदि पुनः, ‘एवं यज्ञोपवीतीभवति’ इत्याचार्य्यसूत्रादन्तरङ्गत्वेन यज्ञोपवीतिनेत्यनेन तस्यैव परामर्शो न्याय्य इति यज्ञोपवीतिनेत्यस्य यज्ञसूत्रवत्परत्वे विदुषामपरितोषः। तदा परामृश्यतां स एव यज्ञोपवीती यज्ञोपवीतिनेत्यनेन। “पितृयज्ञे त्वेव प्राचीनावीती भवति”इत्येवमादिकन्तु तदपवादकतया प्रवर्त्तिव्यते। तावताऽपि पुरुषार्थं यज्ञोपवीतं यज्ञसूत्रमात्रमेव, पूर्वोक्तयुक्तेः। वस्तुतस्तु विन्यासविशेषविशिष्टस्य यज्ञोपवीतस्यात्र परामर्शे कालपरिभाषायामिवात्रापि “यथाऽऽदेशञ्च” - इति पुनः कुर्य्यात्। तदकरणात् प्रतिपाद्यामहे नात्र विन्यासविशेषविशिष्टस्य यज्ञोपवीतस्य परामर्श इति।
किमिदं यज्ञोपवीतं? कथञ्चाचान्तोदको भवति? इत्येतत् सर्व्वमाचार्य्य एवानुपदं व्युत्पादयिष्यति। अत्र चाचार्य्यानुक्ताअन्येऽपि कर्तृधर्म्माःपरिशिष्टकृतः कात्यायनस्य वचनादवगन्तव्याः।
“यत्र दिङ्नियमो न स्याज्जपहोमादिकर्म्मसु।
तिस्रस्तत्र दिशोज्ञेयाः प्राचीसौम्यापराजिताः॥
तिष्ठम्नासीनः प्रह्वोवा नियमो यत्र नेदृशः।
तदासीनेन कर्त्तव्यं न प्रह्वेन न तिष्ठता”॥
इत्येवमादयः। एवमन्येऽप्यनुसन्धेयास्तन्त्रान्तरेषु॥*॥२॥*॥
इदानीं कर्म्माङ्गानि वक्तव्यानि। तत्रासाधारणत्वादादौ तावत् कालमेव कर्म्मसाधनं परिभाषते।
उदगयने पूर्व्वपक्षे पुण्येऽहनि प्रागावत्तनादह्नः कालं विद्यात्॥३॥
उत्तरस्यां सवितुरयनसम्बन्धात् उद्गयनं प्रसिद्धं ज्योतिः —शास्त्रेषु। तस्मिन्नुदगयने। पूर्व्वपक्षे,-्
“तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि”।
इत्याद्युक्तेः, शुक्लपक्षे। पुण्ये, शोभने विष्ट्यादिदोषरहिते यथोक्ते, अहनि दिवसे। तदनेन रात्रिं नानुजानात्याचार्य इत्यवगम्यते। अह्नो वासरस्य, आवर्त्तनात् - छायायाः परिवर्त्तनात् प्राक् पूर्व्वं,पूर्व्वाह्नेइत्येतत्। कालं विद्यात्, जानीयात्। गृह्याकर्म्मणामिति सम्बध्यते। स्मरन्ति च।
“आवर्त्तनात् पूर्व्वान्होऽपराह्नस्ततः परम्”। इति।
“अश्वत्थं बन्दयेन्नित्यं पूर्व्वाह्नेप्रहग्द्वये”।
इति च। न च पूर्व्वाह्न इत्येव वक्तुमुचितं, अलं ग्रन्थगौरवेणेति वाच्यम्। स्वतन्त्रेच्छस्य नियन्तुमशक्यत्वात्। “पूर्वाह्नोवै देवानां मध्यन्दिनं मनुष्याणामपराह्नः पितॄणाम्” इति श्रुत्युक्तत्रिधाविभक्तदिनप्रथमभागात्मकपूर्वाह्नव्यवच्छेदकत्वाच्चेति। यत्तु श्राद्धपूर्व्वकत्वात् कर्म्मणःश्राद्धस्य चोदयसन्निधौ प्रतिषेधात्तथाऽभिधानमिति भट्टभाष्यम्। तच्चिन्त्यम्। उदयसन्निधौ श्राद्धप्रतिषेधेऽपि कर्मणः कालपरिभाषायां पूर्वाह्नाभिधाने बाधकाभावात्। न खलु पूर्व्वाह्नाभिधानं यथोक्ताभिधानं वा तत्र किमपि विलक्षणमुपलभामहे इति धीमद्भिरनुचिन्तनीयम्।
विसमासकरणमेकैकस्यानुगुण्यद्योतनार्थं, समुदितोपलब्धौ महानभ्युदय इति व्याख्यातारः। अतो न कालविशेषनियतेषु गर्भाधानादिष्वनुपपत्तिः। एकैकानुगुण्यस्य तत्रापि सुलभवात्। यद्यप्यत्रोद्गयनादीनां कर्म्माङ्गतैव परमनुज्ञायते, न तु दक्षिणायनादीनान्तदनङ्गताऽपि, वाक्यभेदप्रसङ्गात्। तथाप्युपनयनादौ दक्षिणायनादेरनङ्गताऽपि प्रत्येतव्या, स्मृत्यन्तरसंवादात्। स्मर्य्यते च—
“रात्रिभागः समाख्यातः खरांशोर्दक्षिणायनम्।
व्रतबन्धादिकं तस्माच्चूडाकर्म च वर्ज्जयेत्”॥
इति -
“निषिद्धं निशि च व्रतम्” – इति चैवमादि॥*॥ ३॥*॥
एवन्तर्ह्युदगयनाद्यभावे शास्त्रबलादप्यनुष्ठीयमानस्य पिण्डपितृयज्ञादेर्वैगुण्यं स्यादित्यत आह।
यथाऽऽदेशश्च
॥ ४॥
आदिश्यते इत्यादेशस्तस्यातिक्रमाभावोयथादेशम्। यथा चादेशः शास्त्रस्य, तथा च कालं विद्यादित्यनुवर्त्तते। शास्त्रमेव खल्वेवंविधेष्वर्थेषु नः प्रमाणं, यथा चादिशति शास्त्रं तथा च प्रमेयं प्रमिमीमहे, आदिशति च शास्त्रं किञ्चित् कर्म्मोदगयनाद्यभावेऽपीति तत्रानङ्गतैवामीषामङ्गता च यथोक्तानामित्यभिप्रायः। तदिदं “पदार्थान्तरसाकाङ्क्षविशेषमपहाय तदितरत्र सामान्यमन्वेति” इति न्यायमूलमपि सूत्रं सुखप्रतिपिपादयिषया कारुणिक आचार्य्यःप्रणिनाय- शिष्यान मुह्येयुरिति।
अथवा।पुनरपीदं सूत्रयन्नाचार्योयथादिष्टस्य कालस्य कर्मस्यादरातिशयं दर्शयति। तथा च सत्यामपि “यथा शक्नुयात् तथा कुर्य्यात्” इति श्रुतौ, सत्यपि च “अपि वाऽप्येकदेशे स्यात् प्रधाने ह्यर्थनिर्वृत्तिर्गुणमात्रमितरत्तदर्थवात्” इति सिद्धान्ते, नित्यानामपि कर्म्मणामादिष्टकालव्यतिक्रमेण नानुष्ठानम्। अतएव स्मर्य्यते।
“अकाले चेत् कृतं कर्म्म काले तस्य पुनः क्रिया।
कालातीतन्तु यत् कुर्य्यादकृतं तद्विनिर्दिशेत्”॥
इति।
“अङ्गत्वेऽपि च कालस्य न त्यागोऽन्याङ्गवत् कुतः?
अनुपादेयरूपत्वात् काले कर्म्म विधीयते”॥
इति चाभियुक्तानां वचनम्। केषाञ्चित्तु सायंप्रात र्होमादीनामादिष्टेऽपि कालान्तरे प्रायश्चित्तं कृत्वैवानुष्ठानं भवति।
“आ सायमाहुतेः कालात् कालः स्यात् प्रातराहुतेः”।
इति।
“गौणेषु तेषु कालेषु कर्म चोदितमारभेत्।
प्रायश्चित्तप्रकरणप्रोक्तां निष्कृतिमाचरेत्”।
इति चैवमादिवचनात्। येषान्तु कालोनाङ्गमपि तु निमित्तमात्रमितिदर्शनम्। तेषामयमपि पक्षोन्यायावगतएव सूत्रेणोच्यते। न खल्वन्तरेण निमित्तं नैमित्तिकानामात्मलाभः सम्भवति। यथादेशञ्चेति वचनात् सामान्यतःपरिभाषितानामुदगयनादीनामेकैकानुगुण्येन न कर्त्तव्यान्युपनयनादीनीत्यपि ज्ञायते इत्यनुसन्धेयम्॥४॥
कर्मकालमभिधायेदानीमनुष्ठेयानि कर्माङ्गान्याह द्वाभ्याम्।
सर्व्वाण्येवान्वाहार्य्यवन्ति॥५॥
अनु, पश्चादाह्रियते यस्मात् प्रकृतं कर्म इति, अनु, पश्चादाह्रियते यत् प्रस्तुतात् कर्मण इति चान्वाहाय्यं नान्दीमुखश्राद्धं दक्षिणा चोच्यते। अतएव गृह्यान्तरम्।
“यत् श्राद्धं कर्मणमादौ या चान्ते दक्षिणा भवेत्।
अमावास्यां द्वितीयं यदन्वाहार्थं तदुच्यते”।
इति। तदयमर्थः। सर्व्वाप्येव प्रकृतत्वात् “गृह्याकर्माणि” इति सम्बध्यते। “सर्व्वाण्येव वक्ष्यमाणानि कर्माणि” इति चैकादशीतत्वे। अन्वाहार्य्यवन्ति, अन्वाहार्य्यमुक्तं, तद्विद्यते येषां तानीमान्यन्वाहार्य्यवन्ति, भवन्तीति वाक्यशेषः, विद्यादिति वा वर्त्तते। एवशब्दश्चावधारणार्थः।सर्वाणि गृह्याकर्माण्यन्याहार्य्यवन्त्येवेत्यवध्रियते। न त्वन्वाहार्य्यनिषिध्यते। अतो गृह्यकर्मणा मन्यत्रापि तत्र तत्र शास्त्रान्तरात् श्राद्धं दक्षिणा चन विरुध्यते। तथा श्रौतेष्वपि ज्योतिष्टोमादिषु।
अथवा। सर्व्वाण्येव – आधानसायंप्रातर्होमादीनि, न तु कानि चिदेव विवाहप्रभृतीनि - (येषु स्मृत्यन्तरेण माक्षादन्याहार्य्यंविहितम्) – गृह्याकर्माणि इति यथाश्रुत एवार्थः। “अनेकस्याशेषता सर्व्वशब्दार्थः”- इति हि तान्त्रिका मन्यन्ते।
किमर्थमिदम् ? - इति चेत्, अनेकस्याशेषताऽवगतये, इति गृहाण।यथा, - “सर्वाणि ह वा इमानि भूतान्याकाशादेव
समुत्पद्यन्ते”— इत्यस्यां श्रुतौ इमानीति समाम्नायापि सर्वाणीत्याम्नातम्। यथा वा,—“खादिरपालाशालाभे,विभीतकतिरूल्बकवाधकनीवनिम्बराजवृक्षशाल्मल्यरलुदधित्थकोविदारलेभातकवर्ज्जं सर्व्ववनस्पतीनामिध्मो यथार्थंस्यात्” - इत्यत्र सर्व्ववनस्पतीनामित्युक्तम्। एवमिहापीत्यदोषः। लेखशैली खल्वियमाचार्य्यस्य। “आर्षेयं वृणीते, एकं वृणीते, द्वौ वृणीते, त्रीन् वृणीते, न चतुरो वृणीते, न पञ्चातिवृणीते,” इत्यत्र - न चतुरो वृणीते न पञ्चातिवृणीते, इतिवन्नित्यानुवादो वा भविष्यति — सर्व्वाण्येवेति।
वाक्यगौरवम् ? – इति चेन्नाल्पत्वात्। इति चेद्भवान् पश्यति,— सर्व्ववचनेन वाक्यगौरवमापद्यते इति। तदुच्यते। नैष दोषः। अल्पत्वात् वाक्यस्य। यस्मादेवमपि अल्पमेवेदं वाक्यं भवति,— सर्व्वाण्येवान्वाहार्य्यवन्ति इति। यद्येवं - किमतो भवति? एतदतो भवति, - सर्व्वकर्म्म शेषभूतस्य श्राद्धस्यदक्षिणायाश्चाल्पीयमा सूत्रेणाभिधानात् परं वाक्यलाघवं मन्यमानः खल्वाचार्योऽन्यद्वाक्यलाघवमनाद्रियमाणः सर्वाणीत्याह। यथा भगवानक्षपादः- “अथ तत् पूर्व्वकनुमानं तत् त्रिविधं पूर्व्ववत् शेषवत् सामान्यतोदृष्टञ्च” इति, ‘तत् त्रिविधम्’ इति सूत्रयाञ्चकार। तदुक्तं भगवता वात्स्यायनेन न्यायभाष्ये– “विभागवचनादेतत् त्रिविधमिति सिद्धे त्रिविधवचनं, महतोमहाविषयस्य न्यायस्य लघीयमा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः” इति। विध्युद्देशेनापि स्तूयते इति च नये, सर्व्वशब्दोऽयमन्वाहार्य्यस्तुत्यर्थोऽपि भवति। कथम्? इत्थं नामेदमन्वाहार्य्यं
यदनेन सर्व्वाप्येव गृह्याकर्माणि—महान्त्यपिउपकृतानि भवन्न्तीति।
सर्व्वशब्दः श्रौतानामप्युपग्रहार्थः— इति भट्टभाष्यम्। नैतदेवम्। अथातो गृह्याकर्माण्युपदेक्ष्याम इति प्रतिज्ञायैतत्सूत्रणात्। अन्यशास्त्रपरिभाषायाश्चान्यत्रानुपयोगात्। श्रौतसामान्येष्वेव चाविशेषेण प्रसङ्गात्। न च सर्व्वशब्दोऽपि शक्नोति श्रौतमर्थमभिवदितुम्। कस्मात्’ “सर्व्वत्वमाधिकारिकम्” इति सिद्धान्तविरोधात्। गृह्यास्मृतिः खल्वियमाचार्येणारब्धेत्येतन्न प्रस्मर्त्तव्यम्। सोऽयं सर्व्वशब्दः सर्व्वंगृह्याकवावगमयति, न जातुचिदन्यद्वैदिकं लौकिक वा किञ्चिदिति। अनर्थकं सर्व्ववचन मिति चेत्, - काममनर्थकं भवतु, न तु शक्नोत्यन्यदभिधातुम्। “आम्नायस्यार्थं वक्तुं प्रभवामो नाम्नायं पर्य्यनुयोक्तुम्” इति हि पदवाक्यप्रमाणकुशलानां समयः। तस्मात् –“पूर्णाहुत्या सर्व्वान् कामानाप्नोति" इति वदाधिकारिकमेव सर्व्ववचनम्।
अपिच। न वयमेतव्दिचारयामः- सर्व्ववचनं कर्त्तव्यं, न वा कर्त्तव्यमिति। किन्तर्हि? - कृते सर्व्ववचने किमतः प्रतिपत्तव्यम्; सर्वाणिश्रौतानि, उत, सर्व्वाणिगृह्याकर्माण्येवेति। तत्र सर्व्वाणि गृह्याकर्माण्यैव - इति व्यवस्थापितम्। अन्यच्च पुरस्तादुक्तम्। न च वाक्यमिदं प्रकरणाद्बलवद्भविष्यति— इति वाच्यम्। यतो न खल्वत्र किमप्यस्ति प्रकरणं यस्माद् वाक्यं बलवद्भविष्यतीतिमन्यसे। “कर्त्तव्यस्येतिकर्त्तव्यताऽऽकाङ्क्षस्य वचनं प्रकरणं, प्रारम्भो हि सतस्या वचनक्रियायाः, स एष विध्यादिर्विध्यन्तापेक्षः- इति खल्वाहूःप्रकरणलक्षणमाचार्य्याः शबरस्वामिनः पूर्व्वस्यां मीमांसायाम्। न चेह किञ्चित् कर्त्तव्यं विहितम्। न चाविहितं नामाकाङ्क्षति काञ्चिदितिकर्त्तव्यताम् ! विधौ खल्लियमाकाङ्क्षा भवति। तत्र हि कर्त्तव्यतया चोदनाऽवगम्यते। “यत्र हि कर्त्तव्यतया चोदना - इति गम्यते; तत्र इतिकर्त्तव्यता कांक्ष्यते” - इति हि तन्त्रस्थितिः। प्रतिज्ञैव खल्वियमाचार्य्यम्य “अथातो गृह्याकर्माण्युपदेक्ष्यामः”–इति। न चवाक्यमपि साधारणं, सर्व्वत्वस्याधिकारिकत्वादित्यवोचाम।
अपिच। सर्वाणीति तावद्विशेषणम्। न चात्र किञ्चिद्विशेष्यमुच्यते। भवितव्यन्तु तेन। अन्यथा विशेष्यसाकाङ्क्ष खल्विदं वाक्यमपर्य्यवसितमेव स्यात्। तस्मादस्य निराकाङ्क्षप्रतिपत्तये गृह्याकर्माणीत्यनुषज्यते। तदिदं सर्वाणि गृह्याकर्माणीत्येवं पर्य्यवस्यति। न खल्वेवं पर्य्यवसितं सद्वाक्यं गृह्याकर्मणामन्यद्विषयीकरोति – येन वाक्यमिदं प्रकरणाद्बलवदिति कथमसि ! स खल्वयमस्थान एवोपालम्भो- वाक्यमिदं प्रकरणाद्बलवद्भविष्यति - इति।
आह। व्यवेतत्वान्नास्त्यनुषङ्गो गृह्याकर्माणीति। नैतदेवम्। वाक्यस्यास्य साकाङ्क्षत्वात्, वाक्यशेषस्य चान्यस्यानुपलम्भात्, गृह्याकर्माणीत्यस्य च वाक्यशेषी भवितुं योग्यत्वात्। उपक्रमश्चैवमनुगृहीतो भवति। इतरथाऽत्र सम्भवन्नप्ययमर्थोऽन्यत्रापि नीयेत ! कल्पयितव्येऽपि कस्मिंश्चिद्वाक्यशेषे-गृह्याकर्माणि इत्येतदेव कल्पयितुमुचितम्। कस्मात्? उपक्रमानुग्रहात्। “प्रकृतप्रत्ययश्च न्याय्यः”—इति हि तन्त्रयुक्तिः।
अपिच। न खलु व्यवेतमनुषज्यते-गृह्याकर्माणीति। कस्मात्? प्रतिसूत्रं तत्सम्बन्धावगमादलुप्तसंस्कारत्वात्। प्रतिसूत्रं खल्वन्वीयते गृह्याकर्म, तत्र तत्र यथायथं विपरिणाम एव परं विशेषः। न चैतावता किञ्चित् हीयते। बुद्ध्यारोहमेव खल्बस्माकं गृह्याकर्म्म। तस्मादलुप्तसंस्कारत्वादिहापि तदेव संबन्धुमर्हति। अथातो गृह्याकर्माप्युपदेच्यामः, - इति च प्रतिज्ञानात्। प्रतिज्ञा खल्वियमिदमर्थैवाचार्य्यस्य - यद् वक्ष्यमाणाः सर्व्वाः परिभाषा गृह्याकर्मपराभवेयुरिति।
यदिच – भिन्नविभक्तिवचनतया निर्देशादनन्तरेष्वपि योगेषुगृह्याकर्म्मनानुषज्येत,— नानुषज्येत चात्रापि व्यवेतत्वात्। तथापि निराकाङ्क्षत्वप्रतिपत्तये वचनानामवश्यमेषु वाक्यशेषः कल्पयितव्यो- भवति, - इति गृह्याकर्मैव वाक्यशेषतया कल्पयितुमुचितम्। आचार्य्यप्रतिज्ञानात् खल्वागतमेव हृदयं- तत्, न युज्यते विना कारणमुत्स्रष्टुम्। कल्पयितव्ये हि कस्मिंश्चित् कस्यचिन्निराकाङ्क्ष प्रतिपत्तये, बुद्ध्यारोहमेव तावत् कम्पयितुमुचितं - तेन चेन्निराकाङ्क्षंक्रियते। स्मृतस्योपेक्षानर्हत्वात्। अन्यच्च पुरस्तादुक्तम्।
दृश्यते खल्वाचार्य्याणामेवमपि सम्बन्धोऽनुमतः प्रस्तुतेन पदार्थेन सूत्रेषु - “अभ्युपेत्य कालभेदे दोषवचनात्” इति, “अनुवादोपपत्तेश्च” इति चैवमादिषु। अतएव व्याख्यातं भगवता वाल्या यनेन, “न व्याघातो हवने इत्यनुवर्त्तते” - इति पूर्व्वस्मिन्, “पुनरुक्तदोषोऽभ्यासे नेतिप्रकृतम्”– इति चोत्तरस्मिन् सूत्रे। “तदप्रामाण्यमनृतव्याघातपुनरुक्कदोषेभ्यः” “न कर्म्मकर्तृसाधनवैगुण्यात्”
“अभ्युपेत्यकालभेदे दोषवचनात्” “अनुवादोपपत्तेश्च” इति ह्याक्षचरणानि सूत्राणि। तस्मात् तथा “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं” - इति धर्म एवानिमित्तमिति कल्प्यते - “आसनं वा सर्व्वचैवम्भूत” इति च स्वशास्त्रोक एव व्यवतिष्ठते। एवमिहापि सर्व्वाणि गृह्या कर्माणि इत्येवार्थः सम्पद्यते।
न खलु श्रौतानीत्यम्य वाक्यशेषतायां किञ्चित् प्रमाणमस्ति। न खल्वेवं गृह्याकर्मस्वन्नाहार्य्यंप्राप्नोति। न चैवमाचार्य्यस्य सम्यग्वादित्वं भवति। स खल्वेवमन्यत् प्रतिजानानोऽन्यच्चाभिदधानः प्रेक्षावद्भिरुन्मत्तवद् पेक्ष्येत ! न चैवं मति कात्यायनस्य वचनानि—गृह्याकर्म्मविशेषेष्वेव श्राद्धनिषेधकानि—
“नाष्टकासु भवेत् श्राद्धं न श्राद्धे श्राद्धमिष्यते।
न सोष्यन्तीजातकर्म्मप्रोषितागतकर्म्मसु”॥
इत्येवमादीन्युपपद्यन्ते। नापि कर्मसामान्यमेव वाक्यशेषतया कल्पयितुं शक्यते। कस्मात्? सन्ध्यास्नानदानादिषु, लौकिकेषु चाविशेषेण प्रसङ्गात्।
तदेवं सिद्धे गृह्याकर्म्मभिः सम्बन्धेऽप्यस्य वाक्यस्य, सर्वशब्दञ्चेत् श्रौतसंग्रहार्थं कल्पयसि - भेत्स्यसि तर्हि वाक्यम् ! – कल्पयिष्यसि चान्यद्विशेष्यं सर्वाणीत्यस्य निराकाङ्क्षप्रतिपत्तये। कथम्? गृह्याकर्माप्यन्वाहार्य्यवन्ति,– सर्वाणि श्रौतान्यन्वाहार्य्यवन्ति, - इति वचनव्यक्तिभेदात्। तस्मादस्मदुक्त एवार्थे धीमद्भिर्यत्न आस्थेयः।
तदिदं श्राद्धं मातृपूजादिपूर्व्वकमेव भवति। कस्मात्?
“अनिष्ट्वा तु पितॄन् श्राद्धैःकर्म्म कुर्य्यान्न वैदिकम्।
तत्रापि मातरः पूर्वं पूजनीया प्रयत्नतः”।
इत्येवमादिकर्म्मप्रदीपदर्शनात्।
अत्र प्रत्यवस्थीयते। नन्विदमेव कात्यायनवचनं वैदिकेषु श्राद्धं दर्शयति। अत्रोच्यते। यदि नामेदं वचनं वैदिकेषु श्राद्धं दर्शयति, तत् किमस्माकमपचीयते? न खल्ववैदिकानि गृह्याकर्माणि आचार्य्यः समुपदिदेश। ननु न ब्रूमोऽवैदिकानि गृह्याकर्म्मण्याचार्य्यः समुपदिदेश—इति। सत्यं वैदिकान्येवैतानि। परमेभ्योऽप्यन्यानि सन्ति वैदिकानि कर्माणि। सन्तुनाम, किमतो भविष्यति यद्येवम्, एतदतो भविष्यति, - सर्व्वशब्दस्य सामान्यार्थतामनेन वचनेन कात्यायनः स्पष्टयाञ्चकार - इति
उच्यते। नैतावता मिषेण वैदिकसामान्यपरता सर्वशब्दस्य शक्यतेऽध्यवसातुम्। कस्मात्? क्रमपरत्वाद्वचनस्य।कात्यायनवचनं खल्विदमनूद्य श्राद्धं, वैदिकञ्च कर्म, क्रममनयोर्विधत्ते, न वैदिकेषु श्राद्धम्। कस्मादवगम्यते? साक्षादेव समाम्नानात्। पितॄन् श्राद्धैरनिष्ट्वावैदिकं कर्म न कुर्य्यात्–इति श्राद्धं सिद्धवदनूद्य वैदिकञ्च, क्रममात्रमेव साक्षादिह समाम्नायते। तत्रैवं सति यथाप्राप्तमेवानूद्यते इति न किञ्चिदनुचितम्। अन्यैव वचनव्यक्तिराचार्य्यस्य - सर्वाणि श्राद्धवन्तीति। अन्यैव च वचनव्यक्तिः कात्यायनस्य-श्राद्धैःपितॄनिष्ट्वावैदिकं कुर्य्यादिति। तदत्र विधीयते श्राद्धमेकस्याम्, अनूद्य च तत्, क्रममात्रमन्यस्याम्। दर्शितञ्चास्माभिरन्यथा वैदिकसामान्येषु श्राद्धप्रसक्तिरिति, तदपि न
प्रस्मर्त्तव्यम्। वैदिकपदस्य साक्षात् श्रुत्युक्तकर्मपरतायामपि प्राचीन-एव दोषः परावर्त्तते इत्यास्तां विस्तरः।
श्राद्धञ्चेदं केषुचित् प्रथमप्रयोग एव, केषुचित् प्रतिप्रयोगमेव, केषुचिच्च नैव कर्त्तव्यमित्याचक्षते। तदेतत् सर्व्वंपरिशिष्टकृत कात्यायनस्य वचनादवगन्तव्यम्॥५॥*॥
अपवर्गोऽभिरूपभोजनं यथाशक्ति॥ ६॥
क्रियायाः परिसमाप्तिरपवर्ग इत्युच्यते। तस्मिन्नपवर्गे। अभिरूपो विद्वान् कृतबुद्धिरनुष्ठाता चेत्याहुः।
“यत्र विद्या च वित्तञ्च सत्यं धर्मः शमोदमः।
अभिरूपः स विज्ञेयः स्वाश्रमे यो व्यवस्थितः”॥
इति गृह्यासंग्रहोक्तस्तु ग्राह्यः। तदस्याभिरूपस्याभिरूपयोरभिरूपाणां वा, भोजनमशनं, यथाशक्ति; यथा शक्यते तथैव न पुनर्वित्तशाव्येनेत्येतत्। कारयितव्यमिति वाक्यशेषः। गृह्याकर्म्मसु विद्यादिति वा सम्बध्यते। यथा शक्यते, तथाऽभिरूपभोजनं गृह्याकर्मणामङ्गं जानीयादिति तत्रार्थः। यथाशक्तीति सूत्रयन्नाचार्य्यः शक्त्यपेक्षयाऽभिरूपभोजनं कर्माङ्गमिति दर्शयति। तेन सत्यामपि शक्तौयत्राभिरूपस्य भोजनं - तत्र वैगुण्यमवगम्यते। स्मरति च भगवान् मनुः,—
“प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते।
न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्”॥
इति॥६॥*॥
सेयं संक्षेपेणाभिहिता सर्वकर्म्मसाधारणौपरिभाषा। इदानीन्तानि कर्माणि वक्तव्यानि। तत्र प्रायेणाग्निसाध्यत्वात् कर्मणामग्न्याधानकालन्तावदाह।
ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्यन्॥७॥
ब्रह्म वेदः, तच्चरति प्राप्नोति यथोक्तव्रतादिभिरिति ब्रह्मचारी प्रथमाश्रमीत्याचक्षते। स चोपकुर्व्वाणक एवार्थात्।इतरस्यामरणमेव गुरुकुलावस्थानाभ्यनुज्ञानात्। स खल्वयं ब्रह्मचारी, -
“वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्”।
इति स्मरणात्–वेदान्, वेदौ, वेदं, वा अधीत्य यथावदधिगम्येत्यर्थः। तदत्रानुपादेयतया “ग्रहं सम्मार्ष्टि” इतिवत् सङ्ख्या न विवक्षिता। “सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम्” इति सिद्धान्तात्। न खल्वत्र “पशुना यजेत” इत्यादाविव वेदस्याध्ययनं विधित्मितम्, किन्त्वनूदितम, अनुवादश्च प्राप्तस्यैव भवति,- इति यथाप्राप्तमेवानूद्यते इत्यदोषः। तदयमर्थः। सायम्प्रातर्विहित-समिदाधानो ब्रह्मचारी, वेदमधीत्य ब्रह्मचर्य्यपरिसमाप्तिसमये अन्त्यां- अन्ते अवसाने भवां - पश्चिमाम्,
“आचार्य्येणाभ्यनुज्ञात आचार्य्याग्नौविधिर्यथा।
प्रणीतेऽग्नौ समिद्दद्यादन्त्यासा ब्रह्मचारिणम्”॥
इति गृह्यासंग्रहपरिभाषिताम्। समिधम्,-
“नाङ्गुष्ठादधिका ग्राह्या समित् स्थूलतया क्वचित्।
न वियुक्ता त्वचा चैव न सकीटा न पाटिता॥
प्रादेशान्नाधिका नोना न तथा स्याद्विशाखिका।
न सपर्णा न निर्वीर्य्याहोमेषु च विजानता”॥
इति कर्मप्रदीपोतलक्षणाम्। अभ्याधास्यन्, आभिमुख्येन प्रातराधास्यन्- नौ प्रक्षेप्स्यन्, – “अग्निसमाधानं कुर्वीत” — इति परस्मात् सिंहावलोकितन्यायेन सम्बध्यते। तथा च ब्रह्मचर्य- परिसमाप्तिसमये ब्रह्मचारिणा गृहस्थाश्रमं प्रविविक्षुष्णा या पश्चिमा समिदाधेया, सा तु, —
“न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकांसमिदाहुतिम्।
स्वगर्भसंस्क्रियार्थांश्च यावन्नासौ प्रजायते”॥
इति कर्मप्रदीपदर्शनात्,-सत्यप्यन्यस्मिन् होमसाधने पित्राचार्य्यसमाहितेऽग्नौ, तदानीमेव वक्ष्यमाणवैश्यकुलादियोनिमन्यमग्निमाधाय, तस्मिन्नाधातव्या,–इति। सत्यप्यन्यस्मिन्नग्नाविदानी- मन्यस्याग्नेराधानफलन्तूपरिष्टादुपदर्शयिव्यत्याचाः- “स एवास्थ गृह्योऽग्निर्भवति” इति। अत्र च,—
“अनाश्रमी न तिष्ठेत्तु क्षणमेकमपि द्विजः”।
इत्यादिस्मरणात् स एवादधीत - यस्मै पूर्वमेव काचित् कन्या। केनचिद्वाग्दत्ताऽऽसीदित्येतत् स्पष्टयति कात्यायनः।
“यस्य दत्ता भवेत् कन्या वाचा सत्येन केनचित्।
सोऽन्त्यांसमिधमाधास्यन्नादधीतैव नान्यथा”॥
इति॥ ७॥*॥
आधानकालान्तरमाह।
जायाया वा पाणिं जिघृक्षन्॥८॥
यस्यामात्मा जायते सेयं पाणिग्रहणादिसंस्कारसंस्कृता नारी जायेत्युच्यते। तस्या जायायाः। भाविनि भूतवदुपचारेण जायाया—इत्याह। पाणिं हस्तं, जिघृक्षन्- यथाविधि ग्रहीतुमिच्छन्नित्येतत्। “अग्निसमाधानं कुर्वीत” - इति सम्बध्यते। वाशब्दः पूर्व्वकल्पापेक्षया विकल्पार्थः। तदत्र “भार्य्यादिरग्निः” इति शास्त्रान्तरदर्शनात् भार्य्यासम्बन्ध एक एव निमित्तमाधानस्य।तस्य च कालद्वयमुक्तं – अभ्याधास्यन्निति, जिघृक्षन्निति च॥८॥*॥
अत्र चाधानं लक्षणपूर्व्वकं समन्त्रकमग्नेःस्थापनमुच्यते। श्राङ्पूर्व्वस्य दधातेरारोपणवाचित्वात्। तथा प्रसिद्धेश्च। तत्, किं नाम लक्षणं? – कथञ्चाग्नेः स्थापनम्? – इतीदमिदानीं त्रिभिः सूत्रैराह।-
** अनुगुप्ता अप आहृत्य, प्रागुदक्प्रवणं देशँसमं वा परिसमूह्योपलिप्य, मध्यतः प्राचींरेखामुल्लिख्योदीचीञ्चसँहतां पश्चात्, मध्ये प्राचीस्तिस्र उल्लिख्याभ्युक्षेत्॥९॥**
अनुगुप्ता अनुरचिताः - आच्छादिताः, पतितादिभिरदृष्टा इत्येतत्। अप उदकं, आहृत्य - अनिषिद्धजलाशयादानीय, “ताभिः प्रक्षालितपाणिपादवदन आचम्य" - इति भट्टभाष्यम्। प्रागुदक्प्रवणम् - प्राग्वा, उदग्वा, क्रमनिम्नम्, देशं भूमिभागम्। समं,प्राङ्गीचादिरहितमित्येतत्। वाशब्दो विकल्पार्थः। तत्फलवादमाह गृह्यासंग्रहः।
“प्राङ्गीचं ब्रह्मवर्च्चस्यमुदङ्गीचं यशोत्तमम्।
पित्र्यं दक्षिणतो नीचं प्रतिष्ठालम्भुकं समम्”।
इति। परिसमूह्य, परि-परितः सर्व्वत इत्यर्थः। समूह्य-“कुशैः सम्मार्ज्जेयेद्भूमिम्” इति दर्शनात् - कुशैः पांश्वादिकं सम्यगुत्सार्य्य, उपलिप्य, “गोमयेन समन्तं पर्युपलिम्पति” - इति दर्शनात्—
“भूमेः समूहनं कृत्वा गोमयेनोपलिप्य च”।
इति च गृह्यासंग्रहस्मरणात्, योग्यत्वाच्च, गोमयोदकेनेति वाक्यशेषः। देशमिति सम्बध्यते। मध्यतः, - स्थण्डिलाभ्यन्तरे, दक्षिणांश एव, न तु मध्यांश एवेत्यर्थः। कस्मात्?हस्तमात्रस्थण्डिलेऽप्युदग्गतैकविंशत्यङ्गुलरेखाऽनुरोधात्।सप्तमप्ताङ्गुलान्तरितप्राग्गतरेखात्रयस्योदग्गतरेखाऽनुषत्रस्यानुरोधाच्च। पठन्ति च।
“अङ्गुष्ठमात्रं भूभागं त्यक्त्वा दक्षिणतः सुधीः।
उत्तरे द्व्यङ्गुलं त्यक्वा पश्चिमेऽप्यङ्गुलद्वयम्”।
इति। – प्राचीं, प्राग्गतां, रेखां द्वादशाङ्गुलप्रमाणां दक्षिणहस्तेन – कुशेन, – उलिख्य। उदीचीञ्च, उदग्गताञ्च रेखामेकविंशत्यङ्गुलप्रमाणामुलिख्य। – चकारो रेखामुलिख्येत्यनुषङ्गार्थः। तामिमामुदीचींरेखां विशिनष्टि।संहतां, संलग्नां प्राग्गताया-इत्येतत्। पश्चात्, पश्चिमायां। ‘मध्ये’ – उदग्गतायाः, तल्लग्ना- इति यावत्। ‘प्राचीः, -प्राग्गताः, ‘तिस्रः’ रेखाः प्रादेशप्रमाणाः सप्तसप्ताङ्गुलान्तरिताः–दक्षिणत उपक्रमदर्शनादुत्तरोत्तराः, उलिख्येत्यन्वयः। तदाह कात्यायनः।
“लक्षणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम्।
तन्मूललग्ना योदीचीतस्या एवं नवोत्तरम्।
उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिकाः।
सप्तसप्ताङ्गुलां त्यक्त्वाकुशेनैव समुलिखेत्”।
इति। प्रकारान्तरमाह गृह्यासंग्रहः।
“लक्षणं तत् प्रवक्ष्यामि प्रमाणं दैवतञ्च यत्”।
इत्युपक्रम्यानतिदूरे,
“प्राक्कृता पार्थिवौ रेखा आग्नेयीचाप्युदक् स्मृता।
प्राजापत्या च ऐन्द्री च सौमीच प्राक्कृता स्मृता।”
इति। तथा,
“पार्थिवीचैव सौमीच रेखे द्वे द्वादशाङ्गुले।
एकविंशतिराग्नेयीप्रादेशिन्ये उभे स्मृते।
षड़ङ्गुलान्तराः कार्य्या आग्नेयीसंहितास्तु ताः।
पार्थिवायास्तु रेखायास्तिस्रस्ता उत्तरोत्तराः।
पार्थिवी पीतवर्णास्वादाग्नेयी लोहिता भवेत्।
प्राजापत्या भवेत् कृष्णा नीला चैन्द्री प्रकीर्त्तिता।
श्वेतवर्ण च सौमीस्याद्रेखानां वर्णलक्षणम्।
एष लेखविधिः प्रोक्तोगृह्याकर्मसुमर्चसु।
सूक्ष्मास्ताऋजवः कार्य्या लेखान्ताःसुममाहिताः।
एतानि तत्त्वतोज्ञात्वागुह्याकर्माणि कारयेत्”।
इति। तदनयोः प्रकारयोर्विर्कल्पः। द्वयोरेव स्वशास्त्रोक्तत्वात्। रेखा देवतवर्णयोर्गृह्यासंग्रहोक्तप्रकार एवाभिनिवेशस्तत्रैव तदभिधानात्। न कात्यायनोक्तकल्पेऽपि, प्रमाणाभावात्। न चैवं मन्तव्यं,गृह्याकर्मणि गृह्यासंग्रहोक्तः प्रकारोऽन्यत्र तु कर्म्मप्रदीपोक्तः, - इति। गृह्याकर्म्मण्येव लक्षणोपदेशादुभयत्र तस्यैव स्पष्टीकरणाञ्च। तस्माद्विकल्प एवानयोरादरणीयः। यद्यपि आधान एव लक्षणमुपदिष्टमाचार्य्येण तदेव च स्पष्टीकृतं कात्यायनेन, तथापि “लक्षणावृदेषा सर्व्वत्र”–इत्यनुपदमेवाचार्येण सर्व्वत्र तदतिदिष्टमिति यथोक्तएवार्थः।
अत्र चाङ्गुलिमानादिकं यजमानस्येत्याह कर्म्मप्रदीपः।
“मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि।
मानकृत् यजमानः स्याद् विदुषामेष निर्णयः”।
इति। एतच्च रेखोल्लेखनम्, - यावदग्निस्थापनं सव्यहस्तं भूमौ निधाय कर्त्तव्यमित्याह गृह्यासंग्रहः।
“सव्यंभूमौ प्रतिष्ठाप्य प्रोलिखेद्दचिणेन तु।
तावन्नोत्थापयेत् पाणिं यावदग्निं निधापयेत्”।
इति। तदेवं यथोक्तारेखा उल्लिख्य,-
“उत्करं गृह्य रेखाभ्योऽरत्निमात्रे निधापयेत्।
द्वारमेतत् पदार्थानां प्रागुदीच्यां दिशि स्मृतम्”।
इति गृह्यासंग्रहवचनात्;–रेखाभ्योमृदमुत्कीर्णामुद्धृत्य प्रागुदीच्यांदिश्यरत्नमात्रे निधाप्य, ‘अभ्युक्षेत्’ – “उक्षसेचने” इति स्मरणादाभिमुख्येन-
“उत्तानेनैव हस्तेन प्रोक्षणंसमुदाहृतम्।
न्यञ्चताऽभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं मतम्”।
इति स्मृत्यन्तरोक्तप्रकारेण,सिञ्चेदद्भिरिति सामर्थ्यात्, यथोक्तारेखा इत्यर्थः।
अथैवमुल्लेखात् परत उत्करग्रहणतन्निधापनकरणे उल्लिख्याभ्युक्षेदिति श्रयमाणमानन्तर्य्यमतिक्रम्यते! शास्त्रं खल्विदम्-उल्लिख्याभ्यु्क्षेत्—इति। न च शास्त्रं नामातिक्रमितव्यम्। नैष दोषः। आनन्तर्य्यश्रवणाभावात्। न खल्वानन्तर्य्यमिहोल्लेखाभ्युक्षण्योः श्रूयते किन्तर्हि्?–पूर्वापरीभावमात्रम्। कस्मात? उल्लिख्याभ्युक्षेतिक्त्वाश्रवणात्। पूर्व्वकालतायां हि क्त्वाप्रत्ययं स्मरन्ति शाब्दिकाः-“एककर्तृकयोःपूर्व्वकाले क्त्वा" - इति, न त्वानन्तर्ये। न खल्देवमप्युल्लेखस्यपूर्व्वकालतायामस्ति कश्चिद्विवादः। येनोल्लिख्याभ्युक्षेदिति क्त्वाश्रवणमतिक्रम्येत। यथा खल्वधीत्य वेदमधीत्य च विचारशास्त्रं स्नाताऽपि नातिक्रामति- “वेदमधीत्य स्नायात्”—इति शास्त्रं, तथेहापीत्यदोषः। अतएव – “वेदमधीत्य स्नायादिति शास्त्रन्त्वध्ययनममावर्त्तनयोः पूर्वीपरीभावसमानकर्तृक त्वेएवाचष्टे, न त्वान्तर्य्यम्” - इति माधवाचार्य्याः।
अपिच वाक्यबलात् खल्वत्र मृदुद्धरणादिकं क्रियते, क्रमञ्चाश्रित्य प्रत्यवतिष्ठते भवान्। तच्चैतदनुचितम्। दुर्ब्बलोहि क्रमः– बलवत्तरञ्च वाक्यम्। तदुतम्। “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्”–इति। तस्माद्वाक्यानुरोधात् क्रमं बाधेमहि- न क्रमानुरोधात् वाक्यम्। अपिच। मृदुद्धरणादिकं पदार्थः, क्रमश्च पदार्थानामुपकारकोगुणः। न खलु गुणानुरोधेन पदार्थ एव न कर्त्तव्यो भवतीति युक्तम् !
प्राप्तानां पदार्थानां उत्तरकालं हि क्रमश्रापतति। यदा च पदार्थः प्राप्नोति, तदाक्रम एव नास्ति। न खलु पूर्व्वमिद्धःपदार्थः पश्चिमसिद्धेन क्रमेण विरोधादकर्त्तव्यो भवति।
नन्वाचार्य्यानुक्तमपि मृदुद्धरणादिकं कथमस्माकमप्यभिधीयते (यतोऽयं विचारः- श्रवणमतिक्रम्यते वा, न वा अतिक्रम्यते इति।) परोक्तत्वात्। अक्रियैव खल्वियमुच्यते। तदाह कात्यायनः।-
“अक्रिया त्रिविधा प्रोक्ता मुनिभिः कर्मकारिणाम्।
अक्रिया च परोक्ताच तृतीया चायथाक्रिया।
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः।
कर्तुमिच्छति दुर्म्मेधा मोघं तत्तस्य चेष्टितम्”।
इति। उच्यते। नेदं मृदुद्धरणादिकं परोक्तमाश्रीयते। किन्त्वाचार्य्यपुत्रेणोक्तमित्यनुष्ठीयते। न खलु स्वशाखायां ग्रन्थान्तरोपरोक्तं भवति। आचार्योक्तंलक्षणं ह्याचार्य्यपुत्रेण व्याख्यातमिति केयमस्थाने परोक्तत्वाशङ्का।
अन्ये तु मन्यन्ते। शाखान्तराधिकरणन्यायेनैकमेवेदं कर्म्म। अतएव जैमिनिराचार्य्यस्तस्मिन्नेवाधिकरणे- “एकं वा संयोगरूपचोदनाऽऽख्याऽविशेषात्” - इति सिद्धान्तयाञ्चकार। एकत्वे च कर्मणोयत्र क्वचित् किञ्चिदङ्गमामनन्ति, अन्यत्रापि तदुपसंहर्त्तुमुचितम्। किमन्यत् कुर्य्यादियंचिन्ता - स्मृतेगुणोपसंहारा्त्? फलञ्चेदमेवाभिहितमस्याश्चिन्ताया भगवता भाष्यकारेणाचार्य्येण च भङ्ग्यन्तरेण।वादरायणस्त्वाचार्योऽस्येदमेव प्रयोजनं साक्षादसूत्रयत् शारीरके। “उपसंहारोऽर्थाभेदात् विधिशेषवत् समाने च” इति। अतएव स्मरति भगवान् कात्यायनोऽपि।
“यत्राम्नातं स्वशाखायां परोक्तमविरोधि च।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्”।
इति। या पुनरुपदर्शिता पुरस्तात् परोक्तनिन्दा— ‘परोक्ताच’ इति। सा खलु, विरोधिनीमनाकाङ्क्षिताञ्च परोक्तांक्रियां निन्दतीत्यवगम्यते। कस्मात्? ‘स्वशाखाश्रयमुत्सृज्य’ - इति, ‘परोक्तमविरोधि च’ - इति च समाम्नानात्, - इति।
वस्तुतस्तु गृह्योक्तप्रयोगे पारशाखिकगुणो नोपसंहर्त्तव्यः। प्रयोगशास्त्रं खल्वेद्गृह्यशास्त्रम्। तत्रापि परोक्तगुणोपसंहारे प्रयोगवैरूप्यापत्तेः प्रयोगशास्त्रतैवास्य हीयते। तथाच श्राद्धभाष्ये गृह्यपरिशिष्टम्।
प्रयोगशास्त्रं गृह्यादि न समुच्चीयते परैः।
प्रयोगशास्त्रताहानेरनारम्भविधानतः।
बह्वल्पंवा स्वगृह्योक्तंयस्य कर्म्म प्रकीर्त्तितम्।
तस्य तावति शास्त्रार्थे कृते सर्व्वः कृतोभवेत्”।
इति। तदनेन गृह्यादि प्रयोगशास्त्रमनारम्भविधानतः परैर्नसमुच्चीयते इत्युक्तम्। तथाचाहुः।
“प्रयोगः सूत्रकारोक्तोन समुच्चयमर्हति।
समुच्चये यतस्तस्य न निष्पत्तिर्न च क्रमः”।
इति। तदनेन स्वगृह्येयदुच्यते, तदल्पंवा भवतु बहु वा भवतु, तावदेव कर्त्तव्यं न तत्र परोक्तगुणोपसंहारः कर्त्तव्य इत्युक्तम्। यत् पुनः स्वशास्खायां नैवाम्नायते, तदेव त्वपेक्षितंपरोक्तंकरणीयमिति, “यन्नाम्नातं स्वशाखायां” - इत्यादिनोक्तंकात्यायनेन। छन्दोगशाखायां खल्वग्निहोत्रं नाम्नायते, किन्तु छन्दोगैरप्यध्वर्युशाखापठितं तद्नुष्ठीयते। स्वशास्त्रोक्तस्य प्रयोगस्यान्तराऽन्तरा परोक्तस्य कस्यचित् कस्यचित् पदार्थस्याभिनिवेशस्त्वसङ्गतएव। तदेतत् गुह्यासंग्रहभाष्ये निपुणतरमुपपादयिष्यते॥९॥*॥
लक्षणावृदेषा सव्वंत्र॥१०॥
परिसमूहनाद्यभ्युक्षणान्तं कर्म्म लक्षणमुच्यते। तस्य खल्वस्य लक्षणस्य, आवृत्परिपाटी, एषा अनन्तरोक्तान तु विपरीता, सर्वत्र यत्र यत्राग्निः प्रणीयते तत्र तत्रेत्यर्थः।
अत्र यद्यपि ‘प्रागुदक्प्रवणं देशँसमं वा परिसमूह्य’ - इति श्रुत्या लक्षणमिदं साक्षाद्भुमेरुपकारकं, तथापि भूसंस्कारद्वारैव प्रणाल्या अग्न्याधानस्याप्युपकारकं प्रकरणादित्यवगन्तव्यम्। ‘अग्निसमाधानं कुर्वीत’ - इति हि प्रकरणम्। यथा ब्रोहीनवहन्तीत्यवघातस्य द्वितीयाश्रुत्या साक्षाद्व्रीह्युपकारकत्वेऽपि, प्रणाल्याक्रतूपकारकत्वमपि प्रकरणादिष्यते, तथाऽत्रापि द्रष्टव्यम्। वाक्येन वा लक्षणमग्निप्रणयनाङ्गं भवति। ‘लक्षणावृदेषा सर्व्वत्र’- इति ह्मुक्तम्।वक्ष्यति च। “भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति”,—इति। अतएव तत्र तत्राग्निप्रणयने लक्षणं वक्ष्यत्याचार्य्यः- ‘उत्तरार्द्धे परिवृतस्य लक्षणं कृत्वाऽग्निं प्रणयन्ति’ - इति। ‘पूर्वस्याः कर्ष्वाःपुरस्ताल्लक्षणं कृत्वाऽग्निं प्रणयन्ति’- इति च।
तदिदं लक्षणमाधानाङ्गमग्निप्रणयनाङ्गं वा भूमिसंस्कारद्वारेति संस्कृतायामपि भूमावाधानाद्यङ्गतया प्राप्तं लक्षणं कर्त्तव्यमेव। न चावघातस्य कृष्णलइव, संस्कृते देशे लक्षणस्य बाध एव, द्वारबाधादिति वाच्यम्। शास्त्रार्थीवधारणवेलायां प्रयोजनवत्त्वाल्लक्षणस्य,
इदानीमनुष्ठानवेलायामेव हि क्वचित् प्रयोजनाभावोऽवगम्यते। कृष्णत्वे त्ववघातस्यशास्त्रार्थावधारणवेलायामेवप्रयोजनभावनिश्चयइति वैषम्यात्। तथाह्युक्तमभियुक्तैः। ‘शास्त्रार्थावधारणवेलायां यत्र प्रयोजनाभावनिश्चयस्तत्रैव तदुपादानादिलोपः शास्त्रार्थः। यथा कृष्णत्वे अवघातादिलोपः। यत्र त्वनुष्ठानवेलायामेवालस्यादिना पुरुषदोषेण प्रयोजनाभावो ज्ञायते, तत्र प्राक् प्रापितः पदार्थो नियमापूर्व्वमात्रार्थोऽनुष्ठेय एव’- इति। याज्ञिकाञ्च खल्वनुष्ठानवेतायामालस्यादिदोषवशाह्यादिस्थाने गृहीतमपि तण्डुलाद्यवहन्ति वितुषीकृतमपि। विहिताविहितत्वसन्देहे च विहिताकरणादविहितकरणमेव न्याय्यमित्याचक्षते।
यत्र त्वाहित एवाग्निर्नीयतेऽन्यस्मिन् प्रदेशे, कारणवशात्, तत्र यद्यपि निष्पन्नत्वादाधानस्य तदङ्गं लक्षणमपि न युज्यते कर्तुम्, तथापि प्रदेशस्य तस्य संस्कारार्थं तत्रापि लक्षणं कर्त्तव्यमेव। स्थापनमात्रस्य तत्राप्यविशेषाच्च। ‘लक्षणावृदेषा सर्वत्र’ इति ह्यनुशासनम्। ‘लक्षणं कृत्वाऽग्निं प्रणयन्ति’ - इति च दर्शनम्। तत्त्वकृद्भिरपि, – “यद्यग्निस्थापनानन्तरं कर्मकाले वृष्ट्यादिशङ्कया संस्कृताग्रिरन्यत्र नीयते तदा पुनर्भूसंस्कारः कर्त्तव्यः” इत्यक्तम्।
न तु लक्षणमग्नेरपि संस्कारः, प्रामाणाभावात्। न खल्वस्ति किञ्चित् प्रमाणमग्नेरपि संस्कारे लक्षणमिति। शब्दप्रमाणकः खल्वयमर्थोऽयं कर्त्तव्योऽयञ्च न कर्त्तव्य इति, यमस्योपकरोति नास्यइति चैवमादिः। न खल्वस्ति कश्चिच्छब्दोलक्षणमग्नेरुपकरोतीति। श्रुत्या तावल्लक्षणं भूमेरुपकारकं प्रकरणाञ्चाङ्गमाधमस्य, वाक्याद्वाप्रणयनस्येत्यवोचाम। न खल्बग्निना लक्षणस्य सम्बन्धोऽस्ति। ‘लक्षणं कृत्वाऽग्निं प्रणयन्ति’ - इत्यादौ हि श्रुत्या प्रणयनेनाग्नेःसम्बन्धोऽवगम्यते, वाक्येन च लक्षणकरणस्य। न तु लक्षणाग्योरन्वयोऽस्ति।
“जातम्य लक्षणं कृत्वा तं प्रणीय समिध्य च”।
इति कर्मप्रदीपेऽपि जातस्येति व्यत्ययात् षष्ठी द्रष्टव्या जाते सतीत्यर्थः। “मन्थेदग्निं निकामतः” – इति ह्यभिधाय ‘जातस्य लक्षणं कृत्वा’ - इत्यभिहितवान् कात्यायनः। न हि लक्षणेन समं जातस्य सम्बन्धोऽस्तीत्यवोचाम। न खल ‘जातस्य लक्षणं कृत्वा’ - इति विधीयते, किन्त्वनूद्यते। न चाप्राप्तं किञ्चिदनूद्यते ! विधीयते इतिचेन्न वाक्यभेदप्रसङ्गात्। विधानपक्षेखल्वनूद्य लक्षणं जातसम्वन्धस्तस्यविधातव्यः कृत्वेति च क्रम इति भिद्येत वाक्यम्। तस्मात् क्रमविधिरेवायं – ‘जातस्य लक्षणं कृत्वा’ - इत्येवमादिः। परस्परया वा जातसम्बन्धोलक्षणस्य वर्णनीय इति न किञ्चिदनुचितम्।
ननु “समूह्योपलिप्योल्लिख्योद्धृत्याभ्युक्षेदेष संस्कारोनुगतेऽग्नौभूयः”,—इति गृह्यान्तरे संस्कृताया अपि भूमेः पुनः संस्कारविधानादग्निसंस्कारोलक्षणमिति चेन्न, अनुगतेऽग्नौ संस्कारो भूयः’— इत्यभिधानात्। सोऽयमग्नौ स्थापयितव्ये संस्कारो भूमेर्न त्वग्नेरेव। शब्दप्रमाणकः खल्वयमर्थः - इत्यवोचाम। न च संस्कृतायामपि भूमावग्निप्रणयनाङ्गं लक्षणमनुचितं भवतीति ध्येयम्।
अथानुगतोविनष्टः- इत्यनर्थान्तरम्। अस्त्येतत्, किमतो भविष्यति? एतदतो भविष्यति;- स्थापितेऽग्नौ विनष्टे पुनरपि लक्षणं कृत्वा
तत्रैवान्योऽग्निः स्थापनीयः - इति। किमतोऽपि भवति? एतदतो भवति। यदि नामाग्निर्नष्टो न तावता संस्कृताऽपि भूमिरसंस्कृता भवितुमर्हति। येन भूयः संस्कारोऽर्थवान्। आम्नायते च संस्कारः। तस्मादनुमीयते, अग्नेरेवैष संस्कारः— इति। उच्यते। नैतदस्ति— अग्नेरेवैष संस्कारः—इति। कस्मात्? प्रमाणाभावात्। न खल्वस्ति प्रमाणम् – अग्नेरेष संस्कारः इति। नन्वेवमनुमीयते इत्युक्तम्। सत्यमुक्तम्। प्रमाणन्तु तत्र किमिति पृच्छामः।
पुनर्व्वचनमिति चेन्नाविशेषात्। इति चेद्भवान् पश्यति;- पुनर्व्वचनमेव प्रमाणमग्निसंस्कारोलक्षणमित्यत्र। अन्यथा खल्विदमनर्थकं स्यादित। तत्रोच्यते। नैतदस्ति – पुनर्व्वचनमग्निसंस्कारो-लक्षणमित्यस्मिन्नर्थे प्रमाणमिति। कस्मात्? अविशेषात्। विशेषाभावादित्यर्थः। किमनेनोक्तंभवति? एतदनेनोक्तंभवति, - भवेदपि पुनर्व्वचनं प्रमाणं नाम; यदि पुनरुच्यमानस्यास्य काचिदन्या वचनव्यक्तिःसम्भवेत्। न तु सम्भवति। कस्मात्? अविशेषादेव। यद्विधा वचनव्यक्तिरस्याग्न्यर्थतायां प्रमाणम्, तद्विधा खल्विहवचनव्यक्तिर्नास्ति। सकृदुच्चारितेऽप्यस्य यावानर्थः, शतकृत्वोऽप्युच्चारणे तावानेवार्थः प्रतीयते, न ततोऽधिक इति्। तदेवमत्यल्पमिदमुच्यते पुनर्व्वचनम् इति। पुनः पुनरपि वचनं नैतदवगमयितुमर्हति। तस्माद् भूमेरेवैष संस्कारःपुनराम्नायते नाग्नेरित्यवगम्यते। भूयः संस्कारवचनञ्चेवमाञ्जस्येनोपपत्स्यते इति। कथं नाम? भूयः पुनरिति खल्वेकोऽर्थः। तदनेनावगम्यते, – यत् किल पूर्वं संस्कृतं तदेव पुनरपि संस्क्रियते इति। अथेदानीमग्निः संस्क्रियते? तर्हि पूर्वं
भूमिरिदानीञ्चाग्निंः संस्क्रीयते इति विषयभेदात् भूयोवचनमसमञ्जसमापद्येत। न चैतदुचितम्।
अथापि स्यात् –अस्मादेव कारणात् पूर्व्वमप्यग्निरनेन संस्कृत इत्यनुमास्यामहे। ततो नैष दोषो भविष्यति इति। अत्रोच्यते। नाविमोक्षात्। न खल्वेवमपि दोषाव्दिमोक्षःसम्भवति। कस्मात्? अन्यत्वाविशेषात्। पूर्व्वमन्योऽग्निरिदानीञ्चान्योऽग्निः संस्क्रियते- इत्यभ्युपगच्छतोऽपि अन्यत्वाविशेषात् स एव दोषोऽनुवर्त्तते-इत्यविमोक्षोदोषादित्यर्थः। इतश्च। अप्रमाणत्वात्। न खल्वेवमनुमाने किञ्चिदपि प्रमाणमुपलभ्यते। सेयमप्रामाणिकी पुरुषबुद्ध्युत्प्रेक्षामूला कल्पना प्रेक्षावतामनपेक्षणीया भवति। अन्यथा चोपपत्तेः। भवेदपि कदाचिदियं कल्पना; यदि नामान्यथा शास्त्रमिदं नोपपद्येत, न तु नोपपद्यते। अन्यथा खल्वस्मदुक्तरीत्या शास्त्रमर्थवत्कथमप्रमाणमनुमानमनुगृण्हातीति शक्यमध्यवसातुम्। प्रमाणविरोधाच्च। प्रमाणेन च खल्वेषा कल्पना विरुध्यते। श्रुत्या तावल्लक्षणं भूमेरुपकारकं, प्रकरणाद्वाऽऽधानस्य, वाक्याद्वाप्रणयनस्येत्यवोचाम। तदिदमागमबाधितमनुमानमप्रमाणमित्यनादरणीयम्।
संस्कृताया भूमेः पुनः संस्कारोऽनर्थकः? - इति चेत् - काममनर्थको भवतु। नैवान्या वचनव्यक्तिः सम्भवति। अपि च। असंस्कृताया अपि भूमेः संस्कारे कमर्थं भवान् पश्यति? न खल्वत्रापि लक्षणेन भूमेर्दृष्टः कश्चिदुपकारः क्रियते! वचनबलाददृष्टमत्र किञ्चिदनुमास्यामहे? इति चेद्वयमपि वचनबलादेवादृष्टं किञ्चिदनुमास्यामहे।वचनबलात् खल्वेवं कुर्व्वाणाः किमित्युपालभ्येमहि - किमिति क्रियते? - इति। तस्मात् स्वतः शुद्धप्रदेशे गङ्गापुलिनादाविवात्रापि वचनबलादेव लक्षणं कर्त्तव्यम्। तस्माद् विनष्टेऽग्नौ पुनरन्यस्याग्नेःप्रणयनाङ्गतया प्राप्तं लक्षणं संस्कृतायामपिभुमौ कर्त्तव्यमिति न किञ्चिदनुचितम्। दर्शितञ्चास्माभिः, लक्षणेन सममग्नेःसम्बन्धो नास्ति, अस्ति च प्रणयनस्येति। “तस्मादग्न्यर्थाः परिसमूहनादयः” - इति कर्कभाष्यमप्रमाणम् “परिसमूह्योपलिप्यो लिख्योद्धृत्याभच्याग्निमुबभ्युपसमाधाय” - इति वचनाद्वरमग्निसमाधानार्था भवन्तु परिसमूहनादयः, न जातुचिदग्न्यर्थाभवितुमर्हन्ति।
प्रणाल्या लक्षणमग्न्यर्थमुच्यते चेदुच्यतां नाम।लक्षणं खल्वेतत् श्रुत्या भूमेः प्रकरणादाधानस्य वाक्याद्वाप्रणयनस्योपकरोतीत्यवोचाम। प्रणयनमाधानञ्च द्वयमपि श्रुत्याग्नेरुपकरोतीति पारम्पर्येणाग्न्यर्थतायां न विवादः। तदनेन प्रबन्धेन्तदप्यवगम्यते, - यदि स्वस्थानस्थित एवाग्नौकिञ्चित् हूयते, न तत्र लक्षणं कर्त्तव्यमिति।भट्टनारायणस्त्वाह – “यत्र यत्राग्निप्रणयनं क्रियते, तत्र तत्र भुवः संस्कारविधानात् भूसंस्कारः। अनुगतेऽग्नौ संस्कृताया अपि भूमेः पुनः संस्कारविधानात् अग्निसंस्कार इति। तथाच गृह्यान्तरम्। “समूह्योपलिप्योल्लिख्योद्धृत्याभ्युक्षेदेष संस्कारोऽनुगतेऽग्नौभूयः- इति। तस्माद्भयसंस्कारः इति सिद्धम्” इति॥१०॥*॥
भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति॥११॥
“शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्वुधः।
तस्याभावे भरावेण नवेनाभिमुखञ्च तम्”।
इति गृह्यासंग्रहवचनात् वक्ष्यमाणयोनिमग्निं कांस्यादिपात्रस्थं कृत्वा, ‘अभिमुखं’यथा भवत्यात्मन इत्यर्थात्, तथा, भूर्भुवः स्वरित्यनेन मन्त्रेण ‘प्रणयन्ति’ स्थापयन्ति रेखोपरीत्यर्थः। यत्पुनः-
“शरावे भिन्नपात्रे वा कपाले वोल्मुकेऽपि वा।
नाग्निप्रणयनं कुर्य्यायाधिहानिभयावहम्”।
इति स्मृत्यन्तरम्। तदुदाहृतगृह्यासंग्रहवचनविरोधात् राणायनीयकौथुमादिव्यतिरिक्तविषयम्। कांस्यादिपात्रसद्भावे शरावनिषेधकमिति राघवभट्टप्रभृतयः॥११॥
लक्षणादिकमभिधायाथेदानीमन्यानप्याधानकालानुपदिशति त्रिभिः सूत्रैः-
प्रेते वा गृहपतौ परमेष्ठिकरणम्॥१२॥
प्रेते इति कर्त्तरि निष्ठा। प्रकर्षेण इते गते - अस्माल्लोकादित्यर्थात्। मृत इत्येतत्। वाशब्दाद्वैकल्पिकोऽयमाधानकाल इति दर्शयति। गृहपतौगृहस्वामिनि। तथाच गौतमः। “भार्यादिरग्निर्दायादिर्वा” - इति। “दायायकाल एकेषाम्” - इति च गुह्यान्तरम्। परेते खलु गृहस्वामिनि दायसम्बन्धः पुत्राणामिष्यते। अतएव स्मर्यते।
“ऊर्द्धं पितुश्च मातुश्च समेत्य भ्रातरः समम्।
भजेरन् पैतृकं ऋक्थमनीशास्ते हि जीवतोः”।
इति।
“पितर्य्युपरते पुत्रा विभजेयुर्धनं पितुः।
अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते”।
इति चैवमादि। कर्कोपाध्यायास्त्लाहुः- ‘व्यवस्थितेऽयं विकल्पः अभ्रातृकस्य दारकालः, भ्रातृमतो दायायकालः’ - इति। तेषामयमाशयः। विभागमन्तरेण साधारणधनस्य परित्यागासम्भवादनधिकार एवाविभक्तानां धनसाध्येष्वाधानादिषु। अतो भ्रातृमतोविभागकाल एवाधिकारः। स एव कालोदायायकाल इत्युच्यते-इति। आचार्य्यस्तु ‘प्रेते वा गृहपतौ’- इति सूत्रयन्नैतदनुजानातीत्यवगम्यते। न चाविभक्तधनस्य कथं परित्यागसम्भव इति वाच्यं,खत्वस्य तथाप्यविशेषात्। निर्दोषे पितरि स्थिते पुत्राणामस्वाम्यम् इति स्मरन्मुनिः परेतेपितरि स्वाम्यमेषामनुमन्यते। नारदोऽपि स्मरति।-
“यद्येकजाता बहवः पृथग्धर्माःपृथक्क्रियाः।
पृथक्कर्म्मगुणोपेता न चेत् कार्येषु सम्मताः।
स्वभागानथ दद्युस्ते विक्रीणीयुरथापि वा।
कुर्य्युर्यथेष्टं तत् सर्व्वमीशास्ते स्वधनस्य वे”।
इति। परेते पितरि दायसम्बन्धात् स एव कालोदायायकाल इत्युच्यते इति न किञ्चिदनुचितम्। आचार्यपुत्रोऽप्यस्माद्भेदेनैव विभागकालयाधानकालत्वमाह। तथाच गुह्यासंग्रहः।
“आधानम्य तु चत्वार उक्ताः काला पृथक् पृथक्।
अन्त्या समिद्विवाहश्च विभागः परमेष्ठिनः”।
इति। परमेष्ठिन इत्यनेनैतत्सूत्रोक्तआधानकालोऽभिहितः।
तदेवं प्रेते गृहपतौ, ‘परमेष्ठिकरणम्’ परमे श्रेष्ठे स्थाने तिष्ठतीतिपरमेष्ठीअग्निरित्याचक्षते। तस्य परमेष्ठिनोऽग्नेः, करणम् - यथोक्तेनविधिना स्वीकरणम्, समाधानमित्येतत्। कर्त्तव्यमिति वाक्यशेषः।“तच्चैकादशेऽह्नि स्यात्, प्रागनधिकारात्”– इति भट्टभाष्यम्। कात्यायनस्तु -
“एतद्गृहपतौ प्रेते कुर्य्यादेकादशेऽहनि।
प्रागेवैकादशात् श्रद्धात् सद्यो जागरणादिकम्”।
इत्यभिधायाह-
“ज्येष्ठः कुर्य्यात्तथाऽऽधानं कनीयांश्च विवर्ज्जयेत्।
मैकादशेऽह्निकुर्वीत द्वादशे वा विचक्षणः”।
इति। तदत्र वृद्धिश्राद्धं न भवति। कस्मात्?
“न तत्पूर्व्वंयतः प्रोक्तः सपिण्डनविधिः क्वचित्।
वृद्धिश्राद्धस्य लोपः स्यादुभयोरपि पक्षयोः”।
इति कर्म्मप्रदीपदर्शनात्॥१२॥*॥
तथा तिथिनक्षत्रपर्व्वसमवाये॥ १३॥
तथति वैकल्पिकत्वं दर्शयति। नक्षत्रशब्दश्चैको लुप्नवत् द्रष्टव्यः। “नक्षत्रशब्दः काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते” - इति भट्टनारायणोपाध्यायाः। तिथिश्च नक्षत्रञ्च तिथिनक्षत्रे, नक्षत्रञ्च पर्व्व च नक्षत्रपर्व्वणी, तयोस्तयोश्च समवायस्तस्मिन्निति। तिथिः,पर्वेतिपुनः करणात् – “पौर्वापर्य्ये सति पूर्वदौर्बल्यम्”- इति च सिद्धान्तात् पर्वतरा शोभना ज्योतिःशास्त्रानुमता, नक्षत्रमपि
शोभनं ज्योतिःशास्त्रानुमतमेव। तयोस्तिथिनक्षत्रयोः समवाये संयोगे, “अग्निसमाधानं कुर्वीत” - इति सम्बध्यते।
तथा, नक्षत्रंमाससंज्ञानिमित्तं चित्रादिकम्, पर्व पौर्णमासम्, तयोः समवाये संयोगे, अग्निसमाधानं कुर्वीत। तथेत्यनुषज्यते वैकल्पिकत्वावेदकम्। तिथिनक्षत्रपर्वणां वा समवाये - युगपदसम्भवात्, तिथिनक्षत्रसमवाये, नक्षत्रपर्वसमवाये चेत्यर्थः।
अथ वा। तिथिनक्षत्रयोर्ज्योतिः शास्त्रोक्तयोः समवाये इति यथोक्त एवार्थः। नक्षत्रपर्वणोश्च “या वैशाखस्यामावस्या रोहिण्या सम्बध्यते, तस्यामादधीत” इति श्रुत्याधुक्तयोः समवाये इत्यर्थः। तदत्र, नक्षत्रशब्दस्यार्थद्वयम् - ज्योतिः शास्त्रोक्तं श्रुत्युक्तञ्च नक्षत्रम् प्रामाणिकमित्यादरणीयम्। तदिदमाधानकालद्वयम्, – यश्च तिथिनक्षत्रसमवायो, यश्च नक्षत्रपर्वसमवायः इति।
द्वयमप्यपरासूत्रयोजना भट्टभाष्ये दर्शिता - “तिथिना पौर्णमास्या यानिनक्षत्राणिसमाख्यायन्ते, तानि नक्षत्राणि मघादीनिद्वादश, तेषामन्यतमस्य पर्वणा पौर्णमासेनसमवायः संयोगस्तिथिनक्षत्रपर्वसमवायस्तस्मिन्” – इत्यन्तेन सन्दर्भेण। अस्मिंश्च नये, अनेन सूत्रेणैक एवाधानकालोऽभिहितः- इत्यवगन्तव्यम्॥१३॥*॥
दर्शे वा पौर्णमासे वाऽग्निसमाधानं कुर्वीत॥१४॥
दर्शोऽमावस्या सूर्येन्दुसङ्गम्इत्यनर्थान्तरम्। पौर्णमासः पौर्णमासीत्युच्यते। तदेतस्मिन् दर्शे वा पौर्णमासे वा; यस्मिन् कस्मिन्नपि - केवल एव - न तु नक्षत्रमप्यपेक्ष्य इत्यर्थः। अग्निसमाधानं
कुर्वीत। वाशब्दद्वयन्तुल्यवद्विकल्पार्थम्। नक्षत्रयोगापेक्षायां कालविलम्बो भवेदित्यविलम्बार्थं दर्शे वा पौर्णमासे वेत्याह। श्रेयस्यविलम्बो ह्यनुमतः प्रामाणिकानाम्। श्रूयते हि। “न श्वः समुपासीत को हि मनुष्यस्य श्वोवेद” – इति। स्मरन्ति च।
“श्वःकार्य्यमद्य कर्त्तव्यं पूर्वाह्णेचापराह्णिकम्।
न हि प्रतीक्षतेमृत्युः कृतं वाऽस्य न वा कृतम्”।
इति। समेत्य - आधानं समाधानम्। समेत्य - मिलित्वा। केन?
“नैकयाऽपि विना कार्य्यमाधानं भार्य्यया द्विजैः।
अकृतं तद्विजानीयात् सर्वा नान्वारभन्ति यत्”।
इति कर्म्मप्रदीपवाक्यात् - भार्य्ययेति वाक्यशेषः। अग्नेः समाधानम्,—‘अग्निसमाधानम्’। अत्र च, कया भार्य्यया कथम्भूतया च मेलनम्, कया च न, -इत्येतत् सर्व्वमप्याह कात्यायनः।
“वर्णज्येष्ठ्येन बह्नीभिः सवर्णाभिश्चजन्मतः।
कार्य्यमग्निच्युतेराभिः साध्वीभिर्मथनं पृथक्।
नात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम्।
नाशासनस्यां नान्येन पुंसा च सह सङ्गताम्।
ततः शक्तिवरा पश्चादासामन्यतमेव या।
उपेतानाञ्चान्यतमा मन्थेदग्निं निकामतः”।
इति। इदञ्चाधानमनग्नावग्रजे सति न कर्त्तव्यम्, – कर्त्तव्यञ्चानग्नावप्यग्रजे क्लीबादौ सत्यपि, निर्दोषेऽपि तस्मिंस्तदनुमत्या, इत्यप्याह स एव।
“आधानकाला ये उक्तास्तथा याश्चाग्नियोनयः।
तदाश्रित्याग्निमादध्यादग्निमानग्रजो यदि।
दाराधिगमनाधाने यः कुर्य्यादग्रजाग्रिमः।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्व्वजः।
परिवित्तिः परिवेत्ता च नरकं गच्छतो ध्रुवम्।
अचीर्णप्रायश्चित्तौ तौ पादोनफलभागिनौ।
देशान्तरस्थक्लीबैकवृषणानसहोदरान्।
वेश्याऽतिसक्तपतितशूद्रतुल्यातिरोगिणः।
जड़मूकान्धवधिरकुब्जवामनकुण्ठकान्।
अतिवृद्धानभार्य्यांश्च कृषिसक्तान्नृपस्य च।
धनवृद्धिप्रसक्तांश्चकामतः कारिणस्तथा।
कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति।
धनवार्द्धषिकं राजसेवकं कर्षकं तथा।
प्रोषितञ्च प्रतीक्षेत वर्षत्रयमपि त्वरन्।
प्रोषितं यद्यगृण्वानमन्दादूर्द्धं समाचरेत्।
आगते च पुनस्तस्मिन् पादं तच्छुद्धये चरेत्”।
इति।
“अग्रजः स्याद्यदाऽनग्निरधिकार्य्यनुजः कथम्?
अग्रजानुमतः कुर्य्यादग्निहोत्रं यथाविधि”।
इति।
“ज्येष्ठोभ्राता यदा तिष्ठेदाधानं नैव कारयेत्।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा
नाग्नयः परिविन्दन्ति न वेदा न तपांसि च।
दारेण पारिविन्द्यं स्यात् पृथग्धर्मा हि ब्राह्मणाः।
नामयः परिविन्दन्ति न यज्ञा न तपांसि च।
न च श्राद्धं कनिष्ठस्य या च कन्या विरूपिका”।
इति च। पितरि चानग्नावपि पुत्रस्याधानाधिकारी न व्याहन्यते। तदप्याह म एव।
“पितुर्यस्य च नाधानं कथं पुत्रस्तु कारयेत्?
अग्निहोत्राधिकारोऽस्ति शङ्खस्य वचनं यथा”।
इति। आधानपरिपाटीचाचार्यैरनुक्ताऽपि -
“परिधायाहतं वासः प्रावृत्त्य च यथाविधि”।
इत्येवमादिकर्म्मप्रदीपवचनेभ्य एवावगन्तव्या। न त्वध्वर्युभ्योग्रहीतव्या।परोक्तत्वात्। प्रक्रियैव खल्वमावस्माकमिति॥१४॥*॥
उक्ता आधानकालाः। अथेदानीमग्नियोनयोवक्तव्याः। तास्त्रिभिः सूत्रैरभिधीयन्ते।
वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याभ्यादध्यात्॥१५॥
वैश्यस्तृतीयोवर्णः शुद्ध एवाभिमतः। तस्यास्य वैश्यस्य कुलात् गृहात्, वा, अम्बरीषात्; भ्राष्ट्रात् - यवादिभर्ज्जनपात्रात्, वा, अग्निमाहृत्य आनीय, अभ्यादध्यात् अभिसर्वतोभावेनादध्यादित्यर्थः। व्याख्यातौ वाशब्दौ। स स खल्वयमग्निर्हुतोच्छिष्टः संस्कृतो वा गृह्यतेऽविशेषादिति कर्कोपाध्यायाः॥१५॥*॥
अपि वा बहुयाजिन एवागाराद्व्राह्मणस्य वा, राजन्यस्य वा, वैश्यस्य वा॥१६॥
अपि वा— इत्यम्बरीषात् पक्षान्तरमुपदिशति। बहुभिः सोमैर्येनेष्टं स बहुयाजीत्याचक्षते। तस्यामुष्य बहुयाजिन एव। एवकारस्तदितरं व्यवच्छिनत्ति। ‘अगारात्’ गृहात्। ‘अग्निमाहत्याभ्यादध्यात्’ - इति सम्बध्यते। कस्य बहुयाजिनः?- इत्येतदाह। ‘ब्राह्मणस्य वा’ ‘राजन्यस्य’ – क्षत्रियस्य ‘वा’, ‘वैश्यस्य वा’। वाशब्दत्रयन्तुल्यव द्विकल्पार्थम्। वैश्यकुलात्- इति सामान्यतोऽभिहितं, तमेव वैश्यमिदानींबहुयाजितया विशिशिक्षुराचार्य्यः पुनर्वैश्य-ग्रहणञ्चकार। नात्र पुनरुक्तिः शङ्कनीया; - सामान्यप्राप्तस्य पुनर्विशेषकथनं खल्बपुनरुक्तमेवेत्याहुः। भवतु वा पुनरुक्तिराग्नेयद्विरुक्तिवदादरार्था। पुनरुक्तिः खल्वाचार्य्यस्यानुमतैवेति नैवात्र किमपि चोदनीयं भवति। तथाच गृह्यासंग्रहः।
“पुनरुक्तमतिक्रान्तं यच्च सिंहावलोकितम्।
गौभिले ये न गृहन्ति न ते ज्ञास्यन्ति गौभिलम्”।
इति।–अन्यैवाग्नियोनिर्वैश्यकुलमबहुयाजित्वेऽपीत्येवमर्थं पूर्व्वत्र वैश्यकुलग्रहणमित्यप्याहुः॥१६॥*॥
अपिवाऽन्यं1 मथित्वाऽभ्याध्यात्॥१७॥
अपि वा, - अथवा। अन्यम्-
“अश्वत्थोयः शमीगर्भः प्रशस्तोर्वीसमुद्भवः।
तस्य या प्राङ्मुखीशाखा वोदीची वोर्द्धगाऽपि वा”।
इत्येवमादिकर्म्मप्रदीपोक्तंमन्थनयन्त्रम् - (पुंस्त्वं छान्दसम् )—अरणिं वा।
“परिधायाहतं वासः प्रावृत्य च यथाविधि।
बिभृयात् प्राङ्मुखोयन्त्रमावृता वक्ष्यमाणया”।
इत्येवमादिकया कर्मप्रदीपोक्तयैवावृता मथित्वा, अभ्यादध्यादग्निमिति वाक्यशेषः। मथित्वा अरणिं, अन्यम्— परिकीर्त्तिता–दपरमग्निमारणेयमिति वाऽर्थः। ‘अरणिप्रदानमेके”—इति। “आरणेयमुरुपुण्यकोषकामः” - इति च गृह्यान्तरदर्शनात्॥१७॥*॥
पुण्यस्त्वेवानर्द्धकोभवतीति॥१८॥
पुण्यः, पुण्यजनक एव, प्रकृतत्वादयमारणेयोऽग्निर्भववि। न तु ऋद्धिजनकोऽपीत्याह–अनर्द्धुकः, इति। ऋद्धिरिति ब्रह्मवर्च्चसादिकमुच्यते। तामृद्धिं न जनयतीत्यनर्द्धुकः। तुशब्दो वैशेष्यमवगमयत्यारणेयस्य।ब्राह्मणकुलादियोनयः खल्वग्नयो जनयन्तिब्रह्मवर्च्चमादिकम्, अयन्त्वारणयोन तथेत्यनर्द्धुक इत्याह। तथा च गृह्यान्तरम्। “ब्राह्मणकुलाद्ब्रह्मवर्च्चमकामोऽग्निमाहत्यादधीत, राजन्यादोजोवीर्य्यकामः, वैश्यात् पुत्रपशुकामः, अम्बरीषाद्धनधान्यकामः, आरणेयमुरुपुण्यकोषकामः” इति। कथन्तह्यारणेयोऽग्निर्विशिष्यतेऽनर्द्धुकत्वात्। नैष दोषः। उरुपुण्यकोषकारित्वादारणेयस्य उरुपुण्यकोषकारी खल्वारणेय एव भवतीति स एव विशिष्यते। स खल्वारणेयोऽग्निरुरुपुण्यकोषं कुर्व्वाणस्तेनैव ब्रह्मवर्च्चसादिकमपि कर्त्तुमर्हति। तदधीनत्वात्तेषाम्। अत एव स्मर्य्यते।
“न हि पुण्यकृतः किञ्चित्रिषु लोकेषु दुर्लभम्
दुष्प्रापमपि येनाप्तं ब्राह्मण्यं गाधिसूनुना”।
इति। स्वाधीना चेयमन्या योनिः पराधीना चान्या।दैवाच्चपुनराधातव्येऽग्नौपूर्व्वैवयोनिराश्रयितव्या भवति।
“पूर्वैव योनिः पूर्व्वाऽऽवृत्पुनराधानकर्मणि”।
इति कात्यायनस्मरणात्। “पूर्वैवानुगतेऽग्नौ योनिः”—इति चगृह्यान्तरम्। तत्र च स्वाधीनत्वादेवान्त्ययोनिः सुलभा भवति। पराधीनानाञ्च योनीनां सुतरां दुर्लभत्वमिति पराधीनां पूर्वांयोनिमलभमानः पुनराधाता प्रत्यवेयादिति चारणेयोविशिष्यते। इतरेऽपि खल्वग्नयः कर्म्मणैवाधानेन ऋद्धिसाधनमित्ययमारणेयोऽपि काम्यैः स्वनिष्ठऋद्धिसाधनहोमैः शक्नोति प्रणाल्या ऋद्धिं साधयितुमित्यदोषः। अत एव कर्म्मप्रदीपे स्मरति भगवान् कात्यायनः।
“पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते।
अनर्द्धकत्वं यत्तस्य काम्यैस्तम्नीयते शमम्”।
इति। इतिरेतावत्य एवाग्नियोनय इति दर्शयति॥१८॥*॥
यथाकामयेत, तथा कुर्य्यात्॥१९॥
सत्स्वेतेषु आधानकालेषु, - सतीषु चैतास्वग्नियोनिषु। यथाकामयेतेच्छेदाधानकर्त्ता, तथा कुर्य्यादाधानमिति वाक्यशेषः॥१९॥*॥
स, यदेवान्त्यां समिधमभ्यादधाति, जायाया वापाणिं जिघृक्षन् जुहोति, तमभिसंयच्छेत्॥२०॥
स यथोक्तः कर्त्ता, यदेव यस्मिन्नेवाग्नौ। एवकारादितिकर्त्तव्यतान्तरव्यवच्छेदः। ‘अन्त्यांसमिधमभ्यादधाति’ - यस्मिन्नेव वा ‘जायायाः पाणिं जिघृक्षन् जुहोति’ - लाजादिकमर्थात्; तमग्निमभिसंयच्छेत् आभिमुख्येन धारयेत्, रक्षेदित्येतत्।
अथैवमुत्तरसूत्रे ‘सएव’ - इत्यस्यैवाग्नेः परामर्शात् ‘प्रेते वागृहपतौ’ – इत्यादिकालाहितानामग्नीनांगृह्यत्वं न प्राप्नोति? नैष दोषः। यतः प्राधान्यात् खल्वाचार्य्यः ‘सएव’ इत्याह। तत एवारभ्य खल्वसौ ग्रहस्थोभवति। अन्यस्याप्यनगृह्यत्वं वास्तवमिति न शक्यं निवारयितुम्। स्मार्त्तः खल्वग्निरेवमभिधीयते।
परतरेण वा सूत्रेणैतत्संभंत्स्यते। कथं कृत्वा? यदेवान्त्यांसमिधमभ्यादधाति, यदेव च जायायाः पाणिं जिघृक्षन् जुहोति, तं होममभिसंयच्छेत् - अभिमुख्येन सम्यक् कुर्य्यात्, तेन चैव होमेनास्य प्रातराहुतिर्हुता भवतीति। सोऽयमित्थं परतरेणास्याभिसंबन्धः। अस्याञ्च वर्णनायामुत्तरसूत्रे’सएव’ - इति पूर्व्वप्रकृतः सर्वोऽप्यग्निः परामर्ष्टव्यो भवति। कथं पुनरतिक्रम्य परसूत्रं परतरेण सूत्रेण संभंत्स्यते? “पानव्यापच्च तद्वत्” - दत्यादिवत्प्रतिक्रान्तसंबन्धस्याचार्य्यानुमतत्वादित्याह। कथं ज्ञायते?
“पुनरुक्तमतिक्रान्तं यच्च सिंहावलोकितम्।
गौभिले ये न गृह्यन्ति न ते ज्ञास्यन्ति गौभिलम्”।
इति - गृह्यासङ्गहवचनात्। उत्तरसूत्रएव वा ‘सएव’ - इति व्यवहितोऽपि सर्व्वोऽग्निः परामृश्यतामिति न किञ्चिदनुचितम्॥२०॥*॥
स एवास्य गृह्योऽग्निर्भवति॥२१॥
सयथोक्त एव न पुनरन्य इत्यन्यस्मिन्नग्नावस्य होमप्रतिषेधो गृह्याग्निसम्पाद्यकर्मस्वन्याहिते गृह्येऽपीति विज्ञायते। ‘अस्य’-आधातुः गृह्यो गृहार्थो गृह्यनामा वाऽग्निर्भवति। सोऽयमग्निरस्याधातुरेव गृह्यो भवति न पुनरन्यस्य इति वा सूत्रार्थः। तदेतत् सर्व्वमाह कात्यायनः।
“न ह्याहिताग्नेः स्वं कर्म्म लौकिकेऽसौ विधीयते”।
इति।
“यस्याग्नावन्यहोमः स्यात् स वैश्वानरदैवतम्।
चरुं निरूप्य जुहुयात् प्रायश्चित्तन्तु तस्य तत्”।
इति।
“परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम्”
इति चैवमादि। अस्य चापवादः पुरस्तादेवोक्तः ब्रह्मचारी वेदमधीत्यान्त्यांसमिधमभ्याधास्यन्नित्यत्र॥२१॥०॥
तेन चैवास्य प्रातराहुतिर्हुता भवतीति॥२२॥
तेनान्यसमिदाधानेनैव, न त्वन्येन।‘पाणि जिघृक्षन्’ इत्येतस्मिंश्च कल्पे, तेनैव लाजादिहोमेनेत्येतत्। चस्त्वर्थः,
“वैवाहिकेऽग्नौ कुर्वीत सायम्प्रातस्त्वतन्द्रितः।
चतुर्थीकर्म्म कृत्वैतदेतच्छाय्यायनेर्मतम्”।
इत्यस्मादपरोऽयं कल्पः -इति दर्शयति। चैवेति वा निपातसमुदायः। गृह्यपरिभाषाकद्भिरप्युक्तम्- “यदा अह्निविवाहहोमः,
तदा सायङ्काले होमारम्भः। यदा रात्रौ विवाहहोमः, तदा उत्तरेछुः सायङ्काले होमारम्भः”– इति।
“यस्मिन्नह्निविवाहः स्यात् सायमारभ्य तस्य तु।
परिचर्य्यांविवाहाग्नेर्विदधीत स्वयं द्विजः।
यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति।
उत्पन्नस्योत्तरस्याह्नः सायं परिचरेदमुम्”।
इति च स्मृत्यन्तरम्।—“पाणिग्रहणादि गृह्यं परिचरेत्” इति च गृह्यान्तरम्। अस्याग्नेराधातुर्वा प्रातराहुतिर्हुता भवति। इतिराधानप्रकरणपरिसमाप्तिं द्योतयति॥२२॥०॥
सायमाहुत्यपक्रम एवात ऊर्ध्वंगृह्येऽग्नौहोमोविधीयते॥२३॥
सायं हूयते इति सायमाहुतिः, सायमाहुत्या उपक्रम्यते आरभ्यंते यः, सोऽयं सायमाहुत्युपक्रमः।केषाञ्चिच्छाखिनामग्निहोत्रं यथा प्रातराहुत्या प्रातरारभ्यते, सायमाहुत्या च निस्तिष्ठते, न तथा कौथुमराणायनीयादीनामित्येतदेवकारेण दर्शयत्याचार्य्यः। तदत्र सायमाहुत्युपक्रमं प्रातराहुत्यन्तमेकमिदं कर्मेतिविज्ञायते। तदाह कात्यायनः।
“सायमादि प्रातरन्तमेकं कर्म प्रचक्षते”।
इति। ततश्च येनैव हविषा—कृतेन वाऽकृतेन वा, दध्नावा पयसावा, सायं होमः कृतः, तेनैव प्रातर्होमोऽपि समापनीयः।
अपचारे स्वल्पकृतस्य कृतस्य वोपात्तस्य हविषस्तदनुकारिणाऽपरेणै हविषा प्रातर्होमःकर्त्तव्यो न पुनर्वैकल्पिकं मुख्यमपि हविरुपादेयम्। “सामान्यं तच्चिकीर्षा हि” – इति, “निर्देशात्तु विकल्पेयत् प्रवृत्तम्”– इति च सिद्धान्तात्। कर्मप्रदीपे कात्यायनोऽप्याह।
“यथोक्तवस्त्वसमाप्तौ ग्राह्यं तदनुकारि यत्।
यवानामिव गोधूमा व्रीहीणमिव शालयः”।
इति। अपवर्गविहितमप्यभिरूपभोजनम् प्रातराहुत्यनन्तरमेवेत्यवगन्तव्यम्। सोऽयं सायमाहुत्युपक्रम एव - ‘अतः’ अस्मादाधानकालात्, ‘ऊर्द्धे’– परतो, ‘गृह्योऽग्नौ’ यथोक्ते, हुयते इति ‘होमः- “तद्युक्ते श्रवणात् जुहोतिरासेचनाधिकः स्यात्”–इत्युक्त-लक्षणः, ‘विधीयते’ क्रियते। अत्र विशेषमाह गृह्यासंग्रहः।
“परमेष्ठीविभक्तश्च जुहयादक्षतान् सकृत्।
प्रातस्तूष्णीं घृतंवाऽपि प्रातराहुत्युपक्रमः”।
इति॥२३॥*॥
पुरा प्रादुष्करणवेलायाः सायं प्रातरनुगुप्ता अप-आहरेत् परिचरणीयाः॥२४॥
‘पुरा’ पूर्व्वम्। कस्मात्? ‘प्रादुष्करणवेलायाः’-“पुराऽस्तमयादग्निं प्रादुष्कृत्य” – इत्यादिना वक्ष्यमाणायाः। ‘सायं प्रातः’- चशब्दः समुच्चयार्थोलुप्तवद् द्रष्टव्यः। सायं प्रातश्चेत्यर्थः। ‘अनुगुप्ता अप आहरेत्’। कृतभाष्यमेतत्। ‘परिचरणीयाः’ परिचर्य्यन्ते निर्व्वाह्यन्ते आचमनादीनि याभिरिति- “कृत्यल्युटोबहुलम्” इति वचनादनीयः करणे वेदितव्यः। याभिरद्भिराचमनपर्य्युक्षणादि परिचर्य्यते; ता इमाः परिचरणीया अपः, इति सम्बन्धः॥२४॥*॥
अपि वा सायम्॥२५॥
‘अपि वा’ अथवा। ‘सायं’ (पूर्वज्ञाप्येतदुपादानात्) सायमेव। ‘अपहरेत् परिचरणीयाः’ - इति संबध्यते। मायमाहृताभिरेवाद्भिः सायं प्रातश्च परिचरेदित्यर्थः॥२५॥
अपि वा कुम्भाडा मणिकादा गृह्णीयात्॥ २६॥
अपि वेत्याहरे दित्यपेक्षया विकल्पार्थः। अपि वा गृह्णेयादिति। कुम्भात् घटात् वा, मणिरेव मणिकः - तस्मान्मणिकादलिञ्चरात्, महतोजलभाण्डात् वा। वाशब्दद्वयं तुल्यवदनयोर्विकल्पार्थम्। ‘गृह्णीयात्’–प्रकृतत्वा दपः परिचरणीयाः। “निर्निक्तकरचरणमुखीपत्नी शिष्यो वाऽऽचम्य, कुम्भादेव अप उद्धृत्य दद्यात् ताभिः परिचरेत्” - इति भट्टभाष्यम्॥२६॥*॥
पुराऽस्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिं जुहुयात्॥२७॥
पुरा, पूर्वस्मिन् काले। कस्मात्? ‘अस्तमयात्’, सवितुरर्थात्। कात्यायनोऽप्याह।
“सूर्य्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिरथाऽङ्गुलैः।
प्रादुष्करणमग्नीनां प्रातर्भासाञ्च दर्शनात्”।
इति। तस्मिन्नेतस्मिन् काले। ‘अग्निं’ आहितं, ‘प्रादुष्कृत्य’ प्रकटीकृत्य, प्रज्वाल्येत्येतत्। ‘अस्तमिते’ – सवितरि।
“यावत् सम्यङ् न भास्यन्ते नभस्यृक्षाणि सर्व्वतः।
न च लौहित्यमापैति तावत् सायञ्च हूयते”।
इति कर्म्मप्रदीपपरिदर्शिते काले। ‘सायमाहुतिं’ ‘जुहुयात्’॥२७॥*॥
पुरोदयात् प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिं जुहुयात्॥ २८॥
‘पुरा’ - ‘उदयात्’, सवितुः। तमिमं सामान्येनाभिहितं कालं विशिनष्टि ‘प्रातर्’ - इति।
“चतस्रोघटिकाप्रातररुणोदय उच्चते"।
इति स्मृत्युक्तलक्षणे—इत्यर्थः। अतएव कात्यायनोऽपि –“प्रातर्भासाञ्च दर्शनात्” - इत्याह। तस्मिन्नेव खलु काले प्राची दिगरुणकिरणारुणीकृत सम्पद्यते। तदेतस्मिन् काले - ‘प्रादुष्कृत्य’ - प्रक्रान्तत्वादग्निम्। ‘उदिते’ – उद्गते रवौ।
“हस्तादूद्धं रविर्यावद्गिरिं हिला न गच्छति।
तावद्धोमविधिः पुण्यो नान्योऽभ्युदितहोमिनाम्”।
इति कर्म्मप्रदोपस्पष्टीकृतकाले इत्येतत्। अत्र, “अभ्युदित - इति अभिशब्दस्य सर्व्वतोभावार्थस्योपादानात् सम्पूर्णसूर्य्यमण्डलदर्शने उदितहोमो न त्वद्धोदितादावित्यवगन्तव्यम्”– इति परिशिष्टप्रकाशः। मैवम्। ऐदमर्थ्यानियमात्। न खल्वत्राभेरिदमर्थत्वे
किञ्चिन्नियामकमवगम्यते। अनेकार्थाः स्वल्वेवमादयः शब्दा लोके बहुलमुपलभ्यन्ते, तान्त्रिकैश्चानुमन्यन्ते। उपादानस्य चान्यार्थत्वात्। अत्रखल्वभ्युदितहोमिनामित्येतदन्यार्थमुपादीयते। किमर्थम्? तदुच्यते। तावदेव होमकालः पुण्योन पुनरन्य इत्येतत् खल्विह विधित्मितम्। तस्मात्तदर्थमिदमुपादानं नान्यद्विदधाति। यदि पुनरन्यदपि प्रतिपिपादयिषितमिहाभ्युपगम्यते, तर्ह्यर्थभेदाद्वाक्यं भिद्येत! अन्या खल्वस्य वाक्यस्य वचनव्यक्तिरनूद्यमानस्य, अन्यैव विधीयमानस्य। तस्मात् प्राप्तिरहितमन्यार्थमुपादानमिदमसाधकमस्या र्थस्य–सम्पूर्णसूर्य्यमण्डलदर्शने उदितहोमः – इति।
तस्माद् यावदादित्योगिरिं हित्वा हस्तादूर्द्धंन गच्छति, उदितहोमिनां तावदेव होमकालः पुष्योन पुनरितोऽप्यधिकं गच्छति, इत्यमुमर्थं सूचयितुं कात्यायनोऽभ्युदितहोमिनामित्याह। स खल्वयम्, उदितहोमिनां नान्यः कालः - इति वक्तव्येऽन्यस्य कालस्यात्यन्तमननुज्ञानार्थमभ्युदितहोमिना मित्याह। कथन्नाम?ये तावदभ्युदितहोमिनस्तेषामपि यदा यावदादित्योहस्तादुईं न गच्छति तावानेव होमकालो न परस्तादपि, तदा किमु वक्तव्यमुदितहोमिनाम् – इति। सोऽयमभिशब्दोऽस्यार्थस्योपोद्बलको भवति। स खल्वयमभ्युदित होमोऽमन्नप्येवमर्थसिद्धवन्त्रिर्दिश्यते। सन्नेव वाऽनूद्यते। उदितहोमिन एव वा एवं निर्दिश्यन्ते - इति न किञ्चिदनुचितम्। तथाचोक्तम्।
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते।
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा”।
इति। अतएवाचार्य्यपुत्रेण रविविम्बस्य रेखामात्रदर्शन एवोदितहोमः कर्त्तव्यतयोपदिष्टः। तथा च गृह्यासंग्रहः।
“उदितेऽनुदिते चैव समयाध्युषिते तथा।
सर्व्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः।
रात्रेः षोड़शमे भागे ग्रहनक्षत्रभूषिते।
अनुदयं विजानीयाद्धोमं तत्र प्रकल्पयेत्।
ततः प्रभातसमये नष्टे नक्षत्रमण्डले।
रविविम्बं न दृश्येत समयाध्यषितं स्मृतम्।
रेखामात्रन्तु दृश्येत रश्मिभिश्च समन्वितम्।
उदयं तं विजानीयाद्धोमं कुर्य्याद्विचक्षणः”।
इति। स खल्वयमाचार्य्यपुत्रः “उदिते जुहोति अनुदिते जुहोति समयाध्युषिते जुहोति” इति श्रुतिमनुसरन् प्रातर्होमस्य कालत्रयमुक्तवान्। आचार्येण तु समयाध्युषितकालस्यानुदित काल एवान्तर्भावं पश्यता कालद्वयमुक्तम्। अतोनानयोः पितापुत्रवचसो विरोधः शङ्कनीयः। एवञ्चास्माकमुदितहोमो यदा रश्मिसमन्वितं रविविम्वं रेखामात्रं दृश्यते तदैवोपक्रम्य रविरुदयगिरिं हित्वा यावद्धस्तादूर्ध्वंन गच्छति, तावति काले समापनीय इत्याचार्यपुत्रकात्यायनवचनाभ्यां सिध्यतीतिपरिशिष्टप्रकाशव्याख्यानमम्म च्छास्त्रविरुद्धमेवेति सुधीभिरवधेयम्। पांशतुषारादिभिरन्तरिते रवौ यत् कर्त्तव्यं, तदप्याह कात्यायनः।
“रजोनीहारधूमाभुवृक्षाग्रान्तरिते रवौ।
सन्ध्यामुद्दिश्य जुहुयात् व्रतमस्य न लुप्यते”।
इति। ‘अनुदिते’ – उदयमप्राप्ते, ‘वा’, रवौ, ‘प्रातराहुतिं’ ‘जुहुयात्’। वाशब्दादुदितानुदितहोमयोवैकल्पिकत्वं दर्शयति। एकश्चात्र वाशब्दः श्रूयते–अनुदिते वा - इति। सोऽयमनुदितहोमोनोदितहोमेन तुल्यवद्विकल्प्यते। कस्मात्? वाशब्दद्वयाश्रवणात्। न खलु’दर्शे वा पौर्णमासे वा - इत्येवमादिवदिह तथात्वावबोधकं वाशब्दाददयमस्त। स खल्वयमुदितहोमोऽन्यस्मात् प्रशस्यते राणयनीयकौथुमादीनामि त्यवगम्यते।
यश्चानुदिते जुहोति, स चेन्न शक्नोत्यनुदिते होतुं; जातु चित्कुतश्चित् प्रतिबन्धात्, – प्रतिपात एवास्थ प्रातराजतेर्भवति, न शक्तोऽप्युदिते जुहुयात्। कस्मात्? ‘उदितेऽनुदिते वा’ - इति विकल्पश्रवणात्। विकल्पे च नोभयः शास्त्रार्थः - इति तन्त्रस्थितिः। श्रुतिश्चास्यामेव दशायामुदितहोमं निन्दति। “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति” - इति। “यथाऽतिथये प्रद्रुताथानमाहरेयुस्तादृक् तत्, यदि उदिते जुकति”–इति चैत्रमादिका।नाह च भगवानचपादः–“अभ्युपेत्य कालभेदे दोषवचनात्” इति। जैमिनिरपि – “प्रक्रमाद्वा नियोगेन" - इति। यस्य च प्रातराहुतेरतिपातो भवति, स प्रायश्चित्तं कृत्वा गौणकाले तां जुहुयात्॥२८॥*॥
इतिमहामहोपाध्यायराधाकान्तसिद्धान्तवागौशभट्टाचार्थ्यात्मज श्रीचन्द्रकान्ततर्कालङ्कारभट्टाचार्य्यस्यकृतौ गोभिलीयगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य प्रथमः खण्डः॥०॥
————
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके द्वितीयः खण्डः।
यज्ञोपवीतमाचमनञ्च खल्वङ्गं कर्मणामित्येतदवगतं- ‘यज्ञोपवीतिनाऽऽचान्तोदकेन कृत्यम्’ इत्यत्र। अथेदानींतदुभयमपि क्रमेण व्याचिख्यासुः शिष्यानुजिघृक्षया, यज्ञोपवीतन्तावदा।
यज्ञोपवीतं कुरुते सूत्रंवस्त्रं वाऽपि वा कुशरज्जुमेव॥१॥
यज्ञोपवीतं कुरुते, कुर्वीत– धारयेदित्येत्। विध्यर्थे लट्। कीदृशान्तात्? - इत्याह – ‘सूत्रम्’ सूत्रनिर्मितम्।
“यज्ञोपवीतं कुर्वीत सूत्रेण नवतान्तबम्”।
इति।
“त्रिवृदूर्द्धवृतं कार्यं तन्तुत्रयमधोवृतम्।
त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते"।
इति च गृह्यसंग्रहकर्मप्रदीपोक्तलक्षणमित्यर्थः। अत्र च-
“पृष्ठवंशे च नाभ्याञ्चधृतं यद्विन्दते कटिम।
तद्धार्य्यमुपवीतं स्यानातोलम्बं न चोच्छ्रितम्”।
इति कर्मप्रदोपवचनात्।
“गोभिर्बालपवित्रण धार्य्यमाणेन नत्यशः।
न स्पृशन्तीह पापानि श्रियं गात्रेषु तिष्ठति”।
तथा,
“स्तनादूर्द्धमधोनाभेर्न कर्त्तव्यं कथञ्चन।
स्तनादू श्रियं हन्ति नाभ्यधस्ताद्धनचयः”॥
इति गृह्यसंग्रहवचनात्।
“कार्पासमुपवीतं स्याद्धिप्रस्योर्द्धवृतं त्रिवृत्।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”॥
इत्येवमादि स्मृत्यन्तरेभ्यश्च विशेषोऽवगन्तव्यः। मुख्यश्चायं पक्षः, दूर वाशब्दाभावात् उत्तरत्र च वाशब्दाम्नानात् - इति भट्टनारायणप्रभृतयः। यच्च - “वाससायज्ञोपवीतानि कुरुते, तदभावे त्रिवृतासूत्रेण इति निगमपरिशिष्टवाक्यम्। तत्र यज्ञोपवीतपदमुत्तरीयंतद्भूर्भविन्यासविशेषलाभार्थम्। यथा “उपमद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोति” - इति कौण्डपायिनामयनेऽग्निहोत्रपदमग्निहोत्रधर्मप्राप्त्यर्थं गौणम्। एवमिहापीत्य दोषः। एवं बहूनि वचनान्याञ्जस्येनोपपत्स्यन्ते। अन्यथा अस्मादेव वाक्यात्तानि वस्त्रालाभविषयाणि वक्तव्या नि। न चैतदुचितम् ! कस्मात्?
“विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम्”।
इति स्मरणात्। अतएव स्मर्य्यते।
“यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः।
तथा सन्धार्य्यतेयत्नादुत्तराच्छादनं परम्॥
इति।
“यज्ञोपवीते द्वे धार्य्येश्रौतस्मार्त्तेषु कर्मसु।
तृतीयञ्चोत्तरीयार्थं वस्त्रालाभे तदिष्यते”॥
इति चैवमादि। परिशिष्टप्रकाशेऽप्युक्तम्-“यज्ञोपवीतानीत्युत्तरौये गौणं तर्भविन्यास विशेषप्राप्त्यर्थम्” – इति। अथवा। अस्माकं सूत्रं मुख्यं वस्त्रमनुकल्पः, वैपरीत्यमन्येषामित्यदोषः।
‘वस्त्रं वा’ – अरण्यादावुपवौतनाशे सूत्रलाभासम्भवात्, यज्ञोपवीतं कुरुते। अन्यथा व्युपवीतस्य मेहनादावनर्थः स्यात्।
“पिवतोमेहतश्चापि भुजतोऽनुपवीतिनः।
प्राणायामत्रिकं षट्कं नवकञ्च यथाक्रमम्”।
इति स्मरणात्। न खलु समुद्भूतवेगानाममोषां विसर्गे क्षणमपि विलम्बः सम्भवति, वेगप्रतिघात प्रतिषेधाच्च,-दृत्यन्यदेतत्।
‘अपि वा ’ - अथवा – (चौरादिभिर्वस्त्रस्याप्यपहारेऽरण्यादौ ) ‘कुशरज्जुमेव’ यज्ञोपवीतं कुरुते। एव -शब्दोयज्ञोपवीतकरणं नियमति। कर्णाङ्गमेव यज्ञोपवीतं मन्यमानः, तस्मादन्यत्रायज्ञोपवीतौप्रत्यवैतीत्यर्थः। तदत्र यज्ञोपवीतं विहितं पुरुषार्थं, यस्य कर्म्मसंयोगः पुरस्तादुक्तः। तदेतत् कात्यायनेनाप्युक्तम्।
“सदोपवीतिना भाष्यंसदा बद्धभिखेन च।
विशिखो व्युपवीतश्च यत् करोति न तत्कृतम्”।
इति। वक्ष्यमाणसूत्रपरिभाषितस्य यज्ञोपवीतिनः कर्मार्थत्वे त्वेतत् पुरुषार्थमात्रमित्यवगन्तव्यम्॥१॥*॥
तस्यैव खल्विदानींयज्ञोपवीतस्य विन्यासविशेषः परिभाष्यते द्वाभ्यां विनियोगविशेषविवक्षया।
दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽँसे प्रति
ष्ठापयति दक्षिणं कक्षमन्ववलम्बं भवत्येवं यज्ञोपवीती भवति॥२॥
दक्षिणं सव्येतरं बाहुं भुजमुद्धृत्योत्क्षिप्य, शिरोमूर्द्धानमवधायवेष्टयित्वा, ‘सव्ये’ दक्षिणेतरे – वामे, अंसे स्कन्धे इत्यर्थः। प्रतिष्ठापयति स्थापयति, – यज्ञोपवीतम्। (तथा सति) दक्षिणं कक्षं बाहुमूलकोटरप्रदेणं, अनु-अधः, अवलम्ब लम्बमानं भवति यज्ञोपवीतमर्थात्। पुरुषस्लेवमनेन प्रकारेण यज्ञोपवती भवति।
सेयंपरिभाषा कर्मार्था। न खल्वयमपूर्व्वस्य यज्ञोपवीतित्वस्य विधिः, - अपि तु संज्ञाविधिरेषः ‘एवं यज्ञोपवीतो भवति’ इति। कस्मात्? पक्षान्तरे वाक्यभेदात्। अपूर्व्वस्ययज्ञोपवीतित्वस्याय विधिरित्येतस्मिन् पक्षे भिद्येत वाक्यम्। कथम्? यज्ञोपवीती भवेत्, सचैवं भवति इति वचनव्यक्तिभेदात्। न च विशिष्टो विधिः सम्भवति, प्राप्तत्वात् यज्ञोपवीतस्य, अप्राप्तत्वाच्च विन्यामविशेषस्य विध्यनुवादवैषम्यापत्तेः। श्रुत्या चैवमवगमात्।च खल्वेवमवगम्यते-संज्ञाविधिरेवैषः– इति। एवं यज्ञोपवीती भवतीति वचनमेवं खल्वाञ्जस्येनोपपद्यते। न ह्यत्र यज्ञोपवीतो भवेदित्याम्नायते, किन्तर्हि? - एवम् अनया रीत्या यज्ञोपवीती भवति इति।
ननु यज्ञोपवीतं कुरुते इति पुरुषार्थं यज्ञोपवीतमनूद्य तस्य विन्यासविशेषः परिभाष्यते - ‘एवं यज्ञोपवीती भवति’ इति। ’ एवं प्राचीनावीती भवति’ इति च। एवन्तर्हि मन्मतमेवानुजानाति
भवान्। – यज्ञसूत्रमात्रं पुरुषार्थः, विन्यासविशेषस्तु कर्मार्थः- इति। परमार्थतोऽपि, ‘यज्ञोपवीतं कुरुते’ - इति सूत्रयित्वा, एवं यज्ञोपवीती भवति’ - इति, ‘एवं प्राचीनावीतीभवति’ - इति सूत्रयत आचार्य्यस्यास्मदुक्त एवार्थे स्वरसोऽवगम्यते। तदिदमभिहितमस्माभिः- “यज्ञोपवीतिनाऽऽचान्तोदकेनकृत्यम्” इत्यत्र॥२॥*॥
** सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽँसे प्रतिष्ठापयति, सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति॥३॥**
सव्यं वामम्। व्याख्यातमन्यन्। यज्ञोपवीतिना कृत्यमित्येतत् व्याचिख्यासुराचार्य्यः प्रथमं यज्ञोपवीतमुपदिश्य तस्यैव विन्यासविशेषेण यज्ञोपवीतित्वं प्राचीनावीतित्वञ्चाभिदधानोयज्ञोपवीतमस्यास्तीत्यमुमेवार्थं तत्रावगमयति। भाष्यकल्पः खल्वयं खण्डो यज्ञोपवीतिनाऽऽचान्तोदकेन कृत्यमित्यस्य सूत्रस्य॥३॥*॥
यदर्थं विन्यासविशेषः परिभाषितः स विनियोगविशेष इदानीमभिधीयते।
** पितृयज्ञे त्वेव प्राचीनावीतीभवति॥४॥**
पितृभ्यः, पितृणां वा, यज्ञः- “यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात्” - इत्यु्क्तलक्षणः, तस्मिन्पितृयज्ञे पितृकर्मणीत्येतत्। तुशब्दश्चशब्दार्थोऽन्यदपि समुच्चिनोति। तदाह कात्यायनः।
“दक्षिणं पातयेज्जानु देवान् परिचरन् सदा।
पातयेदितरज्जानु पितॄन् परिचरन्नपि”।
इति। अथवा।तुशब्दः पितृयज्ञादन्यत् व्यवच्छिनत्ति। तेनान्यत्र विशेषशास्त्रात् मर्व्वच यज्ञोपवीतीभवतीति गम्यते। पितृयज्ञमात्रेप्राचीनावीतित्वमभिदधानः खल्वाचार्योऽर्थादन्यत्र यज्ञोपवीतित्वं दर्शयति। एकः शाब्दोऽपरः खल्वार्थोऽप्यर्थो भवति। कर्म्मार्थश्च विन्यासविशेषः पितृयज्ञेऽवकाशमलभमानोऽन्यत्र निविशते। अर्थापत्तिरपि पञ्चमी प्रमाणानामिति हि तन्त्रस्थितिः। अन्यच्च पुरस्तादुक्तम्। एवशब्दश्च पिञ्चे कर्मणि प्राचीनावीतित्वं नियमयति। स्मरति च भगवान् मनुः।
“प्राचीनावीतिना सम्यगपमव्यमतन्द्रिणा।
पिञ्चमानिधनात् कार्य्यं विधिवद्दर्भपाणिना”।
इति॥४॥*॥
यज्ञोपवीतिना कृत्यमित्येतयाख्यातम्। आचान्तोदकेन कृत्यमित्येतदिदानींव्याख्यायते।
** उदगग्नेरुत्सृप्यप्रक्षाल्य पाणी पादौ चोपविश्य त्रिरात्रामेत् द्विःपरिमृजीत॥५॥**
अग्निसाध्यम्य सायंप्रातर्होमस्यप्रकृतत्वात्-गृह्यकर्मणाञ्च प्रायेणाग्निमाध्यत्वात्, उदगग्नेरित्याह। उदगुत्तरतः। कस्य? अग्नेः। उत्सृष्योत्क्रम्य। सर्पतिर्गच्छतिकर्मा। गत्वेत्येतत्। प्रक्षाल्याद्भिः, पाणी हप्तौ, पादौ चरणौ च।देवलम्तत्र विशेषं स्मरति।
“प्रथमं प्राङ्मुखः स्थित्वापादौ प्रक्षालयेच्छनैः।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः”।
इति। आपस्तम्बस्त्वाह। “प्रत्यक् पादावसेचनम्” इति। क्रमश्च पादप्रक्षालने – “सव्यं पादमवनेनिजे इति सव्यं प्रक्षालयेत्, दक्षिणं पादमवनेनिजे इति दक्षिणं प्रचालयेत्” इति लिङ्गदर्शनादवगन्तव्यः। “भव्यं प्रक्षाल्य दक्षिणं प्रक्षालयति” - इति च ह्यान्तरम्।–‘उपविश्य’ -
“अन्तर्जानु शुचौ देशे उपविष्ट उन्मुखः।
प्राग्वा ब्राह्मण तीर्थेन द्विजोनित्यमुपस्पृशेत्”।
इति स्मृत्यन्तरोक्तप्रकारेणेत्यर्थः। गृह्यासंग्रहोऽप्याह,
“होमः प्रतिग्रहोदानं भोजनाचमनानि च।
अवहिर्जानु कार्य्याणि साङ्गुष्ठान्येवमाचरेत्"।
इति। ‘त्रिः’ – त्रिवारं, ‘आचामेत्’–‘प्राचान्तोदकेन कृत्यम्’ इत्यस्य परिदर्शकतया– ‘अप’ इति वाक्यशेषः। “त्रिः पिबदम्बुवीक्षितम्”– इति च कृत्यन्तरम्। अत्र त्रिराचामेदित्यभिदधानआचार्य्यः–त्रिरभक्षणमाचमनम न्यदितिकर्त्तव्यतेति दर्शयति मन्वर्थबुफावल्यामप्येवम्। ‘द्विः’ वारद्वयम्, ‘परिमृजीत’-
“संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्”।
इति स्मरणान्मुखमङ्गुष्ठमूलेन प्रमृज्यादित्यर्थः॥५॥*॥
पादावभ्युक्ष्य शिरोऽभ्युक्षेत्॥६॥
अद्भिरिति सामर्थ्यात्। ऋज्वन्यत्। विसमासकरणं पादाभ्युक्षणशेषेण शिरोऽभ्यक्षणनिषेधार्थमिति भट्टभाष्यम्॥६॥*॥
इन्द्रियाण्यद्भिः सँस्पृशेत्॥७॥
इन्द्रियाणि, इन्द्रियानाममूर्त्तत्वात् इन्द्रियायतनानि गोलकानि, अद्भिः करणभूताभिः, उदकाल हस्तेनेत्येतत्। प्रतीन्द्रियमित्यर्थः। संस्पृशेत्’ सम्यक् स्मृत्यन्तरोक्तप्रकारेण स्पृशेत्॥७॥*॥
कानि तानि इन्द्रियाणि? - इत्यत आह।
अक्षिण नासिके कर्णाविति॥८॥
अक्षिणी, चक्षुषी। नासिके, नामाच्छिद्रे। कण, श्रोत्रे। ‘संस्पृशेत्’ इति सम्बध्यते। इतिरन्यदपि कृत्यन्तरोक्तं समुच्चिनोति। उपन्यासमात्रमेवेदम्। क्रमश्च शास्त्रान्तरीय एव भवति। तदाहदक्षः।
“प्रक्षाल्य पाणीपादौ च त्रिः पिबेदम्बु वीक्षितम्।
संवृत्याङ्गुष्ठमूलेन दिः प्रसृज्यात्ततो मुखम्।
संहत्य तिसृभिः पूर्व्वमास्यमेवमुपस्पृशेत्।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्।
अङ्गुष्ठानासिकाभ्याञ्च चक्षुःश्रोत्रेपुनः पुनः।
नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै।
सर्व्वाभिश्च शिरः पश्चाद्बाहूचाग्रेण संस्पृशेत्”।
इति। नन्वाचार्येण क्रमस्याक्तत्वात् पाठक्रमेणैवानुष्ठानं कुतो स्यादिति चेत्। उच्यते।
दक्षसंहिता किल परिशिष्टकल्पा मून्यन्तरीयग्रन्थानामिति तदुक्तक्रमग्रहणं न दोषाय। तथाचोक्तंतेनैव,
“उक्तंकर्म्म क्रमोनोक्तोन कल्पो मुनिभिः स्मृतः।
द्विजानान्तु हितार्थाय दक्षस्तु स्वयमब्रवीत्”।
इति। अतएव सर्व्वमेतत् स्पष्टयति कर्म्मप्रदीपे कात्यायनः।
“त्रिः प्राश्यापोद्धिरुन्मृष्य मुखमेतानुपस्पृशेत्।
आस्यमासाक्षिकर्णांश्चनाभिवक्षःशिरोऽंसकान्।
संहताभिस्त्र्यङ्गुलीभिरास्यमेवमुपस्पृशेत्।
अङ्गुष्ठेन प्रदेशिन्या घ्राणञ्चैवमुपस्पृशेत्।
अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रं पुनः पुनः।
कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयन्तु तलेन वै”।
इति॥८॥*॥
यद्ययन्मीमास्यस्यात्तत्तदद्भिः स स्पृशेत्॥९॥
यत् यत्, इन्द्रियमन्यद्वाऽङ्गं, ‘मीमांस्यं’-मीमांसाविचारः इदं शुद्धं जातं न वेति सन्देहनिरामाय, विचार्य्यं- विचारार्हंभवति, तत्तदद्भिरुदकेन, संस्पृशेत्– प्रक्षालयेत्, न तु संशयनिरामाय विचारं कुर्य्यादित्यर्थः॥८॥*॥
तत्रैतदाहुः॥१०॥
तत्र तस्मिन्नाचमने, एतत् वक्ष्यमाणमाहुर्ब्राह्मणवाक्यानीतिवाक्यशेषः। सूत्रञ्चेदमाभासान्तं शिष्याणां सुखावबोधार्थं भवति॥१०॥*॥
नोपस्पृशेद्व्रजन्॥११॥
न उपस्पृशेदाचामेत्, व्रजन्। व्रजतिर्गच्छतिकर्मा। गच्छन्नित्यर्थः॥११॥*॥
न तिष्ठन्॥१२॥
न – “उपस्पृशेत्” इति सम्बध्यते प्रतिवाक्यमितः प्रभृति। ‘तिष्ठन्’ – ऊर्द्धः सन्॥१२॥*॥
न हसन्॥१३॥
न, स्मयमानः- इतिभट्टभाष्यम्। न हास्यं कुर्व्वन्नितिफलितार्थः॥१३॥*॥
न विलोकयन्॥१४॥
इतस्ततः किञ्चन विलोकयन्नोपस्पृशेत्॥१४॥०॥
नाप्रणतः॥१५॥
उपविष्टोऽप्यप्रणतोऽनवनतपूर्व्वकायीनोपस्पृशेत्, उच्छिष्टानामपामङ्गेषुपातसम्भवादित्यभिप्रायः॥१५॥०॥
नाङ्गुलीभिः॥१६॥
न उपस्पृशेदङ्गुलीभिर्ध्वमुदकमुत्क्षिप्येत्यर्थः॥१६॥०॥
नातीर्थेन॥१७॥
तीर्थादाचमनार्थशास्त्रविहिताद् यदन्यत्तदतीर्थमित्युच्यते। पर्य्युदासार्थः खल्वयं निपातः। तेनातीर्थेन पित्र्येण नोपस्पृशेत्। स्मरति च भगवान् मनुः।
“ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन”।
इति। तान्येतानि तीर्थानि -
“कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्”।
इति स्मृत्यन्तरादवगन्तव्यानि॥१७॥०॥
न सशब्दम्॥१८॥
सशब्दं यथा भवति, न तथोपस्पृशेत्॥१८॥०॥
नानवेक्षितम्॥१९॥
अनवेक्षितमदृष्टमुदकं नोपस्पृशेत्।
“रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिभिः”।
इति स्मरणात्र रात्रावेतन्नियम इति वदन्ति॥१९॥०॥
न वाह्याँसः॥२०॥
जानुभ्यां वाह्यौ– वहिष्कृतावंसौ- “अन्तरूर्व्वोररत्नीकृत्वा त्रिरपोहार्द्दीपिबेत्”—इति स्मृत्यन्तरदर्शनात् - हस्तौ यस्य, सोऽयं वाह्यांसो नोपस्पृशेत्॥२०॥०॥
नान्तरीयैकदेशस्य कल्पयित्वोत्तरीयताम्॥२१॥
अधःपरिधानमन्तरीयमित्याचक्षते। तस्यान्तरीयस्य, - एकदेशस्यावयवस्य, उत्तरीयतां कल्पयित्वा।एकवासा इत्येतत्॥२१॥०॥
नोष्णाभिः॥२२॥
न, उपस्पृशेत् – उष्णाभिः, वहितप्ताभिरद्भिर्नपुनर्धतप्ताभिरपीत्यर्थः।
“उदकेनातुराणा ञ्च तथोष्णेनोष्णपायिनाम्”।
इति स्मृत्यन्तरदर्शनादनातुरः पुरुष इति वाक्यशेषः॥२२॥
न सफेनाभिः॥२३॥
अद्भिरित्येव॥२३॥०॥
न च सोपानत्कः क्वचित्॥२४॥
चकारोऽप्यर्थे भिन्नक्रमो द्रष्टव्यः। उपानहौ प्रसिद्धे, ताभ्यां सहितः पुरुषः सोपानत्क इत्युच्यते। सोऽयं सोपानत्कः, क्वचिच्चकस्याञ्चिदप्यवस्थायाम्
“राज्ञां गुरूणां देवानां न दुस्थेदन्तिके चरन्।
आजानुपत्रचरणस्तथाऽऽचमनकर्मणि”।
इति स्मृत्यन्तरोक्तायामपि। नोपस्पृशेत्। सोऽयं कौथुमादीनां विशेषविधिः। भट्टभाष्ये विदं स्मृत्यन्तरमस्यापवादतया वर्णितम्॥२४॥०॥
कासक्तिकः॥२५॥
“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा।
अकृत्वा पादयोः शौचमाचान्तोऽप्यश्शुचिर्भवेत्”।
इति स्मृत्यन्तरदर्शनात्- ‘के,’ शिरसि, आसक्तिकाआवेष्टिका
कृता येन, सोऽयं कासक्तिकः कृतशिरोवेष्टनः। ‘नोपस्पृशेत्’ इति सम्बध्यते। बद्धपरिकरः कञ्चुकीचैवमुच्यते इत्यप्याहुः॥२५॥०॥
गले बद्धः॥२६॥
गलावलम्बितवासाः, प्रावृतोत्तरासङ्ग इत्येतत्। ‘नोपस्पृशेत्’—इत्यनुवर्त्तते॥२६॥०॥
चरणौ न प्रसार्य्य च॥२७॥
चरण पादौ,प्रसार्य्यवितत्य। चशब्दः-
“नासनारूढचरण आचामेन्नजपेत् क्वचित्”।
इति स्मृत्यन्तरोक्तंसमुच्चिनोति। तेन, तथाविधश्च न, उपस्पृशेत्॥२७॥०॥
अन्ततः प्रत्युपस्पृश्य शुचिर्भवति॥२८॥
अन्ततोयथोक्ताचमनात् परतः, प्रत्युपस्पृश्यस्पृष्ट्वोदकं पाणिना, शुचिर्भवति पुरुष इत्यर्थः। अन्ततोमध्यत इन्द्रियायतनान्युपस्पृश्य शुचिर्भवति, न पार्श्वत इत्यन्ये॥२८॥
हृदयस्पृशस्त्वेवाप आचामेत्॥२९॥
हृदयं याः स्पृशन्ति, ता इमा हृदयस्पृश एवाप आचामेदिति हृदयस्पृश आपोनियम्यन्ते। तुशब्दश्चशब्दार्थः-
“हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः।
वैश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिरन्ततः”।
इति स्मृत्यन्तरोक्तंसमुच्चिनोति॥२९॥०॥
उच्छिष्टोद्दैवातोऽन्यथा भवतीति॥३०॥
उच्छिष्टोह किल इत्यैतिह्यार्थकोऽनर्थको वा निपातः। उच्छिष्ट एव न शुद्ध इत्यर्थः। अतोऽस्मात् यथोक्तात् विधेरन्यथाऽन्येन प्रकारेणाचान्तोऽपि भवति। इतिर्ब्राह्मणवाक्यममाप्तिं द्योतयति॥३०॥०॥
अथ प्रत्युपस्पर्शनानि॥३१॥
अथोपस्पर्शानन्तरं प्रति पुनरुपस्पृश्यन्ते येषु निमित्तेषु, तानीमानि प्रत्युपस्पर्शनानि द्विराधमननिमित्ता नीत्येतत्। वक्ष्यन्तेइति वाक्यशेषः॥३१॥०॥
सुप्त्वा, भुक्त्वा, क्षुत्वा, स्नात्वा, पीत्वा, विपरिधाय च, रथ्यामाक्रम्य, श्मशानच्चाचान्तः पुनराचामेत्॥३२॥
सुप्ता - निद्रामासेव्य, भुक्त्वा– भक्षयित्वा, – किञ्चिद्भक्ष्यमित्यर्थात्, क्षुत्वा - क्षुतं कृत्वा, स्नात्वा - आप्लुत्य, पीत्वा- पेयमुदकादि, विपरिधाय वासः। चः समुच्चये।
“होमे भोजनकाले च सन्ध्ययोरुभयोरपि।
आचान्तः पुनराचामेद्वासोविपरिधाय च”।
इत्येवमादिस्मृत्यन्तरोक्तंसमुच्चिनोति। रथ्या प्रतोली विभिखेत्यनर्थान्तरम्। तामाक्रम्य, शवानां शयनं श्मशानम्, चकारादाक्रम्येत्यनुषज्यते। आचान्तः कृताचमनः सन् पुनर्भूय आचामेदिति द्विराचमनमेषु निमित्तेषु कर्त्तव्यमन्यत्र कर्मकालात्। तथाच स्मृत्यन्तरम्।
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने।
कस्य एषु नाचामेद्दक्षिणश्रवणं स्पृशेत्”।
इति। अतएव,
“चुते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते।
पतितानाञ्च संभाषे दक्षिणं श्रवणं स्पृशेत्”।
इति गृह्यासंग्रहवाक्यमपि सङ्गच्छते॥३२॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मज श्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य द्वितीयः खण्डः॥०॥
————
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके तृतीयः खण्डः।
उक्तौ सायंप्रातर्होमकालौ, अथेदानीमावृदनयोर्वक्तव्या—कथं होतव्यमिति। तामाह।
अग्निमुपसमाधाय परिसमूह्य दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽनुमन्यस्वेत्युदकाञ्जलिं प्रसिञ्चेत्॥१॥
प्रादुष्कृतमग्निमुप समीपेहोमकालस्य, समाधायेन्धनेन सम्यगाधाय प्रज्वाल्य, परि सर्व्वतोभावेन समूह्य विक्षिप्तानन्यवयवानेकीकृत्य, मन्त्रानुपदेशादमन्त्रकमित्यभिप्रायः। यत् पुनराचार्य एव समन्त्रकं परिसमूहनं वक्ष्यति — “इमं स्तोममिति अ॒चेन परिसमूहेत्” – इति। तदत्र न भवति। इह मन्त्रानुपदेशात्। क्षिप्रहोमला च्चास्य।तदाह कर्म्मप्रदीपः।
“न कुर्य्यात् क्षिप्रहोमेषु द्विजः परिसमूहनम्।
वैरूपाक्षञ्च न जपेत् प्रपदञ्च विवर्ज्जयेत्”।
इति। क्षिप्रं ये इयन्ते त इमे क्षिप्रहोमाः सायंप्रातर्होमादयउच्यन्ते। तदनेन परिसमूहनस्य निषेधादाचार्येण परिसमूह्येति करणाञ्चामन्त्रकमेव परिसमूहनमत्र करणीयं, न तु इमं स्तोममिति त्र्यृचेनेति श्लिष्यते। न च,
“यत्र मन्त्रा न विद्यन्ते व्याहृतीस्तत्र योजयेत्।
मन्त्राणामेव चादेशे मन्त्रात् कर्म समाचरेत्”।
इति गृह्यासंग्रहको व्याहृतिप्रयोगः कथं न भवतीति वाच्यम्।
“सायं प्रातर्वैश्वदेवे पितृयज्ञे तथैवच।
कम्बूके गोमये नित्यं व्रतानां समिधासु च।
चैत्ये यूपे व्रीहियवे भूमावसु च याजिकैः।
व्याहतीर्न प्रयोकव्या यज्ञवास्तुक्रिया तथा”।
इति तत्रैवास्मिन् कर्म्मणि तन्निषेधात्। एवं स्तरणमप्यत्र न कर्त्तव्यम्। कस्मात्? इतः परं स्तरणाम्नानात्। इतः परं खल्वाचार्य्यः स्तरणमभिदधानः नास्त्येषु स्तरणमिति दर्शयति। तदप्याह कर्म्मप्रदीप एव।
“यान्यधः स्तराम्नानान्न तेषु स्तरणं भवेत्।
एककार्य्यार्थमाध्यत्वात् परिधीनपि वर्ज्जयेत्”।
इति। ब्रह्मस्थापनमपि नास्त्येव। कस्मात्? तदधः समाम्नानादेव। अतएव गृह्यान्तरम्।
“एकसाध्येष्ववर्हिःषु न स्यात् परिसमूहनम्।
नोद्गासादनञ्चैव क्षिप्रहोमा हि ते स्मृताः”।
इति क्षिप्रहोमानामेकसाध्यत्वम्—होतृमात्रसाध्यत्वं दर्शयति गृह्यासंग्रहोऽप्याह।
“राकाग्नौ पितॄयज्ञेच ब्रह्माणं नोपकल्पयेत्।
सायंप्रातश्च होमेषु तथैव बलिकर्म्मसु”।
इति। न्यञ्चकरणन्तु— इदं भूमेर्भजामह इति - कर्त्तुमुचितम्। कस्मात्? “पूर्वेषु चैके” - इति तस्य पक्षप्राप्तत्वात्। न खल्वेतत्
प्रतिषिध्यते। परमकरणेऽयि न वैगुण्यं भवति; पक्षप्राप्तत्वादेव। एकेषां खल्वाचार्य्याणां मतम्-कर्त्तव्यमिति, न कन्तेव्यमिति चापरेषाम्। तस्मात् करणेऽभ्यदयः, करणे चावैगुण्यमितिद्धम्।तत्कारश्चकर्म्मप्रदीपे दर्शितः।
“दक्षिणंवामतोवाह्यमात्माभिमुखमेव तु।
करं करस्य कुर्व्वीत करणे न्यञ्जकर्म्मणः”।
इति।दक्षिणजान्वक्तः,- दक्षिणंजानु अक्तंम्-(अञ्चतिर्गच्छतिकर्मा) गतं,भूमिमित्यर्थात् यस्य, स दक्षिणजान्वक्तः भूमिगतदक्षिणजानुकइत्यथंः। स खल्वयं दक्षिणजान्वक्तः, ‘दक्षिणनाग्निं’ दक्षिणस्यामदूरवर्त्तिन्यान्दिश्यग्नेः, आदितेऽतुमन्यखेत्यनेन मन्त्रेण करणभूतेन मन्त्रं पठित्वेत्यर्थः। “मन्त्रान्ते कर्मादिसन्निपातः” -इति न्यायात्। ‘उदकाञ्जलिं’ विन्यासविशेषविशिष्टस्तावेञ्जलिरित्याचक्षते। ‘उदकपूरितोऽञ्जलिः’अञ्जलेर्वाउदकमित्युदकाञ्ञलिः। तमिममुदकाञ्जलिं प्रसिञ्चेत्प्रागग्रमित्यर्थः। अग्नेःखलुदक्षिणस्यामदूरवर्त्तिन्यां दिश्ययं प्रसेकः पूर्व्वाभिमुखश्च होता भवति। “प्राञ्चि उदञ्चिवा कर्म्माण्यनुतिष्टेरन्” इति च ब्राह्मणम्॥१॥*॥
अनुमतेऽनुमन्यस्वेति पश्चात्॥२॥
पश्चात् पश्चिमायां दिश्यग्नेःउदकाञ्जलिंप्रसिश्चेदित्यनुवर्तन्ते। उदगग्रमित्यर्थः। गतमन्यत्॥ ३॥०॥
सरस्वत्यनुमन्यस्वेत्युत्तरतः॥३॥
उत्तरत उत्तरस्यां दिश्यग्नेरुदकाञ्चलिंप्रसिञ्चेत्पूर्ब्वाग्रम्। श्लिष्टमन्यत्॥३॥०॥
** देव सवितः प्रसुवेति प्रदक्षिणमग्निं पर्युक्षेत् सकृद्वात्रिर्वा॥४॥**
देव सवितः प्रसुवेत्यनेन मन्त्रेण करणभूतेन प्रदक्षिणं यथा भवत्यग्नेस्तथाऽग्निं पर्य्युक्षेत् परिषिञ्चेद्वेष्टयेदुदकाञ्जलिधारयेत्यर्थः। सकृदेकवारं वा त्रिर्व्वारत्रयं वा यथा भवति तथा पर्य्युक्षेदितिक्रियाविशेषणमे तत्। पर्युक्षणञ्चेदावर्त्त्यते मन्त्रोऽप्यावर्त्तनीयः करणत्वादस्य। प्रधानस्य खल्वावृत्तौ तदनुयायिनोगुणा अप्यावर्त्तते। वाशब्दौतुल्यवदिकल्पार्थो। तदन चिरावृत्तिपक्षेफलभूमकल्पनीयः। इतरथा लघुप्रयत्नसाध्ये सकृत् पर्युक्षणे यावानर्थस्तावानेव चेत् गुरुप्रयत्नसाध्ये पक्षान्तरेऽपि स्यात्तर्ह्यप्रामाण्यमेवाननुष्ठानलक्षणमस्य। कः खल्वनुन्मत्तः सत्यप्यल्पीयस्युपाये तावन्तमेवार्थमुत्पिपादयिषुर्मरीयांसमुपायमुपादत्ते। अतएवाह कात्यायनः।
“यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः।
भूयस्त्वं ब्रुवते तत्र कृच्छ्रात् श्रेयोह्यवाप्यते”॥
इति॥४॥०॥
पर्युक्षणप्रकारमाह।
** पर्य्युक्षणान्तान् व्यतिहरन्नभिपर्य्युक्षन् होमीयम्॥**
५॥
दण्डरज्जूदकधारादिष्वादिरप्यन्तशब्दो भवतीत्याहुः। बहुवचनश्रुतिस्त्रिर्वेतिपक्षाभिप्राया। तदयमर्थः। पर्युक्षणानां पर्युक्षणोदकधाराणामन्तान् व्यतिहरन् अभ्यन्तरतः कुर्व्वन्नित्यर्थः।
अनेनैतदुक्तंभवति। पर्युक्षणारम्भकोटिमभ्यन्तरतोऽवमानकोटिञ्च वहिः कुर्य्यादिति। व्यतिहरन् व्यतियोजयन् मिश्रीकुर्व्वन्विति वा। अन्ये त्वाहुः- व्यतिहारोविकर्षः व्यतिहरन् विकृष्टान्तरालान् कुर्व्वनित्यर्थः- इति। होमीयं होमार्थमुपक्लृप्तं ब्रीह्यादि, अभिपर्युक्षन् धारया अभ्यन्तरतः कुर्व्वन्नित्यर्थः। अथवा।अभिपर्युक्षन् नाभिमुख्येन सिञ्चन् स्पर्शयन्नित्येतत्। ‘अग्निं पर्य्युक्षेत्’ इति पूर्व्वसूत्रस्थं सम्बध्यते॥५॥०॥
** अथ हविष्यस्यान्नस्याग्नौजुहुयात् कृतस्य वाऽकृतस्य वा॥६॥**
अथेत्यानन्तर्य्यार्थो विशिष्टमानन्तर्य्यमभिद्योतयति।
“समिदादिषु होमेषु मन्त्रदैवतवर्ज्जिता।
पुरस्ताच्चोपरिष्टाञ्च इन्धनार्थं समिद्भवेत्”॥
इति कर्म्मप्रदीपदर्शनात् पर्युक्षणानन्तरं तूष्णींसमिधमायेत्यर्थः। आचार्य्यपुत्रोऽप्याह।
“सर्वेषामेव होमानां समिदादौ विधीयते।
कर्मान्ते चैवमेव स्यात् स्वाहां तत्र न कारयेत्”॥
इति।समिच्चप्रोक्षितैवाधातव्येत्याहापस्तम्बः। “नाप्रोचितमिन्धनमग्नावादध्यात्” - इति। हविष्यस्य हविषि साधोः-्
“हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः।
माषकोद्रवगौरादीन् सर्व्वालाभेऽपि वर्ज्जयेत्”॥
इति कर्मप्रदीपोक्तस्य माषकोद्रवादिवर्जस्य यवादेः। अन्नस्य
अदनीयस्य कीटाद्यदष्टतया भक्षणयोग्यस्येत्येतत्। षष्ठी चेयं सम्बन्धार्था। हविष्येनासेनाग्नौ जुहुयात् होममभिनिर्व्वर्त्तयेदित्यर्थः। अथवा।अवयवार्थेवेयं षष्ठी द्रष्टव्या। हविष्यस्थानस्यावयवेन होमअभिनिर्वर्त्तयेत् - इति। किमनेनोक्तंभवति? एतदनेनोक्तं भवति। न सर्व्वमिह हविष्यमन्त्रं होतव्यम्। किन्तर्हि? अवयवस्तस्य होतव्यः- यथाऽवशिष्यते तथा होतव्यम् इति। स खल्वयं होमः—
“होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः।
पाणिरेवेतरस्मिंस्तु स्रुचा चात्र न हूयते”॥
इति।
“पाण्याहुतिदशपर्व्वपूरिका
कंसादिना चेत् स्रुवमात्रपूरिका।
दैवेन तीर्थेन च हूयते हवि-
र्व्यङ्गारिणि स्वर्च्चिषि तच्च पावके"॥
इति च कर्म्मप्रदीपदर्शनात्।
“उत्तानेनैव हस्तेन ह्यङ्गुष्ठाग्रेण पीडितम्।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्धविः"।
इति गोभिलपरिशिष्टवचनाच्च, यथोप्रमाणं यथोक्तंहविगृहीत्वा यथोक्तेन प्रकारेण दक्षिणेन पाणिना कर्त्तव्यः। अत्र च पुनः- “अग्नौ” इति सूत्रयन्नाचार्य्यः- समिद्धे वन्हौ होतव्यमिति द्योतयति। सूत्रितं खल्वाचार्येण पुरस्तादेव- “गृह्येग्नौहोमोविधीयते” - इति। तदाह कर्म्मंप्रदीपः।
“योऽनर्च्चिषि जुहोत्यग्नौव्यङ्गारिणि च मानवः।
मन्दाग्निरामयावी च दरिद्रश्चोपजायते॥
तस्मात् समिद्धे होतव्यं नासमिद्धे कदाचन।
आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकीन्तथा”॥
इति। समिन्धनञ्चाग्नेर्व्यजनादिना कर्त्तव्यमित्यप्याह सएव।
“जुहषंश्च हुते चैव पाणिसूर्पस्फ्यदारुभिः।
न कुर्य्यादग्निधमनं कुर्य्याद्वाव्यजनादिना॥
मुखेनैके धमन्त्यग्निं मुखोद्येषोऽध्यजायत।
नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्"॥
इति। गृह्यासंग्रहः।
“न वस्त्रेण धमेदग्निं न सूर्पेण न पाणिना।
मुखेनोपाधमेदग्निं मुखाद्येषोऽध्यजायत”॥
इति। होमे च कर्त्तव्ये यत्र यदभिधानोऽग्निस्तत्र तमाहूय संपूज्य होतव्यम्।
“सम्पूजयेत्ततो वह्निं दच्चाच्चैवाहुतीः क्रमात्”।
इति स्मरणात्।
“आहूय चैव होतव्यं यत्र यो विहितोऽनलः”।
इति गृह्यासंग्रहवचनाच्च। यत्र चाग्निर्यदभिधानो भवति तदाह गृह्यासंग्रहः।
“लौकिकः पावकोह्यग्निः प्रथमः परिकीर्त्तितः।
अग्निस्तु मारुतो नाम गर्भाधाने विधीयते॥
पुंसवने चन्द्रनामा शुङ्गाकणि शोभनः।
सीमन्ते मङ्गलो नाम प्रगल्भो जातकर्माणि॥
नाम्नि स्यात् पार्थिवो ह्यग्निः प्राशने च शुचिस्तथा।
सभ्यनामाऽथ चूड़े तु व्रतादेशे समुद्भवः॥
गोदाने सूर्य्यनामा स्यात् केशान्ते ह्यग्निरुच्यते।
वैश्वानरोविसर्गे च विवाहे योजकः स्मृतः॥
चतुर्थ्यान्तु शिखीनामष्टतिरग्निस्तथाऽपरे।
आवसथ्ये भवो ज्ञेयो वैश्वदेवे तु पावकः॥
ब्रह्मा वै गार्हपत्ये स्यादीश्वरो दक्षिण तथा।
विष्णुराहवनोये तु अग्निहोत्रे त्रयोऽग्नयः॥
लक्षहोमे च वह्निः स्यात् कोटिहोमे हुताशनः।
प्रायश्चित्ते विधिश्चैव पाकयज्ञे च साहमः॥
देवानां हव्यवाहस्तु पितृणां कव्यवाहनः।
पूर्णाजत्यां मृढ़ोनाम शान्तिके वरदस्तथा॥
पौष्टिके बलदश्चैव क्रोधोऽग्निश्चाभिचारिके।
वश्यार्थी कामदो नाम वनदाहे तु दूतकः॥
कोष्ठे तु जठरो नाम क्रव्यादोमृतभचणे।
समुद्रेवाड़वो ज्ञेयः क्षये संवर्त्तको भवेत्”॥
इति। विशेषनामासम्भवे च विश्वरूपो नामाग्निः सर्व्वत्र भवति।
“सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः।
विश्वरूपो महानग्निः प्रणतः सर्व्वकर्मसु"॥
इति गृह्यासंग्रहवचनात्। हविष्यस्यान्नम्येत्येतद्विशिनष्टि;- ‘कृतस्य’ ओदनादेर्वा, ‘अकृतस्य’ ब्रीह्यादेर्वा। तदाह कात्यायनः।
“कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम्।
व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा मतम्"॥
इति। व्याख्यातौ वाशब्दौ॥६॥*॥
** अकृतञ्चेत् प्रक्षाल्य जुहुयात् प्रोदकं कृत्वा॥७॥**
कृतं व्रीह्यादि, चेत् यदि, जुहुयात्, - तर्हि पूर्व्वमेव तत् पक्षाल्य - “त्रिदेवेभ्यः प्रचालयेदित्या” - इति लिङ्गदर्शनात् देवार्थत्वाचास्य वारत्रयमिति वाक्यशेषः। प्रगतमुदकं यस्मात्तदिदं प्रोदकम् - प्रगतोदकं कृत्वा जुहुयात्। तदयमर्थः। पूर्व्वमेव ब्रह्मादि प्रचालय प्रगतोदकञ्च कृत्वा संस्थापयेत् शचीभाजने। आगते च होमकाले तस्मादेवोद्धृत्योद्धृत्य जुहुयात्। न तु होमकाले प्रचालयेत्। अप्रगतोदकतयाऽग्नेरपचयाप त्तेरित्यभिप्रायः। शब्दप्रमाणकत्वादस्यार्थस्य न किमपि शङ्कितव्यम्। तस्मादेव च नास्ति कृतस्यप्रचालनापेक्षा।न खल्वस्ति शब्दः - कृतं प्रक्षालयेदिति॥७॥०॥
** अथ यदि दधिपयोयवागूं वा, कँसेन वा चरुस्थाल्या वा स्रुवेण वै वा॥८॥**
अथ व्रोहियवयोरभावे, यदि—दधि, पयो, यवागूं वा जुद्धयात्। यवागूर्यवसृष्टकः। स खल्वयं दध्यादिहो मानुवादो दध्यादि होमविधिमनुमापयति - व्रीहियवयोरभावे दध्यादि जुहुयादिति। कस्मात् प्राप्यनुमारित्वादनुवादस्य।यथा चतुरवत्तं पञ्चावत्वंवा- जुहोतीति होमानुवादो होमविधिम्।यथा वा-
“असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः”॥
इति दर्भेषु विकिरानुवादो दर्भेषु विकिरविधिम्। तथा चोक्तम्।
“लिङ्गादपि विधिर्ज्ञेयो दर्भेषु विकिरो यथा”।
इति। यथा वा - “यथा वा उभयं चिकीर्षेद्धौत्रञ्चैव ब्रह्मत्वञ्चैव”—इत्युभयचिकीर्षाऽनुवादस्तदुभय चिकीर्षाविधिमिति। दृश्यते च- “यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाडतिमाहुतिं दत्वाऽभिधारयेत्, यदि राजन्य ऐन्द्रं, यदि वैश्यो वैश्वदेवम्" इति सयदिकादप्याम्नानात् ब्राह्मणादीनां क्रतोर्विधानमिति। तथाच गृह्यान्तरम्।
“अभावे व्रीहियवयोर्दध्ना वा पयसाऽपि वा।
तदभावे यवाग्वा वा जुहुयादुदकेन वा”।
इति। तदयमर्थः। यदि व्रीहियवयोरभावे दधि पयो जुद्धयात् – “खादिरे बध्नाति, पालाशे बध्नाति, रोहितके बध्नाति"- इतिवदनयोरपि दधिपयसोर्विकल्पः। वाशब्दाभावश्च तुल्यवादकल्पार्थः। तयोरप्यभावे यदि यवागूं वा जुहुयात् तर्हि कंसेन कांस्यभाजनेन वा जुहुयात्। ‘चरुस्थाल्या’ चरुर्यत्र श्रप्यते, सा चरुस्थालीत्युच्यते। तथा चरुस्याल्या—
“तिर्य्यगूर्द्धंसमिन्मात्रा दृढ़ा नातिबृहन्मुखी।
मृन्मय्यौडुम्बरी वापि चरुस्थाली प्रशस्यते”।
इति कर्म्मप्रदीपोक्तलक्षणया वा जुहुयात्। ‘स्रुवेण’, स्रुवः खलुहोमपात्रमुच्यते—
“खादिरो वाथ पालाशो द्विवितस्तिः स्रुवः स्मृतः।
सुग्वाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः।
स्रुवाग्रे घ्राणवत् स्यातं द्व्यङ्गुष्ठपरिमण्डलम्।
जुह्वाःशराववत् स्वातं सनिर्व्वाहं षडङ्गुलम्”।
इति कर्म्मप्रदीपोक्तलक्षणः। तेन स्रुवेण वा जुहुयात्। ‘वै’-इति प्रसिद्धार्थकोनिपातः स्रुवस्यैवंविधेषु होमेषु प्रसिद्धिं द्योतयति। कात्यायनोऽप्याह।
“होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः”।
इति। ततश्चाभावविकल्पोऽयम् ‘कंसेन वा चरुस्थाल्या वा’ -इति। तस्मात् स्रुवेणेति प्रथमः कल्पः। तस्य खल्वभावे कंसचरुक्तस्थाल्योर्विकल्प इति सिद्धम्।
केचिदत्रसूत्रद्वयं कल्पयन्ति। तत्र - “अथ यदि दधि पयोयवागूं वा” – इत्येकं, “कंसेन वा चरुस्थाल्या वा स्रुवेणवै वा"- इति चैकं सूत्रमिति मन्यन्ते। विवरणञ्चेदित्थंकुर्व्वन्ति। अथ यदि शब्द प्राध्याहारार्थो। अथ यदि व्रीहियवयोरभावः स्यात् कि जुहुयात्? – इति प्रश्नोऽध्याहार्य्यः। एवं पृष्टमाह-दधि जुहुचात्, पयो जुहुयात्, तयोरप्यभावे यवागूं वा जुहुयात्। व्रीह्यादेस्तावत् पाणिना होमः सिद्धः, दध्यादि केन जुहुयात्? – इत्यत आह। “कंसेन वा चरुस्थाल्या वा स्रुवेण वै वा”। उक्तार्थमन्यत्। यथाश्रुतसूत्रपाठेनैवोपपत्तौ किमर्थमयं प्रथाम इति न खल्वधिगच्छामि॥८॥*॥
** अग्नयेस्वाहेति पूर्व्वांतृष्णीमेवोत्तरां मध्ये चैवापराजितायाञ्चैव दिशीति सायम्॥९॥**
अग्नयेस्वाहेत्यनेन मन्त्रेण पठितेन पूर्वांप्रथमां यथोक्तहविराहुतिं जुहुयात्। ताञ्चेमां पूर्व्वामाहुतिं मध्य एवाग्नेर्जुहुयात्— न तु दध्यादिहोमपक्षेऽप्यग्नेरपचयाशङ्कां कुर्य्यादित्येवकारार्थः। तूष्णीमेवेत्येवकारोवाग्व्यापारप्रतिषेधं नियमयत्युत्तरस्यामाहुतौ। सेयमुत्तराऽहुतिर्मन्त्रदैवतयोरनादेशात्, प्रधानाहुतितया चामन्त्रदैवतताया अनुचितत्वात्, “तद्युक्तेश्रवणाज्जुहोतिरासेचनाधिकः स्यात्” – इति च देवतानियमात्, प्रजापतये स्वाहेति मनसैवोच्चार्य्य मन्त्रं होतव्या। कस्मात् पुनः कारणात् प्रजापतये स्वाहेत्ययमत्रमन्त्रो भवति?
“आज्यं द्रव्यमनादेशोजुहोतिषु विधीयते।
मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिः।
इति कात्यायनस्मरणात्। न खलु वाग्व्यापारप्रतिषेधनियमेऽपि मनसोव्यापारः प्रतिषिद्धो भवति। तस्मात् प्रजापतये स्वाहेत्ययं मन्त्रः मनसेवौच्चारणीयो होमार्थम्। “यदग्नये च प्रजापतये च सायं जुहोति” – इति। “तस्मात् प्राजापत्यां मनसा जुहोति मनो हि प्रजापतिः” - इति च ब्राह्मणम्। “अग्नये स्वाहा प्रजापतये स्वाहा इति सायं, सूर्य्याय स्वाहा प्रजापतये स्वाहा इति प्रातः, - इति च गृह्यान्तरम्। ताञ्चेमामुत्तराहुतिमपराजितायां दिश्यग्नेर्जुहुयात्। अपराजिता, प्रागुत्तरा ऐशानीत्यनर्थान्तरम्। तथाच गृह्यासंग्रहः।
“प्रक्रमणे तथोद्वाहे होमे स्विष्टकृते तथा।
यस्यां दिशि विधिं प्राहुमाहुरपराजिताम्”।
इति। ‘इति’ अनेन प्रकारेण सायं जुहुयात्॥९॥*॥
** अथ प्रातः,—सूर्य्याय स्वाहेतिपूर्व्वां, तूष्नीमेवोत्तरां मध्ये चैवापराजितायाञ्चैव दिशि॥१०॥**
अथेतिपूर्व्वप्रकृतार्थम्। येनैव हविषा सायं होमः कृतः, कृतेन वा, प्रकृतेन वा, दध्नावा, पयसावा; - तेनैव प्रातरपि होतव्यमन्यत्र प्रतिनिधेरिति खल्ववोचाम- “सायमाजत्युपक्रम एवातऊर्ध्व गृह्येऽग्नौहोमोविधीयते” – इत्यत्र। ‘प्रातर्’ – यथोक्त लक्षणे। कृतभाष्यमन्यत्। आह। निर्देशक्रमादेवाजत्योः पूर्वोत्तरत्व सिद्धे पूर्व्वामु त्तरामित्यवाच्यम्। अथोच्यते, कारणं वक्तव्यम्। उच्यते। नियमार्थं वचनमिदम्। कथं नाम? इयमेव पूर्व्वानान्या, तथेयमेवोत्तरा नान्येति। किं भवति प्रयोजनम्? हरितगोमय होमस्य कम्बूकहोमस्य च समानकालत्वात् व्यतिकरो न भविष्यतीति। ‘प्राक् स्विष्टकृतवापः’ - इति वचनात् स्विष्टकृद्धोम इहापि प्राप्नोति। सोऽपि न भवतीति प्रवेदनार्थञ्चोत्तरत्ववचनम्। पुनरुक्तिश्च गौभिले न पर्य्यनुयोज्येत्येतदपि न प्रस्मर्त्तव्यम्॥१०॥*॥
** समिधमाधायानुपर्य्यक्ष्य तथैवोदकाञ्जलीन् प्रसिञ्चेदन्वँस्था इति मन्त्रविशेषः॥११॥**
समिधं मन्त्रदैवतर्ज्जितां प्रकृतहोमापवर्गविहितामिन्धनार्थामाधाय निःक्षिप्याग्नौ, अनुपर्य्युक्ष्याग्निं ‘देव सवितः प्रसुव’ - इत्यनेन मन्त्रेणेत्यर्थः। तथैव तेनैव प्रकारेण, पूर्व्वाक्तयैवावृता उदकाञ्चलीन् प्रसिञ्चेत्–‘अदिते’–इत्येवमादिभिर्मन्त्रैः। ‘अनुमन्यस्व’ - इत्येतस्मिंश्च
स्थानत्रये, ‘अन्वमंस्याः’ - इति मन्त्रविशेषः मन्त्रस्य विशेषः कर्त्तव्य इति वाक्यशेषः॥११॥*॥
** प्रदक्षिणमग्निं परिक्रम्यापाँशेषं निनीय पूरयित्वा चमसं प्रतिष्ठाप्य यथार्थम्॥१२॥**
प्रदक्षिणं यथा भवति, तथाऽग्निं परिक्रम्यापां परिचरणीयानां शेषमवशिष्टं परिचरणकर्मणः, निनीय संस्थाप्य। संस्थापितानामप्यपां पुनः संस्थापनवचनं तासामपरित्याज्यत्वं दर्शयति। अथवा।निनीय मिश्रयित्वा, अन्याभिरद्भिः, पूरयित्वा चमसं पात्रविशेषम्। आचमनमितिपाठेऽपि, आचम्यतेऽनेनेत्याचमनं पात्रमेवार्थः। तच्च पात्रं प्रतिष्ठाप्य, आत्मनोऽन्तिके स्थापयित्वा, यथार्थं यथाप्रयोजनं कर्मापवर्गविहितं वामदेव्यगानादिकं, प्रातराहुतिपश्चादिहितं ब्रह्मयज्ञं वा कुर्य्यादिति वाक्यशेषः। तत्र प्रमाणं वक्ष्यामः। प्रातराहुत्यनन्तरञ्चेद्ब्रह्मयज्ञः क्रियते, तदा वामदेव्यगानमपि तदन्त एव कर्त्तव्यम्। न त्विदानीमेव प्रातराहुत्यन्ते। ‘वामदेव्यं गणेष्वन्ते’ -इति कात्यायनस्मरणात्। तदिदं पुनरुदकपात्रपरिपूरणमुदकालम्भनार्थमेव भवति। न त्वदृष्टार्थम्।
“यस्य दृष्टं न लभ्येत तस्यादृष्टं प्रकल्प्यते”।
इति ह्यभियुक्ताःस्मरन्ति। विहितं खल्वेतदुदकालम्भनं कर्म्म कुर्व्वनिमित्तविशेषेषु। तदाह कर्म्मप्रदीपः।
“पिञ्चमन्त्रानुहरणे आत्मालम्भे प्रवेक्षणे।
अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे।
मार्ज्जरमुषिकस्पर्शे आकृष्टे क्रोधसम्भवे।
निमित्तेष्वेषु सर्व्वत्र कर्म्म कुर्व्वन्नपः स्पृशेत्”।
इति।
“रौद्रञ्च राक्षसंपित्र्यमासुरञ्चाभिचारिकम्।
उक्त्वामन्त्रं स्पृशेदाप आलभ्यात्मानमेवच”।
इति च गृह्यान्तरम्॥१२॥*॥
** एवमत ऊर्द्धंगृह्येऽग्नौजुहुयाद्वाहावयेद्वाऽऽजीवितावभृथात्॥१३॥**
एवमनेन प्रकारेणातोऽस्मात् पूर्वोक्ताद्धोमाद्वयोदूर्द्धंपरतः,गृह्येऽग्नौ– पुनरुपादानात् - अन्यान्यपि यानि नित्तनैमित्तिकानि कर्माणि गृह्येऽग्नौविधीयन्ते, तेष्वपि, न पुनः सायंप्रातर्होममात्र एवेत्यर्थः। जुहुयाद्वास्वयं, सम्भवश्चेत्, हावयेद्वा पुत्रादिभिरसम्भवश्चेत्। असम्भवकारणञ्चोक्तंकात्यायनेन कर्म्मप्रदीपे।
“सूतके च प्रवासे च अशक्तौश्राद्धभोजने।
एवमादिनिमित्तेषु हावयेदिति योजयेत्”।
इति। यदा पुनरसमर्थो व्याध्यादिना हावयति, तदा यत्कर्त्तव्यं तदप्याह सएव।
“स्वयं होमासमर्थस्य समीपमुपसर्पणम्।
तत्राप्यशक्तस्य सतः शयनाच्चोपवेशनम्”।
इति। तदनेन, नायं तुल्यवद्विकल्पः—जुहुयाद्वा हावयेद्वा-इति ! किन्तर्हि? कात्यायनवचनात् व्यवस्थितोऽयं विकल्पः।
कथं नाम?—सम्भवे जुहुयात्, असम्भवे हावयेदिति यथोक्तैव व्यवस्था।
“सन्ध्याकर्म्मवसाने तु स्वयं होमोविधीयते।
स्वयं होमे फलं यत्तु तदन्येन न जायते”।
इति च स्मृत्यन्तरम्। तदत्राद्यं सायंप्रातर्होमद्वयं स्वयमेव कर्त्तव्यम्। कस्मात्? अत ऊर्द्धम्—इत्यभिधानात्। अत-ऊर्द्धमिति खल्बभिदधान आचार्य्य आद्ये होमद्वये नायं विकल्पः-जुहुयाद्वाहावयेद्वेति — इति दर्शयति। तस्मादाद्यं होमद्वयं स्वयमेव कुर्य्यात् ऊर्द्धन्त्वस्मात् जुहुयाद्वा हावयेद्वेति सिद्धम्।
तस्य खल्वेतस्य होमस्यावधिरुच्यते—‘आजीवितावभृथात्’–इति। अवभृथोयज्ञान्त इत्यनर्थान्तरम्। इह त्वन्तमात्रमर्थः। जीवितस्यावभृथोऽन्तो विनाशः क्षय इत्येकोऽर्थः। तस्मात् जीवितावभृथात् आ। पदद्वयञ्चेदम्। जीवितक्षयपर्य्यन्तमित्यर्थः। तथाच श्रूयते। “यावज्जीवमग्निहोत्रं जुहोति” —इति। “एतद्वै जरामर्य्यंसत्रं यदग्निहोत्रं, जरया वा ह्येवास्मान्मुच्यते मृत्युना च” – इति। “जरामर्य्यंवा एतत् सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च, जरयाह वा एताभ्यां निर्मुच्यते, मृत्युनाच” – इति चैवमादि॥१३॥*॥
अथाप्युदाहरन्ति॥१४॥
अथेति पूर्व्वप्रकृतार्थम्। अथ यत् प्रकृतं—हावयेद्वेति, तदस्यार्थस्य द्रढिम्ने ब्राह्मणवाक्यमप्युदाहरन्ति शिष्टा इत्याभासान्तं सूत्रम्॥१४॥*॥
कामं गृह्येऽग्नौपत्नी जुहुयात् सायंप्रातर्होमौ, गृहाः पत्नी, गृह्यएषोऽग्निर्भवतीति॥१५॥
काममित्यनुमत्यर्थकोनिपात। असामर्थ्येगृह्येऽग्नौपत्नी जुहुयात् सायंप्रातर्होमौ। गृह्येऽग्नौ
स्वल्वयं होम इति पत्नी जुहुयात्। कस्मात्? तदुच्यते। गृहाः पत्नी, एष चाग्निगृह्योभवति। एतं खल्वग्निं गृह्य इत्याचक्षते। तथाच एतस्मात् समाख्यानात् पत्नी जुहुयात्। तथाच स्मर्य्यते।
“न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
तथा हि सहितः सर्व्वान् पुरुषार्थान् समश्रुते”।
इति। ततश्च यावता होमनिष्पत्तिर्भवति, तावन्मात्रंपत्नीमध्यापयेत्। कस्मात्? पत्नीजुहुयादितिवचनात्। न खल्वनधीत्य शक्नोति पत्नी होतुम्। न च तूष्णीमित्याह वचनम्। किमिव हि वचनं न कुर्य्यान्नास्ति वचनस्यातिभारः—इति हि तन्त्रस्थितिः। सा खल्वियं पत्नी होतुरन्यस्याभाव एव जुहुयात्। कस्मात्?
“निक्षिप्याग्निंस्वदारेषु परिकल्प्यर्त्विजन्तथा।
प्रवसेत् कार्य्यवान् विप्रोवृथैव न चिरं क्वचित्”।
इति कर्म्मप्रदीपवाक्ये ऋत्विक्परिकल्पनस्यार्थवत्त्वोपपत्तेः।
“असमक्षन्तु दम्पत्योर्होतव्यं नर्त्विगादिना।
द्वयोरप्यसमक्षन्तु भवेद्धुतमनर्थकम्”।
इति च तस्याः समक्षमेवर्त्विगादिना होमानुज्ञानात्। यदपि स्मरणम्—
“पत्नी पुत्रः कुमारी वा शिष्योवापि यथाक्रमम्।
पूर्व्वर्पूर्व्वस्य चाभावे विदध्यादुत्तरोत्तरः”।
इति। तदपि नास्माकं सम्भवति। कुमारीश्रवणात्। न खल्वस्माकं स्वशास्त्रेकुमार्य्याहोतव्यमिति श्रूयते। इतश्च। स्वशास्त्रविरोधात्। स्वशास्त्रे खल्बस्माकं पत्न्याः समक्षमेवर्त्विगादिना होमोऽनुज्ञाषते इत्यवोचाम। न च पत्न्या अप्यशक्तौ तदिति वाच्यं, मानाभावात्। न खल्वस्मिन् सङ्कोचे प्रमाणमस्ति। न च सामान्यमपि वचनमृते कारणाद्विशेषपरं कल्पयितुमुचितम्! इतश्च। ऋत्विक्परिकल्पनवैवर्थ्यात्। ऋत्विक्परिकल्पनं खल्वेवमनर्थकं स्यात्। पत्न्याः खल्वशक्तौऋत्विजा होतव्यमिति स परिचिकल्पयि-षितः। सा खल्वियमनर्थिका कल्पना स्यात्। कस्मात् ? तयैव तत्सम्भवात्। यदि नामाशक्तापत्नीभवेत्, तर्हि सैव तदानीमृत्विजं परिकल्पयिष्यति, किमिदानीमेव तत्परिकल्पनेन ?तदशक्तौचान्यपरिकल्पनाऽविशेषात्। परिकल्पितस्यापि ऋत्विजोऽशक्तौअन्योऽपि ऋत्विक् पत्न्या परिकल्पयितव्य एव—इति इदानीं ऋत्विक्परिकल्पने, न कञ्चिद्विशेषोऽस्ति।
ननु—“जातिन्तु वादरायणोऽविशेषात्, तस्मात् स्त्यपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्” —इति सिद्धान्तात् पत्न्यप्यधिकारिणी कथमिवादितो नजुहुयात् ? उच्यते। नैतदस्ति—केवलायाः पत्न्या-अधिकार इति। किन्तर्हि ? दम्पत्योः सहाधिकार इति सिद्धान्तः। तथा चोक्तम्। “स्ववतोस्तु वचनादैककर्म्म्यं स्यात्”–इति। “धर्म्मे चार्थे च कामे च नातिचरितव्या” – इति, “सह धर्मश्चरितव्यः”- इति चैवमादि खल्वभियुक्ताः स्मरन्ति। तस्मान्नास्ति पत्न्याः केवलायाः पृथगधिकारः। सहाधिकारेऽपि यावदुक्तमेव साऽधिकारोति इति तदन्यत्रानधिकार एव तस्याः श्लिष्यते। “तस्या यावदुक्तमाशीर्ब्रह्मचर्य्यमतुल्यत्वात्” इति सिद्धान्तात्। वचनबलादेवानयाहोतव्यमिति यथावचनमेवाधिक्रियते। दर्शितञ्चास्माभिर्वचनस्य तात्पर्य्यम् – होतुरन्यस्याभावे पत्नी जुहुयात् इति। “साचान्यहोतुरभावे जुहुयात् ” — इति च भट्ठभाष्यम्। तस्मादन्येषामेवैष नियमः पत्नी प्रथमं जुहुयात्, इति। परशास्त्रोक्तंखल्वेतदिति नास्माकं भवति। तथा चाश्वलायनगृह्यम्। “पाणिग्रहणादिगृह्यं परिचरेत् स्वयं पत्न्यपि वा पुत्रः कुमार्य्यन्तेवासीवा”-ति। इतिर्ब्राह्मणवाक्यपरिसमाप्त्यर्थः, सायंप्रातर्होमप्रकरणपरिसमाप्त्यर्थोवा॥१५॥*॥
उपदिष्टौ सायंप्रातर्होमौ, सूचितश्च प्रातर्होमानन्तरं ब्रह्मयज्ञः,-‘प्रदक्षिणमग्नि’ परिक्रम्यापां शेषं निनीय पूरयित्वाचमसं प्रतिष्ठाप्य यथार्थम्’ – इत्यत्र। स खल्वयं ब्रह्मयज्ञः पञ्चानां महायज्ञानामादिभूतः। तदाह कर्म्मप्रदीपः।
“देव-भूत-पितृ-ब्रह्म-मनुष्याणामनुक्रमात्।
महासत्राणि जानीयात्त एव हि महामखाः।
अध्यापनं ब्रह्मयज्ञः, पितृयजस्तु तर्पणम्।
होमोदैवो, बलिर्भौतो, नृयज्ञोऽतिथिपूजनम्”।
इति। अनुक्रमाद्वक्ष्यमाणानीत्यर्थ इति परिशिष्टप्रकाशः। ते खल्विमे पञ्च महायज्ञाः पञ्चसूनापापापनुत्तये गृहमेधिना प्रत्यहं कर्त्तव्याः। अतएव स्मरति भगवान्मनुः।
‘पञ्चैतान् यो महायज्ञान्न हापयति शक्तितः।
सगृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते।
इति।
“पञ्चसूना गृहस्थस्य चुल्लीपेषण्युपस्करः।
कण्डनी चोदकुम्भश्च बध्यते याश्च वाहयन्”।
इति च। स स्वल्वयं ब्रह्मयज्ञोऽध्यापनं श्रुतिजपश्च। तदप्याह कर्म्मप्रदीपः। “अध्यापनं ब्रह्मयज्ञः” – इति।
“वेदमादित आरभ्य शक्तितोऽहरहर्जपेत्”।
इति।
“यश्च श्रुतिजपः प्रोक्तः ब्रह्मयज्ञः स वोच्यते”।
इति च। अत्र शक्तित इत्युपादानादशक्तौकियानपि श्रुतिजपोब्रह्मयज्ञो भवतीत्यवगम्यते। “एकामृचं एकं वा यजुरेकं वा मामाभिव्याहरेत्”–इति च स्मृत्यन्तरम्। तदेवं छन्दोगानां स्वशाखापरिभाषितोद्विविधो ब्रह्मयज्ञो भवतीति परिशिष्टप्रकाशप्रभृतयः। भट्टभाष्ये तु-
“गुरावध्ययनं कुर्व्वन् शुश्रूषादि यदाचरेत्।
स सर्व्वोब्रह्मयज्ञः स्यात्तत्तपः परमुच्यते”।
इति स्मरणात् गुरोर्यदध्ययनं सोऽपि ब्रह्मयज्ञ इत्यभिहितम्। तस्य खल्वस्य ब्रह्मयजम्य विकल्पेन त्रयः काला भवन्ति। तथाच अध्यापनं ब्रह्मयज्ञः,’ – इति। यश्च श्रुतिजपः प्रोक्तः ब्रह्मयज्ञः स वोच्चते,’ —इति चाभिधायाहकात्यायनः।
“सचार्व्वाक् तर्पणात्कार्य्यः पश्चाद्वाप्रातराहुतेः।
वैश्वदेवावसाने वा नान्यत्रेति निमित्तकात्”।
इति। तर्पणादर्ब्बाक् श्रुतिजपात्मको ब्रह्मयज्ञः कार्य्यइत्येकः कालः। न चायं ब्रह्मयज्ञः सवितुरुपस्थानरूप इति वाच्यम्। तस्य ब्रह्मयज्ञत्वेप्रमाणभावात्। न खल्वस्ति प्रमाणं—सवितुरुपस्थानं ब्रह्मयज्ञ इति। कात्यायनः खल्वादितः सन्ध्योपासनमुक्त्वा उक्त्वाच तदतिक्रमदोषम्,– “वेदमादित आरभ्य” - इत्यादित -आरभ्य यथाशक्ति वेदाध्ययनं विदधौ। न चेदं सवितुरुपस्थानरूपं सम्भवति। आदित प्रारभ्येत्यभिधानात्। न च सवितुरुपस्थाने आदित आरभ्य वेदो जप्यते। तस्मात् सवितुरुपस्थानादन्यएव कश्चित् श्रुतिजपो वचनार्थः। यश्च श्रुतिजप इत्यादिना च तस्यैव ब्रह्मयज्ञसञ्ज्ञामभिधाय, – ‘सचार्व्वक् तर्पणात् कार्य्यः’ —इति तस्यैव तर्पणादर्व्वाक् कर्त्तव्यतां कात्यायनः प्राह स्म। अतएव स्मरति बृहस्पतिः।
“ब्रह्मयज्ञार्थसिद्ध्यर्थं विद्यामाध्यात्मिकींजपेत्।
जप्त्वाऽथ प्रणवं वापि ततस्तर्पणमाचरेत्”।
इति। तथा च सन्ध्योपासनमभिधाय ब्रह्मपुराणे।
“कृत्वा प्रदक्षिण सूर्य्यं नमस्कृत्योपविश्य च।
स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद्देवतामृषीन।
इति। स्वाध्यायब्राह्मणेऽपि, “रक्षांसि वा पुरोनुवाके तपोग्रमतिष्ठन्त तान् प्रजापतिर्वरेणोपामन्त्रयत” —इत्येवमादिना तृतीयेनानुवाकेन सन्ध्योपासनमभिधाय, “अज्ञान् ह वै पृश्नींस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्”– इति, “यत् स्वाध्यायमधीयीतैकामप्यृचं
यजुः साम वा तद्ब्रह्मयज्ञः सन्तिष्ठते” – इति चैवमादिभिरष्टाभिरनुवाकैः सविस्तरं पृथगेव ब्रह्मयज्ञः समाम्नायते। तस्मात्सवितुरुपस्थानरूपोऽयं ब्रह्मयज्ञ इत्याप्रमाणं वचनम्।
अथैवमाचार्य्येण स्नानग्रन्थे– “अथ नित्यवत् सन्ध्यामुपासीत उदुत्यं चित्रम्”– इत्युपक्रम्य, – “आभिॠग्भिः सवितुरुपस्थानम्”– इत्यभिधाय, __“नमो ब्रह्मणे इत्युपजाय चेत्यन्तेनाग्निस्पृप्यत्विति च मर्व्वत्र मव्येनैतांस्तर्पयेत्” —इत्येवमादिना तर्पणमभिधाय,- “गायत्र्यष्टगतमादौकृत्वा भामं दशस्तोभम्”– इत्यादिना,- “अहरहर्ब्रह्मयज्ञाय” इत्येवमन्तेन तर्पणानन्तरं ब्रह्मयज्ञोऽभि- हितः कथं सङ्गच्छते?
उच्यते। नैष दोषः। श्रुतिसामान्येऽप्यर्थभेदात्। समानायामप्युभयत्र तर्पणश्रुतावनयोरर्थभेदो भवति। भिद्यते खल्वनयोरर्थइत्यदोषः। आचार्य्यःकिल सूर्य्योपम्यानादनन्तरं स्नानाङ्गमेव तर्पणमभिदधौ न त्वन्यत् प्रधानभूतम् –‘पितृयज्ञस्तु तर्पणम्’ - इति। स्नानप्रकरणे खल्वाचार्य्यस्तर्पणं सूर्योपस्थानादनुपदमाह स्म। तदस्य तर्पणस्यस्नानाङ्गतायामस्ति प्रमाणं प्रकरणम्, न तु प्रधानतायां किञ्चिदपि प्रमाणं पश्यामः।कात्यायनवाक्यस्वरसादप्येवमेवाचार्य्यस्याभिप्रायोऽवधार्य्यते। कात्यायनोऽपि खल्वार्य्यस्याभिप्रायस्य प्रकाशयितेत्यवोचाम। सच ब्रह्मयज्ञानन्तरं तर्पणं पितृयज्ञमभिदधानः सूर्योपस्थानादनन्तरं तर्पणं स्नानाङ्गमेवाचार्य्येणाभिहितमिति दर्शयति। अन्यथा कथमिवस्वोपजीव्यस्यैवाचार्य्यस्य विरुद्धमयमभिदधीत! एवं खल्वस्यैव वचस्यानाश्वासोलोकानां प्रसज्येत !
तस्मादाचार्य्येण – “अथातः स्नानविधिं व्याख्यास्यामः” – इति प्रतिज्ञाय, “पुनः शन्नोदेव्यादिभिर्मार्जनञ्च”–इत्येवमन्तेन स्नानमभिधाय, तदङ्गस्य तर्पणस्याभिधाने प्राप्ते, “अथ नित्यवत्सन्ध्यामुपासीत” – इति, “आभिऋग्भिः सवितुरुपस्थानम्” —इति चानूद्य क्रमार्थं, तर्पणमभिहितम्। तस्मात् स्नानाङ्गं तर्पणं सबि-तुरुपस्थानात्परं पितृयज्ञस्तु तर्पणं ब्रह्मयज्ञात्परमित्यविरोधः।
आह। ननु ‘सचार्व्वाक् तर्पणात् कार्य्यः’ - इति कात्यायनवाक्यस्य पितृयज्ञरूपतर्पणपरत्वे किं मानम्? उच्यते।
“पञ्चानामथ सत्राणां महतामुच्यते विधिः”।
इत्युपक्रम्य पञ्चमहायज्ञप्रकरणे खल्वेवमभिहितं कात्यायनेन। तदत्र तर्पणपदस्योपक्रमोपस्थितं पितृयज्ञ एव तर्पणमर्थः। “सन्निहिते बुद्धिरन्तरङ्गा” – इति न्यायात्। “प्रकृतप्रत्ययश्च न्याय्यः”— इति चाभियुक्तवचनात्। व्यक्तिवचनानाञ्चामीषाम् आग्नेयीवत्सन्निहितव्यक्तिपरताया न्याय्यत्वात्। अतएव, ‘पितृयज्ञस्तु तर्पणम्’–इत्यत्रापि स्वोक्तमेव तर्पणमर्थः।
तस्माद् यथा “आग्नेय्या अग्नीध्रमुपतिष्ठते” – इत्याग्नेयीपदेन प्रकृतो ज्योतिष्टोमसमाम्नातोऽन्यत्र विनियुक्तोऽपि मन्त्रोगृह्यते, न पुनर्दाशतया लिङ्गवन्तोऽपि मन्त्रा नापि तदुभयम् - इति तृती- याध्याये निरूपितम्। एवमिहापि प्रकृतं पितृयज्ञरूपमेव तर्पणं परामृश्यते, न स्त्रानाङ्गं नाप्युभयमिति। कात्यायनो हि कर्म्मप्रदीपे दशमे खण्डे स्नानमुपदिश्य, एकादशं खण्डे गायत्रीजपान्तं सन्ध्योपासनं,—
“वेदमादित आरभ्य शक्तितोऽहरहर्जपेत्”।
इति जपयज्ञञ्चाभिधाय, द्वादशे खण्डे,
“यवाद्भिस्तर्पयेद्देवान् सतिलाद्भिः पितॄनपि”।
इत्यादिना स्नानसूत्रोपदिष्टात् स्नानाङ्गतर्पणाद्विलक्षणमेव सपरिकरं तर्पणमभिधाय, -
“छायां यथेच्छेच्छरदातपार्त्तः
पयः पिपासु क्षुधितोऽलमन्त्रम्।
बालोजनित्रींजननी च बालं
योषित् पुमांसं पुरुषश्च योषाम्॥
तथा सर्व्वाणि भूतानि स्थावराणि चराणि च।
विप्रादुदकमिच्छन्ति सर्व्वाभ्युदयकृद्धि सः।
तस्मात् सदैव कर्त्तव्यमकुर्व्वन् महतैनसा।
युज्यते ब्राह्मणः कुर्व्वन् विश्वमेतद्विभर्त्ति हि”।
इत्युपसंसृतवान्। तदत्राकरणे दोषस्य करणे चाभ्युदयस्योपदेशात् प्रधानमेवैतत् तर्पणमिति प्रतिपत्तव्यम्। न ह्यत्र तर्पणस्याङ्गत्वे लिङ्गादिकं किमपि प्रमाणमुपलभामहे; येन स्नानाङ्गमिदं तर्पणमिति प्रतिपद्येमहि। ब्रह्मयज्ञसाहचर्य्यादपि पितृयज्ञस्तर्पणं प्रधानमेवावगम्यते। साहचर्य्यमपि स्वल्वर्थस्य नियामकमिष्यते। अतएव कर्म्मप्रदीपे, ‘पितृयज्ञस्तु तर्पणम्’ - इतिस्नानप्रकरणनैरपेक्ष्येणाम्नातम्। मनुस्मृतावपि ‘पितृयज्ञस्तु तर्पणम्’-इत्युक्तम्। स्नानस्य तदङ्गतर्पणस्य वा नामापि तत्र न श्रूयते। प्रकरणान्तरे खल्विदमाम्नानं प्रकरणाधिकरणन्यायेन कर्म्मान्तरमवगमयति। तथा चोकम्। “प्रकरणान्तरे प्रयोजनान्यत्वम्”– इति। तुल्यञ्च ममाम्नानम् - अध्यापनं ब्रह्मयज्ञस्तर्पणं पितृयज्ञोहोमो देवयज्ञ इत्येवमादि न च स्नानाङ्गतर्पणादवक् वन्दोगानां ब्रह्मयज्ञो भवति। स्नानाङ्गतर्पणात् परत एवाचार्येण ब्रह्मयज्ञस्योपदेशात्। छन्दोगानां विहितस्यैव ब्रह्मयज्ञस्य खल्देष कालविधिः- ‘स चार्वाक् तर्पणात् कार्य्यः’ - इत्येवमादिः। न चान्यविषयमेतद्वाक्यम्। न खल्वस्यैव पूर्व्वस्मिन् परस्मिंञ्च वाक्यप्रवाहे छन्दोगविषये सति मध्यपठितमिदं वाक्यमकस्मादेवान्येषां भवितुमर्हति। न चार्टूजरतौयमुचितम्। तस्मान्न किञ्चिदेतत्। खानाङ्गमञ्च तर्पणमन्तरेण स्नानं न भवति, भवति चेदं तर्पणमन्तरेणापि स्नानं रोगाद्युपद्रवेषु।
“तर्पणन्तु शुचिः कुर्य्यात् प्रत्यहं स्नातकोद्विजः।
देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम्”।
इति च स्मॄत्यन्तरम्। तदेवं सिद्धे तर्पणद्वैते, स्नानाङ्गतर्पणं सवितुरुपस्थानात् परं पितृयज्ञस्तु तर्पणं ब्रह्मयज्ञादिति न किञ्चिदनुचितम्। अतएव कात्यायनेन श्रुतिजपात् परं तर्पणमुक्तम्।
यच्च तर्पणद्वैतमभ्युपगच्छताऽपि तत्त्वकारेण स्वानाङ्गतर्पणन्तु प्रधानतर्पणस्य प्रकृतिभूतं नित्याग्निहोत्रमिव सत्राग्निहोत्रस्य। तत्र खानाङ्गतर्पणस्य मन्ध्योत्तरत्वं साचादुक्रं विकृतावपि सम्भवे प्राप्तम्। यथा ज्योतिष्टोमस्य इष्ट्युत्तरकालत्वं विकृतिसोमेऽप्यतिदेशप्राप्तम् - इत्युक्तम्। तत्र तज ब्रूमः। स्मृत्यन्तरोतं प्रधानतर्पणं स्नानाङ्गतर्पणस्य विकृतिर्भवेत् भवतु नाम। कात्यायनोक्तन्तु प्रधानतर्पणं न स्नानाङ्गतर्पणेन विक्रियते। कस्मात्? सपरिकराभिहितत्वात्तस्य। सपरिकराभिहिता प्रकृतिर्विकृतिरन्या, - इति हि सिद्धान्तः। तत्र कुत्र कस्य धर्म्मःप्रदिश्यताम्।
अथापि भवतः श्रद्धामनुरुध्य प्रधानतर्पणं स्नानाङ्गतर्पणस्य विकृतिरिति सामान्येन प्रतिपद्येमहि, तथापि ‘स चार्वाक् तर्पणात् कार्य्यः’ - इति कात्यायनादिभिस्तस्य कालविशेषोपदेशात् नैव चोदकेन तत्र कालः प्रापयितव्यो भवति। वैकृतेन विशेषोपदेशेन प्राकृतस्य चोदकप्रापयितव्यस्य कालम्य बाधात्। चोदकेन हि विप्रकष्टाधीतः कालः संबन्धयितव्यः, मन्त्रिकष्टन्तु ब्रह्मयज्ञोत्तरलमिति शीघ्रमुपस्थितेन ब्रह्मयज्ञोत्तरत्वेन बिलम्बीपस्थितं सन्ध्योत्तरत्वं बाध्यते। शरमयेनेव वर्हिषा कुशमयं वर्हिः। अपिच। यदि विकृतावानुमानिकं चोदकप्राप्तं सामिधेनीनां पाञ्चदश्यं बाधित्वा, “सप्तदश सामिधेनीरनुब्रूयात्”–इत्यनारभ्याधीतेनापि वाक्येन साप्तदश्यं सामिधेनीनामिष्यते, तर्हि, ‘स चार्वाक् तर्पणात्कार्य्यः’ - इति ‘ब्रह्मयज्ञप्रसिद्ध्यर्थम्’ - इति चैवमादिभिर्वाक्यैः मातादेव पितृयज्ञविषयैः चोदकप्राप्तं मन्ध्योत्तरत्वं बाधित्वा पितृयजस्य तर्पणस्य ब्रह्मयज्ञोत्तरत्वं सुतरामेष्टव्यम्।
अतएव चातुर्मास्येषु साकमेधे तृतीये पर्व्वणि- “अग्नयेऽनीकवते प्रातरष्टाकपालो, मरुद्भ्यः सान्तपनेभ्योमध्यन्दिने चरुः, मरुद्भ्योगृहमेधिभ्यः सर्व्वासां दुग्धे सायमोदनम्” - इति प्रातर्माध्यन्दिने सायमित्यहः कालेषु दृष्टीनां समाम्नानात्, – यथा देवदत्तः प्रातरपूपं भक्षयति, मध्यन्दिने विविधमन्नमश्नाति, अपराह्नेमोदकान्
भक्षयति, —इत्येकस्मिन्नहनि इति गम्यते, तथाऽत्रापि गम्यते— इत्येकस्मिन्नहनि इष्टीनामवगमात् सद्यस्कालता विकृतीनाममूषामिष्टीनामिति चोदकप्राप्तमानुमानिकं द्व्यहकालत्वं बाध्यत इति पञ्चध्याये सिद्धान्तितम्। तथा चोक्तम्। “अपि वा क्रमकालमंयुक्तासद्यः क्रियेत तत्र विधेरनुमानात् प्रकृतिधर्म्मलोपः स्यात्” – इति। एवमिहापि भविष्यति।
ननु नास्त्यत्र शब्दब्रह्मयज्ञानन्तरन्तर्पणं पितृयज्ञः, —इति। साकमेधेऽपि तर्हि नास्ति शब्दः सद्यस्काला दूमा दृष्टय इति। तत्रार्थादवगम्यते सद्यस्कालता इति चेदिहाप्यर्थादवगम्यते ब्रह्मयज्ञोत्तरतेत्यविशेष एव। न स्वलु वयं शब्दस्याप्रयोगमर्थाभावे हेतुमभ्युपगच्छामः।मत्यप्यर्थे तदवमराभावान्न प्रयुज्यते शब्दइति ह्यभियुक्ताः कथयन्ति। गम्यते चान्यस्मात् कारणादयमर्थोयदुत ब्रह्मयज्ञादनन्तरं पितृयज्ञस्तर्पणं कर्त्तव्यमिति। अस्ति चात्र सक्षादपि ब्रह्मयज्ञोत्तरत्वावगमकं किञ्चिद्वचनम्। तच्च पुरस्तादेवोदाहृतमस्माभिः।
यदि पुनः सामान्यत एव तर्पणस्य ब्रह्मयज्ञोत्तरत्वमाम्नायेतापितर्हि तत् प्रकृत्या वा गृह्येत विकृत्या वा, —इति भवतां द्वयी गतिः स्यात्। तत्र यदि प्रकृत्या गृह्येत, तर्ह्युभयोः कालयोरन्यतरः कालः पक्षेपरित्यष्येत। यदि विकृत्या गृह्येत, तत्रापि चोदकेन प्राकृतस्य कालस्य प्रापितत्वादन्यतरः कालः परित्यज्येतैव। तदेवमुभयथाऽप्यन्यतरकालपरित्यागस्यावश्यकत्वे समानेऽपि यतरः पक्षोन्यायेनानुगृह्यते, ततरः पक्ष इहाश्रयितव्योभवति। तत्र विकृतौ
चोदकप्राप्तः काल आनुमानिक इति स त्यज्यताम्। प्रकृतौ तु सन्ध्योत्तरत्वकालः साक्षादाम्नात इति न युज्यते त्यक्तुमित्यस्मत्पक्षो न्यायेनानुगृह्यते।
अतएव, “य दृष्तृ्या पशुना सोमेन आग्रयणेन वा यक्ष्यमाणः सपौर्णमास्याममावस्यायां वा यजेत” - इति सामान्यवचनेन साङ्गम्य यागस्यामावस्यायां पौर्णमाम्यां वा करणालानात् तस्य च प्रकृतिपरत्वे तत्र प्रत्यक्षममान्नातस्य पूर्वेधुरग्निं गृह्णाति उत्तरमहदैवतां यजेत’ - इति कालस्य पक्षे परित्यागप्रसङ्गात् सामान्यवचनं विकृतिपरमिति तत्र चोदकप्राप्तमानुमानिकं हैयहकास्यपरित्यज्यते इति वैकृतानामैन्द्राग्नादौनां सद्यस्कालत्वमिति पञ्चमाध्याये सिद्धान्तितम्।
परमार्थतस्तु ब्रह्मयज्ञोत्तरत्वाम्नानं न सामान्यविषयं किन्तु पितृयज्ञरूपतर्पणविषयमेवेति पुरस्तादपदर्शितमस्माभिः। अतएव गोभिलीयवचनद्वयम्।
“आप्लवने तु संप्राप्ते तर्पणं तदनन्तरम्।
गायत्रीन्तु जपेत् पश्चात् स्वाध्यायञ्चैव शक्तिः।
आप्लवने तु संप्राप्ते गायत्रींजपतः पुरा।
तर्पणं कुर्वतः पश्चात् स्नानमेव वृथा भवेत्”।
इति। तदनेन स्नानाङ्गस्यैव तर्पणस्यायं काल इति स्पष्तृमवगम्यते। कस्मात्?‘आप्लवने तु संप्राप्ते, इत्युपक्रमात्। ‘स्नानमेव वृथा भवेत्’, इति चोपसंहारात्। तस्मादियमेवावधारणा, - नानाङ्गं तर्पणं जपयज्ञात् पूर्व कर्त्तव्यं जपयज्ञादनन्तरञ्च तर्पणं पितृयज्ञरूपं
कर्त्तव्यमिति। तदनेन तन्त्रता निरस्ता।कस्मात्? कालभेदात्। अन्यः कालः पितृयज्ञस्य तर्पणस्य ब्रह्मयज्ञोत्तरत्वमन्यश्च कालः स्नानाङ्गस्य तर्पणस्य सूर्य्योपस्थानोत्तरत्वमिति भवति कालभेदः। ‘स चार्व्वाक् तर्पणात् कार्य्यः’ - इति तर्पणादर्व्वाग्ब्रह्मयज्ञमभिदधानः कात्यायनोऽर्थाद् ब्रह्मयज्ञात् परं तर्पणं पितृयज्ञरूपं दर्शयति।
एतेन यत्परिशिष्टप्रकाशकृताऽभिहितम् – ‘सचार्व्वाक् तर्पणात्कार्य्यः’ - इति यजुर्व्वेदिविषयम्, छन्दोगानान्तर्पणात्परं ब्रह्मयज्ञाभिधानादिति, यच्च तत्त्वकारेण - ब्रह्मयज्ञानन्तरन्तर्पणं सामगेतरेषामिति। तदसङ्गतम्। पितृयज्ञरूपं खल्विदं तर्पणं —‘स चार्व्वाक्तर्पणत्कार्य्यः’ - इति, स्नानाङ्गमञ्च तर्पणं ब्रह्मयज्ञादर्व्वागभिहितमिति विभिन्नविषयतया विरोधानवसरात्। शब्दमूलः खल्वयमर्थोभवति— अनेनेदं कर्त्तव्यमनेनेदमिति। न खल्वस्ति शब्दो —ब्रह्मयज्ञानन्तरन्तर्पणं सामगेतरेषामिति। सेयमशाब्दी पुरुषबुद्धिमूला कल्पना प्रेक्षावतामनपेक्षणीया भवति। कस्मात्? – “धर्म्मस्य शब्दमूलत्वादशब्दमनपेक्षंस्यात्”–इति जैमिनिसूत्रात्। लाघवादेवमस्तु, इति चेदुच्यते। न खलु शास्त्रबलाद्वस्तुसिद्धौलाघवं किमपि कर्तुमर्हति। पुरुषप्रवृत्तौ खल्वेतदुपयुज्यते। अल्पीयस्यदृष्टानुमानकल्पना न्याय्येति चेदुच्यते। सत्यं न्याय्या—अल्पीयस्यदृष्टानुमानकल्पना यत्र विशेषहेतुर्नास्ति। इह चास्ति विशेषहेतुः-’स चार्व्वाक्तर्पणात् कार्य्यः’ इति। प्रमाणस्य स्वल्वभावेऽल्पीयस्यपि अदृष्टानुमानकल्पना न क्रियते,—क्रियते पुनर्गरीयस्यपि सति प्रमाणे ति हि प्रमाणपरतन्त्राणां समयः। तथा चाभियुक्तानां वचनम्।
“प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि।
अदृष्टशतभागोऽपि न कल्प्यो निष्प्रमाणकः”।
इति। अपि च। छन्दोगानां स्वशास्त्रोपदिष्टं प्रधानतर्पणस्य ब्रह्मयज्ञोत्तरत्वं छन्दोगेतरेषामिति वदन् प्रष्टव्यः। स्वशास्त्रोपदिष्टं ब्रह्मयज्ञोत्तरत्वं छन्दोगैः कुतस्त्यज्यते? तेषां सन्ध्योत्तरत्वस्य चोदकप्राप्तत्वादिति चेत्। न। तेषां ब्रह्मयज्ञोत्तरत्वस्यापि वाक्येन प्राप्तत्वाविशेषात्। एवञ्च कतरदिह त्यक्तव्यमिति भवति विचारणा। तत्र चोदकप्राप्त एवानुमानिकः कालस्त्यक्तव्यः साक्षादुपदिष्टं ब्रह्मयज्ञोत्तरत्वं न युज्यते त्यक्तुमित्यवोचाम।
ननु उक्तं सामगेतरेषामुपदेशोऽयं भविष्यति,—इति। नैतत् साधूक्तम्। न खल्वत्र सामगेतरे श्रूयन्ते, किन्तर्हि भवता कल्पयितुमभिप्रेयन्ते। सैव कल्पना न सम्भवतीति ब्रूमः। छन्दोगानां प्रधानतर्पणम्य मन्ध्योत्तरत्वं चेत् कुतश्चित् कारणात् मिध्येत्, विकल्प एव तर्ह्युभयोः कालयोर्भवेत्। न तु छन्दोगपरिशिष्टोपदिष्टकालम्य छन्दोगेतरविषयत्वमिति साध्वी कल्पना। तदपि चोदकेन सिषाधयिषितं, तच्च न सम्भवतीत्युक्तम्।
इतरेतराश्रयाच्चासीद्भिः।चोदकेन छन्दोगानां प्रधानतर्पणस्य सन्ध्योत्तरत्वसिद्धावेव तद्विरोधाद्ब्रह्मयज्ञोत्तरत्वावेदकस्य शास्त्रस्य तदन्यपरत्वं सेत्स्यति, सिद्धे च तच्छास्त्रस्य तदन्यपरत्वे प्रधानतर्पणस्य चोदकेन सन्ध्योत्तरत्वसिद्धिरितीतरेतराश्रयमापद्यते। तस्मादितरेतराश्रयाञ्च न सिध्यति तद्वचनस्य सामगेतरविषयत्वम्। वैकृतश्चार्थोऽर्थादप्यवगम्यमानश्चोदकं बाधते चोदकस्य दुर्व्वलत्वादित्यप्युपदर्शितमेवाधस्तात्।
अपि च। छन्दोगपरिशिष्टोपदिष्टं पितृयज्ञस्य तर्पणस्य ब्रह्मयज्ञोत्तरत्वं छन्दोगानां न भविष्यति, भविष्यति त्वन्येषामिति कोऽयमसदावेशः परीक्षकाणामिति न खल्बधिगच्छामि। यावान् खल्वश्रुतकल्पनाथां दोषस्तावानेव श्रुतस्योत्सर्गे इति हि तन्त्रस्थितिः। भवतां मते त्वपहस्तितैव स्थितिरियं स्यात्। अश्रुतस्य छन्दोगेतरविषयत्वस्यकल्पनात् छन्दोगानां श्रुतस्य ब्रह्मयज्ञोत्तरत्वस्यो त्सर्गाञ्च। न खल्वन्यशास्त्रोक्तमपि पुरुषबुद्ध्या बलादन्यत्र नीयते इति युक्तम्। न खल्वेवमयं धर्म्मोभवति।
यदपि छन्दोगानां स्नानाङ्गतर्पणम्य सन्ध्योत्तरत्वमुक्तम्। तदप्ययुक्तम्। सवितुरुपस्थानात् परमेव तेषां स्नानाङ्गतर्पणस्य करणोपदेशात्। न चोपस्थानान्तमेव छन्दोगानां सन्ध्योपामनम्, किन्तर्हि? - गायत्रीजपान्तमेव। कथं ज्ञायते? शृणु यथा ज्ञायते। “अथातः सन्ध्योपासनविधिं व्याख्यास्यामः” – इति प्रतिज्ञाय, “ध्यानयुक्तमावर्त्तयेदोंपूर्व्वांगायत्रीम्”–इति गायत्रीजपान्तमभिधाय, “अथ य इमां सन्ध्यां नोपास्ते” - इत्युपसंहरन्नाचार्यो गायत्रीजपान्तमेव सन्ध्योपासनमिति दर्शयति। अतएव स्नानप्रकरणे – “अथ नित्यवत् सन्ध्यामुपासीत्” – इत्यभिधाय, “सवितुरूपस्थानं, नमो ब्रह्मणे इत्युपजाय च” – इत्यभिहितम्। तदत्र-सन्ध्यामुपासीत-इति गायत्रीजपान्तमेव सन्ध्योपासनं प्राप्नोतीत्यन्तरा तर्पणार्थम् - सवितुरुपस्थानम् इति वचनं सङ्गच्छते। तदन्तस्य सन्ध्योपासनत्वे तु – सन्ध्यामुपासीत-इत्यनेनैव प्राप्तत्वात्—सवितुरुपस्तानम् —इति पुनर्व्वचनमाचार्यस्यानर्थकमेव स्यात्। कर्म्मप्रदीपोऽपि।
“अत ऊर्द्धं प्रवक्ष्यामि सन्ध्योपासनिकं विधिम्।
अनर्हःकर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः”॥
इति प्रतिज्ञाय,—
“तिष्ठेदोदयनात् पूर्व्वांमध्यमामपि शक्तितः।
आसीतोडूद्गमाच्चान्त्यां सन्ध्यां पूर्व्वत्रिकं जपन्”॥
इति गायत्रीजपान्तमभिधाय,—
“एतत् सन्ध्यात्रयंप्रोक्तंब्राह्मण्यं यत्र तिष्ठति।
यस्य नास्यादरस्तत्र न सब्राह्मण उच्चते”॥
इत्युपसंजहार।
यत्पुनर्मनुवचनम्—
“यदेव तर्पयत्यद्भिः पितॄन्, स्नात्वाद्विजोत्तमः।
तेनैव सर्व्वमाप्नोति पितृयज्ञक्रियाफलम्”॥
इति। तत्स्नात्वेति साङ्गस्य सतर्पणस्य स्नानस्याभिधानात्यदेवेति स्वोक्तमेव—‘पितृयज्ञस्तु तर्पणम्’ —इति प्रधानतर्पणं परामृशति। अशक्तावप्यन्यस्य पितृयज्ञस्य तर्पणादेव सर्व्वंपितृयज्ञफलं दर्शयति। स्नात्वेति तु प्राप्तस्यैव कर्म्मार्थस्नानस्यानुवादः। यथा स्मृत्यन्तरे—
“यदादौ वेदमारभ्य स्नात्वा भक्त्या द्विजोत्तमः।
अध्यापयेत् द्विजान् शिष्यान् सोऽयं ब्रह्ममस्वः स्मृतः”॥
इत्येवमादौ। अथवा। अत्यन्ताशक्तः स्नात्वा यदेव तर्पयति स्नानाङ्गमपि, तेनापि पितृयज्ञफलमाप्नोतीत्येवमर्थं मनुवचनं भविष्यतीत्यदोषः। न चास्मादेव मनुवचनात् स्नानाङ्गतर्पणादेव प्रधानतर्पणं तन्त्रात् सेत्स्यति इति वाच्यम्। नैयायिक्यास्तन्त्रतायाः कालभेदेऽसम्भवात्। नैयायिकीखल्वियं तन्त्रतेष्यते। न च कालभेदे तन्त्रतान्यायोऽस्ति। न च वचनशतेनापि न्याय-आनेतुं शक्यते। तस्मादशक्तविषयं मनुवचनं वाच्यम्। न च वाच्यं—कात्यायनवचनमेव स्नानाशक्तविषयं किमिति न स्यादिति। प्रमाणाभावात्। न हि मनुः स्नानाङ्गतर्पणस्य पितृयज्ञत्वं स्मरति, किन्तर्हि? तेनैव पितृयज्ञफलप्राप्तिम्। कात्यायनस्तु पितृयज्ञस्य तर्पणस्य जपयज्ञात् पराचीनत्वम्। तदनयोर्विभिन्नविषययोर्व्वाक्ययोर्नास्त्येकविषयत्वम्। विशेषवचनत्वाच्च। विशेषवचनं खल्विदं कात्यायनस्य छन्दोगविषयं, न सामान्येन मनुवचनेनान्येन वा सङ्कोचयितुमुचितम्। विशेषस्य बलवत्त्वात्। “पदार्थान्तरसाकाङ्क्षविशेषमपहाय तदिरत्र सामान्यमन्वेति” – इति हि न्यायः। कथं पुनर्मनोर्बलत्वमुच्यते? बृहस्पतिस्त्वस्य प्राधान्यं स्मरति—
“वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः स्मृतम्।
मन्वर्थविपरीता या सा स्मृतिर्न प्रशस्यते”॥
इति। अत्रोच्यते। सत्यं स्मरति बृहस्पतिरस्यप्राधान्यम्, अस्त्येव तत्, तच्च वयमपि नापलपामः। परमेतत्प्राधान्यमवष्टभ्य नात्र निर्णयो युक्त इति ब्रूमः। यत्र खल्वन्यत् विनिगमनाकारणं नास्ति, समानविषयञ्च समाम्नानद्वयमुपलभ्यते, तत्र मनोः प्राधान्यमवष्टभ्य शास्त्रार्थावधारणाकर्त्तुमुचिता। सामान्यविशेषवचनयोस्तु विशेषवचनं बलवदिति को नाम साहसिकः समुत्सहतेऽपलपितुम्? एवं खल्वपहस्तितैव शास्त्रमर्य्यादा स्यात्। सर्व्वाणि दर्शनानि सर्व्वे च लोकाः व्याकुप्येरन्। अतएव मनोरननुमतमपि वैश्वदेवादिकमाचार्य्यानुमतमनुष्ठीयते, मन्वनुमतन्तु काम्यतया क्रियते इति निपुणतरमुपपादयिव्यामः।
परमार्थतस्तु ‘स्नात्वा यदेव तर्पयति’—इति, ‘तेनैव’—इति च ब्रुवाणोमनुरेवकारादन्यत् तर्पणं विनाऽपि, पित्र्यबलिनेव, स्नानाङ्गतर्पणेनैव पितृयज्ञफलप्राप्तिं दर्शयति इति—तद्वचनमेव पृथक्तर्पणाशक्तविषयं भवितुमुचितम्। अपिच। मनुना स्नानाङ्गतर्पणेनैव पितृयज्ञक्रियाफलप्राप्तिवचनात् तन्त्रतांमनुमायान्यथानुपपत्त्या पितृयज्ञतर्पणस्य तत्कालत्वमनुमित्सति भवान्। अस्मादेव च कारणात् ब्रह्मयज्ञोत्तरत्ववचनं स्नानाशक्तविषयमिति प्रतिपद्यते। तच्चैतदनुचितम्। कस्मात्? इतरेतराश्रयात्। सिद्धे हि स्नानाङ्गतर्पणकालत्वे प्रधानतर्पणस्य, ब्रह्मयज्ञोत्तरत्ववचनं स्नानाशकविषयमवतिष्ठते। सिद्धे च ब्रह्मयज्ञोत्तरत्ववचनस्यस्नानाशक्तविषयत्वे प्रधानतर्पणस्य तत्कालत्वानुमानकल्पना—इति इतरेतराश्रयमापद्येत। अपि चार्थविप्रकर्षात्। विप्रकृष्टा खल्वेषा कालकल्पना, सन्निकृष्टेन कालेन ब्रह्मयज्ञोत्तरत्वेन बाध्यते आनुमानिकं खल्विदं स्नानाङ्गतर्पणकालत्वं प्रत्यक्षन्तु ब्रह्मयज्ञोत्तरत्वं प्रत्यक्षञ्चानुमानाद्बलीयः। यावत् खल्वनुमातुमुत्सहते भवान्, तावदेव ब्रह्मयज्ञोत्तरत्वमन्वीयते—इति प्रत्यक्षविरोधादनुमानमेव बाध्यते इति युक्तम्। सदाचारस्य स्मृत्यपेक्षया दुर्ब्बलतायामित्थमेवकारणमभिहितं वार्त्तिककृद्भिः। तथा चोक्तम्।
“सदाचारः स्मृतिं यावदनुमातुं समुत्सुकः।
स्मृतिर्लब्धश्रुतिस्तावद्धर्म्ममेव प्रमापयेत्”॥
इति। अपि च।
“तेनैव सर्व्वमाप्नोति पितृयज्ञक्रियाफलम्”।
इत्यवधारयन्मनुरशक्तविषयमिदमिति दर्शयति। शक्तस्य तु श्राद्धादिकरणं दर्शयिष्यामः। यदि पुनः केषाञ्चिदपि शाखिनां तर्पणयोः समानकालत्वं प्रामाणिकम्। तर्हि कामं तत्परमस्तु मनुवचनम्। तावताऽप्यस्माकं ब्रह्मयज्ञोत्तरत्ववचनं नापचीयते। तस्मादस्मदुक्त एवार्थः समादरणीयः।
अथैवमेकस्मिन्नेव दिने स्नानाङ्गं प्रधानञ्चेति तर्पणद्वयं कर्त्तव्यमित्युक्तम्। तत् खल्वनुचितमेव। कस्मात्?
“नावर्त्तयेत् पुनः कर्म्मतर्पणादिकमन्वहम्।
काम्यनैमित्तिके हित्वा एकं ह्येकत्र वासरे”॥
इत्येवमादिस्मरणात्। उच्यते। इदं हि वाक्यं, ‘एकं ह्येकत्र वासरे’ – इत्युपसंहारादेकस्यैव कर्म्मणः फलभूमार्थितया पुनरावृत्तिं निषेधतीति- सकृदनुष्ठानेनैव शास्त्रार्थस्य कृतत्वात् सुतरां नावर्त्त्यते कर्म्मेति न्यायमूलम्। न पुनर्निमित्तभेदेऽपि नैमित्तिकानामावृत्तिं निषेधति। सति निमित्ते नैमित्तिकस्यावश्यम्भावात्। अत एवैकस्मिन्नहनि प्रातर्मध्याह्नेच स्नानाङ्गतर्पणमुपपद्यते। ‘काम्यनैमित्तिके हित्वा’ - इति च निमित्तभेदेनावृत्तौ मुनेः स्वरसोऽवगम्यते। अतएवेदमपि प्रदर्शनमात्रं न पुनर्नियमार्थम्। न्यायस्यान्यत्राप्यविशेषात्। अतएव—
“विषुवद्दिवसे प्राप्ते पञ्चतीर्थीविधानतः।
स्नात्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्राञ्च भो द्विजाः”॥
इत्येकस्मिन्नपि दिने निमित्तभेदेन नैमित्तिकावृत्तिर्न्यायावगतैव स्मर्य्यते। तथा।
“धर्मविन्नाचरेत् स्नानमाह्निकञ्च पुनः पुनः।
तर्पणं ब्रह्मयज्ञञ्च वैश्वदेवं न चाचरेत्”॥
इति। इदमपि वचनं एकस्यैव कर्म्मण एकदैव पुनराचरणं निषेधतीति न्यायमुलमेव। वैश्वदेवसाहचर्य्याच्चैवमवगम्यते। न खल्वेकस्मिन् दिने सकृदेव वैश्वदेवः कर्त्तव्यः इति शक्यते वक्तुम्।रात्रावपि पुनर्वैश्वदेवस्य वक्ष्यमाणत्वात्। अतएव सामान्यतः स्मर्य्यते।
“यथाब्देनाब्दिकं कर्म्ममासेनैव तु मासिकम्।
न्यूनाधिकं न कर्त्तव्यं न चैकत्र क्रियाद्वयम्”॥
इति। एकस्याः क्रियाया एकदा वारद्वयविधानं न युक्तमिति हलायुधः। तस्मात् तर्पणद्वयमविरुद्धम्। तदेवं ‘स चार्व्वाक्तर्पणात् कार्य्यः’—इति ब्रह्मयज्ञस्यैकः कालः। पश्चाद्वाप्रातराहुतेः’—इत्यपरः कालः। अध्यापनं श्रुतिजपश्चात्रकर्त्तव्यम्। तथा च स्मर्य्यते।
“द्वितीये च तथा भागे वदाभ्यासोविधीयते।
वेदाभ्यासो हि विप्राणां परमन्तप उच्यते।
ब्रह्मयज्ञः स विज्ञेयः षड़ङ्गसहितस्तु सः।
वेदस्वीकरणं पूर्व्वंविचारोऽभ्यसनं जपः।
तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासश्च पञ्चधा”।
इति। अनया च स्मृत्येदमवगम्यते—
यत् गुरोरध्ययनमपि ब्रह्मयज्ञोऽत्रैव कर्त्तव्यमिति। अत्र चाध्यापनं प्रथमः कल्प इति भट्टभाष्यम्। कर्म्मप्रदीपोऽप्याह।
“ब्रह्मयज्ञादपि ब्रह्मदानमेवातिरिच्यते”।
इति। ‘वैश्वदेवावसाने वा’—
इत्यपरः कालः। वैश्वदेवो नाम होम उच्यते देवयज्ञरूपः। विश्वे देवाः सर्व्वेदेवाः, ते यम्य होमस्य देवताः सोऽयं देवयज्ञात्मको होमो वैश्वदेव इत्युच्यते। तदवमानमन्यः कालो ब्रह्मयज्ञस्य। तस्य खल्वस्य वैश्वदेवम्यानसाने विहितमपि वामदेव्यगानं बलिकर्म्मान्त एव कर्त्तव्यम्।
“अहोमकेव्वपि भवेत् यथोक्तं चन्द्रदर्शने।
वामदेव्यं गणेष्वन्ते बल्यन्ते वैश्वदेविके”।
इति कर्म्मप्रदीपदर्शनात्। स खल्वयं वामदेव्यगानरूपो ब्रह्मयज्ञोवैश्वदेवावसाने बलिकर्म्मकृत्वा कर्त्तव्यः—
इति परिशिष्टप्रकाशः। बल्यन्ते वामदेव्यगानान्तिको यो जपः सब्रह्मयज्ञः—
इति भट्टभाष्यम्। ते खल्विमे त्रयो ब्रह्मयज्ञकाला व्यवस्थिता वेदितव्याः। कथन्नाम? तर्पणादर्ब्बाक् श्रुतिजपः। प्रातराहुतेः पश्चात् स चाध्यापनञ्चाध्ययनञ्च।वैश्वदैवावसाने सएवेति। साखल्वियं व्यवस्था बहुसम्मतेत्यादरणीया।अनियमेनैते यथासम्भवं ब्रह्मयज्ञकाला इत्यपरमतम्। वैश्वदेवावसाने तु व्याख्यातारो विवदन्ते। केचिदाहुः—
वामदेव्यगानमेवात्र श्रुतिजप इति। त्वाहुः—
वामदेव्यगानमपि अन्यदप्यध्ययनमत्र श्रुतिजप इति। इदमेव तावन्मतमाद्रियामहे। कस्मात्? ब्रह्मयज्ञस्यैव कालत्रयविधानात्। व्यवस्थायाञ्च प्रमाणविशेषाभावात्। द्वयान् परं विशेषः। यदशक्तौ कर्म्मापवर्गविहितेनापि वामदेव्यगानेन तदानींस कृतो भवति। तमिमं तृतीयं महायज्ञं वैश्वदेवमुपदिदिक्षुराचार्य्यइदमाह।
निष्ठिते सायमाशप्रातराशे भूतमिति प्रवाचयेत्॥१६॥
निष्ठा निष्पत्तिः संजाताऽस्येति निष्ठितः तस्मिन्निष्ठिते निष्पन्ने इत्येतत्। अन्ये त्वाहुः - निष्ठिते निःशेषेण व्यञ्जनोपसेचनादिसहिते स्थिते सिद्धे—
इति। कस्मिन्? सायमाशप्रातराशे, साथमाश्यते इति सायमाशः, प्रातराश्यते इति प्रातराशः, स च सचेति द्वन्द्वैकवद्भावस्तस्मिन् सायमाशप्रातराशे। सायंप्रातः शब्दौ खल्विमौ दिवारात्रिपरौ। कस्मात्?
“मुनिभिर्द्विरशनं प्रोक्तं
विप्राणां मर्त्यवासिनां नित्यम्।
अहनि च तथा तमस्विन्यां
सार्द्धप्रहरयामान्तः”।
इति कर्म्मप्रदीपदर्शनात्। भूतमिति प्रवाचयेत्, प्रकर्षेण वाच्येत्। भूतमिति प्रवाचयेदिति सूत्रयन्नाचार्यो—
भूतमिति ब्रूहीति प्रवाचयितुः प्रश्नोऽर्थादायात इति दर्शयति। कः प्रवाचयेत् ?
गृहपतिः। कस्मात्? प्रकृतत्वात्। कां प्रवाचयेत्? पत्नीम्। कस्मात्? अन्नपंक्त्यां तस्या एवाधिकारात्। कथमन्नपंक्त्यां तस्याएवाधिकारः? मन्वादिस्मरणात्। तथा च स्मरति भगवान्मनुः।
“अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्।
शौचे धर्म्मेऽन्नपंक्त्याञ्च परिणाय्यस्य रक्षणे”।
इति। केनचित् प्रतिबन्धेन पत्नी चेदसन्निहिता रसवत्यां, तर्हि किं कर्त्तव्यम्? इत्यत्राह कर्म्मप्रदीपः।
“भूतप्रवाचने पत्नी यद्यसन्निहिता भवेत्।
रजोयोगादिना तत्र कथं कुर्व्वन्ति याज्ञिकाः?
महानसेऽन्नं या कुर्य्यात्सवर्णान्तां प्रवाचयेत्।
प्रणवाद्यपि वा कुर्य्यात् कात्यायनवचो यथा”।
इति॥१६॥*॥
ऋते भगया वाचा शुचिर्भूत्वा॥ १७॥
ऋते विना, अभगया अभजनीयया अशोभनया वाचा, तां विनेति व्यत्ययेनेयं तृतीया द्रष्टव्या। अथवा। ऋते प्रदीप्ते, तत्राप्यस्याभिधानकाण्डे पाठात्। कस्मिन्? प्रकृतत्वादग्नौ, बैश्वदेवार्थमिति वाक्यशेषः। भट्टभाष्ये तु—
“ऋते गते। ऋ गतौ। कस्मिन्? प्रकृतत्वादन्नहोमार्थमग्निसविधमासादिते इत्यर्थः। एतस्मिन् काले प्रवाचयेत्”। इति व्याख्यातम्। तथाच गृहपतिना भगया वाचा भूतमिति ब्रूहीत्येवमभिहिता पत्नी, शुचिर्भूत्वाऽऽचमनादिना, भगया वाचा शोभनया विस्पष्टया भूतमिति ब्रूयादित्यर्थः।
गृहपतेः खल्वाचान्तोदकेन कृत्यमित्यनेनैव शौचं सिद्धमिति शुचिर्भूत्वेत्येतत् पत्नीसम्बन्धविवक्षयैवाचार्य्यः सूत्रयाञ्चकारेति गम्यते॥१७॥*॥
पत्न्या खल्वेवमुक्तेगृहपतिः—
प्रतिजपत्योमित्युच्चैस्तस्मै नमस्तन्माख्या इत्युपाँशु॥१८॥
ॐ इत्युच्चैः प्रतिजपति। तस्मै नमस्तन्माख्या दृत्युपांशु—
“शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयन्।
किञ्चित् शब्दंस्वयं विद्यादुपांशु स जपः स्मृतः”।
इत्युक्तलक्षणं यथा भवति,तथा प्रतिजपतीत्यनुषज्यते॥१८॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्यतृतीयाखण्डिका॥
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठकेचतुर्थी खण्डिका
अथेदानीमुपक्लप्तेनान्नेन वैश्वदेवबलिकर्मणीकर्त्तव्ये—इत्येतदाह।
अथ वाग्यतो बलीन् हरेत्॥१॥
अथेत्यानन्तर्य्यार्थम्। वक्ष्यमाणं वैश्वदेवहोमं निर्वर्त्त्याथानन्तरं वाग्यतः संयतवाक्, बलीन् वक्ष्यमाणान्, हरेन्निदध्यादित्यर्थः ननु वक्ष्यति होमानन्तरम्—‘अथ बलीन् हरेत्,’ - इति, तत् किमित्यस्मिन्नथेत्युच्यते? उच्यते। होमानन्तरं बलीनेव हरेत्, न त्वन्यत् किञ्चित् कुर्य्यादित्येवमर्थमिदमुच्यते। तदनेन वैश्वदेवावसानविहितमपि वामदेव्यगानादिकं बलिहरणान्त एव कर्त्तव्यम्। अत एव कात्यायनोऽपि—
“वामदेव्यं गणेष्वन्ते बल्यन्ते वैश्वदेविके”।
इति स्मरति। एतेन—
“प्रियो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा।
संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः”।
इति स्मृतिरपि व्याख्याता वेदितव्या॥१॥*॥
वाग्यत इत्यस्यापवादमाह –
भाषेतान्नसँसिद्धिमतिथिभिः कामँसम्भाषेत॥२॥
भाषेत वदेत्, अन्नसंसिद्धिमन्नस्य सम्यक्सिद्धिं प्रकृतिमित्येतत्। किमिदमन्नमुपसिक्तंउत न?—इत्येवमादिकामन्नप्रकृतिं प्रति भाषेत। भाषणञ्चेदं पृच्छारूपम्। अन्नसंसिद्धिमन्नसंसिद्ध्यर्थंभाषेत – इति भट्टनारायणोपाध्यायाः। अतिथिभिः—
“एकरात्रं हि निवमन्नतिथिर्ब्राह्मणः स्मृतः।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते”।
इति मन्वादिस्मरणात् नास्तिद्वितीया तिथिरस्येत्यतिथिरुच्यते। तैरतिथिभिः सह। बहुवचनात् सम्भवे बहवोऽप्यतिथयोभवन्तीति दर्शयति। काममिच्छया सम्भाषेत बलिहरणकालेऽपि।अतिथिगुणविशेषादिकं ज्ञात्वा इच्छया सम्भाषेत वा, न वा सम्भाषेत—इत्यनियमः॥२॥*॥
अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जुहुयात् तृष्णींपाणिनैव॥३॥
अथेति प्रकृतममन्त्रकपरिसमृहनादि समिदाधानान्तं स्मारयति। कर्म्मप्रदीपोऽप्याह—
“पर्य्यु्क्षणञ्च सर्व्वत्र कर्त्तव्यमदितेन्विति।
अन्ते च वामदेव्यस्य गानं कुर्य्यादृचस्त्रिधा”।
इति। हविष्यस्यान्नस्येति षष्ठी सम्बन्धार्था अवयवार्था वा। सावशेषः खल्वेष होमो भवति। न खल्वत्र सर्व्वहुतत्वे प्रमाणमस्ति।
एतदवशिष्टेनैवान्नेन बलिहरणं, गृहमेधिनो भोजनञ्चास्यैव इति च वक्ष्यामः। अन्नस्येति च सूत्रयन्नाचार्य्योनात्रचरोरावृदस्तीति दर्शयति। स्थालीपाके—चरौ खलु तामावृतं वक्ष्यति। न खल्वत्र स्थालीपाकः श्रूयते। मनुरपि—
“वैश्वदेवस्य सिद्धस्य गृह्येऽनौ विधिपूर्व्वकम्।
आभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्वहम्”॥
इति स्मरति। विश्वे देवाः सर्वे देवास्ते यस्य पाकस्य देवताः सोऽयं वैश्वदेवोऽहरहर्यत् पच्यते तदुच्यते। तदयमर्थः। अथ समिदाधानान्तकर्मानन्तरं हविष्यस्यान्नस्य उद्धृत्य गृहौला, हविष्यै-घृतदुग्धदध्यादिभिर्व्यञ्जनै रुपकरणैरुपसिष्य मन्त्रीयाग्नौ जुहुयात्। तूष्णौमिति वाग्व्यापारप्रतिषेधान्मनमा मन्त्रमुच्चार्येत्यर्थः। वाग्यतोबलौन् हरेत्, – इति बलिहरण एव वाग्यतत्वमुक्रमितीह होमे न प्राप्नोतौति खल्वाचार्य्यस्तूष्णीमित्याह। ‘पाणिनैव’ जुडयात्र खुवादिपात्रान्तरेणेत्यर्थः॥३॥
प्राजापत्या पूर्व्वाऽऽहुतिर्भवति सौविष्टकृत्यत्तरा॥४॥
प्रजापतिर्देवताऽस्येति प्राजापत्या प्रजापतिदेवताका पूर्व्वाप्रथमा आहुतिर्भवति। ‘सु’ शोभनं ‘इष्टं’ अभिलषितं करोतीति, स्विष्टकृदित्यग्निरुच्यते। कस्मादग्निरुच्यते? तदुच्यते। ‘अग्नये स्विष्टकृते स्वाहेत्युत्तरार्द्धपूर्व्वार्द्धेजुहुयात्’ —
इति लिङ्गात्। “देवा वै अग्निं स्विष्टकृतमब्रुवन्ः—
हव्यं नोवहेति, सोऽव्रवीत्; किं मे ततः स्यात्? इति, यत् कामयमे इत्यब्रुवन्, सोऽव्रवीत्; सर्व्वच्चेष्टिषु केवला
सौविष्टकृतीति तथेति, सोऽवहद्धवींषि”—इति च ब्राह्मणं भवति। तस्य खल्वस्य स्विष्टकृत इयं मौविष्टकृती। साखल्वियं सौविष्टकृती स्विष्टकृद्देवताका उत्तरा द्वितीया आहुतिर्भवतीत्यनुषज्यते।
अत्रच —प्रजापतये स्वाहा, अग्नये स्विष्टकृते स्वाहा— इति होममन्त्रः पर्य्यवस्यति। कस्मात्?-लिङ्गदर्शनादेव। वक्ष्यति चाचार्य्यः “मन्त्रान्ते स्वाहाकारः” —इति। “नमःस्वस्तिस्वाहास्वधाअलंवषड्योगे चतुर्थी” —इति च शाब्दिकाः स्मरन्ति। “अमुष्मै स्वाहेति जुहुयात्” —इति च गृह्यान्तरम् “तस्मात् प्राजापत्यां मनसा जुहोति” —इति वचनात् प्राजापत्याऽऽहुतिर्मनसाहोतव्या।होमोदैवः —इति वचनादयन्तावद्देवयज्ञो वैश्वदेव इति चोच्यते।
इदमिदानींमन्दिह्यते्। “अग्नात्रग्निर्धन्वन्तरिर्विश्वेदेवाः प्रजापतिः स्विष्टकृदिति होमाः” —इति गौतमेन पञ्च आहुतयोदर्शिताः। अन्यैरपि मुनिभिरन्यथैव होमः समाम्नातः। किमेते होमा विकल्पेरन्, आहोस्वित् समुच्चीयेरन्यदा ममुच्चीयेरन्, तदाऽपि किं स्वशाखा होमानामर्व्वागन्तरा परतो वा निविशेरन्, अथवा परत एवेति किन्तावत् प्राप्तम् विकल्पेरन्निति। कम्मात् एकार्थत्वात्। वैश्वदेवनिर्वृत्त्यर्थं खल्विमे होमाः समाम्नायन्ते। एकार्थास्तु विकल्पेरन्’ —इति खल्वाचार्य्याणां समयः। अथवा। समुच्चीयेरन्निति प्राप्तम्। कम्मात्? अतुल्यबलत्वात्। अतुल्यबलाः खल्विमे होमा भवन्ति;—स्वशाखाविहितो होमः स्वस्यैव भवति, अन्यस्तु स्वस्य चान्यस्य च —इत्यतुल्यबलत्वात् समुच्चीयेरन्निति युक्तम्। ते खल्विमे समुच्चीयमाना होमाः, स्वशाखाहोमानाम आदावन्तेमध्ये वाऽनियमेन मन्निविशन्ते नियमकारिणः शास्त्रस्याभावादिति तावत् प्राप्तम्।
एवं प्राप्ते उच्यते। विकल्पस्तावदमीषां न सम्भवति, अतुल्य बलत्वादेव। इतश्च। स्वशास्त्रपरित्यागप्रसङ्गात्। यदा स्वल्विमे विकल्पेरन्, तदा स्वशास्त्रसमान्नातोऽपि होमः पक्षे परित्यज्येत। न चैतदुचितम्। न खलुस्वशाखाश्रयमुत्सृज्य परोक्तमुपादीयते। तस्मान्न विकल्पः। अथ समुच्चीयेरन्नमी होमाः? एतदपि न सम्भवति। कस्मात्? एकसिद्धावन्यवैयर्थ्यात्। एकेन स्वशास्त्रोक्तहोमेन सिद्धे फले न खल्वन्यस्यहोमस्य प्रयोजनमुपलभामहे। येन तमपि समुच्चिनुमः।
अपि च। गौतमेन प्राजापत्याहुतेरर्व्वागन्यास्तिस्र आहुतयः समान्नायन्ते ! ताः खल्विमास्तिस्र आहुतयः कौथुमादीनां प्राजा पत्याहुतेरर्व्वाक् न सम्भवन्ति। कम्मात्? प्राजापत्या पुर्व्वाऽऽहुतिर्भवतीति समाम्नानात्। इयमेव पूर्व्वा नातोऽन्येत्यर्थः। अन्यथा पुर्व्वेति व्यर्थमापद्येत। एवं प्राक् स्विष्टकृत आवापः—
इति वचनात् प्राजापत्याहुतेः परतः स्विष्टकृदाहुतेरर्व्वागन्यः सामान्याभि हितः पौराणिकादिको होमो माभूदितृतेदर्थं मौविष्टकृत्युत्तरेत्याह। इयमेवोत्तरा नान्येति तदर्थः। अन्ते सन्त्रिविशन्तामिति चेन्न, स्वशास्वाविहितहोमेन सिद्धेफले साधनव्यापारवैयर्थ्यात्।
नन्वमीसामान्यहोमाः स्वशास्त्रहोमानामन्ते नित्यतया सा सन्निविशन्तां काम्यतयैव सन्निविशन्तामिति चेदोमिति ब्रूमः। सामान्येन खल्वभिहितानां सर्व्वशाखिधर्म्मत्वमुचितम् तस्मात् सर्व्वैरेव तदिच्छयोपादेयं भवति। यदप्याहुः। शाखान्तराधिकरणन्यायेनैकमेवेदं कर्म्मेतिसर्व्वत्र सर्वोपसंहारो भविष्यति,—इति। तदप्यनुचितम्। भिन्नशास्त्रसमाम्नानात्। विभिन्नेषु शास्त्रेषु खल्वाम्नातानां परस्परनिराकाङ्क्षाणामेषां उपसंहारो न सम्भवति। अतएव गृह्यपरिशिष्टम्।
“प्रयोगशास्त्रं गृह्यादि न समुच्चीयते परैः।
प्रयोगशास्त्रताहानादनारम्भविधानतः॥
बह्वल्पं वा स्वगृह्योक्तंयस्य कर्म्मप्रकीर्त्तितम्।
तस्य तावति शास्त्रार्थे कृते सर्व्वः कृतोभवेत्”॥
इति। अपि चागुणत्वात्। उपसंहारः खलु गुणानामेव भवति न प्रधानानाम्। प्रधानानि चेह सामान्यसमाम्नाता होमाः। अपि च देवताभेदात्। देवताभेदः खल्विहोपलभ्यते। न च देवताभेदे कर्म्मैक्यं भवति। अपि च पूर्व्वोत्तरत्वाम्नानात्। ‘प्राजापत्या पूर्व्वाहुतिर्भवति सौविष्टकृत्युत्तरा’ —
इति पूर्व्वोत्तरत्वमाहुत्योरभिदधानः खल्वाचार्य्यएतावानेव होम इति दर्शयति—
इत्यवोचाम। तस्मान्नामीषामैककर्म्म्यमस्ति। तस्मादादौ मध्ये च सन्निवेशासम्भवात् स्वशास्त्रहोमानामन्त एवेच्छया सामान्यहोमाः सन्निविशन्ते। स्वशास्त्रोक्तहोमः खल्वावश्यकःसामान्यहोमोऽपि निर्विषयोमाभूदितीच्छया कामसन्ते भवतु, न त्वावश्यकः। ततश्च सामान्यहोमानामकरणे प्रत्यवायो नास्ति।करणे त्वभ्युदयः।
“यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः।
भूयस्त्वं ब्रुवते तत्र कृच्छ्रातश्रेयोह्मवाप्यते”॥
इति स्मरणात्। बलिकर्मण्यप्येष न्यायश्चिन्तनीयः। एतेन— “सदा भोजनस्थोपनीतस्याग्रमग्नौ जुहुयात्, अग्ने विवस्वदुषस इति पूर्वेण, बलिञ्चोत्तरेण कुर्य्यात्, बहुपशुधनधान्यो भवति” - इत्येवमादिश्रुत्यादिसमाम्नाते काम्ये होमबलिकरणी अपि व्याख्याते। तदेतत् सर्व्वमाह कात्यायनः।
“न स्यातां काम्यसामान्ये जुहोतिबलिकर्म्मणी।
पूर्व्वंनित्यविशेषोक्तजुहोतिबलिकर्म्मणोः॥
काममन्ते भवेयातां न तु मध्ये कदाचन।
नैकस्मिन् कर्म्मणि तते कर्म्मान्यत्तायते यतः”॥
इति। “अग्निहोत्रदेवताभ्यः सोमाय वनस्पतये अग्नीषोमाभ्यां इन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरये इन्द्राय विश्वेभ्यो देवेभ्योब्रह्मणे”– इत्येवमादिकस्तु परशास्त्रोको होमोबलिञ्च परैर्न कर्त्तव्यएव। परोक्तत्वात्। अक्रियैव खल्वसावन्येषामित्यवोचाम। येषान्तु स्वशास्त्रे होमोबलिश्च नैवोपदिश्यते, तैः सामान्याभिहित एव कश्चिद्धोमोबलिञ्चोपादेयः।
अनाहिताग्नेर्यत् कर्त्तव्यन्तदप्याह कात्यायनः।
“अग्न्यादिर्गौतमेनोक्तोहोमः शाकल एवच।
अनाहिताग्नेरेवैष युज्यते बलिभिः सह”॥
इति। यः खल्वग्न्यादिहेामो गौतमेनोक्तःस तदुक्तैरेव बलिभिः– “दिग्देवताभ्यश्च यथास्वं द्वारेषु मरुद्भ्यो गृहदेवताभ्यः प्रविश्य ब्रह्मणे मध्ये अद्भ उदकुम्भे आकाशायेत्यन्तरीक्षे नक्तञ्चरेभ्यश्च सायम्” – कृत्येवंलक्षणैः सहित इत्येक कल्पः। यश्च
शाकलहोमोदेवकृतस्यैनस—इत्याद्यष्टाहुत्यात्मकः सामवेदपठितः स चाग्निपुराणाद्युक्तबलिभिः सहित इत्यन्यः कल्पः। तथाचाग्निपुराणयोगियाज्ञवल्क्यौ।
“अन्नं व्याहृतिभिः पूर्व्वंहत्वा मन्त्रैश्च शाकलैः।
भूतेभ्यश्च बलिं दत्त्वा ततोऽऽश्रीयादग्निमान्”॥
इति। प्रणवपरिशिष्टम् !
“अन्नं व्याहृतिभिर्हुत्वातथा मन्त्रैश्च शाकलैः।
भूतेभ्यश्च बलिं दत्त्वा तदाऽश्रीयादनग्निकः”॥
इति। तथा स्मृत्यन्तरम्।
“अनग्निकस्तु योविप्रोह्यन्नं व्याहृतिभिः स्वयम्।
हुत्वाशाकलहोमैश्च शिष्टाद्भूतबलिं हरेत्”॥
इति। तदेवं गोतमोक्तहोमम्तदुक्तबलिभिः महेति, शाकलहोमोऽग्निपुराणाद्युतबलिभिः सहेति च निरपेक्षौ द्वौकल्पाविति रघुनन्दनादीनां मतम्। तेषां मते, ‘शाकल एवच’ – इत्येवकारोऽनन्तरोक्तकल्पव्यवच्छेढार्थः, चशब्दश्च वाशब्दार्थः, एष इति च प्रकृतवाचिना सर्व्वनाम्ना निरपेक्षं कल्पद्वयमुच्यते। पितृदयिताकारादिभिस्तु–एकस्मिन् प्रयोगे गौतमोक्ताग्न्यादिहेामशाकलहोमौ समुच्चितौ लिखितौ। तेषां मते एवचेति निपातसमुदायः समुच्चयवाची। यथा स्मृत्यन्तरे—
“विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एवच।
कुह्वैचैवानुमत्यै च प्रजापतय एवच”।
इति।
“दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एवच”।
इति चैवमादौ।तथा कात्यायनस्यैव।
“आरोग्यमायुरैश्वर्य्यं धीर्धृतिः शं बलं यशः।
आजोवर्च्चःपशून् वीर्य्यं ब्रह्म ब्रह्मण्यमेवच”॥
इति।
“अर्घ्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने।
तन्त्रस्य विनिवृत्तिः स्यात् स्वधावाचन एवच”॥
इति चैवमादिबहुलम्। एष इति चैकवचनान्तेनप्रकृतवाचिना सर्व्वनाम्ना समुच्चितं होमद्वयमेकप्रयोगभूतं परामृश्यते। एष इति खल्वेकवचनं विधेयविशेषणतया विवक्षितं भवितुमुचितम्। न चात्राविवक्षायां कारणमस्ति। न चैष गौतमोक्तहोमः— एष वा शाकलहोम-इत्यावृत्तिकल्पना प्रामाणिकी। न च साहित्य-वाचिद्विवचनान्ताद्यनुक्तेर्नैवमितिवाच्यम्। साहित्यवाचिन एवच शब्दस्योक्तत्वात्।
न च, ‘अन्नं व्याहतिभिर्हुत्वा’ —इति, ‘अनग्निकस्तु यो विप्रः’ —इति चैवमादिभिः केवलशाकलहोमाभिधानान्न समुच्चय इति वाच्यम्।अन्यार्थानामन्यत्रानुपयोगात्। अन्यार्थाः खल्विमाः स्मृतयः - कल्पान्तरपरा नान्यत्रोपयुज्यन्ते इति कात्यायनोक्तकल्पे समुच्चयो न विरुध्यते। कल्पान्तरपराः खल्विमाः स्मृतयो भवन्ति। कस्मात्? अतुल्यार्थत्वात्। कात्यायनेन शाकल एवहोमः समाम्नातः, आसु च स्मृतिषु व्याहृतिहोमः शाकलहोमश्चेति नेमौ तल्यौकल्पाविति शक्यते वक्तुम्। तस्मादिमाः स्मृतयः कात्यायनोक्तकल्पात् कल्पान्तरविधायिन्यो न कात्यायनोक्तकल्पे समुच्चयं बाधितुमुत्सहन्ते। तस्मात्कात्यायनवचने एवचेत्यनेन समुच्चय एवादरणीयः। अन्यत्र तथा दर्शनात्। पक्षान्तरे कुसृष्टिकल्पनापत्तेः। न च तत्र प्रमाणमस्ति। तस्मात् कौथुमादीनां कात्यायनोक्तएव कल्पः। कल्पान्तराणि तेषां नैव सम्भवन्ति। स्वशाखाश्रयपरित्याग- प्रसङ्गात्। यच्च व्यासस्मृतौ—
“व्यस्ताभिर्व्याहृतीभिश्च समस्ताभिस्ततः परम्।
षड़भिर्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम्।
प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः”।
इति शाकलहोमे षट्संख्यावचनम्। यच्च स्कन्दपुराणवचनम्—
“वैश्वानरं समभ्यर्च्च्य साज्यपुष्पाक्षतैरथ।
भूराद्या व्याहृतीस्तिस्रः स्वाहान्ताः प्रणवादिकाः।
ॐ भूर्भुवः स्वः स्वाहेति विप्रोदद्यात्तथाऽऽहुतिम्।
तथा देवकृतस्याद्या जुहुयात्तु षडाहुतीः।
यमाय तूष्णीमेकाञ्च तथा स्विष्टकृदग्नये।
विश्वेभ्यश्चापि देवेभ्यो भूमौ दद्यात्ततोबलिम्।
सर्व्वेभ्यश्चापि भूतेभ्यो नमो दद्यात्तदुत्तरे।
दक्षिणेऽपि पितृभ्यश्च प्राचीनावीतिकोददेत्।
निर्नेजकोदकान्नेन ऐशान्यां यक्ष्मणेऽर्पयेत्।
ततो ब्रह्मादिदेवेभ्योनमोदद्यात्तदुत्तरे।
निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान्”।
इति। तदपि कल्पान्तरपरमेव। संख्यान्तरवचनात्। संख्यान्तरं खल्विहोच्यते—षड्भिरिति, द्वादशाहुतीरिति, षडाहुतीरिति च।
अस्माकं खल्वष्टावाहुतयः शाकलहोमे भवन्ति। अष्टाहुत्यात्मकः खल्वेष होमस्ताण्ड्यब्राह्मण समाम्नातः। तस्मादमूषां स्मृतीनां कात्यानोक्तकल्पात् कल्पान्तरपरत्वं कौथमादिव्यतिरिक्तविषयत्वं च वाच्यम्। अतएव हलायुधेन वाजसनेयिनां देवकृतस्येति षडाहुतयोलिखिताः व्याहृतिहोमादयश्च।
शाकलहोमे खल्वेतस्मिन् स्वाहाकारप्रयोगो नास्ति। कथन्तर्हि होतव्यम्? तदुच्यते। “देवकृतस्यैनसोऽवजनमसि” – इत्येवमादिभिरसिकारान्तैरेवाष्टाभिर्मन्त्रैरष्टाबाहुतयो होतव्याः। कस्मादेव- मुच्यते? द्राह्यायणसमाम्नानात्। तथाच द्राह्यायणसूत्रम्। “अष्टावष्टौ शकलान्याहवनीये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकारान्तैः” – इति। लाय्यायनोऽप्याचार्य्य एवमेव सूत्रयाञ्चकार। अत्र खल्विकारान्तैरिति सूत्रयन्नाचार्य्यः स्वाहाकारस्याप्रयोगं दर्शयति। विपर्य्यये च स्वाहाकारोमन्त्रान्तः स्यात् न पुनरिकार इति। तस्मादिकारान्तैरित्येतत् स्वाहाकारं परिसञ्चष्टे। अत एवाचार्य्येण सायणेन प्रौढब्राह्मणभाष्येव्याख्यातम् - “अवयजनमसीत्येवमन्त्रैः न तत्र स्वाहाकार इत्यर्थः” - इति। होममन्त्रस्य स्वाहाकारान्तत्वमन्तरेणापि दर्शनान्नैवात्र किमपि शङ्कितव्यं भवति। तथाच सूत्रम्। “आग्निध्रीये द्वेआहुतीजुहूयुरपां पुष्पमिति पूर्व्वां स्वाहाकारेणोत्तराम्” -इति। वाचनिकीखल्वेवमादिका व्यवस्थावचनमेवमनुसरतीति न किञ्चिदनुचितम्।
आचार्य्येणाग्निस्वामिना तु लाट्यायनसूत्रमेवं विवृतम् - “इकारान्तैरिति मन्त्रान्तज्ञापनार्थम्” – इति। तस्यापि पूर्व्वोक्त एवार्थे
तात्पर्य्यम्। कथन्नाम? - इकार एवान्तोनात्र स्वाहाकारोऽस्तीति। अवगम्यत एव खल्बमीषां मन्त्राणामिकारान्तत्वमिति पुनरिकारान्तवचनमनर्थकमेव स्यात् - यदि न परिसञ्चक्षीत। न च “उत्तरादिः पूर्व्वान्तलक्षणम्” - इति सूत्रणान्नात्र मन्त्राणामिकारान्तत्वमवगम्यते इति वाच्यम्। स्तोमभागमन्त्रादीनामिवामीषामपि लिङ्गादेवावसानावगमस्य सम्भवात्। “यावद्यजुरनादिष्टान्तान्मन्त्रान्”– इति सूत्रणाच्च।
इदन्त्विह वक्तव्यम्। “मन्त्रान्ते स्वाहाकारः” – इति वचनात्मन्त्रस्यावसाने स्वाहाकारः प्रयोक्तव्यो भवति। सोऽयं समाप्ते मन्त्रे तदन्तिके प्रयुज्यते, न त्वसौ मन्त्रस्यान्तोऽवयवो भवति। तस्मात्प्रयुक्तेऽपि स्वाहाकारेमन्त्रस्येकारान्तत्वं न व्याहन्यते। समस्तस्य यजुष एकैकम्यामाहुतौ प्रयोगेऽपि मन्त्रलिङ्गं संगच्छत एव। तत्रैवं सति ‘इकारान्तैः’ - इत्यवचने, ‘सूर्य्योमादिव्याभ्योनाष्ट्राभ्यः पातु’ – इत्यादिवत् समस्तस्य यजुष एकमन्त्रत्वं तेन चैकैका आहुतयः कि न भवेयुः। तस्मात्, ‘इकारान्तैः’ - इत्यनेन मन्त्राणामन्तप्रज्ञापनमर्थवदेव। तस्यार्थो न परिसंख्यानम्। दोषत्रयापत्तेः। अनन्यगत्या हि तदङ्गीक्रियते। यदेव च न्यायादिभ्योऽवधार्य्यते, तदेव सौकर्य्यार्थमाचार्यैः सूत्र्यते। शैलीखल्वेषा तत्रभवताम्। न चेदेवं “उत्तरादिः पूर्व्वान्तलक्षणम्” इत्यपि न सूत्रयितव्यं स्यात्। लिङ्गात् तदवगतेः सम्भवात्।
“यावद्यजुरनादिष्टान्तान् मन्त्रान्” - इत्यस्य तु नायं विषयः। अनादिष्टान्तान् मन्त्रान् यजुर्जानीयात्, तत्र यावत् यजतिसमर्थं
तावत् प्रयुञ्जीत, इति हि तस्यार्थः। अतएव व्याख्यातं भगवताभाव्यकारेणाग्निस्वामिना। “येषां मन्त्राणामन्तोनादिश्यते तानेव यजुः प्रतौयात्। तेषु यावदेव यजतिममयें तावदेव प्रयोक्रव्यमिति येऽर्थवादा मध्ये पठितास्तेषामुद्धारः” - इति। एवञ्च ‘इकारान्तैः’ इत्यवचने समस्तस्य यजुषो यजतिसमर्थत्वात् समस्तेन यजुषा प्रत्येकमाऊतयः स्युः। तस्मात् परिसंख्याने मानाभावात् इकारान्तैः इति मन्त्रान्तप्रज्ञापनार्थमित्यादरणयम्। किञ्च ‘दकारान्तैः’ इत्यनेन आदिश्यत एव मन्त्राणामन्तः। भवांस्तु मन्यते ‘यावद्यजुरनादिष्टान्तान् मन्त्रान्’ - इत्यनेन मन्त्रान्तम्यावगतिसम्भवात्, ‘इकारान्तैः’ - इति वचनमनर्थकं मत् परिसंख्यानार्थं भवतीति किमत्र ब्रूमः। तस्मादत्रापि मन्त्रान्ते स्वाहाकारः प्रयोक्तव्यः।विहिताविधितत्वसन्देहे चाविहितकरणमेव न्याय्यमिति चात्रोचाम। तथाचाभाणकः।
“सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं नरैः।
यदि नास्ति तदा किं स्यादस्ति चेन्नास्ति दूषणम्”।
इति। एवमनाहिताग्नेर्वैश्वदेवहोमो व्याख्यातः। बलयस्तु तस्यापि ग्टह्योक्ता एव भवन्ति। कथं जायते? ‘बलिभिः मह’ - इत्युक्ते तथा ऽवगतेः। विशेषानुक्तौ हि गृह्योकमेवान्तरङ्गत्वात् शौघ्रमागच्छति हृदयम्। आगच्छति चेत्, न युज्यते विना कारणमुत्स्रष्टुम्। विशेषम्य चानुपदेशात्। होमविशेषवत् बलिविशेषो नैवानाहिताग्नेरुपदिश्यते। तस्मादाचार्योक्ता एव बलयस्तस्यापि भवन्ति। न चैते तस्य प्रतिषिद्धाः। न चाप्रतिषिद्धय स्वशास्त्रोकस्य।
परित्यागोयुक्तः। तत्परित्यागेन शास्त्रान्तरोक्तबलिपरिग्रहेऽपि न किञ्चित् प्रमाणम्। स्वशास्त्रोक्तन्तु वुद्व्यारोहमेवेति तदेव ग्रहीतव्यं भवति।
स खल्वयं वैश्वदेवहोमो लौकिकाग्नौजलादावपि कर्त्तव्यः।
“लौकिके वैदिके वापि हुतोच्छिष्टे जले क्षितौ।
वैश्वदेवञ्च कुर्व्वीत पञ्चसूनापनुत्तये”।
इति शातातपस्मरणात्।
“शालाग्नौ वा पचेदन्नंं लौकिके वापि नित्यशः।
यस्मिन्नग्नौपचेदन्नं तस्मिन् होमो विधीयते”।
इति च स्मृत्यन्तरम्। जलक्षित्योः पर्य्युक्षणादिकमपि नास्ति, अग्नावेव तदाम्नानादिति वाचस्पतिमिश्राः। गौतमोक्ताग्न्यादिहोमशाकलहोमयोर्विकल्पवादिनस्त्वाहुः। गौतमवचने होमादेवाग्निप्राप्तेरग्निग्रहणं जलक्षित्याधारतानिवृत्त्यर्थं, ततश्च शाकलकल्प एव साऽवतिष्ठते – इति। तदनेन समुच्चयपक्षेऽप्यनयोर्जलक्षित्याधारता न युक्ता तत्राप्यग्न्यादिहोमस्याविशेषादिति चेत्। उच्यते। यदि नामाग्निग्रहणं जलक्षित्याधारतां निवर्त्तयेदपि, तर्हि केवलगौतमोक्ताग्न्यादिहोम एव निवर्त्तयतु, न तु कात्यायनोक्तेतत्समुच्चिते शाकलहोमेऽपि, तद्वचनस्य तत्राप्रवृत्तेः सामान्येन च वचनान्तरेण तत्र तत्प्राप्तेः। अपिच। नैतदप्यस्ति, - गौतमवचनेऽग्निपदं जलक्षित्याधारतानिवृत्त्यर्थम् – इति। न खलुगौतमवचनेऽग्निग्रहणं जलक्षित्याधारतां निवर्त्तयति, किन्तर्हि, एकदेशोत्कीर्त्तनपरमग्निपदं जलादिकमुपलक्षयति। अतएव-
“कनकालङ्कृतां दत्वा तत्र गामवतारयेत्।
सामगाय च सा देया ब्राह्मणाय विशाम्पते”॥
इति वचनमेकदेशोत्कीर्त्तनपरमिति,–“सचेलकण्ठां काञ्चनशृङ्गींवृषप्रजां रूप्यक्षुरां कांश्योपदोहां विप्राय दद्यात्”-इति मुन्यन्तरोक्तमन्यदपलक्षयति, —इति वाचस्पतिमिश्रैर्निरूपितम्।
ननु होमादेवाग्निप्राप्तेरग्निग्रहणमग्नावेवेत्येवमर्थमेव किमिति न स्यात्? इति चेन्नैष दोषः। कस्मात? अशब्दत्वात्। अग्नाविति वचनं खल्वग्नौ होमं शक्नोति वदितं, न पुनरनग्निं निवर्त्तयितुं प्रभवति। तस्मादशब्दोऽयमर्थः - अग्नावेव इति। ननु होमा देवाग्नेः प्राप्तत्वादन्याय्यं पुनर्व्वचनम्? उच्यते। काममन्वाय्यं भवतु, न तु शक्नोत्यन्यद्वदितुम्। सकृदच्चरितेऽप्यस्य यावानर्थः, शतकृत्वोऽप्युच्चरिते तावानेव प्रतीयते। अपिच। साधुः स्वल्वयमाचार्य्यः कथमस्य वचनमन्याय्यं भवतु। साधोर्व्वचनं बहुशोऽप्युच्यमानं न्याय्यमेव, असाधोस्तु सकृदप्यन्न्याय्यम्। पुनर्व्वचनस्य प्रयोजनं किञ्चिद्वक्तव्यम्? एवन्तर्हि आदरः पुनर्व्वचनस्य प्रयोजनं भविष्यति। आदरेणाग्नौ होमः कर्त्तव्यः—इति। आदरार्थमपि पुनर्व्वचनमाचार्य्याणां बहुलमुपलभ्यते। परिसंख्यानार्थमेव कुतो न भवति पुनर्व्वचनमिति चेन्न, अन्यथैवोपपत्तेः। न खल्विष्यते परिसंख्या सम्भवन्त्यामपि गतौ। सा हि दोषत्रयद्रष्टा भवति। तथा चोक्तम्।
“श्रुतार्थस्य परित्यागादश्रुतार्थस्यकल्पनात्।
प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका”।
इति। परिसंख्यायाञ्च श्रुतिरत्यन्तमुत्सृष्टा भवति। यावच्च भवानग्निपदस्यास्वार्थकल्पनथा जलादिकं व्यावर्त्तयितुमुत्सहते, तावद्वाक्यान्तरेण जलाद्याधारताऽन्वीयते - इत्युपरिष्टादुपजायमानोऽपि परिसंख्यावाक्यार्थः कथमिवान्वितमपि जलादिकं परिसञ्चक्षित। वाक्यान्तरप्राप्तस्यपरिसंख्याने वाक्यान्तरस्य सामर्थ्यविरहात्। वाक्यभेदश्चैवमापद्येत ! कस्मात्? इति होमाः कर्त्तव्याः, ते चाग्नावेव न जलादावित्यर्थभेदात्। एकं खल्विदं वाक्यम् - ‘अग्नावग्निर्ध-न्वन्तरिर्विश्वेदेवाः प्रजापतिः स्विष्टकृदितिहोमाः ’ - इति। तस्मादग्नाविति न नियमार्थं वचनम्। अन्यथा -
“वैश्वानरं समभ्यर्च्च्य साज्यपुष्पाक्षतैरथ”।
इति।
“अनाहितावसथ्याग्निरादायान्नं घृतप्लुतम्।
शाकलेन विधानेन जुहुयाल्लौकिकेऽनले”।
इति चैवमादिस्मृतौ शाकलहोमेऽप्यग्नेरुपादानात्तत्रापि जलक्षित्याधारता न स्यात्। न स्यादेवेति चेन्नाभ्युपगमात्। अभ्युपगम्यते खल्वेतद्भवता —यदुत शाकलकल्पे जलक्षित्याधारतेति।
अपिच। गौतमः खल्वाचार्य्यः—“भार्य्यादिरग्निर्दायादिर्व्वा, तस्मिन् गृह्याणि, देवपितृमनुष्ययज्ञाः”—इत्यभिधाय, ‘अग्नावग्निः’—इत्यादिवचनं रचयाञ्चकार। स खल्वयं होमो गृह्य एवाग्नौ मा भूदित्येवमर्थं पुनरग्नावित्याह। तत्कथमनर्थकमग्निवचनं? —येन परिसञ्चक्षित। अग्नावित्यवचने खल्वयं होमः प्रकृते गृह्यएवाग्नौ स्यात्। होमात् खल्बग्निर्गम्यते, प्रकृतश्च गृह्योऽग्निरिति स एव गम्येत। तम्मादग्नाविति जात्या द्रव्यमग्निमात्रलक्षयित्वा तत्र होमोविधीयते—
लौकिकेऽप्यग्नौ होतव्यमित्येवमर्थे, नान्येषामाधाराणां निवृत्त्यर्थम्। न खल्वग्निपदं व्यक्तिवचनं, येनाग्नेयीन्यायात् सन्निहितएवाग्निरर्थः स्यात्। यदि पुनरग्निपदस्यापि प्रकृत एवाग्निरर्थ-इत्युच्यते। अस्तु तर्हि गौतमीयानां गृह्याग्निसाध्यएवायं होमः, स एव तु गोभिलीयस्थानाहिताग्नेः कात्यायनेन विहितः,—
इति गोभिलीयस्यानाहिताग्नेराधारविशेषानुपदेशान्नतेषामप्यग्नावेव होमः कर्त्तव्य इति शक्यते वक्तुम्। होममात्रं खल्वनाहिताग्नेर्विधीयते, न तु गृह्याग्निसाध्यत्वविशिष्टमपि गौरवादसम्भवाच्च। न खल्वनाहितगृह्याग्नेस्तस्मिन्नग्नौहोमः सम्भवति। तस्माद्गौतमवचनेऽग्निपदं निरग्नेरप्याधारान्तरं निवर्त्तयतीत्यसङ्गतं वचनम्॥४॥*॥
अथ बलीन् हरेत् वाह्यतोवाऽन्तर्व्वासुभूमिं कृत्वा॥५॥
अथेति पूर्व्वप्रकृतार्थम्। अथ पूर्व्वप्रकृतेनैवान्नेन होमावशिष्टेनेत्येतत्। कात्यायनोऽपि स्मरति।
“स्वशाखाविधिना हुत्वा तच्छेषेण बलिं हरेत्”।
इति। अपचारे च शेषम्यान्यदप्युपादाय बलीन् हरेत्”।कस्मात्? –
“यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत्।
यवानामिव गोधूमा ब्रीहिणामिव शालयः”॥
इति कर्म्मप्रदीपस्मरणात्। ‘गुणलोपे च मुख्यस्य’ —इति च न्यायात्। मुख्यः खल्वयं बलिर्भवति प्रधानत्वात्। न खल्वयं
बलिर्द्रव्यार्थः, किन्तर्हि?—पुरुषार्थ इत्युपरिष्टादुपपादयिष्यामः। पुरुषार्थञ्चकर्म्मप्रयोजयति द्रव्यम्। अर्थकर्म्मणि च द्रव्यविधिरयं भवति,—शेषेण बलीन् हरेत्—शेषेण बलिहरणमभिनिर्व्वर्त्तयेदिति।
ननु साक्षादत्र शेषः प्रतिपाद्यते? उच्यते। सत्यं शेषः प्रतिपाद्यते। तत् खल्विदं प्रतिपादनमर्थकर्म्माणि क्रियते —इति शेषनाशेऽपि नैतत् परिलुप्यते। कर्म्मचोदना हि द्रव्यमन्तरेणानुपपन्ना द्रव्यमाक्षिपति, विशेषशास्त्रन्तु नियामकम्, तच्चासम्भवात् यदा न प्रवर्त्तेत, तदा मा भून्नियमः, तथापि सामान्याक्षेपस्य वारयितुमशक्यत्वात् अस्ति प्रतिनिधिः, —इति खल्वभियुक्ताः कथयन्ति। प्रतिपत्तिरूपकर्म्माङ्ग एव प्रतिपाद्याभावे तन्निवृत्तिमनुमन्यन्ते। विहितस्य द्रव्यस्य खल्वपचारे प्रतिनिधिरुपादेय इति च षष्ठाध्याये सिद्धान्तितम्।
“चरितार्था श्रुतिः कार्य्या यस्मादप्यनुकल्पशः”।
इति च स्मरणम्। अस्ति चात्र साक्षादपि द्रव्यान्तरविधायकं किञ्चिद्वचनम् ! तच्चोदाहरिष्यामः। तस्माच्छेषापचारेऽन्यदुपादाय बलयोहर्त्तव्या इति सिद्धम्।
कुत्र बलयोहर्त्तव्याः? तदच्यते। ‘वाह्यतो’ वहि्र्व्वा, प्रकृतत्वादग्न्यगारस्य। तथा चाग्न्यगारान्निष्क्रम्य तस्मिंस्तस्मिन् प्रदेशे तन्तं बलिं हरेत्, योयोबलिर्यस्मिन् यस्मिन् प्रदेशे समाम्नातः। ‘अन्तर्’ मध्ये वा अग्न्यगारस्य —एकस्मिन्नेव प्रदेशे बलीन् हरेत्सर्व्वान्। ‘सुभूमिं’ शोभनां भूमिं ‘कृत्वा’, यथासम्भवं सम्मार्जनोपलेपनादिभिरिति वाक्यशेषः॥५॥*॥
सकृदपोनिनीय चतुर्धा बलिं निदध्यात सकृदन्ततः परिषिञ्चेत्॥६॥
सकृदेकवारम्। अप उदकं निनीय निषिच्य चतुर्द्धा चतुर्षु स्थानेषु बलिं बलिचतुष्टयं निदध्यात्। अत्र च—
“ममाचारात् प्राञ्चं बलिचतुष्टयमात्रं सकृद्गृहीत्वा चतुर्षु स्थानेषु निदध्यात्, बलिमित्येकवचनात्, चतुर्धेतिवचनाच्च”,—
इति वल्गुसोमभट्टनारायणौ। तच्चेदं, बलिचतुष्टयार्थं सकृदेव सेकः—
इत्यस्मिन् पक्षे ज्ञेयम्। यत्र पुनरग्रिमसूत्रानुसारादेकैकबल्यर्थमकैकः परिषेकः पुरस्ताच्चोपरिष्टाच्च क्रियते, न तत्रैतद्भवति ! न खलु शक्यते द्वितीयादिबल्यन्नं दक्षहस्ते कुर्व्वता तेनैव हस्तेन परिषेक्तुम। दक्षिणः करः खलु कर्म्मपारगोऽङ्गानुक्तावित्यवोचाम। परिशिष्टप्रकाशोऽप्येवमेवाह।
तदेवं बलिचतुष्टय दत्वा, सकृदेकवारं अन्तत उपरिष्टात्परिषिञ्चद्बलीन्। प्राक्संस्थाःखल्विमे बलयो भवन्ति। कस्मात्? “प्राञ्चि उदञ्चिवा कर्म्माण्यनुतिष्ठेरन्” इति श्रवणात्। एकत्र निधानपक्षे तथोपदेशाच्च तच्चोदाहरिष्यामः। बलिपरिमाणमाह कर्म्मप्रदीपः।
“न चावरार्द्व्याबलयो भवन्ति
महामार्ज्जारश्रवणप्रमाणात्।
एकत्र चेत् कृत्स्ना भवन्ति
इतरेतरसंसक्तश्च”॥
इति। तच्च परिमाणमङ्गुष्ठपर्व्वमात्रमिति भट्टभाव्यम्॥६॥*॥
एकैकं वाऽनुनिधानमुभयतः परिषिञ्चेत्॥७॥
‘एकैकम्’, एकमेकं वा बलिम्, ‘अनुनिधानं’, —निधानमनुलक्ष्मीकृत्यानुनिधानं, प्रत्येकं निहितान् बलीन् प्रत्येकमेवोभयतः पुरस्ताच्चोपरिष्टाच्च परिषिञ्चेत्॥७॥*॥
** स यत् प्रथमं निदधाति स पार्थिवो बलिभवत्यथ यत् द्वितीयवायव्यो यत् तृतीयꣳसवैश्वदेवोयच्चतुर्थꣳसप्राजापत्यः॥८॥**
स यजमानः प्रथमं यन्निदधाति इति यदर्थोनिधानक्रियाविशेषणम्। व्यत्ययाद्वा नपुंसकत्वम्। स यत् यं बलिं प्रथमं निदधाति स पार्थिवः,— पृथिवी देवताऽस्येति देवतार्थे तद्धितविधानात् पृथिवीदेवताको भवतीत्यर्थः। अनेनैव सूत्रशेषोव्याख्यातः। “अनिरुक्तंहि प्राजापत्यम्”, —इति वचनात् मानसः प्राजापत्यबलिः। तदत्र मन्त्रानुपदेशात् कात्यायनोक्तोबलिमन्त्र आदरणीयः। तद्यथा।
“अमुष्मैनम इत्येवं बलिदानं विधीयते।
बलिदानप्रदानार्थं नमस्कारः कृतोयतः”॥
इति। अत्र, इतिः पदद्वयकीर्त्तनार्थ। एवमिति क्रमार्थम्। भट्टनारायणकुल्लूकभट्टशूलपाणिवाचस्पतिमिश्ररघुनन्दनप्रभृतिभिरपि नमस्कारान्त एव बलिमन्त्रोऽभिहितः। परिशिष्टप्रकाशे तु, —‘नमोब्रह्मणे’ इति दर्शनात् नमः पृथिव्यै इति बलिहरणमन्त्रोलिखितः। अमुष्मैनम इति च तत्सूत्रविरोधादेव न क्रमपरं किन्तु पदद्वयकीर्त्तनाभिप्रायम्—इति चाभिहितम्। नैतदेवम्। शाब्दक्रमविरोधात्। इत्येवं बलिदानम्—
इति शाब्दः क्रमः खल्विह कात्यायनेन ममाम्नातः। पाठक्रमाच्च बलवत्तरः स इष्यते। तथाचोक्तम्। “श्रुति- लक्षणमानुपूर्व्यं तत्प्रमाणत्वात्” —
इति। “क्रमकोयोऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाञ्च” —
इति च।
कात्यायनवचनं पदद्वयकीर्त्तनाभिप्रायं न क्रमपरमिति चेन्न विनिगमनाऽभावात्। कात्यायनवचन पदद्वयकीर्त्तनाभिप्रायमाचार्य्यसूत्रं वेत्यत्र न काचिद्विनिगमनोपलभ्यते। परमार्थतस्तु—
इत्येवमितिवचनात् कात्यायनवचनं क्रमपरं भवितुमर्हति। किमाचार्य्यः कात्यायनस्य नोपजीव्यः? क एवमाह —
नोपजीव्यइति,मत्यमुपजीव्य एवाचार्य्यः कात्यायनस्य, किमतो भविष्यति यद्येवमेतदतोभविष्यति;—
कात्यायनवचनमुपजीव्यबाधभयादेव न क्रमपरम्—
इति। मैवम् नित्यबलावाचार्य्येण मन्त्रानुपदेशात्। इत्येवं बलिदानम् —
इति ब्रुवाणः कात्यायन आचार्य्यस्यैवाभिप्रायं प्रकाशयाञ्चकारेति श्लिष्यते। स खलु, — गोभिलोक्तानामस्पष्टानां विधिं प्रदीपवत् सम्यग्दर्शयिष्ये —
इति प्रतिज्ञातवानित्यवोचाम वृत्तिकारकल्पः खलु कात्यायन आचार्य्यम्य। मुन्यन्तरैश्चास्य संवादोदृश्यते। इदमप्यनल्पप्रामाण्यकारणं यदत संवादः—
इति। स्मृत्यर्थ सन्देहे च स्मृत्यन्तरसंवादादेवाथनिर्णयं निबन्धारोमन्यन्ते।
यदि पुनः वास्तुबलौ —
नमो ब्रह्मणे—
इत्याचार्य्यस्य सूत्रं क्रमपरमिष्यते कामं ब्रह्मबलावेव नमो ब्रह्मणे इत्यस्तु प्रयोगस्तत्रैव तथाम्नानात्, न त्वन्यत्र प्रमाणभावात्। कल्प्यतामन्यत्रापीति चेन्न,
नमस्कारान्तत्वबोधकशास्त्रसद्भावात्। न खल्वाचार्य्येणैकत्रनमः पदं पूर्वमुक्तमिति सर्व्वत्र तदेव कल्पयितव्यम्, —
अनादृत्य नमःपदान्तत्वबोधकानि मुनिवचनानि,—
इति युक्तम्। अथ—
“बहूनामेकधर्म्माणामेकस्यापि यदुच्यते
सर्व्वेषामेव तत् कुर्य्यादेकरूपा हि ते स्मृताः”॥
इति वचनादस्तु सर्व्वत्रैव नमःपदादित्वमिति चेदुच्यते। एवमपि वास्तुबलावेव तद्भवितुमर्हति, न तु नित्यबलावपि। नित्यबलौ क्लृप्तेन नमस्कारान्तत्वबोधकवचनेन कल्पनानवकाशात्। वस्तु–तस्तु वास्तुबलावपि न तद्वचनात् सर्व्वत्र नमःपदादित्वं कल्पयितुं शक्यते। कस्मात् ब्रह्मबलावेव तदभिधानात्। अपिच। यत्र खल्वेकधर्म्माणां बहूनामेकं सिद्धवदनूद्य किश्चिदच्यते, तत्रैव तद्वचनं प्रवर्त्तते। न चात्र बहूनामेकं सिद्धवदनूद्य किञ्चिद्विधीयते। किन्नर्हि?—
किञ्चिद्विशिष्टमेवैकं विधीयते। तच्च किञ्चिद्विशिष्टमेवैकं विहितं मद्वहूनाम् एकं भवति —
इति नास्त्यच तद्वचनस्याव काशः। यत्र ग्वल्वेकधर्म्माणां बहूनामेकं धर्म्मिणं—
लब्धात्मभावमनूद्य कस्यचिद्धर्म्मस्य विधानं भवति, भवति तत्र तस्य वचनस्यावसर इति धीमद्भिरनुचिन्तनीयम्।
यत्तु—
बलिमन्त्राणामन्येषां नमः पदान्तत्वमभ्युपगम्य, ब्रह्मबलौ नमःपदादित्व- नमःपदान्तत्वयोर्व्विकल्पम्—
आहुः। तत्रप्रमाणं नास्ति। विकल्पम्य चान्याय्यत्वात् नैषा साध्वीकल्पना। क्रमपरत्वे खल्वाचाय्यंसूत्रस्य, कात्यायनवाक्येन समं तस्यविकल्पायोगाच्चानुचितैषा कल्पना। न खल्वष्टदोषदुष्टोविकल्पः सम्भवन्त्यामपि गतौ
समाश्रयितुमुचितः। पक्षेऽपि प्रामाण्यान्माभृद्वचनस्य प्रमत्तगीतता —इति खल्बमावगंत्या समाश्रीयते। तथाचाभियुक्तानां वचनम्।
“एवमेवाष्टदोषोऽपि यद्व्रीहियवपाकयोः।
विकल्प आश्रितस्तत्र गतिरन्या न विद्यते”।
इति। अतुल्यबलत्वाच्च। न ह्याचार्य्यसूत्रस्यक्रमपरत्वमभ्युपेत्य, पुनः कात्यायनवाक्यात् तद्विरुद्धं नमःपदान्तत्वं ब्रह्मबलौ शक्यमभ्युपगन्तुम्। न खल्वनयोस्तुल्यबलत्वमस्ति वचनयोः। निरङ्कुशत्वात् पुरुषबुद्धीनां —कल्पना समुल्लसिता, न शास्त्रबलादित्यनादरणीया। अधिकं तु तत्रैव वक्ष्यामः। तस्माद्वास्तुबला वाचार्य्यनिर्देशबलाद्ब्रह्मबलौ नमः पदादित्वमन्यत्र तु नमःपदान्तत्वं मन्त्राणामास्थेयम्॥८॥*॥
अथापरान् बलीन् हरेत्; उधानस्य मध्यमस्य द्वारस्याब्दैवतः प्रथमोबलिभवत्योषधिवनस्पतिभ्योद्वितीय, आकाशाय तृतीयः॥९॥
अथेति पूर्व्वविध्यनुकर्षणार्थम्। पूर्व्वेषामिवामीषामपि बलीनामुभयतः परिषेक इत्यर्थः। कर्म्मप्रदीपोऽप्याह —“सर्व्वेषामुभयतः परिषेकः” —इति। अपरानन्यान् बलीन् हरेत्। कुत्रेमे बलयोहर्त्तव्याः? —इत्यत्राह; —‘उदधानस्य’, उदकं धीयते यस्मिन्नुदकं दधाति य इति वोदधानं मणिक उच्यते। षष्ठी चेयं समीपार्था। उदधानस्य मणिकस्य समीपे, नोदधान एवेत्यर्थः। मध्यमस्य द्वारस्य, गृहस्येत्यर्थात्। ‘अब्दैवतः’ आपो देवता यस्य, सोऽयमब्दैवतः, ‘प्रथमः’ प्रकृतानां बलीनामाद्योबलिर्भवति। सखल्वयं बलिरुदधानसमीपे निधातव्यः। यश्च मध्यमस्य द्वारस्य समीपे निधीयते, सोऽयं द्वितीयोबलिरोषधिवनस्पतिभ्यो भवति। तृतीयः खल्वाकाशाय बलिर्भवति। स खल्वयमाकाशदैवतो बलिरन्तरीक्षे निधातव्यो भवति। कस्मात्? आकाशदैवतत्वादस्य बलेरनिर्देशाच्च स्थानस्य।आकाशदैवते बलौ खल्वन्तरीक्षमागच्छति हृदयं, तच्चानुचितं परित्यक्तुं विशेषोपदेशविरहात्। स्मृत्यन्तरे चोपदेशात्। स्मृत्यन्तरेखल्ववमुपदेशोदृश्यते, गौतमीये,—“आकाशायेत्यन्तरीक्षे” —
इति। भट्टभाष्ये तु —
“अयमनिर्दिष्टस्थानो यत्र कुत्रचिन्निधेयः” इत्युक्तम्॥ ९॥
अथापरं बलिꣳहरेत्, —
शयनं वाऽधिवर्च्चोवा,स2 कामाय वा बलिर्भवति मन्यवे वा॥१०॥
अथापरं बलिं हरेदित्युक्तार्थम्। शयनं शय्येत्यनर्थान्तरम्। अधिवर्च्चोमूत्रोच्चारप्रदेशः। वाशब्दचतुष्कञ्चशब्दार्थम्। शयनञ्च प्रत्यधिवर्च्चश्च प्रति बलिं हरेत्। हृतश्च सबलिः, कामाय च भवति, मन्यवे च, —
इति यथासङ्ख्यम्। तदयमर्थः। शयनं प्रति योबलिनिधीयते सकामदेवताकोभवति, अधिवर्च्चःप्रति योबलिर्निधीयते स मन्युदेवताकोभवति —
इति। अधिवर्च्चमिति पाठेऽपि यथोक्त एवार्थः। अत्रापि, “बलिमित्येकवचनात् स्थानद्वयनिर्देशाच्च
बलिद्वयमात्रं सङ्गृहीत्वा निदध्यात्” इति भट्टभाष्यम्। तदिदं प्रत्येकपरिषेकपक्षे न सम्भवतीत्यवाचाम।
अन्ये त्वाहुर्वाशब्दान् विकल्पार्थान् मन्यमानाः,–“एकएवायं बलिः शयनं वा प्रति देयोऽधिवर्चोवा, स कामदैवत्यो भवति मन्युदैवत्यो वा”—इति। नैतदेवम्। “अथ तद्विन्यासः”- इत्युपक्रम्य कर्मप्रदीपे, “कामाय, मन्यवे” - इति बलिद्वयममाम्नानात्। “चतुर्दश नित्याः”—इति च सङ्ख्यावचनात्। बलेरेकत्वे खल्वियं सङ्ख्या लुप्येत ! एतेन, येऽप्याहुः, – “शयनं प्रति कामाय रात्रौ, अधिवर्चः प्रत्यहनि मन्यवे” – इति, तेऽपि निरस्ताः। प्रमाणविशेषाभावाच॥१०॥
अथ स_(
अथेति विशिष्टमानन्तय्यें द्योतयति। मन्युबलिदानानन्तरम्, इन्द्राय वासुकये ब्रह्मणे - इति बलित्रयं दत्वाऽथानन्तरमित्यर्थः। कस्मादेवमुच्यते? उच्यते। आचार्य्य एव वास्तुबलौ दशदिक्षु इन्द्रादिबलिदशकमभिधायासूत्रयत्,–“प्राच्यूर्द्धावाचौभ्योऽहर हर्नित्यप्रयोगः”–दृति। प्राच्युर्द्धाधोदिक्षु खल्विन्द्रवासुकि ब्रह्मदैवत्याबलयोवास्तुकर्मणि समाम्नाताः। तेषां खल्बमीषां बलोनामहरहर्नित्यं प्रयोगोभवति इति- सूत्रयन्नाचार्य्यः, स्पष्टमिदमाह,-अहरहः इन्द्रवासुकिब्रह्मबलयो भवन्तीति। परिशिष्टप्रकाशेऽप्युक्तम्,–“गृह्यान्तरानुसारेण मन्युबलेरनन्तरम् इन्द्रवासुकिब्रह्मदै
वत्या बलयोदेयाः, ततोरक्षःपितृबली”—इति। “चतुर्दश नित्याः”- इति च कर्म्मप्रदीपः।
ते खल्विमे बलयः प्राच्यूर्द्धाधोदिक्षुनिधातव्याः। कस्मात् प्राच्यूर्द्धावाचीभ्योऽहरहर्नित्य- प्रयोगः—इति दर्शनात्। कमश्च इन्द्राय वासुकये ब्रह्मणे इति। कस्मात्? वास्तुबलौ तथादर्शनात्। वास्तुवलौ खल्वादित इन्द्रबलिस्ततोवासुकिबलिस्ततोऽपि ब्रह्मबलिदृश्यते। परन्तत्र दशत्वाद्वलोनामन्येऽपि बलयोऽन्तरान्तरा सन्त्रिविष्टाः। न चैतावता किञ्चिदपचीयते। अतिदेशागतानां खल्वमीषा बलीनां तदवगतमेव पौर्व्वापर्य्यं स्थानञ्च कल्पयितुमुचितम्। तदाह कर्म्मप्रदीपः। “मन्यवे इन्द्राय वासुकये ब्रह्मणे” – इति।
अत्राह। “एकत्र प्राक्संस्थाश्चैते बलयो भवन्त्येतद्वचनात् इति। नैतदेवम्। “एकत्र चेत् कृत्स्ना भवन्ति” - इत्यभिधाय, –“अथ तद्विन्यासः” इत्युपक्रमादेकत्र कृत्स्नलिनिधानपक्ष-एवैतस्य विन्यास विशेषस्य समानानात्। कल्प्यतेऽनेकत्र निधानपपीति चेत्। उच्यते। कल्पनीयं तावत् स्थानमिति सत्यं, परन्तु युभदुक्तंवा कल्यते, अस्मदुक्तं वा, - इति भवति विचारणा। तत्र ये बलयो यत्राचार्येण समाम्नातास्ते तत्रैव दातुमुचिता अतिदेशागता अप्यमति विशेषवचने। ‘प्राच्यूर्द्धवाचीभ्योऽहरइर्नित्यप्रयोगः” – इति च हृदयमागताः प्राच्चूर्द्धाधोदिशोन युज्यन्ते परित्यक्तुम्। अधिपतयः खल्लिमे आसां दिशामित्येषोऽस्मत्कल्पनायां विशेषः। तदेवमिन्त्रवासुकिब्रह्मबलिदानानन्तरं, संस्तूपं प्रति, “संस्तूपः सम्मार्ज्जनरेणुपुञ्जादिप्रक्षेपस्थानम्,- उत्करण्डिकेति
लोकैरभिधीयते”—इति भट्टभाष्यम्। तमिमं संस्तूपं प्रति, बलिं हरेत्। सखल्वयं बलिः, —रक्षोजनेभ्यो भवति॥११॥*॥
अथैतद्बलिशेषमद्भिरभ्यासिच्यावसलवि दक्षिणा निनयेत्तत्पितृभ्यो भवति॥१२॥
अथशब्दः प्राचीनावीतित्वसव्यजानुपातदक्षिणामुखत्वानि स्मारयति। एतद्बलिशेषम्, एतद्वलिदानावशिष्टमन्नम्, अद्भिरभ्यासिच्यालाव्य। तदिदमाप्लावनं, रक्षोबल्यवशिष्टत्वादन्नस्य संस्कारार्थं भवति। शेषं खल्विदमन्नं पितृबल्यर्थं भवति। तस्य च संस्कारोनानर्थकः। आप्लावनं रक्षोबलिशेषस्यान्नस्य न किञ्चित् दृष्टमुपकरोति? - इति चेन्मा करोतु दृष्टमुपकारम्, अदृष्टन्तु करिष्यति। यथा, “स्रुचः संमार्ष्टि”–“अग्निं संमार्ष्टि” “पुरोडाशं पर्य्यग्निं करोति”–दृत्येवमादौ। तथा चोक्तं। “तुल्यश्रुतित्वादा इतरैः सधर्म्मः स्यात्”–इति। तदेवमद्भिरभ्यासिच्च, ‘अवसलबि’ पितृतीर्थेनेत्यर्थः। अवसलविशब्दः खल्वयं पितृतीर्थमाह।तथा च गृह्यान्तरम्। “प्रदेशिन्यङ्गुष्ठयोरन्तरा अवसलवि अपसव्यं वा, तेन पितृभ्योददाति” - इति। ‘दक्षिणा’ दक्षिणस्यां दिशि निनयेत्। तच्चेदं निनयनं पितृभ्यो भवति। तथाच पित्रर्थत्वान्नाच नमस्कारःप्रयोक्तव्यः, किन्तु पितृभ्यः स्वधेति स्वधाकारेणैष बलिर्दातव्यः। तदाह कात्यायनः।
“स्वाहाकारवषट्कारनमस्कारादिवौकसाम्।
स्वधाकारः पितॄणाञ्च हन्तकारो नृणां मतः।
स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा।
तदप्येके नमस्कारैः कुर्व्वते नेति गौतमः”।
इति। एकत्र चेत् सर्व्वेबलयो निधीयन्ते, तर्हि, यथा निधातव्यन्तदाह कर्म्मप्रदीपः। “अथ तद्विन्यासोवृद्धिपिण्डानिवोत्तरोत्तरांश्चतुरोबलीन्निदध्यात्, – पृथिव्यै, वायवे, विश्वेभ्यो देवेभ्यः, प्रजापतये - इति। सव्यत एतेषामेकैकस्वैकैकम्, – अद्भः, औषधिवनस्पतिभ्यः, आकाशाय, कामाय - इति। एतेषामपि, मन्यवे, इन्द्राय, वासुकये, ब्रह्मणे- इति। एतेषामपि, रक्षोजनेभ्यः- इति। सर्वेषां दक्षिणतः पितृभ्यः - इति, चतुर्दश नित्याः, आशस्यप्रभृतयः काम्याः। सर्व्वेषामुभयतः परिषेकः पिण्डवच्च पश्चिमा प्रतिपत्तिः” इति। आधानदिने च वैश्वदेवबलिको सायमात्यनन्तरं रात्रावेव कर्तव्ये। तदप्याह कर्म्मप्रदीपः।
‘ऊर्द्धं पूर्णाहुतेः कुर्य्यात् सायं होमादनन्तरम्।
वैश्वदेवन्तु पाकान्ते बलिकर्मसमन्वितम्।
ब्राह्मणान् भोजयेत् पश्चादभिरूपान् स्वशक्तितः।
यजमानस्ततोऽश्नीयादितिकात्यायनोऽब्रवीत्”।
इति। सोऽयं भूतयज्ञः, —“बलिर्भीतः” —इति वचनात् एतदनन्तर वामदेव्यगानं कर्त्तव्यम्। “बल्यन्ते वैश्वदेविके” - इति स्मरणात्। स खल्वयं ब्रह्मयज्ञस्य तृतीयः कालः - इत्यवोचाम।
अथेदानींमनुष्ययज्ञः कर्त्तव्यः। तदाह कात्यायनः—“नृयज्ञोऽतिथिभोजनम्”–इति। तथाचोक्तम्। “अतिथिभिः कामं सम्भाषेत”
- इति। मनुरपि—
“कृत्वैतद्वलिकर्म्मैवमतिथिं पूर्व्वमाशयेत्।
भिक्षाञ्च भिक्षवे दद्यात् यथावद्ब्रह्मचारिणे”।
इति स्मरति। भोजनोपयुक्तस्य पर्याप्तस्यान्नस्याभावे यथाशक्ति किञ्चिदप्यन्नमुद्धृत्य ब्राक्ष्मणाय दद्यात्। तदाह कर्म्मप्रदीपः।
“अप्युद्धृत्य यथाशक्ति किञ्चिदन्नं यथाविधि।
पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजे।
पितृभ्य इदमित्युक्त्वास्वधाकारमुदीरयेत्।
हन्तकारं मनुष्येभ्यस्तदन्ते निनयेदपः”।
इति। वस्तुतस्तु अतिथिभोजनं तदसम्भवे मनुष्येभ्य इदं हन्तेत्युत्सृज्य किञ्चिदन्नदानं गोभिलीयानां स्वशास्त्रोक्तमावश्यकमित्यवगन्तव्यम्। अन्नस्याप्यभावे मूलादिकमपि दद्यात्। तदाह गौतमः। “अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादामूलफलशाकेभ्योऽयैवं मनुष्ययज्ञं समाप्नोति” —इति। “अहरहर्दद्यादोदपात्रादथैवंमनुष्ययज्ञं समाप्नोति” —इति च शतपथीये ब्राह्मणे। अत्यन्तासम्भवे च भिक्षादानेनापि कस्याञ्चिदवस्थायां मनुष्ययज्ञोनिर्व्वहति। अतएव “भोजनं हन्तकारं वा”—इत्येवमादिवचनेषु विकल्प - निर्देशः सङ्गच्छते। भिक्षुकस्य चाभावेऽग्रं गोभ्यो दद्यात्, गवामप्यभावेऽग्नौ क्षिपेत्। “भिक्षुकाभावे चाग्रं गोभ्यो दद्यादग्नौ वा क्षिपेत्” —इति विष्णुस्मरणात्। अन्येऽपि नृयज्ञप्रकाराः तन्त्रान्तरेषु द्रष्टव्याः
अथेदानींपितृयज्ञः वक्तव्यः। सचानेकप्रकारः। तत्र तावत् पित्रादींस्त्रींस्त्रींश्चमातामहादीनुद्दिश्य यथोक्तब्राह्मणभोजनमिति एकः कल्पः। तदाह कात्यायनः।
“श्राद्धं वा पितृयज्ञः स्यात् पित्र्योबलिरथापि वा”।
इति।
“अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये।
अदैवं नास्ति चेदन्योभोक्ता भोज्यमथापि वा”।
इति च। वायुपुराणे।
“अप्येकं भोजयेद्विप्रं षणामप्यन्वहं गृही।
अतृप्ताप्रहरन्त्यस्मै वज्रेणैते षड़स्रिणा”।
इति। नित्यश्राद्धे तु विशेषोऽभिधीयते। यथा हारीतः।
“नित्यश्राद्धमदैवं स्यादर्घ्यपिण्डविवर्जितम्”।
इति। मनुः।
“एकमप्याशयेद्विप्रं पित्रर्थेपाञ्चयज्ञिके।
न चैवात्राशयेत् कञ्चिद्वैश्वदेवं प्रति द्विजम्”।
इति। मत्स्यपुराणम्।
“नित्यं तावत् प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्।
अदैवं तद्विजानीयात् पार्व्वणं पर्व्वसु स्मृतम्”।
इति। लिखितजातूकर्णौ।
“नित्यश्राद्धमदैवं स्यात् पिण्डहोमविवर्जितम्”।
इति। भविष्यपुराणम्।
“अग्नौकरणमर्ध्यञ्चावाहनञ्चावनेजनम्।
पिण्डश्राद्धे प्रकुर्व्वीत पिण्डहीने विवर्ज्जयेत्।
इति। यद्यप्यर्घ्यमत्र निषिद्धं, तथापि प्रकारान्तरेण तदपि गृह्यान्तरे विहितम्। तथाच गृह्यान्तरम्। “नैत्यिके वर्हिर्दत्त्वोदकञ्च
पितर एतद्वोऽर्घ्यमिति पाणिनैवाद्भिस्तिलमिश्राभिरर्घ्यं दद्यादन्यदेवमाचान्तेषु पितृभ्यः स्वधेति पितृणामक्षय्यमस्विति च। सह चेदश्वीयात् पूर्वमेव स्वधाऽक्षय्यस्वस्तीरभिदध्यात्” – इति। एवञ्च पार्वणविहितेतिकर्त्तव्यताकमर्ध्यमत्र न भवति, भवति तु ततोऽन्यादृशमेवेत्थम्भूत- मिति। अस्माञ्च गृह्यान्तरादेवं विकल्पोऽवगम्यते, सह वाऽश्नीयात् पश्चाद्वेति। मन्वादिभिस्तु पश्चाद्भोजनमेवोपदिष्टम्। तच्च परतोदर्शयिष्यामः। व्यासः।
“आवाहनस्वधाकारपिण्डाग्नौकरणादिकम्।
ब्रह्मचर्य्यादिनियमं विश्वान्देवांस्तथैवच।
नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत्।
दत्वा च दक्षिणां शक्त्या नमस्कारैर्विसर्ज्जयेत्।
एकमप्याशयेन्नित्यं षण्मामप्यन्वहं गृही”।
इति। स्वधाकारः स्वधावाचनम्। शातातपः।
“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते।
स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते।
अक्षय्यदक्षिणास्वस्ति सौमनस्यं तथास्त्विति”।
इति। एवञ्च-
“नित्यश्राद्धमदैवं स्यादर्घ्यपिण्डविवर्ज्जितम्।
दक्षिणारहितं ह्येतद्दातृभोक्तृव्रतोज्झितम्”।
इति दक्षिणानिषेधोऽशक्तविषयः —इति तत्त्वकृतः। अतएव शक्त्या दक्षिणादानं व्यासः स्मरति। तदिदं नित्यश्राद्धं सम्भवे बहुब्राह्मणकमसम्भवे त्वेकब्राह्मणकमपि भवति। सोऽयं मुख्यः
कल्पः। श्राद्धकरणेऽशक्तस्तु यथाशक्ति किञ्चिदप्यन्नम् उद्धृत्य पितृभ्य-इदं स्वधेत्युच्चार्य्यन्नममीपे उदकं निनयेत्। तच्चान्नं ब्राह्मणाय दद्यात्। ‘अप्येकमाशयेद्विप्रम्’–इत्यभिधाय,–“अप्युद्धृत्य यथाशक्ति”,–इत्येवमादिकात्यायनस्मरणात्। न चेदं श्राद्धविधायकमिति वाच्यं, प्रमाणाभावात्। श्राद्धञ्च पूर्व्वेण वाक्येन विहितम्— ‘श्राद्धंवा पितृयज्ञः स्यात्’—
इति, ‘अप्येकमाशयेद्विप्रम्’ —
इति च। कथमिहापि विधीयेत। तस्मात् – ‘अप्येकमाशयेत्’—
इति वहूनामसम्भवे एकब्राह्मणभोजनम् —
एकेनापि ब्राह्मणेन श्राद्धकरणमित्येतत्परम्। ‘अप्युद्धृत्य यथाशक्ति’ —
इति तु ब्राह्मणभोजनोपयुक्तान्नसम्भवेन श्राद्धासम्भवे – किञ्चिदप्यन्नद्धृत्य देयमित्याह। भिन्नौ खल्विमौकल्यौ भवतः—
यच्चैकब्राह्मणकश्राद्धं, यच्चोद्धृत्याल्पमपि देयमिति। तत्त्वकृतोऽप्येवम्। भट्टनारायणस्याप्येष एव स्वरमः। एतेन—
“नित्यश्राद्धेष्वसामर्थ्यात् त्रीन् द्वावेकमथापि वा।
भोजयेत् पितृयज्ञार्थं दद्यादुद्धृत्य दुर्ब्बलः”।
इति।
“यथाशक्त्यन्नमुद्धृत्य पित्र्येण विधिना सदा।
आहूयब्राह्मणं दद्यात्तत्कुले वा समर्पयेत्”।
इति चैवमादिपुराणवाक्यमपि व्याख्यातम्। तत्राप्यशक्तस्य योऽयं भूतयज्ञे पितृबलिर्दीयते, तेनैव पितृयज्ञः कृतो भवति। ‘पित्र्योबलिरथापि वा’ - इति वचनात्। यदा कस्याञ्चिदवस्थायाम्—
‘यज्ञादेव निवर्त्तते’ —
इत्येवमादिकायां न हरति बलीन्, तदा
तर्पणेनैव पितृयज्ञः कृतोभवति। सोऽयं छन्दोगानां स्वशास्त्रपरिभाषितश्चतुर्विधः पितृयज्ञः श्राद्धं पितॄनुद्दिश्य ब्राह्मणायान्नदानं पित्र्यबलिस्तर्पणाञ्चेति।
तदिदं तर्पणं सर्व्वस्यामेव दशायामावश्यकं यथाशक्ति चान्यत्। दयान् परं विशेषो यदशकस्य तर्पणेनापि प्रत्यवायः परिहृतो भवति। समुच्चयेन सर्व्वेषां पक्षाणामुपदेशस्तु शक्ततमस्येति परिशिष्टप्रकाशः। तथा गौतमः। “नित्यं स्वाध्यायः पितृभ्यश्वोदकदानं, यथोत्साहमन्यत्” – इति। अत्र च,—
तर्पणब्रह्मयज्ञयोः पूर्व्वमुक्तयोरपि नित्यमित्यादिना पुनरभिधानं यज्ञत्रयानुष्ठानाशक्तावङ्ग वैकल्येनाप्यनयोरवश्यानुष्ठेयत्वार्थम् —
इति कल्पतरुप्रभृतयः। अन्ये त्वेषां पक्षाणां यथाशक्ति समुच्चयविकल्पाहुः।यदा पुनर्न शक्नोति पृथक्तर्पयितुं, तदा स्नानाङ्गेनापि तर्पणेन पितृयज्ञफलमधिगच्छति।
“यदेव तर्पयत्यद्भिः पितॄन् स्नात्वाद्विजोत्तमः।
तेनैव सर्व्वमाप्नोति पितृयज्ञक्रियाफलम्”।
इति मनुवचनात्। सोऽयमुक्तः पितृयज्ञः। उक्ताश्च पञ्चमहायज्ञाः॥१२॥०॥
अथेदानीमुक्तस्यैव विशेषोऽभिधीयते—
आसीन एवाग्नौजुहुयात्॥१३॥
आसीन उपविष्ट एव। नोर्द्ध्वः, न वा प्रह्वः॥१३॥०॥
आसीनः पितृभ्यो दद्यात्, यथोपपादमितरान्॥१४॥
आसीनः पितृभ्यो बलिं दद्यात् हरेत्। आसीनः—
इत्येतदवाच्यम्?
इति चेन्न, एवं हि आसीन इत्यनुषज्येत। तदेतदमृशन्नाचार्यआसीन इत्याह। पितृभ्योदद्यात् यथोपपादम्—
इत्ययमपि सम्बन्धआशङ्क्येत, साऽप्याशङ्का माभूदिति च तद्वचनम्। पुनरुक्तञ्च गौभिले ग्राह्यमिति चावोचाम। इतरान्, अपरान् बलीन्। कस्मादपरान्? पित्र्यबलेरिति ब्रूमः। कस्मात्? प्रकृतत्वात्। प्रकृतः खल्वत्र बलिः पित्र्यएवेति तदपेक्षयैवापरत्ववर्णनमुचितम्। तान् खल्विमान् पित्र्यबलेरन्यान् सर्व्वान् बलीन्, ‘यथोपपादं’ यथोपपद्यते दानं, तथैव दद्यात् न पुनरासीन एवेत्ययमस्ति नियम इत्यर्थः। तेनाधिवर्च्चः प्रदेशस्याशुचितया दूरस्थ एव प्रक्षिप्य दद्यादूर्द्धः सन्। एवमन्यत्रापि क्वचित् प्रह्वःक्वचिच्चान्यादृश एवेति यथायथमूहनेयम्॥१४॥०॥
स्वयन्त्वेवैतान् यावद्वसेद्बलीन् हरेत्॥१५॥
यावद्गृहे वसेत्, तावदेतान् सर्व्वानेव बलीन्,–न पुनः पित्र्यबलेरपरानेवेत्यर्थः। स्वयमेव यजमानो हरेन्निध्यादनलमः सन्।गृहे वसन् खल्वसौयजमानः स्वयमेव बलिहरणं कुर्य्यान्नान्यद्वारा इति सूत्रयन्नाचार्य्यः प्रवसन्नन्यद्वाराऽपि —
इत्येतत् सूचयति। तस्मात्स्वयमेवेति स्वयं सम्भवाभिप्रायं वचनम्। उपलक्षणञ्चैतद्बलिग्रहणं होमादीनामपीति द्रष्टव्यम्। तुशब्दश्च स्वयं करणपक्षे फलविशेषं द्योतयति॥१५॥
अपि वाऽन्यो ब्राह्मणः॥१६॥
अपिवा, अथवा। अशक्तौ यजमानस्य प्रवासे वेत्यर्थः। अन्योब्राह्मणो, ‘बलीन् हरेत्’—
इत्यनुवर्त्तते। अथवा। अपिवेत्येतत्क्षत्रियविषयमाचार्य्यस्य पक्षान्तरम्। स्वयमेवेत्येतन्नियममननुजानन्नाचार्य्यः—
‘अन्यः’ —
इत्याह। स्वस्मादन्योऽपि ब्राह्मणो राज्ञोबलिहरणादिकं कुर्य्यादित्यर्थः। तथाच स्मरति भगवान्मनुः।
“पुरोहितञ्च कुर्वीत, वृणुयादेव चर्त्विजम्।
तेऽस्य गृह्याणि कर्म्माणि कुर्य्युर्वैतानिकानि च”॥
इति॥१६॥०॥
दम्पती एव॥१७॥
जाया चपतिश्च—
दम्पती, भार्य्यापती—
गृहपतिस्तत्पत्नी चोच्येते। ताविमौ दम्पती एव,—
बलीन् हरेयाताम्, इति सम्बध्यते॥१७॥
इति गृहमेधिव्रतम्॥१८॥
इत्येवमहरहः पञ्चानां महायज्ञानामनुष्ठानं गृहमेधिब्रतम्, गृहे ययोर्मेधो यज्ञो भवति, ताविमौ गृहमेधिनौ दम्पती—
इति ब्रूमः। तयोर्गृहमेधिनोर्दम्पत्योर्व्रतं शास्त्रविहितोनियम इत्यर्थः। तदेवं पञ्चमहायज्ञावशिष्टमन्नंदम्पती भुञ्जीयाताम्।
“भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैवहि।
भुञ्जीयातान्ततः पश्चादवशिष्टन्तु दम्पती”॥
इत्येवमादिस्मरणात्। मनुरपि।
“देवानृषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः।
पूजयित्वा ततः पश्चाद्गृहस्यः शेषभुग्भवेत्”।
इति। प्रकारान्तरं पूर्व्वमुक्तम्। अकृत्वाच पञ्च महायज्ञान् भुञ्जतोम्नयोर्व्रतलोपोभवतीति विज्ञायते। गृहमेधिनोरेवैतद्व्रतं, तावेव पूर्वं भुञ्जानौ प्रत्यवायभागिनौ भवतः। पूर्वमेव भोजनीयाः। तदाहमनुः।
“सुवासिनीः कुमारांश्च रोगिणोगर्भिणीस्तथा।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन्”
इति। तथा गौतमः। “भोजयेत् पूर्व्वमतिथिकुमारव्याधितगर्भिणीसुवासीनीस्थविरान् जघन्यांश्च” —
इति।
“अदत्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः।
सभुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः”॥
इति च धर्म्मशास्त्रम्॥१८॥
दम्पतीएव बलीन् हरेयाताम्—
इत्युक्तम् अथेदानींकश्चिदिह विशेषोऽभिधीयते—
स्त्रीह सायं प्रातः पुमानिति॥१९॥
स्त्री पत्नी, ह किल। स खल्वयम्—
ऐतिह्यार्थकोऽनर्थको वा निपातः। इति होचुर्वृद्धाः—
इति ह्यैतिह्यमुच्यते। सेयं पत्नी, सायं रात्रौ, बलीन् हरेत्—
अमन्त्रं, तुष्णीम्—
इत्यर्थः। कस्मात् पुनः कारणादमन्त्रमुच्यते पत्न्या वलिहरणम्? इयमेव तावन्मात्रंकुतोनाध्याप्यते? उपदेशादिति ब्रूमः। अमन्त्रमेव खल्बस्या बलिहरणमुपदिश्यते —
इति नेयमध्याप्यते इत्यदोषः। तथाच मनोः स्मरणम्।
“सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत्।
वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते”॥
इति। तदनेन रात्रावपि वैश्वदेवबलिकर्म्मणोरविशेषेण कर्त्तव्यत्वं दर्शितम्। अस्याञ्च स्मृतौ – सिद्धस्य अन्नस्य – इति पक्षप्राप्तमनूद्यते गुणभूतं, न तु विधित्सितम्। सायं बलिं हरेत्—
इत्ययमत्र सम्बन्धः, न सायं सिद्धस्यअन्नस्य—
इति। तस्मात् —
“यस्योभयं हविरार्त्तिमार्च्छेत्”–इतिवत् नित्यानुवादोऽयम् —
अन्नस्य सिद्धस्य—
इति। ‘अथ हविष्यस्यान्नस्य’ —
इतिवन्मुख्यकल्पपरिकीर्त्तनाभिप्रायं वा वचनम्।
तदिदं बलिहरणद्रव्याभिधानपरं शास्त्रं नान्यत् परिसञ्जष्टे। अभावे खल्बन्नस्य प्रतिनिधिमप्युपादाय बलिहरणं कर्त्तुमुचितम्। कस्मात्? प्रतिनिधिशास्त्रस्यार्थवत्तोपपत्तेः। प्रतिनिधिशास्त्रस्य खल्वेवमर्थवत्तोपपद्यते। इतरथा प्रतिनिधिशास्त्रमनर्थकं—
प्रलापमात्रं स्यात्। तच्चोदाहरिष्यामः। न चैतदुचितम्। अहनीति चेन्नाविशेषात्। इति चेत् भवान् पश्यति, – अहनि प्रतिनिधिशास्त्रमर्थवत्कथमनर्थकं प्रलापमात्रम् उच्चते —
इति। तत्र ब्रूमः। नैषा कल्पना सम्भवति। कस्मात्? अविशेषात्। विशेषाभावादित्यर्थः। अहन्यपि, सिद्धस्य इति, अन्नस्य—
इति च श्रवणम्, अविशेषेणोपलभ्यते—
इति। तत् यदि रात्रौ प्रतिनिधिशास्त्रं न प्रवर्त्तते, अहन्यपि न प्रवर्त्तिष्यते, हेत्वविशेषात्। अप्रवृत्तिहेतुः खल्वहनि रात्रौ च न विशिष्यते—
उभयत्रापि समान इत्यर्थः। तथाचोक्तम्। “अथ हतिष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जुहुयात्”—इ
ति। मनुरपि स्मरति।
“वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्।
आभ्यः कुर्य्याद् देवताभ्यो ब्राह्मणो होममन्वहम्”॥
इति। “वैश्वदेवादन्नात् पर्य्युक्ष्यजुहोति” —
इति च गृह्यान्तरम्। आच कात्यायनः कर्म्मप्रदीपे।
“सायं प्रातर्वैश्वदेवः कर्त्तव्यो बलिकर्म्मच।
अनश्नताऽपि सततमन्यथा किल्विषी भवेत्”॥
इति। तदत्रानश्नतोऽपि वैश्वदेवोबलिकर्म्मच कर्त्तव्यम् —
इत्युक्तम्। तस्मात् इयमेवावधारणा —
सायं बलिं हरेत् —
इति सम्बन्धः, न सायं सिद्धस्य —
इति।
अथ मन्यसे—
अतिथ्यनुरोधेन पाकसम्भव एव अनश्नतोरात्रौ करणम् —
इति। तत्रोच्यते। नाप्रमाणत्वात्। न खल्वेषा कल्पना सम्भवति ;—
अतिथ्यनुरोधेन यदा पच्यते, तदैव रात्रौ अनश्नता वैश्वदेवादिकं कर्त्तव्यम्, नापचमानेन —
इति। कस्मात्? अस्मिन्नर्थं प्रमाणाभावात्। न खलु पाकार्थता वैश्वदेवबलिकर्म्मणोः शक्यते वक्तुम्। किं कारणम्? पुरुषसंस्कारत्वात्। कुतः पुनरनयोः पुरुषसंस्कारत्वमुच्यते? “सहधर्म्मचारिणीसंयोगः, पञ्चानां महायज्ञानामनुष्ठानम्”—
इति गौतमेन पुरुषसंस्कारमध्ये पाठात्। “तानेतानहरहः कुर्ब्बीत” —
इति—
“स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः”॥
इति च पुरुषार्थत्वावगमात्। वैश्वदेवं बलिकर्म्मच, अकुर्व्वाणः पुरुषः किल्विषीभवति —
इति च कात्यायनेन सुव्यक्तमनयोः
पुरुषार्थत्वाभिधानात्। “पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति सन्तिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः —
इति चारण्यके तैत्तिरीये। तदेव खल्वमीषां मूलम्—इत्यभियुक्ता मन्यन्ते। तस्मात् पुरुषार्थत्वमेवामीषां महायज्ञानां, न पुनर्वैश्वदेवबलिकर्म्माणोः पाकार्थत्वम्।
अथ उच्यते – “पुरुषार्थयोरेव सतोरनयोः पाकार्थतामप्यनुमन्यामहे”– इति। अत्रोच्यते। काममनुमन्येमहि पाकार्थतामप्यनयोर्यदि प्रमाणमत्र किञ्चित् उपलभेमहि। न तु प्रमाणमिह किञ्चिदुपलभामहे। तस्मादसङ्गतमनयोः पाकार्थत्वम् —
इति। स यदि ब्रूयात्,—अकृत्वा वैश्वदेवादिकमन्नं भुञ्जानस्य दोषश्रवणादन्नसंस्कारत्वमनयोरनुमातव्यम्—
इति। तं प्रति ब्रूयात्। ब्रह्मयज्ञादिकमप्यकृत्वा भुञ्जामस्य दोषश्रवणादनैकान्तिकमेतल्लिङ्गं नान्न-संस्कारत्वमनयोरनुमापयितुमर्हति—
इति। तदिदं दोषकीर्त्तनम्, आवश्यकत्वममीषाम् अवगमयति, —
इति पुरुषार्थशास्त्रैस्तुल्यवदेव तात्पर्य्यम्। तत्प्राये समाम्नानाच्च। पुरुषार्थप्राये चाध्यापनादिकर्म्मप्रवाहे वैश्वदेवबलिकर्म्मणी समाम्नायेते। तदनयोरपि पुरुषार्थत्वमवधार्य्यते। तथाचोक्तम्। “प्राये वचनाच्च” —
इति।
पुरुषार्थयोरनयोरन्नसंस्कारार्थत्वमपि न साम्प्रतमभ्युपगन्तुम्। पुरुषार्थत्वे हि द्रव्यं वैश्वदेवाद्यर्थंभवति, अन्नसंस्कारार्थत्वे त्वन्नार्थं वैश्वदेवादिकं स्यात्। अस्तु कोदोषः ? —
इति चेन्नासम्भवात्। न खल्वेतत् सम्भवति, —
अन्नार्थं वैश्वदेवादिकं, वैश्वदेवाद्यर्थञ्चान्नम्,इति। कस्मात्? विरोधात्। विरुध्यते खल्वेकस्य गुणभावः प्रधान भावश्च। न ह्येकमेव वस्तु एकमेवापेक्ष्य एकदैव प्रधानं गुणभूतञ्च भवितुमर्हति। इतश्च। वाक्यभेदप्रसङ्गात्। कथं वाक्यभेदप्रसङ्गः? वचनव्यक्तिभेदात्। वचनव्यक्तिः खल्वनयोर्भिद्यते—
इति भिद्येत वाक्यम्। वैश्वदेवेनान्नं संस्कुर्यात्—
इत्येकस्मिन् पक्षेवचनव्यक्तिर्भवति, अन्नेनवैश्वदेवमभिनिर्व्वर्त्तयेत् —
इति चान्यस्मिन्। एकं खल्विदं वाक्यं —
‘हविष्यस्यान्नस्यजुहुयात्’ —
इति। न च भङ्क्त्वा वाक्यम्, उभयार्थत्वं कल्पयितुमुचितम्।
आह–‘अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जुहुयात्’—
इत्यस्मादेवाम्नानात् द्रव्यार्थत्वमवगम्यते —
इति। न–इति ब्रूमः।कस्मात्? अर्थकर्मवदाम्नानात्। अर्थकर्मण्यपि सायं प्रातर्होमे समाम्नायते–“अथ हविय्यस्यान्नस्याग्नौ जुहुयात् कृतस्यवा अकृतस्य वा”—
इति। तत्ममानमिदमपि आम्नायते —
“हविष्यस्यान्नस्य”—
इति। तस्मात्—
“सोमेन यजेत”—
इत्येवमादिवदिहापि द्रव्यमुच्यते जुहोतेरुपकारकम्। सेयं द्रव्यचोदना वा स्यात्, विशिष्टकर्मचोदना वा स्यात्, सर्व्वथाऽपि द्रव्यं कर्म्मार्थतां नातिशेते। यथा खल्वपचारे सोमस्य पूतिका उपादीयन्ते वचनबलात्, एवमिहाप्यपचारेऽन्नस्य अन्यदप्युपादेयं वचनवलात्—
इति न किञ्चिदनुचितम्।
न खल्वत्र द्रव्यम्य ईप्सितभावः अवगम्यते। हविष्यादन्नादुद्धृत्य तेन होममभिनिर्वर्त्तयेत् —
इति खल्वत्र वचनव्यक्तिर्भवति। कस्मात्? “वैश्वदेवादन्नात् पर्य्युक्ष्यस्वाहाकारैर्जुहुयात्” —
इति गृह्यान्तरदर्शनात्। अथ वा। हविष्येनान्नेन होममभिनिर्व्वर्त्तयेत् —
इत्ययम् एव अर्थः। यदाऽप्यवयवार्था षष्ठीयमुच्यते, तदापि हविष्यस्यान्नस्या-वयवेन जुहुयात्—इति वचनार्थः। सर्व्वथाऽपि द्रव्यमेव कर्म्मार्थं न कर्म द्रव्यार्थमवगम्यते। येषामपि हविष्यस्यान्नस्य अवयवं जुहुयात्— इति वचनव्यक्तिः, तेषामपि न कर्मणः अन्नावयवार्थत्वमवगन्तव्यम्। न खल्वन्नावयवेन संस्कृतेन किञ्चित् प्रयोजनमस्ति ! तदर्थञ्चेत् कर्म्म, तदप्यनर्थकं स्यात्। यः खल्ववयवो जुहोतिना सम्बध्यते, स तेनैवोपक्षीयते, नावतिष्ठते, यश्चावतिष्ठते, नासौ जुहोतिना सम्बध्यते!। न च वैश्वदेवादिकमन्नस्य किञ्चित् उपकरोति। न खल्वेवम् अन्नार्थता कर्म्मणः शक्यते वक्तुम्। “यैस्तु द्रव्यं चिकीर्य्यते गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्” —इति सूत्रणात्।
अथ वैश्वदेबादिकमन्नस्य मा करोतु दृष्टं कञ्चिदुपकारम्, अदृष्टन्तु करिष्यति। अदृष्टोऽपि उपकारोलोके बहुलमुपलभ्यते। ग्रामान्तरात् आगतानां पुरुषाणां पर्य्यग्निकरणेन खल्वदृष्ट उपकारः क्रियते—इत्युच्यते। न—इति ब्रूमः। न करिष्यति अदृष्टमपि उपकारं वैश्वदेवोद्रव्यस्य। कस्मात् ? तस्य शब्दमूलवात्। शब्दमूलं खल्वदृष्टमिष्यते। न खल्वस्ति शब्दः,—वैश्वदेवोद्रव्यस्यउपकरोति,—इति। शब्दस्त्वस्य पुरुषार्थतामाह—‘महायज्ञैश्च’—इति, ‘तानेतान्’— इति चैवमादिः। सा खल्वियं कल्पना पुरुषबुद्धिमूला इत्यनादरणीया। तथाचोक्तम्। “धर्मस्य शब्दमूलत्वाद शब्दमनपेक्षं स्यात्” —इति न च एकेनादृष्टेन पुरुषार्थतया चरितार्थे शास्त्रे अन्यदपि अदृष्टं कल्पयितुमुचितम् ! लोकेऽपि नात्यन्तमदृष्ट उपकारोदृश्यते यत्र चात्यन्तमदृष्ट उपकारः, तत्र प्रमाणमपि न दुर्लभम्—इत्यनुदाहरणम्।
सखल्वयम्—
‘अन्नस्य’—
इत्युपदेशोऽन्नस्य होमस्य च सम्बन्धं करोति, सम्बन्धे च मति —
“द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः”—
इति, “भूतभव्यसमुच्चारणे भृतं भव्यायोपदिश्यते”—
इति चानया तन्त्रयुक्त्या, द्रव्यं गुणभावेन सम्बध्यते। सेयं तृतीयार्थे षष्ठीविभक्तिः,—
इति, “शक्तून् जुहोति, मारुतं जुहोति, एककपालं जुहोति"—
इत्येवमादिवत् इहापि द्रव्यमेव कर्म्मार्थ, कर्म्मतु पुरुषार्थम् एव, न द्रव्यार्थम्—
इति सिद्धम्। अतएव स्मर्य्यते। “अहरहः पञ्चयज्ञान्निर्व्वपेत् अपि मूलपत्रोदकशाकेभ्यः”—
इति। “अहरहः स्वाहां कुर्य्यादन्नाभावे केनचिदाकाष्ठात् देवताभ्यः, पितृभ्यो मनुष्येभ्यश्चोद- पात्रात्” —
इति च गृह्यान्तरम्। “यदग्नौ जुहोत्यपि समिध तद्देवयज्ञः सन्तिष्ठते, यत् पितृभ्यः स्वधाकरोत्यप्यपस्तत् पितृयज्ञः मन्तिष्ठते" —
इति च तैत्तिरीये ब्राह्मणे।
“न चेदुत्पद्यतेऽन्नन्तु अद्भिरेनान् समापयेत्”–
इति च स्मरणम्। तदेवमादिशास्त्रेभ्यः—
सुव्यक्तमिदमवगम्यते; यत् द्रव्यमेव कर्म्मार्थम् —
इति, कर्म प्रधानं पुरुषार्थम्—
इति च। न हि द्रष्यार्थकर्मणां द्रव्याभावेऽपि करणमस्ति। पुरुषार्थमेव हि कर्म, श्रुतद्रव्यापचारेऽप्यन्येन केनचित् यथाकथञ्चित् क्रियते, द्रव्यस्य गुणभृतत्वात्। द्रव्यार्थत्वे तु कर्मणश्चोदितद्रव्याभावे लोपएव स्यात्। न खलु प्रैयङ्गवेऽपि चराववघातः क्रियते, न वा तदर्थं व्रीहय उत्पाद्यन्ते। तदिदं प्रतिनिधिविधानपरं शास्त्रम् अन्नाभावेऽप्यन्येन होममुपदिशत् कर्मनिर्वृत्तेरीप्सिततमत्वं दर्शयति। तस्मात् न कर्मणो द्रव्यार्थता। तदुक्तम्। “यैर्द्रव्यं न
चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यम्य गुणभूतत्वात्’—
इति। मनुरपि—
“वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत्।
तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत्”॥
इति पाकान्तरेणान्नदानपक्षेऽपि, न बलिं हरेत्—
इत्याचक्षाणः द्रव्यस्यैव कर्म्मार्थतामनुजानाति—
इत्यवगम्यते। इतरथा कथमिवासंस्कृतस्यान्नस्य भोजनमनुजानीयात् ! आचार्य्योऽपि वक्ष्यति। “यद्येकस्मिन् काले व्रीहियवौ प्रक्रियेयाताम्, अन्यतरस्य हुत्वा कृतं मन्येत” —
इति, “यद्येकस्मिन् काले पुनः पुनरन्नं पच्यतेसकृदेवैतद्बलितन्त्रं कुर्वीत”—
इति चैवमादि।
अथ,—
“अहुतस्य नाश्नीयान्न चान्नमाशयेत्”—
इति, गृह्यान्तरम् अहुतस्य अशनं निषेधति। किमतो भविष्यति? उच्यते। एतदतो भविष्यति,—
अहुतस्य अशननिषेधेन होमस्य अन्नसंस्कारकत्वमनुमास्यामहे;—
होमः खल्वन्नं संस्करोति, तदभावे चासंस्कृतमन्त्रं नात्तव्यम्,—
इति। अत्रोच्यते। एवमपि, अन्येषामवैष होमोऽन्नार्थः स्यात्, न त्वस्माकम्। अपि च। नैषा कल्पना न सम्भवति–अन्नार्थं वैश्वदेवः—
इति। कुतः? तदुच्यते। पञ्चमहा-यज्ञानां खलु तैत्तिरीयारण्यकमेव मूलमाचक्षते। तत्र च पुरुषार्थत्वममीषाम् अवगम्यते। तच्च पुरस्तादुपदर्शितम्। सेयं निर्मूला कल्पना नादरणीया। तस्मात् होमभोजनयोः क्रमः इह विधित्सितः—
इत्यवगच्छामः। पूर्व्वंयस्य न हुयते, तन्नअत्तव्यम्—
इति, अनया वचनव्यक्त्या खल्वस्मत्पक्षोऽनुगृह्यते। अथ वा।
अहुतस्य—
इति कर्त्तरि निष्ठा। न हुतं येन—
इति वा विग्रहः, “अहुतस्य प्रायश्चित्तम्”—
इत्येवमादिवद्व्याख्येयम्। होममकुर्व्वतोऽन्न नाश्नीयात्, न च आशयेत् इति वचनार्थः। एव—
अहुतस्य—
इति, ‘अन्नम्’—
इति च वैयधिकरण्येनपदद्वयमुपादीयते। अन्यथा खलु ‘अहुतस्य’—
इति षष्ठी वा न स्यात्, ‘अन्नम्’–इति वा द्वितीया। तदिदम् एकं वचनं बहूनामनुरोधान्नेयं न तु एतदवष्टभ्य बहूनि वचनानि अन्यथा नेयानि—
इति युक्तम्। स्मरन्ति च।
विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम्।
तुल्यप्रमाणसत्त्वे तु न्याय एव प्रवर्त्तकः”॥
इति। सुव्यक्तमप्यस्यान्नार्थत्वस्मरणं यदि कथञ्चिदुपलभ्येतापि, तर्हि तदपि क्लृप्तश्रुतिविरोधादनपेक्षणीयमेव प्रेक्षावताम्। किं पुनरङ्ग? सन्दिग्धार्थस्य तदानुगुण्येन वर्णनम्। तस्मात्–वैश्वदेवादिकमन्नार्थम् उभयार्थं वा, - इत्यसङ्गता कल्पना।
तदेवं सिद्धेऽपि वैश्वदेवस्य पुरुषार्थत्वे, अन्नत्य सिद्धस्य - इति यद्यनुवादो वा मुख्यकल्पाभिप्राय वा न स्यात्, नियस्येत तर्ह्यन्नम्। परिसञ्चचीत चान्यत् द्रव्यम्। भिद्येत तर्हि वाक्यम्। कथम्? रात्रौ वैश्वदेवः कर्त्तव्यः, स च सिद्धेनैव-इति वचनव्यक्तिभेदात्। न चैतदपि सम्भवति, प्रतिनिधिवचनानामनर्थकत्वापत्तेः। तस्मात् पाकाभावेऽपि रात्रौ वैश्वदेवादिकमुदकादिनापि कर्तुमुचितम्। न खलु पाकाभावे- ‘अननताऽपि रात्रौ वैश्वदेवः कर्त्तव्यः’ - इति शास्त्रं न प्रवर्त्तते!। तत् किमिति,
अकारणमेव शास्त्रमिदमतिक्रम्यते!। न च शान्त्वं नामातिक्रमितव्यम्। ‘सततम्’ - इति चाभिधानात्। अनश्नताऽपि सततं वैश्वदेवबलिकर्म च कर्त्तव्यम्,- इति खल्वभिहितं कात्यायनेन। सेय ‘सततं’ श्रुतिरेवं सति उपरुध्येत!। न खल्वेवमियन् अनुगृह्यते। तस्मान्न किञ्चिदेतत्।
यदि पुनर्नियम्यते अन्नं, तर्हि तदर्थवत्तोपपत्तेः, ‘अनश्नताऽपि सततम्,’ - इति च स्मरणात्, पुरुषार्थत्वाच्चास्य, अनश्नताऽपि वैश्वदेवार्थमेव पुनः पाकः क्रियताम्। पाकेनैव चेत् वैश्वदेवः कर्त्तव्यः, तर्हि श्रयमेव बलादपि पाकमानयिष्यति। पाकमानयिष्यति। तस्मात् - यद्येव-माग्रहातिशयं करोषिः - सिद्धेनैव वैयदेवः कर्त्तव्यः, - इति, तर्हि अनुमन्यस्व प्रतिथ्यनुरोधमन्तरेणापि अनतोऽपि पुनः पाकम्। किमिति,—अतिथ्यनुरोधेन पाकाभावे वैश्वदेवलोपं कथयसि – इति न विद्मः। एतेन -
“पुनः पाकमुपादाय सायमप्यवनीपते !।
वैश्वदेवनिमित्तं वै पत्न्यमन्त्रं बलिं हरेत्”।
इत्येवमादिकं पुराणवचनमपि व्याख्यातम्। इदं हि वचनं वैश्वदेवनिमित्तं पाकमुपादायेति वैश्वदेवनिमित्तं पाकं सुव्यतमाह। अन्यथा खल्तोऽपि रात्रौ पाकाभावे नास्ति वैश्वदेवादिकम्.इत्यापतति। न चैवम् इष्यते। तस्मात्, –“स्वीयभोजनसम्भवे पाक विनाऽपि, तदमम्भवे अतिथ्यनुरोधेन पाकसम्भव एव, मायं वैश्वदेवबलिकर्मणी, - इति रघुनन्दनमतमसङ्गतम्। न च स्वीयभोजनसम्भवे पाकं विनाऽपि, इत्यस्यां कल्पनायां प्रमाणमस्ति। न चैव,
पुनः पाकमुपादाय—इति वचनमुपपद्यते। तम्मात् पुनः पाकमुपादाय,—इत्यनूद्यते, पाकं सिद्धमन्नम् उपादाय, सायमपि, पुनर्वैश्वदेवं कुर्य्यात्,—इति वा वचनार्थः। यस्तु पुरुषार्थयोरेव सतोवैश्वदेववलिकर्म्मणोर्द्रव्यार्थत्वं प्रतिजानीते। तस्य रात्रौ पाकाभावेऽपि पुरुषार्थयोस्तयोर्यथाकथञ्चिदनुष्ठानमावश्यकमित्यफलः प्रयासः। तस्मादस्मदुक्तैव व्यवस्था शास्त्रार्थः॥१९॥०॥
आह। तदिदं बलिहरणमहरहर्यत् पच्यते तेनैवान्नेन कर्त्तव्यं न पुनरन्यार्थमपि यत् श्रप्यते, तेनापि कर्त्तव्यम् —इत्युच्यते। कस्मात्? ‘वैश्वदेवादन्नात् पर्य्युक्षजुहोति’—इति, ‘सिद्धस्यवैश्वदेवस्य अन्वहं होतव्यम्’ —इति, ‘होमशेषेण बलयोहर्त्तव्याः’—इति चैवमादिशास्त्रेभ्यः।नेत्युच्यते। पुरुषार्थं खल्वेवमादिकं कर्म, यथाकथञ्चित् पुरुषेण निर्व्वर्त्तनीयम्। अन्यथा खल्वयमधर्म्मम्इयात्। तस्मान्नैष नियमः—बैश्वदेवेनैवान्नेन होतव्यम्—इति। तमिममर्थम् आचार्य्यः सुव्यक्तमुपदिशन्नाह—
सर्व्वस्य त्वेवान्नस्यैतान् बलीन हरेत्,—पित्र्यस्य वा, स्वस्त्ययनस्य वा, ऽर्थार्थस्य वा॥२०॥
सर्व्वस्यैवान्नस्य एतान् बलीन् हरेत्। यत् किञ्चिदन्नं पच्यतेभोजनार्थं वा, अन्यार्थं वा, तेनैव—बलयोहर्त्तव्याः न पुनरन्नस्यास्ति कश्चिन्नियमोऽनेनैवान्नेन—इत्येतदर्थमाचार्य्या’सर्व्वस्य’—इत्याह। “अनेकम्य अशेषता सर्व्वशब्दस्य अर्थः”—इति ह्यवोचाम।स खल्वयमर्थोविस्पष्टमुपदिश्यते,—‘पित्र्यस्यवा’इति। पित्र्यस्य, पितृ
कर्म्मार्थं शृतस्य, अमावस्यादावन्नाहार्य्याद्यर्थम्—
इत्यर्थः। स्वस्त्ययनस्य, तदर्थं पक्वस्य। स्वस्ति—
इति अभिप्रेतार्थसिद्धिमाचक्ष्महे। तस्याअयनं प्रापकं यत्कर्म्म, तत् स्वस्त्ययनम्। किन्तत्? ब्राह्मणभोजनादिकम्। कस्मात्? “स्नेहवदमांसमन्नं ब्राह्मणान् भोजयित्वा स्वस्तिहैषां भवति”—
इत्येवमादिवचनात्। ‘अर्थार्थस्य’ अर्थोधनम्, अर्थः प्रयोजनं, यस्य, पुरुषस्य, सोऽयम् अर्थार्थः—
इत्युच्यते। यस्मात्पुरुषात् अर्थ आशास्यते, तदर्थं पक्वस्य—
इत्यर्थः। वैश्वदेवावशिष्टेन बलिहरणोपदेशात् वैश्वदेवेऽपि सुतरामेषैव व्यवस्था।
अथ पित्राद्यर्थं यत् पच्यते, तेनापि चेत् वैश्वदेवादिकं क्रियते, न तर्हि पाकः पित्रर्थो भवति। वैश्वदेवाद्यर्थत्वमपि खल्वस्य विद्यतएव। उच्यते। सत्यमस्तीदं, यत् पित्रर्थं यत् पच्यते, तेनापि वैश्वदेवादिकं कर्त्तव्यम्—
इति। नैतावता पाकस्य पित्र्यत्वमपह्नोतुं शक्यते। कुतः? यतस्तथापि श्रपणस्य पित्रुद्देश्यकत्वमस्त्येव—
इति, पाकः पित्र्यः—
इत्युच्यते। पितृकर्म्मकिलोद्दिश्य यत् पच्यते, तत्पित्र्यम्—
इति प्रतिजानीमहे। सोऽयं पाकविशेषः पितॄणमसाधारणः, — इति तथा व्यपदिश्यते। व्यपदेशाः खल्वसाधारणतयैव भवन्ति। प्रत्यक्षं खल्वेतदस्माकम्, यत् क्षितिजलपवनबीजादिसमवधानजन्माऽप्यङ्कुरो व्यपदिश्यते—
शाल्यङ्कुरः—
इति। कस्मात् ? शालिबीजानामसाधारणत्वात्। क्षित्यादिकं खलु साधारणम् इति, न तेन व्यपदिश्यते। तस्मादुपपन्नमेतत्—
‘पित्र्यस्य वा स्वस्त्ययनस्य वा अर्थार्थस्य ‘वा’—
इति।
तदेवं यस्य कस्याप्यर्थंपक्वस्य अन्नस्यैतान् बलीन् हरेत्, न
पुर्वर्वैश्वदेवार्थपक्वस्यैव—
इति एव—
शब्दार्थः। तु शब्दो बलिहरणस्य कालविशेषंद्योतयति। कः पुनरसौ कालविशेषः? पूर्वं, पश्चाद्वा—
इति ब्रूमः। सोऽयं विभज्य प्रदर्शते। तत्र तावत् अर्थार्थं स्वस्त्ययनार्थञ्चयत पच्यते, तेन पूर्वमेवबलिहरणं भोजनादित्याचक्ष्महे। कम्मात्? ‘अहुतस्य नाश्नीयात् न चान्नमाशयेत्’—
इति गृह्यान्तरवचनात्। तथा दर्शनाच्च। दृश्यते गृल्वादितो बलिहरण पश्चात्भोजन वैश्वदेवस्यान्नस्य। तस्मादिहापि तदेव कल्पयितुमुचितम्। न खलुपुरुषोच्छिष्टेनान्नेन बलिहरणम्—
इति साध्वी कल्पना भवति। यज्ञावशिष्टान्नभोजनमेव ह्युपदिशन्ति शिष्टाः।
“यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते”।
इति।
“राजशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्”।
इति चैवमादि। अत एव वैश्वदेवादर्वाक् यदि भिक्षुकः ममायाति, तदाऽपि वैश्वदेवार्थमन्नमुद्धृत्य,—
पृथक् कृत्वातस्मै भिक्षा दातव्या,—
इति स्मर्य्यते। न तु भिक्षादानावशेषेण वैश्वदेवः कर्त्तव्यः—
इति। तदाह व्यासः।
“अकृते वैश्वदेवे तु भिक्षुके गृहमागते।
उद्धृत्य वैश्वदेवान्नं भिक्षां दत्त्वा विमर्ज्जयेत्”॥
इति। अत्राह।“अगम्य इन्द्राय हविर्निरूप्य मरुद्भ्यः संप्रदित्मां चकार तमिन्द्र एत्य परिदेवयाञ्चक्रे” इति लिङ्गात्।
“निरूप्य हविरन्यस्मा अन्यस्मैन हि हूयते”।
इति वचनाच्च स्वस्त्ययनाद्यर्थं यत् पच्यते, तेन बलिहरणमशास्त्रमिति। उच्यते। नासौ दोषः। कस्मात्?निरुप्यहविर्विषयत्वालिङ्गवचनयोः।कथं ज्ञायते? कण्ठत एव तथाऽभिधानात्। तस्मादुक्तैव व्यवस्था।पित्रर्थञ्चेदन्नं पच्यते।तर्हि पूर्बमेव श्राद्धं, पश्चाद्बलिहरणम्- इति ब्रूम। तत् कस्य हेतोः? तथैव स्मरणात्। तथा च मनोः स्मरणम्।
“उच्छेषणन्तु तत्तिष्ठेद्यावद्विप्रानिसर्ज्जिताः।
ततो गृहबलिं कुर्य्यादिति धर्म्मोव्यवस्थितः”।
इति। न चेदं गृहबलिपदम्—
“स्वयमेव हरेत् काम्यान् बलीन् यावद्गृहे वसेत्।
आतुरत्वे प्रवासे वा लोपो गृहबलेर्भवेत्”॥
इति गृह्यान्तरदर्शनात् काम्यबलिमात्रपरम्—
इति वाच्यम्। तन्मात्रपरत्वेप्रमाणाभावात्। तस्मात् गृहे यो वलिर्दीयते—
गृहमेधिना यः क्रियते, सोऽयं गृहबलिरुच्यते। गृहबलिपदस्य काम्यबलिमात्रपरत्वेऽपि काम्यानां बलीनां श्राद्धोत्तरकालत्वमिदं वचनं शक्नोति विधातुं न तु नित्यानामेतन्निषेद्धुमपि। ततश्च तेषामपि शास्त्रान्तरात् तथात्वमविरुद्धमेव। तथा च गौतमस्मरणम्।
“पितृश्राद्धमकृत्वा तु वैश्वदेवं करोति यः।
अकृतं तद्भवेत् श्राद्धं पितॄणां नोपतिष्ठते”।
इति।
“पितृपाकात् समुद्धृत्य वैश्वदेवं करोति यः।
अकृतं तद्भवेत् श्राद्ध पितॄणां नोपतिष्ठते”।
इति च स्मृत्यन्तरम्। तथा कार्ष्णाजिनिस्मरणम्।
“यदा श्राद्धं पितृभ्यश्च कर्त्तुमिच्छति मानवः।
वैश्वदेवं ततः कुर्य्यान्निवृत्ते पितृकर्म्माणि”।
इति। अत्र वैश्वदेवस्य श्राद्धोत्तरत्ववचनात् ततः पराचीनस्य बलेः सुतरां तथात्वम्। तथा मत्स्यपुराणम्।
“निर्वर्त्य प्रणिपत्याथ पर्य्युक्ष्याग्निञ्च धर्म्मवित्।
वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च”।
इति। अत्र—
“नैत्यिकं बलिमेव च”—
इत्येवमेव श्राद्धभाष्ये नीलाम्बरोपाध्यायाः पठन्ति। परिशिष्टप्रकाशे नारायणोपाध्यायोप्येवमेव पठति। वाचस्पतिमिश्राणामप्ययमेव पाठः। “नैत्यिकं विधिमेव च”—
इति क्वचित् पाठः। तत्रापि तथैवार्थः। भविष्यपुराणञ्च।
“कृत्वा श्राद्धं महावाहो, ब्राह्मणांश्च विसृज्य च।
वैश्वदेवादिकं कर्म्मततः कुर्य्यान्नराधिप!”।
इति।
“विसर्ज्जयेत् प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः।
आद्वारमनुगच्छेच्चागच्छेच्चानुप्रमोदितः।
ततो नित्यक्रियां कुर्य्याद्भोजयेच्च तथाऽतिथीन्।
नित्यक्रियां पितॄणाञ्च केचिदिच्छन्ति सत्तमाः।
न पितॄणान्तथैवान्ये शेषं पूर्व्ववदाचरेत्।
पृथक् पाकेन वेत्यन्ये केचित् सर्व्वञ्च पूर्व्ववत्”।
इति च मार्कण्डेयपुराणम्। न चैवं नित्यश्राद्धमपि बलिहरणात् पूर्व्वमेव प्राप्नोति—
इति वाच्यम्। नित्यपाकस्य पितृपाकत्वाभावात्। व्यपदेशाः खल्वसाधारणतया भवन्ति—इत्यवोचाम। वैश्वदेवः—सर्व्वार्थः खल्वसौ पाको भवति। पितृपाकात् समुद्धृत्य,— इति हि स्मरन्ति। सर्व्वासु च स्मृतिषु बलिहरणात् परत एव नित्यश्राद्धमुच्यते। अमीषाञ्च वचनानां पार्व्वाणश्राद्धप्रकरणे पाठात्नान्यत्र सन्निवेशः।
ननु वाक्यं प्रकरणं बाधिष्यते? नेत्युच्यते। विसर्ज्जयेत् —इति, आद्वारमनुगच्छेत्—इति च, अभिधाय, ततो नित्यक्रियां कुर्य्यात्—इत्याम्नानात् व्यक्तमिदमवगम्यते—विसर्ज्जनमनुगमनञ्चेदमनित्ये यत्क्रियते, तदुच्यते, न तु नित्ये—अहरहः क्रियमाणश्राद्धेऽपि—इति। तदिदं वाक्यं न अहरहः श्राद्धविषयम्—इति सिद्धम्।
“नित्यश्राद्धे गयाश्राद्धे तीर्थश्राद्धे तथैव च।
वैश्वदेवं हुनेदादौ ततः श्राद्धं समाचरेत्”।
इति च स्मरणान्तरम्। अपि च। ‘निर्व्वर्त्त्य’—इति, ‘कृत्वा श्राद्धम्’—इति, ‘विसर्ज्जयेत्—इति च, प्रकृतमेव निर्व्वर्त्तनं, प्रकृतमेव श्राद्धम्, प्रकृतमेव च विसर्ज्जनमर्थोऽवगम्यते। व्यक्तिवचनानां खल्वमीषामग्नेयीन्यायात् सन्निहितव्यक्तिपरतैव न्याय्या—इत्यदोषः। परमार्थतस्तु विश्वदेवहोमात् परतो नित्यश्राद्धविधानात् कोऽयमस्थाने संरम्भ इति न खल्विधिगच्छामि। तस्मात् पूर्व्वं श्राद्धं पश्चाद्बलिहरणम्—इत्यवगन्तव्यम्।
अत्राह।श्राद्धोत्तरकालन्तु तदर्थतैव पाकस्य न स्यात्। सर्व्वोहि सर्व्वस्य परद्रव्यस्य यावन्मात्रं दत्तम्, तस्यैवेष्टे, नान्यस्य—इति। एवञ्च सति सूत्रारम्भवैयर्थ्यमेव स्यात्। तस्मात् श्राद्धात् पूर्वं बलिहरणम्’—इति। न—इति ब्रूमः। वाचनिके न्यायानवतारात्। वाच
निकः खल्वयमर्थः—
इत्युपपादितम्। तत्किमत्र न्यायः करिष्यति न हि वचनस्यातिभारो नाम अस्ति।उत्तरकालं नास्ति तदर्थतैव पाकस्य—
इत्यपि बर्णनमनुचितमेव। कस्मात्? वचनप्रामाण्यादेव। यस्मात् वचनानि श्राद्धादुत्तरकाले बलिहरणं दर्शयन्ति तस्मादवगच्छामः—अस्त्युत्तरकालमपि पाकस्यतदर्थत्वम् —
इति।
अपि च। कस्मादुतरकालमस्य तदर्थता लुप्यते?—
इति तावदयंप्रष्टव्यः। प्रयोजनस्यवृत्तत्वात्—
इति चेन्न, न ह्याम्रे वृतेऽपिवनस्पतेस्तदर्थता लुप्यते। पाकः खल्वयंपितृकर्मोद्दिश्य कृतः—
इत्यस्तिपित्रर्थता पाकस्य। न खल्ववशिष्टान्नस्य तदर्थत्वाभावः पाकम्यतदर्थत्वमपहर्त्तुं शक्नोति तथा चोक्तम्। “यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम्” —
इति। श्राद्धं खल्वधिकृत्य पाकः प्रवृत्तः—
इति वृत्तेऽपि श्राद्धे नैतत् अन्यथयितुं शक्यते। यथा खल्वाग्नेय—
होमे कृतेऽपि, पुरोडाशस्याग्नेयता न व्याहन्यते —
सत एवाग्नेयात्पुरोडाशात् स्विष्टकृदवद्यते, तथेहापि भविष्यति। मीमांसाभाष्य-कारेणायुक्तंदशमस्य प्रथमे। “यथा शिरसा धारितायाः स्रजः शिरसोऽवतारितायाः देवदत्तीयाऽमाविति कृत्वा शचिदेशनिधानादिः संस्कार एषितव्यो भवति”—
इति।
प्रयोजनं यावन्मात्रेण निर्व्वाह्यतेतावन्मात्रमेव चेत् तदर्थमुच्यते, न तर्हि अन्यार्थपाकात् बलिहरणं सम्भवति। न खल्वेकएव भागः श्राद्धाय चउपादेयो बलिहरणाय च, —
इति समञ्जमं वचनम्। यदि तावत् श्राद्धायोपादीयते, नैव बलिहरणाय भवति,
अथ बलिहरणायोपादीयते, न नर्हि श्राद्धाय भवति,—
इत्यशक्यत्वादनुचितम्। अथ ‘प्रयोजननिर्व्वाहाय यदुपयुज्यते,—
यत् अर्हति प्रयोजनं निर्व्वोढुम्, तदेव तदर्थम्’ —
इति मन्यते, तर्हिनिर्वृत्तेऽपि प्रयोजने, नैव द्रव्यस्यतदर्थत्वमपचीयते। स्वरूपयोग्यतामात्रस्या-विशिष्टत्वात् —
इति यथोक्तएवार्थः। यच्च —
अहुतस्यनाश्नियात्’—
इति पचनम्, तदेतद्व्यतिरिक्तविषयमवतिष्ठते ! तस्मान्—
“वैश्वदेवबलिकर्मणी नित्ये श्राद्धात् पूर्व्वमेव कर्त्तव्ये,काम्यन्तु बलिकर्म श्राद्धानन्तरम्”—
इत्यसङ्गतं वर्णनम्।
यदप्याहुः—
“पार्व्वणश्राद्धे कर्त्तव्ये स्तग्निना तर्पणेनैवपञ्चयज्ञान्तर्गतपितृयजस्यनिर्वर्त्तितत्वात् नश्राद्धानन्तरं पित्र्यबलिनित्यश्राद्धयोरनुष्ठानंनिरग्निना पार्वणदिनेऽपि तदनन्तरं पित्र्यबलिनित्यश्राद्धेकर्त्तव्ये”—
इति। तदप्यसङ्गतम् पित्र्यबलेर्नित्यत्वात्। चतुर्दश नित्याः —
इति सङ्ख्याबचनात् प्रमाणविशेषाभावक्ष।यच्चोक्तम्—
“पितृयज्ञन्तु निर्वर्त्त्य तर्पणाख्यंद्विजोऽग्निमान्।
पिण्डान्वाहार्य्यकं कुर्य्यात् श्राद्धमिन्दुक्षये सदा”।
इति मत्स्यपुराणवचनेऽर्थात् प्राप्तस्यापि तर्पणानन्तर्य्यस्य पुनरभिधानात् अन्यः पितृयज्ञो नास्ति—
इति। तदपि चिन्त्यम्। आनन्तर्य्याश्रवणात्। क्त्वाहि पूर्वकालतायां स्मर्य्यते,—
इत्यवोचाम। तदिदं वचनं सिद्धवदनूद्य पूर्वकालीनन्तर्पणं, इन्दुक्षये सदा कुर्य्यादन्वाहार्य्यम्—
इत्येतद्विधत्ते। न तु तर्पणस्यपूर्वकालतामपि। कम्मात्? वाक्यभेदप्रसङ्गात्। एकं खल्विदं वाक्यम् एवं सति
भिद्येत। अपि च। इदं वचनम्, श्राद्धदिने तर्पणस्यावश्यकत्वमाचष्टे, न त्वन्यत् परिसञ्चष्टे। कथं नाम? तर्पणं निर्वत्यैव श्राद्धं कुर्य्यात्, न तु केवलनित्यश्राद्वेनैव पितृयज्ञो निर्वर्त्तते - इति मन्येत। “पितृतर्पणानन्तर्य्यानुवादस्तर्पणपार्वणयोर्मध्ये पितृयज्ञाख्यनित्यश्राद्धव्युदामार्थः”—
इति शूलपाण्युपाध्यायाः। सर्वथाऽपि न परिसञ्चष्टे। श्रुतहान्यश्रुतकल्पनापत्तेः। तदुक्तम्।
“अन्यार्थश्रूयमाणा च याऽन्यार्थप्रतिषेधिका।
परिसङ्ख्या तु साज्ञेया यथा प्रोक्षितभोजनम्”॥
इति। दोषश्च खल्वयम्, यत् श्रुतस्य च उत्सर्गोऽश्रुतस्य च परिकल्पनम्। प्राप्तश्चैवमन्योऽपि पितृयज्ञो बाध्येत ! तदिदं दोषत्रयं परिसङ्ख्यायामवर्जनीयमापद्येत ! न चैतत् युक्तमभ्युपगन्तुम्। यदि पुनः- परिसञ्चक्षीतापि अन्यं पितृयज्ञं, तदाऽपि श्राद्धात् पूर्वमेव परिसञ्चक्षीत, न तु परस्तादपि। कस्मात्? तर्पणाख्यमेव पितृयज्ञं निर्वर्त्त्य-(न तु बलिहरणादिकमपि कृत्वा - इत्यर्थः)- पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यात्, इति वचनव्यक्तिसम्भवात्। अस्यां खलु वचनव्यक्तौ अन्योऽपि पितृयज्ञः श्राद्धात्परमर्थादवगम्यते। तम्मादस्मदुक्त एवार्थ आदरणीयः॥२०॥०॥
तदिदं बलिहरणम्—
यज्ञादेव निवर्त्तते॥२१॥
यज्ञो ज्योतिष्टोमादिः। तस्मात् यज्ञात् हेतोर्निवर्त्तते। यज्ञादिति वा सप्तम्यर्थे व्यत्ययेन विभक्तिः पञ्चमीक्रियते। यज्ञ एव
निवर्त्तते—
इत्यर्थः। बलिहरणम—
इति च होमादेरपि उपलक्षणमवोचाम। “तस्मात् दीक्षितो न ददाति, न पचति, न जुहोति”– इ त च ब्राह्मणं भवति। एवशब्देन किमिह व्यवच्छिद्यते? न किञ्चित्। किमर्थं तर्हि? होमादीनामावश्यकत्वप्रदर्शनार्थम्—
इति ब्रूमः। कथन्नाम? यज्ञ एव निवर्त्तते न पुनरन्यत्र—आपद्यपि—
इत्यर्थः। तेनापद्यपि पञ्चयज्ञानामवश्यकर्त्तव्यत्वमवगम्यते। स्मरन्ति च।
“आपद्यपि हि कष्टायां पञ्चयज्ञान्न हापयेत्।
स्वर्गापवर्गयोः प्राप्तिं महायज्ञैः प्रचक्षते”॥
इति। सोऽयं सामान्यो विधिरपवादविधिभिरुपरुध्यते। न पुनरेतावता कारणेन सपिण्डमरणादावपि कर्त्तव्यतैवामीषाम—
इति भ्रमितव्यम्। कस्मात्?
“सन्ध्यां पञ्च महायज्ञान् नैत्यिकं स्मृतिकर्म्मच।
तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया”॥
इति।
“पञ्चयज्ञविधानञ्च न कुर्य्यान्मृत्युजन्मनोः”।
इति चैवमादिस्मरणात्। यज्ञ एव निवृत्तिरिति वचनात् खल्वशौचादावानुमानिकी कर्त्तव्यताप्रतीतिः, प्रत्यक्षन्तु निषेधशास्त्रम्। भट्टनारायणस्त्वाह—“दीक्षितो न जुहेाति,—
इति सिद्धे पुनर्वचनं परिसङ्ख्यानार्थम्। कथन्नाम? यज्ञ एव बलिहरणं निवर्त्तते, नान्यत्रेति। एवञ्चाशौचादावपि सिद्धस्य पाकस्य किञ्चिदन्नं तूष्णीं प्रक्षिप्य अग्नौजुहुयात्। तच्छेषं बलिं कृत्वा तूष्णीमेव प्रक्षिपेत्”—
इति॥२१॥०॥
यद्येकस्मिन् काले व्रीहियवौ प्रक्रियेयाताम्, अन्यतरस्य कृत्वा कृतं मन्येत॥२२॥
यदि, एकस्मिन् —भोजनकाले ; दिवैव वा, रात्रावेव वा,— इत्यर्थः। व्रीहिययवौ, व्रीहिश्च यवश्च, तौ व्रीहियवौ। अनयोरुपादानमन्यदपि धान्यादिकमुपलक्ष्यति। ‘प्रक्रियेयाताम्’ प्रकर्षेण, भक्तकरम्भपायसशष्कुल्यादिभेदेन —इत्यर्थः। “क्रियेयातां” कृतौ भवेयाताम्, तर्हि अन्यतरस्य एकतरस्यव्रीहेःयवस्य वा, ‘कृत्वा’ बलिहरणम्, ‘कृतं’ ‘मन्येत’ जानीयात्, न पुनः अन्यस्यापि कर्त्तव्यम—इत्यर्थः॥२२॥०॥
यद्येकस्मिन् काले पुनः पुनरन्नं पच्चेत, सकृदेवैतद्बलितन्त्रं कुर्व्वीत॥२३॥
यद्येकस्मिन् काले—इत्युक्तार्थम्। ‘पुनः पुनः भूयोभूयः ‘अन्न पच्येत’, अतिथ्यादिबाहुल्यवशात्, तथापि ‘सकृत्’ एकवारम्, ‘एव’ ‘एतद्वलितन्त्रे’ ‘कुर्व्वीत न प्रतिपचनम्॥२३॥
यद्येकस्मिन् कुले बहुधाऽन्नं पच्येत; गृहपतिग्रहानमादेवैतद्वलितन्त्रं कुर्वीत॥२४॥
‘यदि ‘एकस्मिन् कुले’ एकपाकोपजीविनि भ्रात्रादिवर्गे, ‘बहुधा अन्न पच्येत’ बहुषु महानसेषु कुतश्चित् कारणात् कदाचित्, भ्रातृपुत्त्रादीनां भोजनमौकर्य्यार्थं वा, तर्हि, एषां यो गृहपतिःतस्य, ‘महानमात्’ ‘एव’ ‘एतद्बलितन्त्रं कुर्व्वीत न प्रतिमहानमात्—
इत्यर्थः। स्मरति च बृहस्पतिः।
“एकपाकेन वसतां पितृदेवद्विजार्च्चनम्।
एकं भवेत्, विभक्तानां तदेव स्यात् गृहे गृहे”।
इति। कः कुर्वीत?गृहपतिः—
इति ब्रूमः। कस्मात्? प्रकृतत्वात्। प्रकृतः खल्वत्र गृहपतिः कर्त्ता—
इति सएव कुर्व्वीत॥२४॥०॥
यस्य त्वेषामग्रतः सिध्येत्, नियुक्तमग्नौ कृत्वाऽग्रं ब्राह्मणाय दत्त्वा भुञ्जीत॥२५॥
‘एषाम्’ एकपाकोपजीविनां, मध्ये, ‘यस्यतु’ ‘अग्रतः पूर्व्वं, गृहपतिपाकात्, ‘सिध्येत्’ सिध्यति पाकः, स किञ्चिदन्नम् —
‘अग्नौ’ ‘नियुक्तं’ ‘कृत्वा’ किञ्चिच्च, ‘अग्नं’ ‘ब्राह्मणाय दत्त्वा भुञ्जीत’। तुशब्दो विशेषणार्थः। किं विशिष्यते? अनावश्यकत्वेऽपि वैश्वदेवादीनाम्, इदमस्य विशिष्यते,—
यदग्नौ नियोज्यं ब्राह्मणाय च दातव्यम्—
इति॥१५॥*॥
यस्यो जघन्यं भुञ्जीतैवेति॥२६॥
यस्य पुनर्जघन्यं परस्तात् गृहपतिपाकात् सिध्यति पाकः, स भुञ्जीतैव, न पुनरग्नौ वा नियुञ्जीत, ब्राह्मणाय वा दद्यात्, बलिं वा हरेत्। उ—
इति पुनरर्थोऽपार्थो वा निपातः। अन्ये तु पठन्ति—
“यः सा जघन्यं भुञ्जीतैव”—
इति। तदिदमेवं विव्रियते, - यः जघन्यं भुञ्जीत, स उ भुञ्जीतैव - इति। सो जघन्यम्,—
इति छान्दसोऽयं प्रयोगः। ‘इतिः’ नित्यबलिप्रकरणपरिसमाप्तिं द्योतयति।
सेयं पञ्चसूत्री द्रव्यस्यकर्म्मार्थतामाह। कर्म्मणश्च पुरुषार्थताम्।
कर्मणां द्रव्यार्थत्वेखल्वावर्त्तेत प्रतिद्रव्यं कर्म। तदननुजानानः आचार्य्यः पुरुषार्थत्वममीषां दर्शयति। द्रव्यार्थत्वे खल्वमीषां वचनानामदृष्टार्थत्वं कल्पनीयं स्यात्। न चैतदुचितं सम्भवन्त्यां गतौ। तस्मात् यथोक्तएवार्थः॥२६॥*॥
अथाप्युदाहरन्ति॥२७॥
अथानन्तरञ्च यत् कर्त्तव्यं, तदपि उदाहरन्ति वदन्ति ब्राह्मणवाक्यानि—
इत्याभामान्तं सूत्रम् \। स्मृतिकाराणां खल्वियं शैली यत् ‘तदाहुः’ ‘तत्रैक आहुः’ ‘अथो खल्वाहुः’ ‘अथाप्युदाहरन्ति’ इत्येवमादीनि पदानि ब्राह्मणवाक्यानामादौ निपातयन्ति॥२७॥
एतस्यैव बलिहरणस्यान्ते कामं प्रब्रुवीत, भवति हैवास्य॥२८॥
एतत् — इति बलिहरणं ब्रूमः। ‘एतस्य’ बलिहरणस्य, ‘अन्ते’ अवसाने, ‘एव’—
काम्यानामपि वलीनामनन्तरम्—
इत्यर्थः। ‘कामं प्रब्रुवीत’ काम्यते इति कामः—
अभिलसितमायुरादिकमुच्यते। तमिमं काममभिलषितं वस्तु, प्रब्रुवीत प्रकर्षेण कथयेत लाभार्थं, प्रार्थयेदग्निम्—
इत्येतत्। “मनो ह वै देवा मनुष्यस्य जानन्ति”—
इति श्रवणात् मनसैव इयं प्रार्थना मा भूत्—
इति प्रब्रुवीतेत्याह। प्रार्थना च इयं वामदेव्यगानादर्वाक् कर्त्तव्या। तदाह नित्यान्काम्यानपि बलीनभिधाय कात्यायनः।
“स्पृष्ट्वाऽपो वीक्षमाणोऽग्निं कृताञ्जलिपुटस्ततः।
वामदेव्यजपात् पृर्व्वं प्रार्थयेत् द्रविणोदमम्।
आयुरारोग्यमैश्वर्य्यं धीर्धृतिः शं बलं यशः।
ओजोवर्च्चः पशून् वीर्य्यं ब्रह्म ब्राह्मण्यमेवच।
सौभाग्यं कर्म्मसिद्धिश्चकुलज्यैष्ठ्यं सकर्तृताम्।
सर्व्वमेतत् कर्म्मसाक्षिन्, द्रविणोद, रिरीहि नः”।
इति। आयुरारोग्यम्—
इत्यादिः प्रार्थनमन्त्रः। स खल्वयं प्रार्थितः कामो,—
‘भवति’ निष्पद्यते, ‘एव’। ‘ह’ किल, ‘अस्य’ प्रार्थयितुरित्यर्थः॥२८॥
स्वयन्त्वेवाशस्यꣳबलिꣳहरेत् यवेभ्योऽध्याव्रीहिभ्यः, व्रीहिभ्योऽध्यायवेभ्यः स त्वाशस्यो नाम बलिर्भवति॥२९॥
‘स्वयं तु एव’। तुशब्दः चशब्दार्थः, समुच्चये। किं समुच्चिनोति? पूर्व्वोक्तंनित्यबलिम्—
‘इति भट्टभाष्यम्। नैतत् युक्तम्। कस्मात्? नित्यबलौ प्रतिनिधिसद्भावात्। आशस्यबलौ च तदभावात्। समुच्चयपक्षेखल्वाशस्यञ्च बलिं स्वयमेव हरेत्—
इतिवचनव्यक्तिरवगम्यते। नित्यञ्च—
‘इति चार्थः। तदनया वचनव्यक्त्या आशस्य इव नित्येऽपि बलौ प्रतिनिधिर्निरस्येत।तम्मात्—
तुशब्दः सुभूमिकरणादिकं स्मारयति—
इति ब्रूमः। कथन्नाम? नित्यबलिवत्—
‘सुभूमिकरणम् उभयतः परिषेकः—
इत्येवमादिकयारीत्या—
इति। ‘आशस्यम्’ आशस्यनामानं ‘बलिं’ ‘स्वयम्’ ‘एव’ ‘हरेत्’ न पुनः प्रवासादावपि अन्येन—
इत्यर्थः। उक्तश्चायमर्थः पुरस्तादस्माभिः—“
स्वयमेव हरे काम्यान्’—
इत्यादिगृह्यान्तरेण।
कोऽयमाशस्यो नाम बलिः? कस्मै च हर्त्तव्यः?—
इत्यत्राह—
‘यवेभ्यः’—इति। सेयं चतुर्थी विभक्तिर्यवानां देवतात्वमवगमयति। त्यागोद्देश्यां हि देवतामाचक्ष्महे। चतुर्थ्या खल्वत्र यवानामुद्देश्यत्वमवगम्यते। श्लोकमपि उदाहरन्ति।
“तद्धितेन चतुर्थ्यावा मन्त्रलिङ्गेन चेष्यते।
देवतासङ्गतिस्तत्र दुर्ब्बलन्तु परम्परम्”।
इति। तस्मात् यवदैवतोऽयं बलिर्भवति। तेन—
यवेभ्यो नमः—
इति प्रयोगः सिध्यति। कस्मिन् काले हर्त्तव्योऽयं बलिः? तदुच्यते। ‘अधि’ उपरि। कस्मात्? ‘यवेभ्यः’ यवोत्पत्तेरित्येतत्। तदत्र यवपदाच्चतुर्थेव प्रमाणम्।
“अपादानसम्प्रदानकरणाधारकर्म्मणाम्।
कर्त्तुश्चान्योन्यसन्देहे परमेकं प्रवर्त्तते”।
इति शाब्दिकस्मरणात्। यवेभ्य उपरि—’
इति यथाश्रुतेऽप्यर्थे केवलमभ्युपगम्यमाने, देवताविशेषानुपदेशात् यवदैवत एवायं बलिः कल्पयितुमुचितः। श्रुतत्वात्। तदुत्सर्गे च कारण विशेषाभावात्। अत एव—
यवेनैव द्रव्येणैष बलिर्हर्त्तव्यः—’
इत्यवधार्यते। अतएव च -
“आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते।
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः”।
इति कर्म्मप्रदीपवचनादाज्यद्रव्यकः प्रजापतिदेवताकोऽयं बलिः—
इत्यपि नाद्रियते। ‘जुहोतिषु’—’
इत्यभिधानाच्च। तथा च गृह्यान्तरम्।
“यवैर्यवेभ्य आवापो व्रीह्युत्पत्तेरधो बलिः।
व्रीहिभ्यो व्रीहिभिः पूर्व्वं यवोत्पत्तेर्जिजीविषोः”।
इति। कियन्तं कालं यावदयं बलिर्हर्त्तव्यः? तदुच्यते। ‘आव्रीहिभ्यः’ व्रीह्युत्पत्तिपर्य्यम्—
इत्यर्थः। एतेन—’
‘व्रीहिभ्योऽध्यायवेभ्यः’—’
इति व्याख्यातम्। स त्वाशस्यो नाम बलिर्भवति’।सः—’
इति प्रस्तुतपरामर्शिना सर्व्वनाम्ना निरपेक्षं बलिद्वयं परा मृश्यते। तुशब्दोऽन्येभ्यो- बलिभ्योऽस्य वैशेष्यमवगमयति। स्वयमेव खल्वयं बलिर्हर्त्तव्यो लोप एवास्य प्रवासादाविति ह्यवोचाम।स खल्वयं बलिरेकस्मात् शस्यादारभ्य अपरशस्यपर्य्यन्तं कर्त्तव्यत्वात्—‘
आशस्यो नाम’ भवति॥२९॥
तदनेनाशस्यबलिना—
दीर्घायुर्हैव भवति॥३०॥
दीर्घम् आयुर्यस्य सोऽयं दीर्घायुः, दीर्घं वा अस्य आयुः, ह किल नूनं भवत्येव। नायमल्पायुर्भवतीत्यर्थः॥३०॥
विश्राणिते फलीकरणानामाचामस्यापामिति बलिꣳहरेत्, स रौद्रो भवति स रौद्रो भवति॥३१॥*॥
‘विश्राणिते’ विशेषेण श्राणिते, ‘श्रणु दाने’ इति स्मरणात् दत्ते अन्ने। क्षीणप्राये इत्यर्थः। ‘फलीकरणानां’ कञ्चुकानाम्—’
इति भट्टभाष्यम्। फलीकरणानि कणाः—’
इति परिशिष्टप्रकाशः। तथा च गृह्यपरिशिष्टम्।
“आचितं शकटं प्राहुर्द्रोणःस्यात् कांसमानकः।
कञ्चुकाश्च कणाश्चैव फलीकरणकक्कुशाः”।
इति। ‘आचामस्य’ भक्तमण्डस्य—
“ओदनाग्रद्रवं प्राहुराचामं हि मनीषिणः”।
इति स्मरणात्। ‘अपाम्’ उदकस्य। षष्ठीविभक्तयोऽवयवार्थाः। इतिना मिलितमुच्यते,त्रीण्येतान्येकीकृत्येत्यर्थः। ‘बलिं हरेत् ‘—
इत्युक्तार्थम्। स खल्वयं बलिः, रौद्रो रुद्रदेवताको भवति। रात्रौ चायं बलिर्दातव्यः। कस्मात्?
“यक्ष्मणे चोदकं दद्यात् यक्ष्मैतत्ते इति ब्रुवन्।
आरोग्यमस्य तेन स्यात्, सायं रौद्रात् यथेप्सितम्”।
इति गृह्यान्तरदर्शनात्। एतस्मात् च गृह्यान्तरात्,—
यत्किञ्चत् कामयते, तत् रौद्रबलेः फलमवगच्छामः। ‘सरौद्रोभवति स रौद्रो भवति’—
इत्यभ्यामो महायज्ञप्रकरणपरिसमाप्तिं द्योतयति। त इमे आशस्यप्रभृतयः कौथुमराणायनीयादीनां स्वशास्त्रोक्ताः काम्या बलयो भवन्ति। कात्यायनोऽप्याह। “आशस्य प्रभृतयः काम्याः”—
इति। सामान्यविहिताश्च काम्याबलयोविष्णुपुराणादौ द्रष्टव्याः॥३१॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य चतुर्थीखण्डिका॥०॥
———
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके पञ्चमी खण्डिका
अथ दर्शपौर्णमासयोः॥१॥
अथेत्ययमधिकारार्थः। दर्शश्च पौर्णमासश्च,—
दर्शपौर्णमासौ। तयोरधिकार इदानींवर्त्तिष्यते —’
इति वाक्यशेषः। अथवा, अथशब्दोऽपूर्व्वप्रकरणोपन्यासार्थः पूर्व्वप्रकृतार्थो वा। कथन्नाम? यथा सायंप्रातर्होमवैश्वदेवबलिहरणानि नित्यानि, तथा दर्शपौर्णमासावपि॥१॥
तत्र तावदुपवासपूर्व्वकत्वाद्दर्शपौर्णमासयोरुपवासव्यवस्थैव प्रथममभिधातव्या। तत्रापि—
“दर्शान्तं पौर्णमासाद्यमेकमेव प्रचक्षते”।
इति कर्म्मप्रदीपवचनात् पौर्णमासादित्वावगमात्कर्म्मणः पौर्णमास्याः तावत् व्यवस्था उच्यते—
सन्ध्यां पौर्णमासीमुपवसेत्॥२॥
रात्र्यन्होः सन्धिः,सन्ध्या—
“अहोरात्रस्य यः सन्धिः सूर्य्यनक्षत्रवर्जितः।
सा च सन्ध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः”।
इति स्मृत्युक्तलक्षणा। मा खस्वियं परैव सन्ध्या गृह्यते इति वक्ष्यामः। अविशेषात् सन्ध्याद्वयमपि सन्ध्याशब्दार्थः - इति तु भट्टभाष्यम्। तस्यां या पौर्णमास्यवच्छिद्यते; - यस्यां किल पौर्णमास्यां सन्ध्यायामेव - सवितुरस्तमयसमकालमेव पूर्णचन्द्रमाः समुदेति, मा पौर्णमासौ सन्ध्येत्युच्यते। तामिमां सन्ध्यां पौर्णमासीं प्राप्योपवसेत्-तस्यामुपवासं कुर्य्यादित्यर्थः। कुर्य्यादित्यर्थः। उपवासः खल्वयम्,–उपावृत्तस्य पापेभ्यः गुणैः सह वासो वक्ष्यमाणोपवसथानुष्ठानं यथोककालञ्चाभोजनमुच्यते। न पुनरहोरात्रमभो जनम्। कस्मात् ? “पथिक दम्पती भुनौयाताम्”– इति तदहर्मोजनोपदेशात्।
“उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह।
उपवासः सविज्ञेयो म शरीरविशोषणम्”।
इति च स्मरणात्। एके पुनः - “उपास्मिन् श्वो यक्ष्यमाणा देवावमन्ति एवं विद्वानग्निमुपस्तुणाति”—इति तैत्तिरीयब्राह्मणं पश्यन्तः उपवासोऽग्न्याधानम्”–इति वर्णयन्ति। “पूर्वेद्युरग्निं गृह्णाति उत्तरमहर्देवतां यजते” - इत्येवमादिशास्त्रान्तरमप्युदाहरन्ति॥२॥
उत्तरामित्येके॥३॥
सन्ध्यां पौर्णमासीमनुपोय्य तदुत्तरां पौर्णमासीमुपवसेत्खण्डामपीत्यर्थः। इत्येके आचार्या मन्यन्ते।
एवं वा—
उत्तरेति प्रकृतत्वात् पौर्णमास्याः प्रतिपदुच्यते। उत्तरपदं खल्विदमव्यवहितत्वात् पौर्णमास्यास्तदपेक्षयैव उत्तरत्वमवगमयति, न सन्ध्यामपेक्ष्य, व्यवहितत्वादित्यभिप्रायः। तामिमामुत्तरां प्रतिपदमुपवसेत्—इति, एके अन्ये शाखिनो मन्यन्ते न वयमेवं ब्रूमइत्यर्थः। तथाच रौरकीयाणां ब्राह्मणम्। “द्वेह वै पौर्णमासौद्वे अमावस्ये,– तस्मात् प्रतिपद्युपवसन् यजेतापरेद्युः” - इति। तस्मात्पारशाखिकोऽयं पक्षः कौथुमराणायनीयादीनां न भवति॥३॥
स्थिता तावदपर्य्यवसितैव पौर्णमासीकथा, ‘त्रयः पौर्णमासीकाला भवन्ति’ इत्यत्र पुनरुद्भविष्यति। अमावस्यायाः खल्विदानींव्यवस्थोच्यते—
अथ यदहश्चन्द्रमा न दृश्येत, ताममावास्याम्॥४॥
अथ उभयत्रामावास्यालाभे यदहर्यस्मिन्नहनि चन्द्रमा न दृश्येत, नावलोक्येत ताममावास्याम्, उपवसेदित्यनुवर्त्तते। मा खल्वियं कुहूरुच्यते। तत्रैव हि चन्द्रमा न दृश्यते इति मैवोपवस्तव्या न सिनौवालो। तस्यां खल्ववलोक्यते प्रातः चन्द्रमाः। तस्मानाच क्षयलक्षणा। तदिदं सूचं वर्द्धमानाभिप्रायम्। कात्यायनोऽप्याह।
“वर्द्धमानाममावास्यांलक्षयेदपरेऽहनि।
यामांस्त्नीनधिकान् वापि पितृयज्ञस्ततो भवेत्”।
इति॥४॥०॥
कस्याश्चित् पौर्णमास्याः कस्यास्श्विञ्चामावास्यायाः उपवासव्यवस्थामभिधाय, अथेदानींदर्शपौर्णमासयोः कश्चिन्नियमः, पौर्णमास्यमावस्ययोश्च स्वरूपं वक्तव्यम्- इत्युत्तरो ग्रन्थ आरभ्यते।
एवं वा—
कस्मात् पुनः कारणात् पौर्णमास्याममावस्यायाञ्च उपवामोव्यवस्थाप्यते?—न पुनश्चतुर्दश्यामुपोष्य तयोरेव इज्यते?—इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते—
पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः॥५॥
पक्षोऽर्द्धमासः। स च शुक्लकृष्णभेदात् द्विविधः। तदन्ता तिथिश्च द्वयीपौर्णमासी अमावस्या च। बहुवचनं व्यक्तिभेदाभिप्रायमावृत्त्यपेक्षम्।तदयमर्थः। पक्षाणामन्ता अवसानतिथय उपवस्तव्याः। पक्षाणामादयः प्रतिपदश्च अभियष्टव्याः अभिमुख्येन पूर्व्वाह्लादिसम्पादनेन यष्टव्याः—इत्यर्थः। अस्मादपि कारणात्—पौर्णमासीमुपससेत् नोत्तराम्—इत्यवधार्य्यते॥५॥
आमावास्येन हविषा पूर्व्वपक्षमभियजते पौर्णमासेनापरपक्षम्॥६॥
अमावास्यायां यदुपक्लृप्तं हविस्तदामावास्यम्—इत्युच्यते। तेन आमावास्येन हविषा पूर्व्वपक्षं शुक्लपक्षम अभियजते। पौर्णमासेन पौर्णमास्यामुपक्लृप्तेन हविषा अपरपक्षं कृष्णपक्षम्, अभियजते—इत्यनुषज्यते। पूर्व्वपक्षप्रतिपदिष्ट्याकृत्स्न एव पूर्व्वः पक्षः इष्टो भवति, अपरपक्षप्रतिपदिष्ट्याच कृस्त्नोऽपरपक्षः—इत्यभिप्रायः। कर्म्मणः पौर्णमासादित्वात् दर्शान्तत्वाच्च पौर्णमास्यां यागार्थंयद्धविरुपक्लृप्तममावस्यायामपि तदेवोपकल्पनीयमित्यनुसन्धेयम्॥६॥
अथ केयं पौर्णमासी? का वा अमावस्या? तदुच्यते—
यः परमो विकर्षः सूर्य्याचन्द्रमसोः सा पौर्णमासी, यः परमः सङ्कर्षः साऽमावास्या॥७॥
यः परमो महान् विकर्षो विप्रकर्षोव्यवधानंसप्तमराश्यवस्थानम्—
इत्येतन्। कयोः सूर्य्याचन्द्रमसोः। सूर्य्यश्च चन्द्रमाश्च तयोः सूर्य्याचन्द्रमसोः। सापौर्णमासी पूर्णिमा—
इत्येकोऽर्थः। सा—
इति पौर्णमास्यपेक्षया स्त्रीत्वम्। यः खलुपरमः सङ्कर्षः सन्निकर्षः एकराश्यवच्छेदेनैकांशावस्थानं सूर्य्याचन्द्रमसोः, साअमावस्या दर्शः सूर्येन्दुसङ्गमः—
इत्यनर्थान्तरम्॥७॥
अवसिता प्रासङ्गिकी कथा।प्रकृतामेवेदानीममावस्याव्यवस्थामनुवर्त्तामहे—
यदहस्त्वेव चन्द्रमा न दृश्येत, ताममावस्यां कुर्व्वीत॥८॥
यदहश्चन्द्रमा न दृश्येत, न दृश्यते—
क्षीयते, आगमबलात्क्षीणः
इत्यवगम्यतेःताममावस्यां कुर्व्वीत।तुशब्दः, चशब्दार्थः समुच्चते। एवशब्दोऽवधारणार्थः। उपवाममन्यच्च यद्विहितम्—
“अमावस्यायां तत् श्राद्धम् इतरदन्वाहार्य्यम्”—
इति, तदपि तस्यामेव कुर्व्वीत—
इत्येवमवध्रीयते। तदनेन,—
उपवासपिण्डपितृ
यज्ञान्वाहार्य्यश्राद्धानामेकस्मिन् काले कर्त्तव्यत्वमवगम्यते। अतएव कात्यायनः अमीभिरेव वचनैः श्राद्धमपि व्यवस्थापयाञ्चकार।
तदिदं क्षीणामावस्याभिप्रायं सूत्रम्।क्षयश्चात्र लक्ष्यते। अतो नास्ति पौनरुक्त्यम्—‘अथ यदहश्चन्द्रमा न दृश्येत ताममावास्याम्’—इत्यनेन सूत्रेण। तत्र खल्ववलोकनाभावोऽर्थः, वर्द्धमानाभिप्रायञ्च वचनम्—इत्यवोचाम।तदाह कात्यायनः।
“पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते।
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः।
यदा चतुर्दशीयामं तुरीयमनुपूरयेत्।
अमावस्या क्षीयमाणा तदैव श्राद्धमिष्यते।
यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः।
तत्क्षयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि”।
इति। तथा च श्रूयते। “अपराह्नेददाति, तस्मिन् क्षीणे ददाति”—
इति। “एष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः, सएतां रात्रिं क्षीयते, तस्मिन् क्षीणेददाति”—
इति च शातपथीये ब्राह्मणे।
या च श्रुतिः—
“यदहस्त्वेव चन्द्रमादर्शनं नैति, ताममावस्यां कुर्व्वीत”—
इति, “यदैवैष न पुरस्तान्न पश्चाद्ददृशे, अथैभ्योददाति”—
इति चैवं जातीयिका, सा तु दर्शनाभावपरैव, न क्षयपरा।श्रुतिः खल्वेवमत्यन्तमुत्सृज्येत। “श्रुतिलक्षणाविषये च श्रुतिर्ज्यायमी”—
इत्याचक्षते। शतपथादिब्राह्मणेषु च, क्षीयते—
इति क्षीणे—
इति चैवमादिसमाम्नानात् क्षयमात्रमर्थः, न पुनरदर्शनमपि। तथाविधवचनव्यक्तेरभावात्। तदनयोर्विभिन्नविषय-योर्वचनयोर्नास्त्येकविषयत्वम्।तस्मान्नामीषां वचनानामेकवाक्यता।
न खल्वेकवाक्यत्वानुरोधात् श्रुतिरुत्स्रष्टुं युज्यते, लक्षणा वा आश्रयितुम्। श्रुतिर्हि वाक्याद्बलीयसी, कथमिव वाक्यानुरोधादुत्सृज्येत! तस्मात्—
शतपथश्रुतिदर्शनादपराऽपि श्रुतिः क्षयपरा—
इति वाचस्पतिमिश्रादिवर्णनमसङ्गतम्।
सा खल्वियमपरा श्रुतिर्वर्द्धमानाऽभिप्राया—
इत्यवधार्य्यते। कुतः ? परिशिष्टकार- स्मरणात्। सहि वर्द्धमानायामपरेऽहनि श्राद्धं स्मरति। अतएव, आचार्य्यस्य सूत्रद्वयमुपपद्यते,—
‘अथ यदहश्चन्द्रमा न दृश्येत’—
इति, ‘यदहस्त्वेव चन्द्रमा न दृश्येत’—
इति च। इतरथा इतरथा श्रुतीनामेकवाक्यतायामपि, आचार्य्यस्य सूत्रद्वयं नोपपद्यते। न खलु सर्व्वत्र क्षयलक्षणायां कश्चिदपि विशेषः शक्यते दर्शयितुम्। वर्द्धमानायामपि चैवमनुपपत्तिः। सर्व्वत्र क्षयलक्षणायां खल्वनुपपत्तिर्वर्द्धमानायां परदिने श्राद्धकरणस्य।कस्मात्? अमावस्याष्टमे यामे क्षयाभावात्। प्रत्यक्षश्रुतिविरोधेन च स्मार्त्तायाः श्रुतेरनुमानासम्भवात्।
यः पुनरेवं समाधानं ब्रूते,—
‘यदुक्तं यदहस्त्वेव’—
इत्यनया स्मृत्या श्रुतौ लक्षणावर्णना न सम्भवति, स्मृतिमपेक्ष्य श्रुतेर्बलवत्त्वात्’—
इति। सोऽपि नातीव समीचीनमाह। कुतः ? यतो-भवेदेतदेवं नाम, यदि स्मृतिविरोधपरिहाराय श्रुतौ लक्षणा अभ्युपगम्येत। न तु तथा अभ्युपगम्यते। श्रुतिरियमनया स्मृत्या व्याख्यायते—
इति कृत्वा त्वियं वर्णना स्यात्। न खल्वेवमियं श्रुत्या विरुध्यते; येन अप्रमाणं स्यात्। श्रुत्या विरुध्यमाणा स्मृतिरप्रमाणम्—
इति ह्याचक्षते, न श्रुतिव्याख्यानपराऽपि। तस्मात् यथा
श्रुतिव्याख्यानपराणाम् - “अभ्युत्य कालभेदे दोषवचनात्” - इति, “चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः” –इति,– “वचनात्त्वयथार्थमैन्द्री स्यात्”– इति चैवमादिकानामचक्षपादवादरायणजैमिनीयानां सूत्राणां नाप्रामाण्यम्, एवमिहापि भवितुमुचितम्। कथमन्यथा कात्यायनवचनादाचार्य्यसूत्रेऽपि लक्षणा स्यात् तस्यतदुपजीव्यत्वात्। अतएव भगवतो व्यासस्य स्मरणम्।
“वेदार्थो यः समाख्यातस्त्रत्राज्ञानं भवेद् यदि।
ऋषिभिर्निश्चिते तत्र का शङ्का स्यान्मनोषिणाम्”।
इति। न चात्र, यदा चतुर्दशीयामम्, इत्यत्र श्रुतिविरोधपरिहाराय श्रुतौ लक्षणा इति नारायणोपाध्यायादिदिशा भ्रमितव्यम्। अदर्शनवत् क्षयस्यापि श्रौतत्वाविशेषात्। तस्मादस्मदुक्तमेव समाधानमादरणीयम्। क्षयश्च कात्यायनेन दर्शितः।
“अष्टमांशे चतुर्दशाः क्षीणो भवति चन्द्रमाः।
अमावस्याऽष्टमांशे च ततः किल भवेदणुः”।
इति। ‘ततः’ – इति अमावस्याष्टमयामे चयाभावं दर्शयति। क्षयानन्तरम् - इति तस्यार्थः। अन्यथा तत्पदवैयर्थ्यात्- इति रामकृष्णोपाध्यायाः। अमावस्याष्टमांशे च, - इति चस्त्वर्थः, व्यवम्थाऽर्थको वा। अमावस्यायाः सप्तममंशं यावत् क्षयः, अष्टमे चांशे उत्पत्तिर्व्यवस्थाप्यते। तस्मात् - अणुकालोऽपि क्षयकाल एव - इत्यमङ्गतं वर्णनम्। यच्च — ‘ततः’ – इत्यत्र, ‘पुनर्’- इति पठितं नारायणोपाध्यायेन। तदप्यनुचितम्। सर्व्वेध्वेव ग्रन्थेषु ‘ततः’ - इति पाठस्यैव दर्शनात्। शूलपाणिप्रभृतिभिः प्रामाणिकतरैश्च तथैवपठितत्वात्। किं बहुना? तन्मतमनुजानानोऽपि वाचस्पतिमिश्रः, ‘ततः’ - इत्येव पठति। नापि ‘पुनर्’ - इति पाठ आञ्जस्येन सङ्गच्छते। कुतः? उच्यते। पुनः किल भवेदणुः - इत्यस्य खल्वयमर्थः अवगम्यते - अमावस्याष्टमांशे पुनरपि - चतुर्दश्यष्टमयामवदेव अणुर्भवेत् इति। पुनःशब्दस्वरसात्। सोऽपि एवमेव व्याचष्टे। स खल्वयमर्थः, नातीव समञ्जसः। कस्मात्? एवं खल्वणुपदस्य लक्षणा स्यात्। वाक्यार्थश्च नोपपद्यते। कथम्? यदि तावदणुपदं झणुकाभिप्रायं, तर्हि स्फुटमेतस्य चतुर्दश्यन्तयामवैलक्षण्यम्। पुनः शब्दश्च खल्वेवं पीड्यते। अथ मतम् - चतुर्दश्यष्टमे यामे चन्द्रमसोयावन्तोऽवयवाः शिष्यन्ते, तदभिप्रायकमणुपदम्, तथाच यादृशमणुत्वं चतुर्दशौशेषयामे तादृशमचापि - इति। एवन्तर्हि अणुपदस्य लक्षणा स्यात्। न ह्यत्र लक्षणाकारणमस्ति। न चैवमपि वाक्यार्थउपपद्यते। किं कारणम्? चतुर्दश्यष्टमे यामे किल चन्द्रमाश्चतुर्थभागोनकलावशिष्टो भवति, अमावस्यासप्तमयामे च कृत्स्नं क्षीयते।
“अत्रेन्दुराद्ये प्रहरेऽवतिष्ठते चतुर्थभागोनकालावशिष्टः।
तदन्त एव क्षयमेति कृत्स्नमेवं ज्योतिश्चक्रविदोवदन्ति”।
इति विशेषाभिधानस्वरसात्। चतुर्दश्यष्टमयामे तावत् यथावदवस्थितस्य चन्द्रमसोऽवयवापक्षयादेवं वाक्यार्थः सङ्गच्छते। अमावश्यष्टमयामे तु नैवम्। न हि सप्तमयामे निरवशेषेण क्षीणस्य अणुमात्रावशेषस्य चन्द्रमसो जातुक्षिदपि अष्टमयामे अवयवापचयाच्चदुर्थभागोनकलावशिष्टता सम्भवति। अपि तु अवयवोपचयादेव-इत्यकामेनापि वाच्यम्। तथाच- उपचीयमानावयवस्य
चन्द्रमसः चतुर्थभागोनकलावशेषः - इति न शक्यते वक्तुम्। कुतः? अवशेषपदार्थासङ्गतेः। भिन्नौ खल्विमावर्थौ, –यश्चावस्थितस्य चन्दमसोऽवयवापचयाच्चतुर्थभागोनकलावशेषः, यच्चाणुमात्रावशेषस्यावयवोपचयात् चतुर्थभागोनकलत्वम्, इति धौमद्भिरवधेयम्। एतेन, - इदमपि वर्णनमसङ्गतमेव;- ‘अकृत्स्नक्षयस्तुरीयोनकलाऽवशिष्टता, सा च चतुर्दशीशेषयामे भवति, कृत्स्नक्षयश्च सप्तमे अमावस्यायामे अष्टमे च पुनस्तुरीयोनकलावशेषः’ - इति।
तस्मात् ‘पुनः किल भवेदणुः - इति पाठेऽपि पुनःशब्दः पक्षान्तरार्थो वर्णनीयः। तेन क्षयात् पक्षान्तरमिदमुच्यते, -अणुर्भवेत् उत्पद्यते, - इति वचनव्यक्तिरादरणीया। अतएव, - ‘अमावस्याष्टमांशे अणुर्भवति पुनरुत्पद्यते इति तत्त्वकारादिभिर्व्याख्यातम्। अतः, – इदमपि वर्णनमनादरणीयम्;-‘अमावस्याष्टमयामे परमाणुमात्रं तिष्ठति, द्व्यणुकारम्भस्तु प्रतिपद्येव’ - इति। भवेत् - इति च प्रमादपाठः खल्वेवं स्यात्।
अपि च। पुनः किल भवेदणुः इत्यस्य परेषां वर्णनायामपि उत्पत्तिकाल एव अमावस्याष्टमांशः स्यात्। न क्षयकालः। कस्मात्? असाधारणत्वात्। उत्पत्तिः खल्वष्टमांशे अमाधारणी। मा ह्यत्रोपदिश्यते। न क्षयः। व्यपदेशाश्च असाधारणतयैव भवन्ति, इत्यवोक्षाम। ‘क्षीणे ददाति’ – इत्येतस्य च असाधारणएव क्षयोऽर्थः। कुतः? शौघ्रमुपस्थितेः। साधारणासाधारणयोः खल्वसाधारणमेव शीघ्रमागच्छति हृदयम्। आगच्छति चेत्, न युज्यते विनाकारणमुत्स्रष्टुम्। अतएव, - “इष्टिपूर्व्वकमेवादः
पौर्णमासं हविः”—इत्यग्निषोमीयः पुरोडाश एवोत्कृष्यते, न पुनरुपांशुयाजीयमाज्यमग्निषोमीयानग्निषोमीयसाधारणम् – इति सिद्धान्तः। अपिच।अमावस्थायाः क्षयस्य व्यभिचाराभावे, न जातुचिदपि, – ‘यदहस्त्वेव चन्द्रमा न दृश्येत ताममावस्याम्’ - इति अमावस्यां क्षयेण व्यशेक्ष्यत्। व्यशिषच्चाचार्य्यः,–तस्मादनुमिमी महे—व्यभिचरत्यमावस्या क्षयम् - इति।
इदमिदानीं सन्दिह्यते। यदा पूर्व्वस्याममावस्यायामुपवासः क्रियते, तदा परदिने पक्षादियागः किं पूर्व्वाह्न एव अमावस्यायामपि कर्त्तव्यः? - आहोखिदपराह्नेऽपि प्रतिपद्येव? - इति। पूर्वाह्न एव दर्शेऽपि, - इति तावत् प्रतिपद्यामहे। कुतः? “अथ पूर्व्वाह्न एव प्रातराजतिं हत्वाऽग्रेणाग्निं परिक्रम्य” - इति वक्ष्यमाणसूत्रात्। पूर्व्वाह्न एव-इति-सूत्रयन्नाचार्य्योऽन्तरेणापि प्रतिपदं पूर्वाह्न एव यागं दर्शयति - अमावस्यायामपि। अन्यथा, ‘प्रागावर्त्तनादङ्कः- इति सूचितत्वादनुवादापत्तेः। स खल अप्रवृत्तिविशेषकरोऽनर्थकः- इत्यवोचाम। अपराह्नेऽपि प्रतिपद्येव, इति च प्रतिपद्यामहे। कस्मात्? “पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः” इति सूत्रणात्। सोऽयं तुल्यवद्विकल्पः, - इति भट्टनारायणोपाध्यायाः। तदेतत् कात्यायनः स्पष्टयाञ्चकार।
“पक्षादावेव कुर्व्वीत सदा पक्षादिकं चरुम्।
पूर्व्वाह्न एव कुर्व्वीत विद्धेऽप्यन्ये मनीषिणः”।
इति। सदापदमुभाभ्यामन्वेति। कथन्नाम? सदा, सर्व्वस्मिन्नेव पक्षादौ विद्वेऽपि,आपराह्निकेऽपि वा, इत्यर्थः। सदा, सर्व्वस्मिन्नेव
पूर्व्वाह्ने, सदर्शेऽपि, - इत्यर्थः। तदिदमुक्तं, - ‘विद्वेऽप्यन्ये मणीषिणः’– इति। अत्रान्यग्रहणं क्रियते, – अन्येषामाक्षार्याणामिदं मतम् - (न पुनरस्मत्कल्पितम्) – इत्यन्यानाचार्य्यान् पूजयितुं, नात्मीयं मतं पर्य्युदसितुम्। ‘अन्येऽपि मनीषिणः’ - इति वा वचनव्यक्तिरादरणीया। ‘सदा’ पदाद्वा नित्यस्यैव पक्षादिचरोरयं कालविकल्पः, - इत्ययमर्थोऽवगन्तव्यः। तदत्र, ‘पक्षादावेव कुर्व्वीत’ - इति, ‘पूर्व्वाह्नएव कुर्व्वीत’ - इति च निरपेक्षसमान्नानात्, “खादिरे बध्नाति, पालाशे बध्नाति, रोहितके बध्नाति” – इति “यवैर्यजेत, ब्रोहि भियंजेत” - इति चैवमादिवद्विकल्प एव स्फुटमवगम्यते। स्वेन स्वेन पदसमूहेन खल्वत्र वाक्यद्वयं पृथक् पृथगेव परिपूर्णं, तस्माद्विस्पष्टमर्थद्वयं, विभागे च न साकाङ्क्षम् - इति; “हस्तौ अवनेनित्र, उपलराजिं स्तृणाति”–इत्येतयोरिव नास्त्यनयोरपि परस्परं सम्बन्धः। तथाचोक्तम्। “वाक्यानाञ्च समाप्तत्वात्” - इति, “समेषु वाक्यभेदः स्यात्” – इति, “एकार्थास्तु विकल्पेरन्” – इति च। ‘यस्मिंस्तु साधनोपकारे कार्यो, तस्मिन्नेव उपकारे अन्यत् साधनं विधीयते, तत्र विकल्प’ - इति च शास्त्रतात्पर्य्यविदां समयः। अत्र खल्वेकस्मिन् होमे साधनतया द्वौ कालौ विहितौ - पक्षादावेव - इति, पूर्व्वाह्न एव, - इति च।
“स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति”।
इति च स्मरणम्। एवकारद्वयेन च प्रत्येकमवधारयन्त्रेकैकशः करणमुपदिशति। कुर्व्वीत, इति च क्रियाभ्यासस्तावन्माचे करणार्थः। यत्र चोभयमेव सम्पद्यते, तत्राप्यन्यतरोपादानमवर्ज्जनीयमेव। एकैकशः अनुगुणानामुदगयनादीनामिव वा, समुदितोपलब्धौ महान् अभ्युदयोवाच्यः।
“स्मृग्भ्यांद्वाभ्यां तिल-व्रौहि-यव-गोधूम-कल्पितम्।
हविः प्रजुहुयाल्लक्षं वासरानेकविंशतिम्”।
इत्यस्याञ्च स्मृतौ,- सति सम्भवे तिलादीनां समुञ्चयः, असति विकल्पः, - इति विश्वेश्वरभट्टैर्व्याख्यातम्। तद्वदचापि वा, सम्भवासम्भवाभ्यां समुच्चयविकल्पौ आदरणीयौ। अतएव, – “यत् पितृभ्यः पूर्वेधुः करोति, पितृभ्यश्चैतत् यज्ञं निष्क्रीय यजमानो देवेभ्यः प्रतनुते”–इति, “पूर्वेद्युरग्निं गृह्नाति उत्तरमहर्देवतां यजते”– इति चैवमाद्याः श्रुतयोऽनुगृह्यन्ते। अन्यथा, उपवामश्राद्धयोरेकदिनत्वनियमात् ; पूर्वस्याञ्चामावस्यायां तदवधारणात् उत्तरदिने यागमकृत्वा तत्परदिने प्रतिपदि तत्करणे, श्रुतय उपरुध्येरन्।
न चाहःपदं तिथिपरम् - इति तृतीयेऽपि दिने प्रतिपदि यागे श्रुतीनामुपरोधो नास्ति, इति वाच्यम्। अथ यदहश्चन्द्रमा न दृश्येत ताममावास्याम्’ - इत्येवमादिसूत्रणात् सावनस्यैवाहोऽवगतेः। ‘यज्ञादौ सावनो मतः’ इति स्मरणात्। अपि च। ‘यदहस्त्वेव’ – इत्येवमादिभिः सूत्रैरुपवासकालं सूत्रयित्वा, ‘अथ यदहरुपवसथो भवति’ इत्यादिभिः प्रातरुपवसथमभिधाय, ‘अथापराह्न एव’ – इत्यादिभिस्तस्मिन्नेव दिने दम्पत्योर्भोजनमुक्का, ‘तौ खलु जाग्रन्मिश्रावेव’ - इत्यादिना तत्रैव जागरणं विधाय, ‘अथ पूर्वाह्न एव प्रातराजतिं हत्वा’ इत्यनेन, अथानन्तरदिने
प्रातराहुतिहोमानन्तरमेव यागस्य सूत्रणात् पूर्वपरसावनदिनत्वमेवउपवासपचादियागयोः पर्य्यवस्यति।पूर्वेद्युः पितृभ्यो निष्क्रीयप्रातर्देवेभ्यः प्रतनुते’ - इतीयञ्च श्रुतिः सावनाभिप्रायैव स्फुटमवगम्यते। कुतः? प्रातर् - इति वचनात्। अत्र प्रातरिति वचनाच्चप्रातरेव यागः प्रतिपदभावेऽपि, - इति प्रतीयते।
नापि तृतीयदिने यागः कर्त्तुम् उचितः। तत्र हि द्वितीयाविद्धतया प्रतिपदः, चन्द्रमसो दर्शनप्रसङ्गः। स खल्वनिष्ट एव।तथाच गृह्यान्तरम्।
“यजनीयेऽहि सोमश्चेदारुण्यां दिशि दृश्यते।
तत्र व्याहृतिभिर्हुत्वादण्डं दद्यात् द्विजातये”।
इति। “एषा वै समला नामेष्टिः” - इति च ब्राह्मणम्। वर्द्धमानायां पुनरनन्यगतेर्व्वचनात् नैष दोषः। तदिदमुक्तं, ‘विद्वेऽप्यन्ये’ - इति।
“सन्धिश्चेदपराह्ने स्यात् यागः प्रातः परेऽहनि।
कुर्वाणः प्रतिपद्भागे तुरोयेऽपि न दुष्यति”।
इति च गृह्यपरिभाषादौ स्मृत्यन्तरम्। अत्र ‘पादः प्रातः’- इति केनचित् पठितम्। तदनाकरम्।
न चाहः पदस्य तिथिपरतायामपि नियमेन पूर्वापरदिनत्वमुपपद्यते श्राद्धपक्षादियागयोः। चतुर्दश्यामपि श्राद्धविधानात्। न खल्वेतदन्यत्र द्वयं श्रुतिरित्यत्र किञ्चित् प्रमाणमस्ति। ‘प्रतिपद्युवसन्
यजेतापरेद्युः’– इत्यस्य़ामपि श्रुतौ, प्रतिपद्युवसन्इति श्रूयते, नप्रतिपदि यजेत - इति। श्रुतिः खल्वेवमत्यन्तमुत्सृष्टा भवति। न
च वाक्यानुरोधात् श्रुतिरुत्स्रष्टुं युज्यते“! “यदर्थस्थाभिधानं शब्दस्यश्रवणमात्रादेवावगम्यते स श्रुत्याऽवगम्यते” इति हि पदवाक्यप्रमाणकुशला मन्यन्ते। शब्दश्रवणमात्राञ्चायमर्थोऽवगम्यते, प्रतिपद्युवसन्निति। अन्यस्तुप्रतिपदि यजेत, इति पुरुषबुद्धिकल्पितः। यथा खल्वेकस्माद्वाक्यादाख्यातपदमन्यस्माच्च नामपदं गृहीत्वा योवाक्यार्थःसम्पद्यते पुरुषकल्पनामूलः,तादृशो ह्ययमर्थो भवति,अपरेद्युः प्रतिपदि यजेत, इति। तस्माद्युक्तःस आश्रयितुम्। अतएव,‘द्वे ह वै पौर्णमास्यौ, द्वे अमावस्ये’, इति पौर्णमास्यमावस्ययोर्दित्वमुच्यते। तदनेन प्रतिपदोऽमावस्यात्वं पौर्णमासीत्वञ्चातिदिश्यते,इति प्रतिपद्युपवास एव अनया श्रुत्या विधीयते,इति प्रतिपद्यामहे। नाम्नाऽपि धर्मातिदेशस्य सप्तमाध्याये सिद्धान्तितत्वात्। अथ मतं,प्रतिपदि यागेऽपि अमावस्यायां यजेत,पौर्णमास्याञ्च, इत्युपपत्तये तस्याः पौर्णमास्यादित्वमतिदिश्यते? तर्हि अमावस्यायामपि यागोऽनेनैव नयेन अवगम्यते, इत्यस्मत्पक्ष एवानुगृह्यते।
स खल्वयं प्रतिपद्युपवासोऽन्येषामनुमतो नास्माकम्, इति आचार्येणैव उक्तम्,‘उत्तराभित्येके’ इति। अतएव, एकेषामनुमतामुत्तरां दर्शयितुं तत्रैव सूत्रे, ‘प्रतिपद्युपवसन्’ -इतीमां श्रुतिंतत्रभवान् भट्टनारायण उदाजहार। अपिच। परेषामेवैषा श्रुतिर्नास्माकम्। रौरुकीयाः खल्वेवमामनन्ति,न अस्मच्छाखिनः। तस्मादिमामवष्टव्य नास्मच्छास्त्रमन्यथयितुमुचितम्।
“पूर्वाह्नमध्यमे वापि यदि पर्व समाप्यते।
तदोपवासः पूर्वेद्युस्तदहर्याग इष्यते।
अपराह्नेऽथवा रात्रौ यदि पर्व समाप्यते।
उपोष्य तस्मिन्नहनि श्वोभूते याग दूष्यते”।
इति च स्मृतिर्मध्यमेऽपि भागे पर्वसमाप्तौ तद्दिने यागमभिधानाअस्मदुक्तमेव अर्थमनुगृहाति। न चात्रान्या गतिः सम्भवति, मध्यमभागपर्य्यन्ते पर्वसमाप्तावपि पूर्वेद्युरेवोपवासस्यावश्यम्भावात्। तदत्र पूर्ववाक्यंक्षीणाभिप्रायम्, उत्तरवाक्यञ्च वर्द्धमानाभिप्रायं प्रत्येतव्यम्।यदपि -
“आवर्त्तने यदा सन्धिस्ततः पूर्वमथापि वा।
तस्मिन्नहनि यष्टव्यं परतश्चेत् परेऽहनि ”।
इति स्मरणम्। तत्र, आवर्त्तनम् अह्वो मध्यभागः,इतितिप्याभट्टोक्तमादरणीयम् आवर्त्त्यते यत्र भागे, तदावर्त्तनम्,इति व्युत्पत्तेः सम्भवात्, वचनान्तरसंवादाच्च। न ह्यावर्त्तनपर्य्यन्ते इत्यस्यां कल्पनायां किञ्चित् कारणमस्ति। एकत्रैव वचने, आवर्त्तने, ततः पूर्वं वा, इत्युपादानाञ्च नायमर्थः शक्यते वक्तुम्। तस्मादस्या अपि स्मृतेः पूर्वोक्तस्मृतिसमान विषयतैवअवगन्तव्या।वचनस्य यथा श्रुतार्थपरतायामपि, आवर्त्तनकालेऽपि सन्धौ तदहर्यागमुपदिशन्तोस्मृतिरस्मन्मतमेव अनुगृहातीति ध्येयम्। तदत्रापि तथासम्भवं क्षीणावर्द्धमानाभिप्रायता वर्णनीया। साधारणाश्च स्मृतयः, असाधारणवचनानामनुपरोधेन नेतव्याः। परमार्थतस्तु प्रायेणविभिन्नशाखिविषयाणि वचनानि भवन्ति। नैतेषामविरोधसम्पादनप्रयासेनावश्यं मनः खेदयितव्यम्। पर्वणः सन्धिश्च यदि
पर्वणस्तुरीयो भागः , तदा व्यक्तमस्मद्वर्णानैव अभिरुपदिश्यतेइत्यनुसन्धेयम्।
वाचस्पतिमिश्रास्त,– “हरिहरपद्धत्यादौ तु विशेषः। तथा हि, श्राद्धेच्योस्तावदव्यवधानेन पूर्वापराहानुष्ठेयत्वं,– ‘पूर्वेद्युः पितृभ्योनिष्क्रीय प्रातर्देवेभ्यः प्रतनुते’ इति श्रुतेः। लोगाक्षिरपि,—
“पूर्वाह्नेवाथ मध्यान्हे यदि पर्व समाप्यते।
उपोष्य तत्र पूर्वेद्युस्तदहर्याग दूष्यते।
अपराह्नेऽथ सायाह्नेयदि पर्व समाप्यते।
उपोष्य तस्मिनहनि श्वोभूते याग दुष्यते”।
समाप्यते प्राप्यते। पर्व अमावस्या।उपोष्य औपवसथं विधाय। तेनापराक्षगामिन्याममावस्यायां श्राद्धमौपवसथञ्च विधाय तदुत्तराज्ञेमध्यान्हाभ्यन्तरे दृष्टिः, इति वर्तुलार्थः। एवञ्च वर्द्धमानावत् सर्वत्रैवोत्तरापराक्षएव साग्निनाश्राद्धं कार्य्यम्” इति परेषां विशेषमुपन्यस्य,“एतन्मते क्षोयमाणापदस्य उत्तरापराह्नाव्यापित्वमर्थः। खर्वितापदस्थापि स्तम्भिताया उत्तरापराह्नाव्यापने प्रथमायाः प्रतिषेधोऽर्थः, तदव्यापने तु विधिरिति व्यवस्थित विकल्पः”इति वर्णयाम्बभूवुः। तदत्र भगवन्तो भूमिदेवाः प्रमाणम्। परमत्रमते व्यक्तमुत्तरदिने अमावस्यायामपि दृष्टिरवगम्यते। ये तु क्षौणादौ पूर्वस्याममावस्यायां श्राद्धम्, दृष्टिञ्च पूर्वाह्नेप्रतिपद्येव वदन्ति, तेषामुपवासतृतीयदिवसे वा यागःस्यात्। श्राद्धोपवासयोः समानदिनत्वं वा न स्यात्। श्रुतीनां स्मृतीनाञ्च बह्वीनाम् उपरोधोऽवर्जनीयःस्यात्। तदत्र तएव प्रष्टव्याः॥ ८॥
यस्माच्चतुर्दश्यामपि चन्द्रमाः क्षीयते, तस्मात् —
** दृश्यमानेऽप्येकदा गताध्वा भवतीति॥ ९॥**
दृश्यमानेऽपि चन्द्रे। तदिदं चतुर्दशीमभिप्रेत्य वचनम्। अस्यापिखल्बमावस्याविषयत्वे पूर्वेणैव सूत्रेण शिनीवाल्याविधानादर्थत एवतत्र प्रातश्चन्द्रमसोदर्शनस्य प्राप्तत्वादनुवादापत्तेः। एकदा एकस्मिन्काले। यदा खलु विप्रकृष्टायाममावस्यायामपेक्ष्यमाणायां सन्ध्यासमीपमुहर्त्तंस्यात्, तदैव, न सर्वदा इत्यर्थः। ‘गताध्वा’ गतः प्राप्तःदेवपित्तलोकप्रापणाय अध्वा अनया, सेयं गताध्वा प्रशस्ता, ‘भवति’चतुर्दश्यपि।तदाह कात्यायनः।
“यच्चोक्तंदृश्यमानेऽपि तच्चतुर्दश्यपेक्षया।
अमावस्यां प्रतीक्षेत तदन्ते वापि निर्वपेत्”।
इति। ‘इतिः’ अमावस्याव्यवस्थोपसंहारार्थः। अत्र किञ्चिद्वक्तव्यमस्ति। तत्र तावत् ‘अष्टमांशे चतुर्दश्याः’ -इत्यादिना चन्द्रमसः क्षयमभिधायाह कात्यायनः।
“आग्रहायण्यमावस्या तथा ज्येष्ठस्य या भवेत्।
विशेषमाभ्यां ब्रुवते चन्द्रचारविदोजनाः।
अत्रेन्दुराद्ये प्रहरेऽवतिष्ठते
चतुर्थभागोनकलाऽवशिष्टः।
तदन्त एव क्षयमेति कृत्स्न-
मेवं ज्योतिश्चक्रविदो वदन्ति।
यस्मिन्नब्दे द्वादशैकश्च यव्य-
तस्मिंस्तृतीयया परिदृश्यो नोपजायते।
एवं चारं चन्द्रमसोविदित्वा
क्षीणेतस्मिन्नपराह्ने च दद्यात्”।
इति। तदस्माद्विशेषाभिधानात् मार्गशीर्षज्यैष्ठयोश्चतुर्दश्यष्टमयामे न श्राद्धम्। तत्र चन्द्रच्याभावात्। किन्त्वमावस्यायामेव।पूर्व्वदिने त्वमावस्याया अलाभे परदिनेऽपि श्राद्धम्।अनन्यगतेवचनात्। पूर्व्वत्र वासरतीयांशे अमावस्याया अलाभेन संशयाभावात्। परत्र चन्द्रचक्षलाभाच्च। उभयदिने चन्द्रक्षलाभे तु पूर्वदिन एव। “यदा चतुर्दशीयामं” इति वचनात्। न ह्यनेन विशेषाभिधानेन तदपोद्यते। किन्तु चन्द्रक्षयस्यैव विशेषोऽभिधीयते।
यच्चोक्तंतत्त्वकारेण।‘मार्गशीर्षज्यैष्ठयोरुभयदिने चन्द्रक्षयलाभे यद्यपि यदा चतुर्दशौयाममिति वचनात् पूर्व्वदिन एव श्राद्धं प्राप्नोति, तथापि तद्वचनं चन्द्रक्षयानुरोधमूलमिति कृत्स्नचयानुरोधात् क्षीणायामपि परत्रापराह्नलाभे श्राद्धम्। अन्यथैतद्विशेषाभिधानं व्यर्थं स्यात्’ - इति। तदसङ्गतम्। कृत्स्नक्षयानुरोधे प्रमाणभावात्।ननु मा भूत् प्रमाणं, विशेषाभिधानस्यार्थवत्त्वार्थं कृत्स्नक्षयानुरोधःकल्प्यते इति चेत्। नैषा साध्वी कल्पना। विशेषाभिधान स्यार्थवत्त्वस्यपूर्व्वमेव दर्शितत्वात्। तस्मात् कपोलकल्पितेन कृत्स्नाक्षयानुरोधेनवचनस्योपरोधः सर्व्वथैवासङ्गतः। वचनस्य चन्द्रक्षयानुरोधमूलत्वेऽपि कृत्स्नक्षयानुरोधमूलत्वे न प्रमाणम्। तथात्वे वा मासान्तरेऽपि पूर्व्वदिने श्राद्धं न स्यात्। कृत्स्नक्षयाभावात्।
इदमप्यपरमिह विवेचनीयम्। दिनद्वयसंबन्धिन्यमावस्या तावत्
त्रिविधा सम्भवति; परदिने पूर्व्वदिवसीयचतुर्द्दश्यपेक्षया न्यूनकालव्यापिनी, समकालव्यापिनी,अधिककालव्यापिनी च। तत्राद्याक्षीणा, द्वितीया स्तम्भिता, तृतीया वर्द्धमानेत्युच्यते। तत्राचार्येणचन्द्रमसःक्षयादर्शनाभ्यामुपवासादिकं व्यवस्थापितम्। कात्यायनस्तु क्षीणायां चन्द्रक्षये वर्द्धमानायाञ्च चन्द्रादर्शने श्राद्धमुक्तम्। एवञ्चक्षीणायां चन्द्रमसः क्षयो वर्द्धमानायाञ्च तस्यादर्शनं नियामकंसम्पद्यते। स्तम्भितायामाचार्य्येण विशेषानुपदेशात् चन्द्रमसः क्षयादर्शनयोरनुरोधाच्च पूर्व्वत्र परत्र वा करणमिति विकल्पएवाचार्य्यस्याभिप्रेत इत्यवधार्य्यते। तथाच कर्म्मप्रदीपे कात्यायनः।
“संमिश्रा या चतुर्दश्या अमावस्या भवेत् क्वचित्।
खर्व्वितां तां विदुः केचिद्गताध्वामिति चापरे”।
इति। केचित् यजुर्वेदिनः। अपरे ऋग्वेदिनः। तदत्र छन्दोग्परिशिष्टकृता छन्दोगानां व्यवस्थामनभिधाय यजुर्वेदिनां ऋग्वेदिनाञ्च व्यवस्थामभिदधता छन्दोगानामिच्छाविकल्प एवाभिप्रेयतेइत्यवगम्यते। दूतरथा खत्वपेक्षितमनभिधतोऽनपेक्षितञ्च ब्रुवतोऽसंबन्धप्रलापित्वमनवधेयवचनवञ्च तस्यापद्यते। न चैतत् सम्भवति। सुव्यक्तमाह लघुहारीतः।
“त्रिमुहूर्ताऽपि कर्त्तव्या पूर्व्वा दर्शा च बह्वृचैः।
कुहूरध्वर्य्युभिः कार्य्या यथेष्टं सामगीतिभिः”।
इति।तस्मात् संमिश्रायेतिवचनं क्षीणायाःपूर्व्वमुक्तत्वात् वर्द्धमानायाश्च वक्ष्यमाणत्वात् स्तम्भिताविषयमितितत्त्वकारोक्तमादरणीयम्। वचनमिदमुभयत्राभावस्याप्राप्तौ कुत्र श्राद्धं कर्त्तव्यमिति
संशयप्रदर्शनार्थम् इति वाचस्पतिमिश्रादिमतन्तु न युक्तम्। वचनारम्भवैयर्थ्यात्। क्षीणावर्द्धमानयोर्मध्ये संशयप्रदर्शनस्यानुचितत्वाच्च।
इदमप्यपरमिह विवेचनीयम्। क्षीणायां यदि पूर्व्वदिने नव्याप्नोत्यमावस्या पौराणिकमपराह्नंव्याप्नोति च परदिने, तदापिपूर्व्वदिने एव त्रिमुहूर्त्तव्यापिन्यामुपवासः श्राद्धञ्च कर्त्तव्यम्। तत्रैवचन्द्रक्षयलाभात्। क्षीणायां पूर्व्वत्रैव करणस्योपदेशाच्च। नाति सन्ध्यासमीपतः,इति सन्ध्यासमीपमुहूर्त्तमात्रस्यैवाचाननुज्ञानेनसामान्यविषयस्य मुहूर्त्तक्ष याननुज्ञानस्यैतदितरविषयत्वात्। पर दिनेचन्द्रक्षयालाभेनात्राप्यापदविशेषाच्च। ‘त्रिमुहूर्त्ताऽपि कर्त्तव्या’ —इतिदर्शनाच्च। यत्र च पूर्व्वदिने सन्ध्यासमीपमुहूर्त्तमात्रेअमावस्या,तत्रापि मार्गशीर्षज्यैष्ठयोरितरत्र पूर्व्वदिन एव चतुर्द्दश्यां कर्त्तव्यं नपरत्रामावस्यायामपि। क्षीणायां पूर्व्वत्रैव करणोपदेशात्। चतुर्हश्यामपि श्राद्धविधानाच्च। ‘अमावस्यां प्रतीक्षेत इति च यत्रैवदिने चतुर्दश्यां करणमुपदिश्यते तत्रैवामावस्याप्रतीक्षासम्भवन्तौअनूद्यते न तु विधीयते। वाक्यभेदप्रसङ्गात्। न ह्येकमेववाक्यमुभयं विधातुं शक्नोति। अमावस्यायाञ्च प्रतीक्षांचतुर्दश्याञ्चनिर्व्वापम्। क्षीणायां खल्वमावस्यायां पूर्व्वत्रैव करणमवगतम्।तदनेन नापोद्यते। किन्तु तत्रैव प्रथमं अमावस्या प्रतेक्षणीया, तदसम्भवे च तत्रैव चतुर्दश्यन्ते निर्वप्तव्यम्, इत्येतदवोच्यते। न पुनरपरस्मिन्नपि दिने अमावस्याप्रतीक्षा वचनार्थः। दिनान्तरस्यानुपस्थितेः। प्रत्यासत्त्या अमावस्याप्रतीक्षाचतुर्दृश्यन्तनिर्व्वापयोरेकस्मिन्नेवाग्निसम्भवासम्भवाभ्यामवगतेश्च। तदिदं वचनं अमावस्यायां
प्राप्तायामप्यविशेषाच्चतुर्द्दश्यां करणं निरस्यति। अतएव, ‘तत् किंअमावस्यावच्चतुर्दशी, इत्यत आह। अमावस्यां प्रतीक्षेत। उभयतिथेः प्राप्तौ श्राद्धायामावस्या प्रतीक्षणीया’ इति तत्त्वकारेणापिवर्णितम्। “यदा विप्रकृष्टत्वादमावस्यायाः प्रतिक्षणे सन्ध्यासमीपं स्यात्, तदा अमावस्यां न प्रतीक्षेत अन्यदा प्रतीक्षेत” इति वर्णयद्भिर्भट्टनारायणोपाध्यायैरपि अयमेवार्थोभङ्ग्यन्तरेण प्रतिपादितः।
एवन्तर्हि चतुर्दशीतुरीययामानुपूर्णवचनमनर्थकम्। नैषदोषः। तस्यार्थवत्त्वोपपत्तेः। चतुर्दशीतरीययामस्य अमावस्याया वाअपराह्नसम्वन्धः खल्वनया भङ्ग्याप्रतिपाद्यते। तत्र हि चन्द्रमाः क्षीयते। सोऽयमस्यार्थः। यदा अमावस्या क्षीयमाणा तदा श्राद्धम्, इत्येतावन्मात्रोक्तौच न ज्ञायते पूर्व्वस्मिन् वा अग्नि श्राद्धमिदं स्यात् अपरस्मिन् वा, इति। तदिदं पूर्वस्मिन्नेवाग्निकर्त्तव्यम्,- इति प्रतिपिपादयिषया च तुरीयं चतुर्द्दशीयाम्अनुपूरयेदिति वचनमर्थवद्भवति। तस्माच्चतुर्दशीतुरीययामानुपूरणवचनात् परदिनमात्रे पौराणिकापराह्ने अमावस्यालाभे परत्रैव करणमिति निर्वामनावर्णना।
किञ्च उभयत्र पौराणिकापराह्नेऽमावस्याया अलाभे चैतस्मादेव वचनात् पूर्व्वत्र करणस्य भवतोऽपि सम्मतत्वात् तत्र खल्वस्तितुरीययामानुपूरणमित्यकामेनापि वाच्यम्। तत्र चेदस्ति, अत्र नास्तीति न शक्यते वक्तुम्।नह्यत्र परदिने पौराणिकापराह्नलाभालाभयोः कश्चिदुपयोगोऽस्ति। येन परदिनमात्रे पौराणिकापराह्नलाभे पूर्वत्र पौराणिकापराह्नात् परतः प्रवृत्तायाः अमावास्याया नास्ति तुरीययामानुपूरणमस्ति पुनरुत्तरत्र तदलाभेइत्युच्येत। तस्मादुभयत्रैव तुरीययामानुपूरणमस्तोत्यास्थेयम्।
अनुश्चात्र लक्षणार्थः। स खल्वविशिष्ट एव। प्रत्युत लक्षणार्थकानुपदोपादानात् चतुर्दशीतरीययामं लक्षीकृत्याल्पायामप्यमावस्यायां पूर्व्वत्र करणमवगम्यते। अन्यथा तुरीयं यामं पूरयेदित्येतावन्मात्रेऽप्युके, ‘द्व्यहन्तु व्यापिनी चेत् स्यात्’इति वत् भवन्मतेऽपिमुहूर्त्तमात्रस्यैव पूरणं प्रतीयेत। किमित्यनुपदं प्रयुक्तवान्। तस्मादनुपदस्यास्मदुक्तएवार्थे तात्पर्य्यमवधेयम्। एतेन पूरयेदित्युक्तेतुरीययामव्यापकत्वं प्रतीयते अतएवानुपूरयेदित्युक्तम्। तथाचअनु लक्ष्यीकृत्य पूरयेदित्यर्थः। अनुपूरयेदिति मुख्यापराह्णसम्बन्धीति यावत् इति। तुरीयमनुपूरयेदित्यपराहृप्राप्स्युपलक्षणार्थम् इति चैवमादि यदृच्छावर्णनमपि निरस्तं वेदितव्यम्।
तस्मात् “यदा चतुर्द्दश्यैव पूवें दिनं समाप्यते तदा क्षीयमाणाप्क्षेऽपि अमावस्यायामपराह्नेतदुत्तरदिने श्राद्धम् अनुपूरयेदित्यभिधानात्। प्रकृते च पूर्व्वदिने तुरीययामानुपूरणाभावात्” इतिवाचस्पतिमिश्रवर्णनमादरणयम्। ननु खलु भोः। यदिदं तुरीयमनुपूरयेदितिवचनमनुकूलं युष्माकं प्रतिकूलञ्चास्माकमितिमन्यसे,तदिदमनुकूलमस्माकं प्रतिकूलञ्च युष्माकंसम्पन्नमित्यहो प्रमादः।
अतएवाचार्य्यः’यदहस्त्वेव चन्द्रमा न दृश्येत ताममावस्याम्’इत्यमावस्यां क्षयविशिष्टां सूत्रयित्वा तदसम्भवे ‘दृश्यमानेऽप्येकदा’इति चतुर्दशीमेव क्षयविशिष्टां सूत्रयाञ्चकार। तस्मात् परदिनेऽप्यपराह्नेअमावस्याया अलाभे चतुर्द्दशीविधानमित्यसङ्गता कल्पना।
प्रमाणाभावाच्च। क्षीणापक्षञ्च चन्द्रक्षयानुरोधमूलक इति तावन्निर्विवादम्। कुतः? चन्द्रक्षयचन्द्रादर्शनयोराचार्योक्तयोः क्षीणावर्द्धमानापक्षयोः परिशिष्टकृता निवेशितत्वात्। चन्द्र क्षयस्य क्षीणापक्षेकथञ्चित् सामान्यमम्भवाच्च। एतच्चचन्द्रक्षयावरुद्धं क्षीणापक्षम्,इति, यदा चतुर्दशीयाममिति वचनं चन्द्रक्षयानुरोधमूलम्, इतिचैवमादिकमसकृददता तत्त्वकारेणापि स्वहस्तितम्।चतुर्हश्यैवपूर्व्वदिनस्य परिसमाप्तौ परदिने चन्द्रादर्शने करणन्तु अनन्यगतेर्वचनात्। म चैतत् श्रुत्या विरुध्यते इति शक्यते वक्तुम्। क्षयवददर्शनम्यापि श्रौतत्वाविशेषात्। सन्निवेशस्तु स्मार्त्तः स्मृतिमनुसरतीतिन किञ्चिदनुचितम्। ‘कालश्चन्द्रक्षयात्मकः’ इति स्मान्यस्मरणमपि तुरीयमनुपूरयेदितिविशेषशास्त्रानुसारेण वर्णनीयम्।
अतएव पौराणिकापराह्नोऽपि नात्रानुरुध्यते। एवं खलु पुनरपि सामान्यमेव शास्त्रमनुसृत्य अस्मच्छास्त्रमुपरुध्येत। पौराणिकापराधस्य च क्षीणादिपक्षत्रितयसाधारणस्य क्षीणापक्षमात्रनिवेशवतश्चन्द्रक्षयादुर्बलत्वमप्यस्त्येव। स्तम्भितायाञ्च परदिने पौराशिकापराह्नप्युपेक्ष्य पूर्व्वदिने त्रिमुहर्त्तायामपि करणं स्वयमेववर्णितम्। परमार्थतस्तु वासर तृतीयांशे श्राद्धविधानान्नात्र पौराणिकापराहस्यात्यन्तमनुरोधोऽस्ति। वासरतृतीयांश पदापादानेन पौराणिकापराह्नस्यकियतोंऽशम्य परित्यागात् तदतिरिक्तस्यकियतोऽंशस्याभ्यनुज्ञानाञ्च। चन्द्रमसि क्षीणेऽपराह्नेच दद्यात्, - इत्युपसंहारोऽपि स्वोक्तचन्द्रक्षयवत् स्वोक्तवासरतृतीयांशरूपापराहपरतयैव सुतरामुपपद्यते। न पुनः परोक्तापराह्नपरतया। उपक्रमोपसंहारयोः समानविषयत्वानुरोधात्। श्रुतावपि श्रौतएवापराह्नोवर्णयितुमुचितः। स च वामरतृतीयांशरूपएव श्रुतावपिश्रौतमपराह्नमुपेक्ष्यपौराणिकमपराह्न वर्णयन्तीन न्यायेन सङ्गछन्ते। पौराणिकापह्नश्च पूर्व्वत्रापि न विशिष्यते। परममावस्या तत्रनास्तीत्येतावानेव विशेषः। किञ्चातः क्षीणापक्षेखल्वामावस्यायानात्यन्तमपेक्षेति निवेदितमस्माभिः। अतएव दर्शोनिमित्तं चन्द्रक्षयः कालः इति स्मरणम्। श्रुतिरपि क्षयापराह्नयोःश्राद्धमभिदधाना नातीवामावस्याया अत्रादर इति दर्शयति “अमावस्यायामपराह्नेपिण्डपितृयज्ञेन चरन्ति" इतीयञ्च श्रुतिरमावस्यायां पिण्डपितृयज्ञस्य करणं विधत्ते न चतुर्दश्यां निषेधति।ततश्चास्मात् पराचीनस्यान्वाहार्य्यस्य चतुर्दश्यां करणोपदेशादयमपि तत्रापकर्ष्टव्यः। “तिष्ठन्तं पशुं प्रयजति”-इति प्रयोजापकर्षतदन्तकर्मापकर्षवत्।
पूर्व्वापरीभावश्चानयोः -
“पितृयज्ञन्तु निर्व्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्।
पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकम्”।
इति मन्वादिभिरन्वाहार्य्यस्य पिण्डपितृयज्ञात् पराक्षीनत्वस्मरणात्।
“अमावास्यां द्वितीयं यदन्वाहार्य्यं तदुच्यते”।
इति गृह्यान्तरे चान्वाहार्य्यस्य द्वितीयत्वकीर्त्तनस्मरमात् पिण्डपितृयज्ञस्य प्राथम्यावगमात्। एतेन,
“न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः”।
इति मनुवचनमपि व्याख्यातम्। अन्ये तु “पिण्डपितृयज्ञचन्द्रादर्शने” इति कातीयं कल्पसूत्रमवलोकयन्तः श्रौतममावास्यापदं चन्द्रक्षयपरमिति वर्णयन्ति। नैमित्तिकं स्मार्तं वा कालान्तरमिदम्। अतो न प्रत्यक्षश्रुतिविरोधेन तदन्ते वापि निर्व्वपेदिति स्मृतेरप्रामाण्यमाशङ्कनीयमित्यपरे मन्यन्ते।
न चात्र केवलं वयमेव पर्य्यनुयोक्तव्याः। कदाचिञ्चचतुर्दृश्यांकरणस्य भवतोऽपि सम्मतत्वात्। तत्राप्येतस्य पर्य्यनुयोगस्याविशेषात्। भट्टनारायणोपाध्यायास्तु ‘गताध्वा भवति’ इति पृथगेवसूत्रं मन्यमाना इदानींचतुर्दशीं प्रति अमावस्यानामसम्पत्तिरनेनोच्यते इति वर्णयाम्बभूवुः। तदेतत्तत एवोपलब्धव्यम्। अस्मिंस्तुनये नास्त्यनुपपत्तिलेशोऽपि। चतुर्दश्या अमावस्थानामतयातदतिक्रमस्य वक्तुमशक्यत्वादित्यवधेयम्। अतएव ‘राजनिक्षीणेवासरतृतीयांशे श्राद्धम्’ इति, ‘चन्द्रमसि क्षीणोऽपराह्नेच दद्यात्’इति चोपक्रमे उपसंहारे चामावस्यामनभिधाय क्षयापराह्नयोरेव क्षीणपक्षे श्राद्धमुक्तम्। अतएव, यदा अमावस्या क्षीयमाणा तदैव श्राद्धम्, इत्युकं न तस्यामेवेति। तदैव पूर्व्वदिन एवेति चतत्त्वकारेणैव वर्णितम्। अतएव, परदिनमात्रे पौराणिकापराह्नेऽमावस्यालाभे परत्रैव करणमित्यपि कदाचिदाशङ्का स्यात् कस्यचिन्मन्दमतेः, सापिमाभूदित्येतदर्थं तदैवेत्येवकारः सुतरामुपपद्यते। खण्डान्तरव्युदासमावन्तु नातीवप्रयोजनम्। अन्तरेणाप्येवकारमेतस्यानपायात्। अतएव स्तम्भिता-बर्द्धमानयोर्विशिष्य अमावस्यापरिकार्त्तनमिति धीमद्भिरनुचिन्तनीयम्॥ ९॥
अवसिता अमावस्याकथा। अपर्य्यवसितामिदानीं पौर्णमासीकथामनुवर्त्तामहे।
त्रयः पौर्णमासीकाला भवन्ति ;सन्ध्या वाऽस्तमितोदिता वोच्चैर्वा॥१०॥
त्रयः त्रिसङ्ख्याकाः, त्रिप्रकारकाः, इति यावत्। पौर्णमास्यएव कालाः पौर्णमासीकालाः भवन्ति।ते खल्विमे विभज्यप्रदर्श्यन्ते। सन्ध्या वा। सन्ध्या तावदुक्तलक्षणा। सा वा। अस्तमितोदिता वा। अस्तमिते उदितो यस्यां,- यस्यां किल पौर्णमास्यामस्तमिते सवितरि पूर्णञ्चन्द्रमाः समुदेति, सेयमस्तमितोदिता। सा वा। उच्चैर्वा। यस्यामउच्चैः स्थिते,कलाहीने समुदिते चन्द्रमसि, पश्चात् सवितुरस्तमयः स्यात्, सेयम् उच्चैः पौर्णमासीत्युच्यते। सा वा। इयं किल चतुर्दशीमिश्रा भवतिपुराणेऽपि इत्थमेव पौर्णमासीप्रकाराः व्युत्पादिताः। तथाचोक्तम्।
“राका चानुमतीचैव द्विविधा पूर्णिमा मता।
पूर्वोदितकलाहीने पौर्णमास्या निशाकरे॥
पूर्णिमाऽनुमती ज्ञेया पश्चास्तमितभास्करे।
यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह॥
तस्मादनुमतीनाम पूर्णिमा प्रथमा स्मृता।
यदा चास्तमिते सूर्ये पूर्णचन्द्रस्य चोद्गमः॥
युगपत्, मोत्तरा रागात्तदाऽनुमतिपूर्णिमा।
राकान्तामनुमन्यन्ते देवताः पितृभिः सह।
रञ्जनाञ्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ”॥
इति। पश्चास्तमितइति छान्दसःप्रयोगः। कलाहीने निशाकरे पूर्वमुदिते सति, यत्र भास्करोऽस्तमेति, सेयमनुमतीनाम पूर्णिमोच्यते। इयमेव, ‘उच्चैः’इति सूत्रिता। अस्तमितेसूर्ये पूर्णचन्द्रस्योद्गमः, युगपच्चसूर्य्यस्यास्तमयः पूर्णचन्द्रस्योद्गमश्च, इति द्वयी राका भवति अत्राद्या,- अस्तमितोदिता, द्वितीया सन्ध्येत्यस्मदीयं दर्शनम्। एतस्मात् लिङ्गात् सन्ध्या पौर्णमासीअपिअस्तमयसन्ध्यासम्बन्धिनीगृह्यते, न पुनरुदयसन्ध्या सम्बन्धिन्यपि,इति युक्तम्। सेयमभिद्यमानेऽप्यर्थे भिन्नयोराचार्य्ययोर्विभिन्ना रीतिरित्यनवद्यम्॥ १०॥
उच्चैः पौर्णमासी तावच्चतुर्दशीमिश्रा सुतरामुभयदिनगामिनीभवति, कतरा पुनरत्रोपोष्या? तत्राह।
अथ यदहः पूर्णोभवति॥ ११॥
अथेत्यनन्तरायामुच्चैः पौर्णमास्यामेष विधिरिति दर्शयति।‘अथशब्दः सूत्रभेदप्रज्ञापनार्थः। अन्यथा पूर्वेण सूत्रेणास्यैकसूत्रतास्यात्,- उच्चैर्वायदहः पूर्ण भवति’ इत्येके वर्णयन्ति ! यदहर्यस्मिनहनि पूर्णःसकलकलोपचयादखण्डमण्डलञ्चन्द्रमाः भवति,तामुपवसेत्इत्यर्थः॥ ११॥
कदापुनश्चन्द्रमाः सकलकलोपचयादखण्डमण्डलो भवति? कः खलु ज्ञानोपायोऽस्यार्थस्य? इत्यस्यामाकाङ्क्षायामुच्यते, -
पृथगेवैतस्य ज्ञानस्याध्यायो भवति, अधीयीत वा तद्विद्भ्यो वा पर्वागमयेत॥ १२॥
पृथगन्य एव, एतस्य पूर्वविवक्षितस्य ज्ञानस्य, उपायभूतोऽध्यायः अधीयतेइत्यध्यायो ग्रन्थो भवति। तञ्च ग्रन्थम्, अधीयीत वास्वयं वा पठेत् तं विवक्षीतज्ञानोपायं ग्रन्थं ये विदन्ति, त इमेतद्विदो ज्योतिः शास्त्रविद उच्चन्ते। तेभ्यः सकाशात् वा पर्वदर्शपौर्णमासाख्यम् आगमयेत सम्यग् जानीयात्। कस्मिन् काले चन्द्रमाः क्षीयते?तदपि ज्ञानं ज्योतिः शास्त्रमापेक्षमेव, इत्यभिप्रायः। तत्र क्षयकालः कात्यायनेनैव ज्योतिः शास्त्रादाकृष्य दर्शितः।पूर्णताकालःपरमस्माभिर्वक्तुमवशिष्यते। पञ्चदश्यां पञ्चदशे मुहूर्तेकिल चन्द्रमाः सकल कलोपक्षयादखण्डमण्डलोभवति, इतिज्योतिः शास्त्रविदः कथयन्ति। श्लोकमपि उदाहरन्ति।
“पञ्चदश्यां पञ्चदशे मुहूर्त्ते चन्द्रमण्डलम्।
यथा भवति, तद्वत्त्वं सदा भव, नृपोत्तम !”।
इति। केनचित् ज्योतिःशास्त्रकुशलेन कश्चिद्राजा खल्वेवमुपश्लोकितः।
“राकामध्यगतश्चन्द्रःपूर्ण इत्यभिधीयते”।
इति च स्मरन्ति।कालवशात् पुनरेतस्यान्यथात्वं जातम्।युगपरिवृत्त्या किल कालभेदो गणितागतवस्तुषु भवति, इति ज्योतिर्विदो वदन्ति। अतएव, ततः पराचीनेन ज्योतिः शास्त्रविदा भास्कराचार्य्येण सिद्धान्तशिरोमणावुक्तम्।
“कक्षाचतुर्थस्तरणेर्हिचन्द्रः
कर्णान्तरे तिर्य्यगिनोयतोऽजात्।
पादोनषट्काष्टलवांतरेऽतो
दलं नृदृश्यस्य दलस्य शुक्लम्”।
इति॥१२॥०॥
** अथ यदहरुपवसथोभवति,तदहःपूर्वाह्णएवप्रातराहुतिँ्हुत्वैतदग्नेःस्थण्डिलं गोमयेनसमन्तं पर्युपलिम्पति॥ १३॥**
अथेति पूर्व्वप्रकृतार्थम्। पूर्व्वप्रकृते यस्मिन्नहनि उपवसथोभवति,तदहस्तस्मिन्नहनि प्रातराजतिं हुवा, पूर्व्वाह एव, अग्नेरेतदधिकृतंस्थण्डिलम्, एतस्य अधिकृतस्याग्नेर्वा स्थण्डिलम् अग्न्यगारम्,गोमयेन गोशकृता गोमयोदकेनेत्येतत्। समन्तं चतुरस्रं परिसर्वतोभावेनोपलिम्पति। एतदिति रसवतीनिरासार्थम्। तत्खल्वस्य द्वितीयमग्न्यागारम्। स्थण्डिलग्रहणं लौहादिभाण्डस्थे अग्नौहोमनिषेधार्थम्।पूर्व्वात्त एव उपलिम्पति, इति सम्बन्धात्एवकाराच्चपूर्व्वाह एव उपवसथं दर्शयति चतुर्दश्यामपि।अन्यथा, प्रागावर्त्तनादिति सिद्धत्वादनुवादापत्तेः। अतएव पूर्व्वाहएव प्रातराजतिं हत्वा,इत्यापि न वर्ण्यते। सिद्धायामपि प्रातराजतौ, प्रातराजतिं हुवा, इति वचनमौपवसथिके अहनि स्वयं होमकरणसूचनार्थम्। कथन्नाम? हुत्वापर्य्यपलेप्तव्यम् इति पर्य्युपलेपनहोमयोरेकः कर्त्ताऽवगम्यते।
किमर्थं पुनरत्र स्वयं होमकरणं नियम्यते ? फल विशेषार्थमित्याह। अत्र हि स्वयं होमे कृते सर्वदैव स्वयं कृतो भवति। भवति चात्रब्राह्मणम्। “एते ह वै रात्रीसर्व्वारात्रयः समवयन्ति; या पूर्य्यमाणपक्षस्य रात्रयः ताः सर्वाः पौर्णमासीसमवयन्ति, या अपक्षीयमाणपक्षस्य रात्रयस्ताः सर्व्वा अमावस्यां समवयन्ति, सयोद्दैवं विद्वान् स्वयमुपवसथं जुहोति, सर्व्वदा हैवास्य स्वयं कृतंभवति” इति॥१३॥०॥
** अथेध्मानुपकल्पयते; खादिरान् वा, पालाशान् वा॥ १४॥**
अथानन्तरं, श्लोयागार्थमिध्मान्,-
“प्रादेशद्वयमिध्मस्यप्रमाणं परिकीर्त्तितम्।
एवंविधाः स्युरेवेह समिधः सर्व्वकर्मसु।
समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः।
दर्शे च पौर्णमासे च कियास्वन्यासुविंशतिम्”।
इति कर्मप्रदीपोक्तलक्षणसंख्याकान्। बहुवचनमावृत्त्यपेक्षम्।उपकल्पयते, उप समीपे अग्नेरित्यर्थात्, कल्पयते आसादयतीत्यर्थः। इध्मान् विशिनष्टि,खादिरान् खदिरमथान् वा, पालाशान् पलाशमयान् वा। खदिरपलाशौ प्रसिद्धौ।वाशब्दद्वयन्तुल्यवदिकल्पार्थम्। ते खल्लिमे इमाः यत्र न कर्त्तव्याः, तदप्याहकर्मप्रदीपः।
“अङ्गहोमसमित्तन्त्रसोष्यन्त्याख्येषु कर्मसु।
येषाञ्चैतदुपर्य्युक्तंतेषु तत्सदृशेषु च।
अक्षभङ्गादिविपदि जलहोमादिकर्मणि।
सोमाहुतिषु सर्वासु नैतेष्विध्मोविधीयते”।
इति। अस्यायमर्थः। विवाहादिकर्म्माङ्गभूता ये होमास्ते अङ्गहोमाःइत्युच्यन्ते। येऽपि समिद्धविष्कास्तन्त्रहोमाः। द्विविधाःकिल होमाःयाज्ञिकसम्प्रदायप्रसिद्धाः क्षिप्रहोमास्तन्त्र होमाञ्च,इति। तत्र ये क्षिप्रं हूयन्ते, तद्मे सायंप्रातर्होमादयोऽनङ्गविस्तारयुक्ताः क्षिप्रहोमा उच्चन्ते। ये तु परिसमूहनवर्हिराद्यङ्गविस्तारयुक्ताःतद्मे तन्त्रस्येतिकर्त्तव्यताया यथोक्तायाः संबन्धात् तन्त्रहोमा उच्चन्ते।यश्च आसन्नप्रसवायाः सुखप्रसवार्थंसोय्यन्तीहोमः। येषाञ्च सायंप्रातर्वैश्वदेवामानाम्, उपरि पश्चात्, एतत् इद्माख्यं द्रव्यम्, उक्तम् आम्नातम्। तेष्वेतेषु तत्सदृशेष्वेन्येषु च क्षिप्रहोमेषु। यः किलऊढायां यानेन पत्या नीयमानायामक्षभङ्गनद्भविमोक्षादि विपदिनैमित्तिको होमो विहितः। यश्च,- “पौर्णमास्यां रात्रावविदामिनि ह्रदे नाभिमात्रमवगाह्याक्षततण्डुलानृगन्तेष्वास्येन जुहुयात्स्वाहेत्युदके”- इति काम्योजलहेामः, आदिपदात् यश्च पदवर्त्महोमः, याश्च सोमरसाहुतयः, तेषु एतषु सर्वेषु होमेषु इध्मो नविधीयते,- इति॥१४॥०॥
खादिरपालाशालाभे, बिभीदकतिल्वकबाधकनीवनिम्बराजवृक्षशाल्मल्यऽरलुधित्थको विदारश्लेष्मातकवर्जꣳसर्ववनस्पतीनाभिध्मोयथार्थꣳस्यात्॥ १५॥
खादिरपालाशयोरलाभे असम्भवे, बिभीदकादिवर्ज्जमन्येषां
सर्वेषां वनस्पतीनामश्वत्थप्रभृतीनाम्, इध्मो, यथार्थम्, अर्थं प्रयोजनम्अनतिक्रम्य, स्यात् आसादनीयो भवेत्। तदलाभे, इत्यनभिधाय,खादिरपालाशालाभे, इति जात्या द्रव्यमुपलक्षयन्नाचार्य्यस्तयोरलाभ एवसर्ववनस्पतीनामुपादानं, न तु तत्प्रतिनिध्योरपि कदरपारिभद्रयोरभावे,- इति दर्शयति। बिभीदकादयो वृक्षजातिविशेषाः॥ १५॥ ०॥
** विशाखानि प्रति लूनाः कुशावर्हिः॥ १६॥**
विकृष्टाः पृथग्भूताः शाखाः पत्राणि यस्मात् स्थानात्, तानिविशाखानिकुशस्कन्धप्रदेशा उच्चन्ते। तानि प्रति लक्षीकृत्य लूनाश्किन्नाःकुशाः,वर्हिःवर्हिःस्तरणार्थमासादयिव्याः इत्यर्थः वर्हिः संज्ञकाः,इति वा व्याख्येयम्। तदत्र विधेयप्राधान्यविवक्षयैकवचनं द्रष्टव्यम्। ‘वर्हिषः’ इति बहुवचनान्तमेव शूलपाणिःपठति। तदा व्यक्त एवार्थः॥ १६॥ ०॥
उपमूललूनाः पितृभ्यः॥ १७॥
उपमूले मूलसमीपदेशे लूनाः कुशाः, पितृभ्यः पितृकर्म्मार्थमासादयितव्याः,इतिप्रसङ्गादिहोच्यते। ते खल्विमे पित्रर्थमासादयितव्याः कुशाः मूलसमीपेऽप्यधोभाग एव लवितव्याः नोर्द्धभागे। कस्मात्?
“हरितायज्ञियादर्भाः पीतकाः पाकयज्ञियाः।
समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः ”।
इति कर्म्मप्रदीपे समूलत्वोपदेशात्। एके पुनरुपमूललूनानांसमूलत्वासम्भवं मन्यमानाः, पिण्डास्तरणकुशानां च्छिन्नमूलत्वविधायककात्यायनसूत्रं पश्यन्तोभ्रान्ताः सूत्रमिदं पिण्डास्तरणकुशपरम् इति वदन्ति। तदसङ्गतम् ! मूलादधस्ताल्लवनएव समूलत्वोपमूललूनत्वयोः सम्भवात्।
“गोकर्णदीर्घाश्च कुशाः सकृच्छिन्नाः समूलकाः”।
इति तद्धृतवचनान्तरएव छिन्नानामपि कुशानां समूलवदर्शनाच्च। कात्यायनस्तु न अस्मत्सूत्रकारः, इति तत्सूत्रोपदर्शनमत्रानुचितम्॥ १७॥ ०॥
तेषामलाभे, शूकतृणशरोशीर्य्यबल्वजमुतवनललुण्ठवज्जसर्व्वतृणानि॥ १८॥
तेषां यथोपदिष्टानां कुशानामलाभे, शुकटणादिवर्ज्यं सर्व्वतृणानि, वर्हिषस्तरणार्थमासादयितव्यानि, वर्हि संज्ञकानि वाभवन्ति। तैः कुशार्थः कर्त्तव्यः इत्यर्थः। शूकतृणं, शूकयुतं तृणम्। शूकानि फलपुष्पमञ्चोर्य्यः शरादयः, तृणजातिविशेषाः। यत् पुनर्बल्बजविधायकं पुराणवचनम् —
“कुशाः काशाः बल्बजाश्च तथाऽन्ये तीक्ष्णारोमशाः।
मौञ्जश्च शाद्वलश्चैव षड्दर्भाः परिकीर्त्तिताः”।
इति। तत् कौथुमादिव्यतिरिक्तविषयम्। ‘तीक्ष्णरोमशाः,इति बल्बजानां विशेषणं, तेनात्र तद्व्यतिरिक्तबल्बजानां निषेधोबोद्धव्यः’इति नारायणोपाध्यायप्रभृतयः। तदसङ्गतम्। साधारणवचनव्यपाश्रयेण स्वशास्त्रसङ्कोचस्यान्याय्यत्वात्। ‘तथाऽन्ये’ इतिबल्बजानां भेदेनैव तीक्ष्णरोमशानामवगमाच्च। अन्यथा, ‘तथाऽन्ये’ इति प्रमादपाठः स्यात्। षट्सङ्ख्याविरोधाच्चषट्सङ्ख्याकीर्त्तनं खल्वेवं विरुध्यते। तीक्ष्णरोमशत्वस्यबल्बजविशेषणत्वे पञ्चानामेवोपलम्भात्। न च -
“पितृतीर्थेन देयाः स्युर्दूर्वाः श्यामाकमेवच”।
इति तत्पूर्ववचनोपात्ताभ्यां दूर्वाश्यामाकाभ्यां सङ्ख्यापूरणम् इतिवाच्यम्। सप्तमङ्ख्याऽऽपत्तेः। तस्मात् ततो भेदेनैव इह षणामुपादानम्। षणामेव वा मध्ये दूर्वाश्यामाकयोरितरापेक्षयाउपादेयत्वार्थं तयोः पूवं प्रातिस्विकतया कीर्त्तनम्,इति वर्णनीयम्। ते खल्वत्र शाद्वलतयैव लभ्येते। यच्च,शाद्वलम् इति दूर्वादिषड्विशेषणं पृथक्त्वे तु सप्तमापत्तेः, इति वाचस्पतिमिश्रवर्णनम्। तदप्यनुचितमेव। विशेषणत्वाऽसङ्गतेः। शाद्वलस्यैकवचनान्ततयाकुशादीनाञ्चबहुवचनान्ततया निर्देशात् परस्परमनाकाङ्क्षत्वप्रततीतेः। मौञ्जश्च शाद्वलञ्चैव इति च मुञ्चादिभ्यो भेदेनैवशाद्वलस्यावगतेः। पूर्व्ववचनोपात्तयोः दूर्वाश्यामाकयोरत्रान्तर्भावस्योक्तत्वाच्च। षड्दर्भाःइति खल्वत्र परिभाष्यतेतेषामेव। दूर्वाश्यामाकयोः विशेषविवक्षया पूर्वत्रोपादानम् इत्यस्मदुक्तैववर्णना। अतएवइह पठितानामपि कुशानाम् -
“गोकर्णदीर्घाश्च कुशाः सकृच्छिन्नाः समूलकाः”।
इति पूर्व्ववचनपूर्व्वार्द्धे परिकीर्त्तनं सङ्गच्छते। तस्मात् पूर्व्ववचने पूर्व्वाद्धेन प्रथमकल्पानांकुशानाम्, उत्तरार्द्धेन च अनुकल्पान्तरा
पेक्षया अभ्यर्हितयोः दूर्वाश्यामाकयोः पृथगुपादानम् इत्यादरणीयम्॥१८॥०॥
आज्यंंँस्थालीपाकीयान्व्रीहीन् वा यवान् वाचरुस्थालींमेक्षणँस्रुवमनुगुप्ता अप इति॥ १९॥
अत्र प्रतिपदम् उपकल्पयते इति सम्बध्यते। कथम्? श्राव्यम् उपकल्पयते। स्थानोपाकीयान् स्थालीपाकसमर्थान्,यावद्भिः स्थालीपाको निर्वहति तावतो व्रीहीन् वा यवान् वा, उपकल्पयते।चरुस्थालीम् उक्तलक्षणाम्, उपकल्पयते। मेक्षणम्—
“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत्।
वृत्तञ्चाङ्गुष्ठ पृथ्वग्रमवदानक्रियाक्षमम्।
एषैव दर्व्वी यस्तत्र विशेषस्तमहं व्रवे।
दर्वी द्व्यङ्गुलपृष्ट्वग्रा तुरीयोनन्तु मेक्षणम्”।
इतिकर्मप्रदीपोक्तलक्षणम्, उपकल्पयते। स्रुवमुपकल्पयते। सुवलक्षणमुक्तम्। अनुगुप्ता अपउपकल्पयते। इतिना, अन्यदप्येवम्भूतं दर्व्वीप्रभृतिकं सूचयति। उपकल्पनं चामीषामुद्गग्राणामग्नेरुत्तरतः प्राञ्चंप्राञ्चं प्रयोजनानुसारेण करणीयम्। तथाच्च कर्म्मप्रदीपः।
“प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः।
तत्तथाऽऽसादयेद्रव्यं यद्यथा विनियुज्यते”।
इति। उपकल्पितानांचामीषां प्रसेकोवीक्षणमभ्युक्षणञ्चाद्भिः कर्त्तव्यम्। तदाह गृह्यासंग्रहः।
“द्रव्याणामुपक्लृप्तानां होमीयानां यथाविधि।
प्रसिञ्चन् वीक्षणं कुर्य्यादद्भिरभ्युक्षणं तथा”।
इति। तदिदं द्रव्यासादनं स्थण्डिलोपलेपनात् परत एवकरणीयम्। कस्मात् ? आचार्य्येण तथैव सूचितत्वात्। आचार्य्यपुत्रोऽप्याह गृह्यासंग्रहे।
“भूमेःसमूहनं कृत्वा गोमयेनोपलिप्यच।
द्रव्याण्युत्तरतः स्थाप्य वृर्षी कुर्य्याददङ्मुखीम्”।
इति। तदनेनोपलेपनात् परं द्रव्यासादनमभिधाय, “लक्षणं तत् प्रवक्ष्यामि” इत्यादिना लक्षण्मग्निस्थापनादिकञ्च परतोऽभिहितवान्। अथैवमुदगग्नेर्द्रव्यासादनं कर्मप्रदीपोक्तंविरुध्यते। नैष दोषः। भविष्यताऽप्यग्निनोदीच्याः संबन्धोपपत्तेः। तथाच “पुरोडाशकपालेन तुषानुपवपति" इत्यत्र यथा भविष्यता पुरोडाशेनकपालस्याभिसंबन्धो निर्णीतः, तथैवात्रापि भविष्यतैवाग्निना उत्तरस्याः संबन्धो बोद्धव्यः। अग्निस्थापनात् पूर्व्वमेव द्रव्यासादनस्योपदेशादनन्यगतेर्वचनात्॥१९॥
यानि चानुकल्पमुदाहरिष्यामः॥ २०॥
यानि तैलादीन्यनुकल्पं प्रत्युदाहरिष्यामः। चशब्दात् यानि चउलूखलादौन्युदाहरिष्यामः, तान्युपकल्पयते॥ २०॥ ०॥
अथेदानीमुपवसतो व्रतमुच्यते,—
न तदहः प्रसृज्येत॥ २१॥
तदहस्तस्मिन्नहनि, न प्रसृज्येत प्रकर्षेण त्यजेत् गृहम्—
इत्यर्थाद्गम्यते। सृज्यतिस्त्यजतिकर्मा। तदनेनास्य प्रवासोनिषिध्यते। प्रसृज्येत प्रकर्षेण दूरं गच्छेत् इति वा व्याख्येयम्॥२१॥ ०॥
दूरादपि गृहानभ्येयात्॥ २२॥
अभ्येयात् आगच्छेत्। स्वयं होतुम्। तदहरिति वर्त्तते॥ २२॥ ०॥
** अबहुवादीस्यात्॥ २३॥**
बहु वदितुं शीलं यस्य,सोऽयं बहुवादी. स न भवति,इत्यबहुवादी, स्यात्, तदहरिति वर्त्तत एव। तदत्र, ताच्छील्यार्थकनिणिप्रत्ययात् वृथैव बहुवादी न भवेत्, व्याख्यानादौस्वल्यदोषएव बहुकथनेऽपि,- इति दर्शयति॥ २३॥ ०॥
** अन्यतस्तु धनं क्रीणीयान्न विक्रीणीत॥ २४॥**
अन्यतः सकाशात् धनं द्रव्यं क्रीणीयात्, न तु स्वयं विक्रीणीत अन्यस्मै। तदहरित्येव। तदत्रतुशब्दो भिन्नक्रमेणयोजनीयः, अनर्थको वा। “मिताक्षरेव्वनर्थकम्” इति वचनात्॥२४॥०॥
** सत्यं विवदिषेत्॥ २५॥**
ऋजुरक्षरार्थः। सत्यं वदेत्, इति वक्तव्ये, सत्यं विवदिषेत्, इति सूत्रयन्नाचार्यो मनसाऽप्यसत्यं वक्तुं नेच्छेदित्युपदिशति॥ २५॥ ०॥
अथापराह्नएवाप्लुत्यौपवसथिकं दम्पती भुञ्जी
यातां;यदेनेयोःकाम्यँस्यात्,सर्पिमिश्रँस्यात्; कुशलेन॥ २६॥
अथ दध्माद्याहरणानन्तरम्, आप्लुत्य, अपराह्नएव दम्पतीभुञ्जीयाताम्—इति भिन्नक्रमेणयोजनीयम्। कुतः? पूर्वाह्नएवस्नानस्याम्नानात्, तद्बाधे च कारणविशेषाभावात्। तथाच स्मरणम्।
“चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत्।
तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले”।
इति। “अपराह्नेव्रतोपायनीयमनीयामश्रीयाताम्” इति च तन्त्रान्तरे अपरालएवानयोर्भोजनोपदेशात्। तस्माद् यथोक्तएवार्थः।
अङ्कोऽपरो भागः, अपराह्नः। तत्रैव भुञ्जीयाताम्, इत्येकभोजनमनयोर्नियम्यते,द्विर्भोजनप्राप्तौ भोजनान्तरव्युदासार्थम्। किं भुञ्जीयाताम्? औपवसथिकम्। उपवसथेन संसृष्टं तत्रापियदविरुद्धम्। तत्रापि एनयोर्दम्पत्योर्यत् काम्यं कमनीयं रुचितम् इत्येतत्। स्यात्, भवति। सर्पिर्मिश्रं घृतमिश्रञ्च स्यात्। यच्चकुशलेन सुखेन, परिणमति, इति वाक्यशेषः। एतदुक्तं भवति।इत्थमौपवसाथिकमल्पं भुञ्जीयातां, यत् भुक्तमनयोःसुखेन परिणमति, न मनागपि शरीरवैषम्यमुत्पादयति,इति। एवं खल्वविघ्नेन श्वोयागः सम्पत्स्यते, इत्यभिप्रायः। किम्पुनस्तदौपवसथिकम्? लवणादिवर्ज्जम्, इति ब्रूमः। कुतः? गृह्यान्तरवचनात्। तथाचोक्तम्।
“लवणंमधु मांसञ्च क्षारं श्वो येन हूयते।
उपवासे न भुञ्जीत, नोरुरात्रौ च किञ्चन ”।
इति। अत्र, उरुरात्रौ किञ्चन न भुञ्जीत,- इत्युपादानात्, दिवा दैवादभोजने, रात्रेः प्रथमयामेऽपि भोजनं दर्शयति।
“दिवोदितानिकर्माणिस्वकालेनकृतानिचेत्।
शर्वर्य्याःप्रथमेयामेतानिकुर्य्यादतन्त्रितः”।
इति च स्मृत्यन्तरम्॥२६॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्थ्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्यकृतौ गोभिलीयगृह्यसूत्रभाष्येप्रथमप्रपाठकस्य पञ्चमीखण्डिका॥ ०॥
__________
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके षष्ठी खण्डिका।
** ** अथेदानीमौपवसथिकभोजननियमद्रढिम्ने ब्राह्मणमुदाहरति,—
** मानतन्तव्यो होवाचाहुतावा एतस्य मानुष्याहुतिर्भवति; यऔपवसथिकंनाश्नाति॥१॥**
मानतन्तव्योनाम कश्चिदाचार्य्यः ह किल उवाच। किम्उवाच? तदुच्यते। न हुता अहुता फलरहिता इत्येतत्। वै - इत्यनर्थको निपातः। एतस्य, औपवसथिकम् अनश्रुवानस्यमानुव्याहुतिर्मनुष्योपकारार्था आहुतिः, सायंप्रातर्होमवैश्वदेवादिलक्षणा,भवति। हुताऽपि मानुष्यजतिरहुता भवति सर्वोऽपि होमोनिष्फलो भवतीत्यर्थः। मानुष्याहुतिः प्राणाग्निहोत्रलचणा वा। तथाच स्मर्य्यते।
“गृहस्थो ब्रह्मचारी च यस्त्वनश्नस्तपश्चरेत्।
प्राणाग्निहोत्रलोपेन श्रवकीर्णीभवेत्तु सः”।
इति।
“अनड्वान् ब्रह्मचारी च आहिताग्निश्च ते त्रयः।
अनन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम्”।
इति चैवमादि। तथाचावश्यं होतव्या मानुष्याहुतिः प्राणाग्निहोत्रलक्षणाअस्य न हुता भवतीत्ययं प्रत्यवैतीत्यभिप्रायः। एतस्य,
इति आचार्य एव विवृणोति। ‘य औपवसथिकंनाश्नाति’न भुङ्क्ते॥१॥
किञ्च। स खल्वयम्—
** अनीश्वरो ह क्षोधुको भवत्यकाम्योजनानां पापवसीयसी हास्य प्रजा भवति॥२॥**
न ईश्वरोऽनीश्वरोहकिल भवति। सर्व्वत्रैश्वर्य्यमस्य व्याहन्यते स्वस्य द्रव्येऽपि, इत्यर्थः। क्षोधुकः क्षुद्युक्तः,अतृप्तः सदा भवतीत्यर्थः। न काम्योऽकाम्योऽकमनीयोऽस्पृहणीयो जनानां लोकानां भवति। किञ्च। पापवसीयसी पापशीला,ह किल अस्य औपवसथिकमनश्नुवानस्य, प्रजा सन्ततिर्भवति। पापं प्रसिद्धं वसीयःपुण्यम्। तदुभयवत्यस्य प्रजा भवति, इति वा वर्णनीयम्॥ २॥
अनश्नुवानस्य दोषमभिधाय, अथेदानींवैपरीत्येनाश्नुवानस्यगुणा अभिधीयन्ते,—
** यऔपवसथिकंभुङ्क्तईश्वरोहभवत्यक्षोधुकः काम्योजनानांवसीयसीहास्यप्रजा भवति॥३॥**
वसीयसीकल्याणीपुण्यवतीत्यनर्थान्तरम्। सुस्थिरा, इति भट्टभाष्यम्। अपापवसीयसी, इति पाठे,पापवसीयसीव्याख्याता, सा न भवतीत्यपापवसीयसी। कृतभाष्यमन्यत्॥३॥०॥
यस्मादौपवसथिकमनश्नुवानस्यैते दोषाः, अश्नुवानस्य चैते गुणाभवन्ति,-
** तस्मात् यत् कामयेतौपवसथिकं भुञ्जीयाताम्॥ ४॥**
यदौपवसथिकं कामयेत गृहपतिः, व्यत्ययाद्वाकामयेयातांदम्पती, तद्भुञ्जीयाताम्॥ ४॥ ०॥
अथेदानीमन्यदपि व्रतमभिधीयते,
अध एवैताँरात्रिँशयीयाताम्॥ ५॥
अधो भूमावेव न पल्यङ्कादौ। स्वस्तरम्तुन निषिध्यते। एतां उपवसथदिवसीयां रात्रिं शयीयातां दम्पती॥ ५॥
** तौ खलु जाग्रन्मिश्रावेवैताँरात्रिंँविहरेयातामितिहासमिश्रेण वाकेनचिद्वा॥ ६॥**
तौ दम्पती। स्खल्वित्यनर्थको निपातः। जाग्रन्मिश्रौ जाग्रदवस्थयैव स्वापं मिश्रयन्तौ एतामौपवमथिकां रात्रिं विहरेयातां नयेयाताम् इत्यर्थः। कथं जाग्रन्मिश्रौ भवेताम्? तदुच्यते। इतिहासमिश्रेण। भावप्रधानोऽयं निर्देशः। इत्थम्भावे तृतीया। इतिहासमिश्रतया तदालोचन येत्येतत्। इतिहासमिश्रेण केनचित्सद्व्यवहारेण वा, इति वा व्याख्येयम्। अन्येनापि केनचित्
पुण्यकथादिना वा, इत्ययमभ्युपायो जाग्रन्मिश्रत्वे॥ ६॥
** जुगुप्सेयातान्त्वेवाव्रत्येभ्यः कर्म्मभ्यः॥ ७॥**
जुगुप्सेयातां निन्देताम्। अव्रत्येभ्यः, व्रते साधु प्रत्यं, तन्न भक्ती। त्यव्रत्यं,व्रतविरुद्धमुच्यते। तेभ्यः कर्मभ्यःग्राम्यधर्मादिभ्यः, तानिकर्माणि त्यक्तुम् -इत्यर्थः। गोप्नुम् इच्छा वा जुगुप्सोच्यते। तदा
स्खल्वव्रत्येभ्यः आत्मानं रक्षितुम् इच्छेताम् इति व्यक्तैव वचनव्यक्तिः। तुशब्दःसम्भवकालं व्यवच्छिनत्ति। एवशब्दश्च, प्रकृतं नियमयन्व्यतिरेके व्रतभङ्गमवगमयति। अतएव स्मर्य्यते,—
“स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम्।
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेवच।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः।
अनुरागात् कृतञ्चैव ब्रह्मचर्य्यविरोधकम्।
विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम्”।
इति।
“उपवासे तथा यौनं हन्ति सप्त कुलानि वै।
स्त्रीणां सम्प्रेक्षणात् स्पर्शाताभिः कङ्कथनादपि।
ब्रह्मचर्य्यं विपद्येत, न दारेष्वृतुसङ्गमात्”।
इति चैवमादि। अत्र च, सम्प्रेक्षणात्, सङ्कथनात्, दृ्त्यत्र सरागत्वं संशब्दस्यार्थः, साहचर्य्यात् स्पर्शेऽपि तथा, इति शूलपाण्युपाध्यायाः। तुशब्दश्चशब्दार्थो वा,गात्राभ्यङ्गादीनि समुच्चिनोति। कस्मात्?
“गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बुलञ्चानुलेपनम्।
व्रतस्थो वर्ज्जयेत् सर्वंयच्चान्यद्बलरागकृत्।
इत्येवमादिस्मरणात्॥ ७॥ ०॥
न प्रवसन्नुपवसेदित्याहुः॥ ८॥
प्रवसन् प्रवासमनुतिष्ठन् न उपवसेत्, इत्याहुरेके आचार्य्याः।
एतस्मादेवावगम्यते, प्रवसन्नप्युपवसेत्, इत्यन्ये आचार्य्यमन्यन्तेइति॥ ८॥०॥
यदा तु खलुप्रवसन् गृहपतिर्नोपवसति, तदाऽपि,—
पन्या व्रतं भवतीति॥ ९॥
पत्या व्रतमौपवसथिकं भवति इति आजराचार्याः॥ ९॥
तदेवं प्रवमता नोपवस्तव्यम्, इत्येकेषामाचार्याणां मतं, प्रवमताऽप्युपवस्तव्यम् इति चापरेषाम्। एतस्मिंश्च विकल्पे सति,—
यथा कामयेत, तथा कुर्य्यात्॥ १०॥
कृतभाष्यमेतत्॥१०॥०॥
एवमेवाहिताग्नेरप्युपवसथो भवति॥ ११॥
आहिताग्निः पञ्चाग्निरुच्यते। स च —
“पवनःपावनस्त्रेता यस्य पञ्चाग्नयोगृहे”
इति सत्युक्तः।पवन आवसथ्योऽग्निः पावनः सभ्योऽग्निः यः शीतापनोदनाद्यर्थं बहुषु देशेष्वपि विधीयते,इति कुल्लूकभट्टः। त्रेता दक्षिणाग्निगार्हपत्याहवनीयलक्षणमग्नित्रयम्। ऋज्व यत्।औपासनाग्निमधिकृत्य उपवमथस्य सूचितवादाहिताग्नेरेष न प्राप्नोतीत्येवमतिदिश्यते॥११॥०॥
यच्चाम्नायो विद्ध्यात्॥ १२॥
आम्नायते अभ्यस्यते, -इत्याम्नायो वेद उच्यते। स खल्वाम्नायः शाखान्तरीयोऽपि यदन्यद्दिदध्यात्, तदपि कर्त्तव्यम्, इति वाक्यशेषः। अध्वर्युप्रत्ययत्वादग्निहोत्रस्य तदाम्नायविहितं कुर्य्यादित्यभिप्रायः। चः समुच्चये, पूर्वोक्तमेव समुचिनोति॥ १२॥ ०॥
** अथ पूर्व्वाह्ण एव प्रातराहुतिँहुत्वाऽग्रेणाग्निं परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान् दर्भानास्तीर्य्य॥ १३॥**
अथापरदिने प्रातराहुतिं हत्वा। सिद्धाया अपि प्रातराहुतेः पुनरभिधानं क्रमार्थम्। कथन्नाम ? प्रातराहतिं हुत्वा समिदाधानान्तं विधाय वक्ष्यमाणं कर्म कुर्य्यात्। कुतः?
“आधाय समिधञ्चैव ब्रह्माणमुपवेशयेत्”।
इति कर्मप्रदीपदर्शनात्। “अग्निमुपसमाधाय दक्षिणतोब्रह्मासनमास्तीर्य्य” इति च गृह्यान्तरम्। नैतदेवम्। कस्मात्? स्वशास्त्रविरोधात्। तथाच गृह्यासंग्रहः।
“लेखनाभ्युक्षणेकृत्वानिहितेऽग्नौसमिद्ददेत्।
ततोभूमिग्रहंकृत्वाकुर्य्यात्परिसमूहनम्।
ब्रह्माणमुपसंकल्प्यचरुश्रपणमारभेत्”।
इति। कर्मप्रदीपोक्तस्तु क्रम आधानविषयः। कथं ज्ञायते? तत्रैव तदभिधानात्।गृह्यान्तरमप्यन्येषामेव न त्वस्माकम्। स्वशास्त्रविरोधापत्तेः। कात्यायनादिभिर्हि तत् सूचितम्। ते किलकालादिशाखिनां सूत्रकाराः। तथाच भूमिजपं तृचेनपरिसमूहनञ्चकृत्वा वक्ष्यमाणं कुर्य्यादित्ययमत्र कर्म्मक्रमः। अधिकमग्रे वक्ष्यामः। तदयमर्थः। प्रातराहुतिं हुत्वा पूर्व्वाह्नएव प्रतिपदभावेऽपि,—
इत्यवोचाम। अग्रेण पूर्व्वया दिशा, अग्निं परिक्रम्य अग्निं प्रदक्षिणीकृत्य गत्वा, दक्षिणतोदक्षिणस्यां दिश्यग्नेः। सार्व्वविभक्तिकस्तसिल्।
“उदग्धारामविच्छिन्नामाग्न्यमारभ्य दक्षिणाम्।
दह्याद्ब्रह्मासनस्थाने सर्वकर्मसु नित्यशः”।
इति गृह्यासंग्रहवचनात्, अविच्छिन्नां वारिधारां दत्वा, प्रागग्रान् दम्भांन् आस्तीर्य्य, ब्रह्मोपवेशनार्थम्। निरस्यति, इति वक्ष्यमाणेन सम्बन्धः। तच्च निरमनं ब्रह्मणः कर्म,इति वक्ष्यामः। ततश्च, एतदन्तं कर्म याजमानिकम्।कथन्तर्हि आस्तरणनिरसनयोःसम्बन्धः? समानकर्त्तकत्वाभावात्। कुतः पुनः समानकर्त्तृकत्वमन्तरेणसम्बन्ध उपपद्यते? क्वाप्रत्ययबलात्, इति चेत्; इति चेत् भवान् पश्यति क्वाप्रत्ययबलादेतदवगम्यते; समानकर्तृकया कथाचित् क्रियया सममत्र सम्बन्धेन भवितव्यम्, इति अत्रोच्यते।नान्यथोपपत्तेः। नैष दोषः। कस्मात्? अन्यथाऽप्युपपत्तेः क्वाप्रत्ययस्य। कथम्? पूर्वकालतामात्रार्थतया।तत्राप्येष दृश्यते, इति वक्ष्यामः। ‘अन्यच्चेष्टेत्’ इति वा व्यवहिततरेण वक्ष्यमाणेन सम्बन्धो वर्णनीयः। एवं किल भट्टनारायणादयो व्याचचक्षिरे।श्लोकश्चात्र भवति।
“येन यस्माभिसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्यसमर्थानामानन्तर्य्यमकारणम्”।
इति। अतिक्रान्तसम्बन्धश्च गौभिले ग्रहीतव्य इति चोक्तं गोभिलपुत्रेण। तच्च पुरस्तादुपदर्शितम्॥१३॥०॥
अथेदानी ब्राह्मं कर्म्म अभिधीयते,
** तेषां पुरस्तात् प्रत्यङ्मुखस्तिष्ठन् सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या ब्रह्माऽऽसनात् तृणमभिसंगृह्य दक्षिणापरमष्टमं देशं निरस्यति,-निरस्तः परावसुरिति॥ १४॥**
तेषां यजमानाम्तृतानां दर्भाणां, पुरस्तात् पूर्व्वम्यां दिशि, प्रत्यङ्मुख पश्चिमाभिमुखः, तिष्ठन् ऊर्द्धः सन्, सव्यस्य वामम्य, पाणेःकरस्य, अङ्गुष्ठेन, उपकनिष्ठिकया कनिष्ठममोपदेशस्थाअङ्गुलीउपकनिष्ठा अनामिका च उच्यते, उपकनिष्ठैव उपकनिष्ठिका, तयाच अङ्गुल्याब्रह्मा ब्रह्मतया परिकल्पितः इदानीमपि कयाचिद्विवक्षयाब्रह्मा इत्युच्यते। आसनात् तदर्थंकल्पितात् यजमानास्तृतात् कुशमयात्, तृणं दर्भरूपम्, अभि संगृह्य गृहीत्वा, दक्षिणापरं दक्षिणास्याश्च अपरस्याश्च दिशोरन्तरालम्, अतएव,- अष्टमम्उभयदिगष्टमांश, देशं दिग्विभागं; नैऋतकोणम,- इत्येतत्। तं प्रति, निरम्यति प्रक्षिपति ;- निरस्तः परावसुः,- इति, अनेन मन्त्रेण।
तदिदंनिरसनं ब्राह्मं कर्म - इति विज्ञायते। कुतः? ब्रह्मा,- इति कर्तृनिर्देशात्। लाट्यायनसूत्रणाच्च।स खल्वाचार्योऽन्यत्रैव याजमानं कर्म सूत्रयित्वा, “सर्व्वत्र ब्रह्मा दक्षिणत उदङ्मुखः कुर्य्याद्धं मेभ्योऽन्यत्” -इति ब्राह्मं कर्म्म वक्तुमुपक्रममाणः तत्रैव प्रकरणे, “तद्दक्षिणतो निरस्तः परावसुरिति दक्षिणा तृणं निरस्येत्, आवसोःमदने मीदामीत्युपविशेत्” - इति सूत्रयाञ्चकार। तदनेन,
निरसनं ब्राह्मं कर्म, - इत्यवगच्छामः। अतएव तेनेव “दक्षिणार्द्धे तु सदसः पूर्व्वमुपवेशनं प्रस्तोतुः प्रत्युपवेशनं ब्रह्मोपवेशनेन निरस्तः परावसुरिति दक्षिणतृणं निरस्येत्,आवसोःसदने मीदामीत्युपविशेत्” इति ब्राह्मं कर्म निरसनमुपवेशनञ्च अन्यत्राप्यतिदिष्टम्। एतस्माच्च कारणात् नात्र आसनेन ब्रह्मणः सम्बन्धः, अपितु निरसनेनैव,इत्यवगन्तव्यम्।
ये तु ब्रुवते,-‘नात्र ब्रह्मेत्यासनेन सम्बन्धः, उपवेशनात् पूर्वं तत्सम्बन्धाभावात्’ इति। तान् प्रति वक्तव्यम्।तदर्थपरिकल्पितत्वादामनम्य अस्त्यत्र कोऽपि सम्बन्धः इत्यकामेनापि वाच्यम्। लोकेऽपि देवाद्यर्थपरिकल्पितासनादौ देवासनादिव्यपदेशाः शतशो दृश्यन्ते। “लोके येष्वर्थेषु प्रसिद्धानि पदानि तानिसति सम्भवे तदर्थान्येव सूत्रेषु”इति खल्वनुक्रमणिका शास्त्रतात्पर्य्यविदाम्। “पुरोडाशकपालेन तुषानुपवपति” इति चभविष्यता पुरोडाशेन कपालस्यव्यपदेशोदृश्यते। तस्मात्, यथा, “प्रैतु होतुश्चमसः”इत्यत्र, होता यत्र चमति चमिव्यति अचमीद्वासहोतुश्चमसः,इति चमसिनां शेषभक्षाधिकरणे निर्णीतं, तथा अत्रापि ब्रह्मा यत्र आस्ते आसिष्यते आसिष्ट वा, तद्ब्रह्मामनम्, इति शक्यते वक्तुम्।अनयैव दिशा, ब्रह्मामनसास्तीर्य्य, इति, दद्याद्ब्रह्मासनस्याने, इति, ब्रह्मासने निधाय इतिचैवमादयः शतशः व्यपदेशाःसमुपपद्यन्ते। एतावन्मात्रेपुनरत्रकारणेऽभ्युपगम्यमाने ब्रह्मासनात् इति यथाश्रुत एवार्थो वर्णनीयः स्यात्। ब्रह्मासनयोरिदानीमपि सम्बन्धस्य अस्माभिरुपपादितत्वात्।
श्रुत्या खल्वासनसम्बन्धी ब्रह्मणोऽत्रावगम्यते, वाक्येन च व्यवहितयोजनया निरसनसम्बन्धश्चिकीर्षितः।
कथन्तर्हि प्रकृतेऽपि निरसनेन सम्बन्धः? ननु श्रुत्या आसनसम्बन्ध एव स्यात्। स्यादेतदेवं, यदि शास्त्रान्तरमस्यां वर्णनायांकारणं न स्यात्। अस्ति चात्र स्पष्टं शास्त्रान्तरम्। आसनसम्बन्धेऽपि ब्रह्मणो न ज्ञायते,को निरस्यति?इति। अवश्यमत्र कर्त्ता कश्चित् कल्पयितव्यः। कश्चित् कल्पयितव्यः। स तावदुपस्थितत्वात्बलवच्छास्त्रान्तरबलाच्चब्रह्मैव कल्पयितुमुचितः। न खल्वत्रयजमानः कर्त्ता साक्षादुपदिश्यते, सन्निधीयते वा। क्त्वाश्रुतेःपूर्व्वापरीभावमात्रेणापि चरितार्थत्वात्। सखल्वत्र विकल्पयिषितः। न तु शक्यते कल्पयितुम्। ग्रन्थान्तरविरोधात्। तदपि खल्वस्मच्छास्त्रमेव, किमिति यदृच्छाकल्पनया उपरुध्येत !। उभयसम्बन्धस्य च वक्तुमावश्यकत्वे, निरमनसम्बन्ध एव तावदुचितो वर्णयतुम्। गुणप्रधानभावेनोभाभ्यामन्वये च प्रधानानुरूपैव विभक्तिरभियुक्तैरनुमन्यते। तस्मादस्मदुक्तमेव समाधानमादरणीयम्॥ १४॥ ०॥
** अप उपस्पृश्याथ ब्रह्माऽऽसन उपविशत्यावसोः सदने सीदामीति॥ १५॥**
अप उदकम्, उपस्पृश्याचम्य स्पृष्ट्वा वा अथानन्तरं ब्रह्मा आसने यथोक्तेउपविशति आवसोः सदने सीदामीत्यनेन मन्त्रेण। तदत्र सूत्रमनवमृश्येव,‘आवसोःसदने सीद,इति यजमानो ब्रूयात्। एतदन्तमेव कर्म्मं याजमानिकम्। सीदामि
इत्यभिधायब्रह्मा उपविशेत्’ इति भवदेवभट्टकल्पना समुल्लसिता॥ १५॥ ०॥
स खल्वयम्,
** अग्निमभिमुखो वाग्यतःप्राञ्जलिरास्त आकर्मणः पर्य्यवसानात्॥ १६॥**
अग्निम् अभिमुखः आभिमुख्येनाग्निमुखः, उदङ्मुख इत्यर्थः। वाग्यतो नियमितचवनः प्राञ्जलिः प्रकृष्टोऽञ्जलिर्यस्य, सोऽयंप्राञ्जलिः कृताञ्जलिपुटः सन् आस्ते। कियन्तं कालमास्ते? आकर्मणःपर्य्यवसानात्। परि सर्व्वतोभावेन कर्मणःअवसानंसमाप्तिः कर्मणः पर्यवसानम्, तत्पर्य्यन्तम्। किमिदं कर्म? यत्क्रियते यजमानेन, तदिदं यागादि कर्म। कुत्र पुनरस्य सर्व्वतोभावेन अवसानम्? दक्षिणादाने इति ब्रूमः। कुतः? तत्रतद्विधानात्। कर्मान्ते खल्वेषा विधीयते। अदत्तायां खल्वस्यांकृतमपि कर्म न परिसमाप्यते, निष्फलत्वात्। अतएव, हतोयज्ञस्त्वदक्षिणः’ इति स्मरन्ति। आह, दक्षिणायाः अनेन अङ्गत्वम्केवलमुच्यते, तदभावे च कर्मणो वैगुण्यात् निन्देयम् ? तर्हिव्यक्तमस्याम् अदत्तायां कर्म न परिसमाप्यते, अपि तु दत्तायामेव, दूति यथोक्तएवार्थः। अतएव,- आ वसोः सीदामि, इति ब्रह्मोपवेशनमन्त्रलिङ्गमनुगृह्यते। भट्टनारायणप्रभृतयस्तु वर्णयन्ति ‘कर्म,कृताकृतप्रत्यवेक्षणम्’ इति॥ १६॥ ०॥
स खलु वाग्यतोऽपि,
भाषेत यज्ञसँसिद्धिम्॥ १७॥
भाषेत वदेत्, यज्ञसंसिद्धिं यज्ञस्य सम्यक् सिध्यानुकूलां वाचम्; यदा खल्वन्यथैव होत्राकर्म क्रियते, तदा यज्ञस्य सम्यक् सिध्यर्थम्, एतदेवं कृरु, कृत्वा चैतदेतत् कुरु, इत्येवमादिलक्षणाम्। एतदन्यत्र अस्य वाग्यतत्वम् इत्यर्थः।॥१॥
तत्रापि -
नायज्ञियां वाचं वदेत्॥ १८॥
अयज्ञियां यज्ञानर्होमरुस्कृतां वाचं न वदेत्। भवति चात्र ब्राह्मणम्। “साधुभिर्भाषितव्यं, नापभ्रंसितवै न स्वेच्छितवै” इति॥ १८॥ ०॥
** यद्ययज्ञियां वाचं वदेत्; वैष्णवीमृचंयजुर्व्वा जपेत्॥ १९॥**
यदि कुतश्चित् कारणात् अयज्ञियामसंस्कृतां वाचं वदेत्,तर्हि वैष्णवींविष्णुदेवताकाम् ऋचम् इदं विष्णुर्विचक्रमे, इत्यादिलक्षणां जपेत्। मुख्यश्चायं पक्षः, इह वाशब्दाश्रवणात्। तदसम्भवे, यजुर्व्वा जपेत्। यजुश्च, विष्णोःशिरोऽसि इत्यादि लक्षणम्, इति भट्टनारायणोपाध्यायाः। विष्णोरराटमसि इत्यादिलक्षणम्, इति रघुनन्दनादयः। तदत्र भगवन्तो भूमिदेवाः प्रमाणम्॥१९॥ ०॥
अपिवा नमोविष्णवे इति ब्रूयात्॥ २०॥
अपि वा,ऋग्यजुषोर्जपासम्भवे, नमोविष्णवे इत्येवं ब्रूयात्॥ २०॥
यद्युवा उभयं चिकीर्षेद्धत्रञ्चैव ब्रह्मत्वञ्चैवैतेनैव कल्पेन छत्रं वोत्तरासङ्गं वोदकमण्डलुं दर्भवटुं वा ब्रह्मासने निधाय, तेनैव प्रत्याव्रज्याथान्यच्चेष्टेत्॥ २१॥
यद्यसति ब्राह्मणान्तरे। उ वै, इत्यनर्थकौ निपातौ। एवमेके।यद्युवा, इति निपातसमुदायो यद्यर्थे। एवमपरे। उभयं चिकीर्षेत् कर्तुमिच्छेत्। तदनेन लिङ्गेनअसम्भवे उभयमपि स्वयं कुर्य्यात्, इति। तदिदमभिहितमस्माभिः, ‘अथ यदि दधि पयो यवागूं वा’ इत्येवमादिके सूत्रे। किं पुनस्तदुभयम्? तदुच्यते। हौत्रं होतुः कर्म चैव, ब्रह्मत्वं ब्रह्मणः कर्म चैव। तर्हि, एतेनैव कल्पेन पूर्वोक्तत्यैव आवृता, अग्रेणाग्निम् इत्येवमादिकया। एवकारकरणात्, आवसोः सदने सीदामि, इति मन्त्रोऽपि एवमेवाविकृतः पठनीयः,इत्यवगम्यते। क्वाययात्रायते इति छत्रम् आतपत्रं वा, उत्तरासङ्गमुत्तरीयं वा, उदकमण्डलुम् उदकपूरितं कमण्डलं वा, दर्भवटुं कुशब्रह्मण वा,–
स खल्वयं दर्भवटुर्यथा निर्मातव्यः, तदाह गृह्यासंग्रहपरिशिष्टम्।
“ऊर्द्धकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः।
दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः”।
इति। अत्र च,–
“द्विरावृत्त्याथ मध्ये वे अर्द्धावृत्त्याऽन्तदेशतः।
ग्रन्थिः प्रदक्षिणवर्त्तःस ब्रह्मग्रन्थिसंजकः”।
इति पुराणवाक्यमप्यनुसन्ध्येम्। दर्भपरिमाणञ्चात्र नास्ति,- इत्याह कर्मप्रदीपः।
“यज्ञवास्तुनि मुष्ट्याञ्च स्तम्बे दर्भवटौ तथा।
दर्भसङ्ख्या न विहिता विष्टरास्तरणेष्वपि”।
इति। एवञ्च,
“पञ्चाशद्भिः कुशैर्ब्रह्मा तदर्द्धेनच विष्टरः”।
इति वचनं यदि समूलं, तदा सम्भवासम्भवाभ्यां नियमानियमयोर्व्यवस्थितो विकल्पः,इति परिशिष्टप्रकाशः। शाख्यन्तरीयम्,इति तत्त्वकारः। वस्तुतस्तु पञ्चाशद्भिर्वा अनियतसंख्यकैर्वाकुशैर्ब्रह्मा भवेदिति विकल्प आदरणीयः। द्वयोरेव स्वशास्त्रेउपदिष्टत्वात्। कात्यायनः किल कर्मप्रदीपे दर्भवटौ दर्भसंख्या न विहितेत्याह। आचार्य्यपुत्रस्तु गृह्यासंग्रहे,
“कतिभिस्तु भवेद्ब्रह्मा कतिभिर्विष्टरः स्मृतः?
पञ्चाशद्भिः कुशैर्ब्रह्मा तदर्द्धेनतुविष्टरः।
इति पञ्चाशद्भिः कुशैर्ब्रह्मा भवतीत्यभिहितवान। एवञ्चाचार्यपुत्रस्यैतद्वचनमित्यविदुषस्तत्त्वकारस्य शाख्यन्तरीयत्वकल्पनं कल्पनमेव।
“पञ्चभिर्नवभिर्वापि सार्द्धद्वितीयवेष्टितम्।
ॐकारेणैवमन्त्रेणद्विजःकुर्य्यात्कुशद्विजम्”।
इति संख्यान्तरं कौथुमादिव्यतिरिक्तविषयम्।
तमिमं दर्भवटुं वा, ब्रह्मासने निधाय स्थापयित्वा, तेनेव पथा, येन पूव्वें परिक्रमणं कृतं तेनैव पथा अप्रदक्षिणेनाग्निं प्रत्याव्रज्य आगत्य पूर्व्वस्थानम् इत्येतत्। अथानन्तरम्, अन्यत् वक्ष्यमाणंचेष्टेत् चेष्टेत, कुर्य्यादित्यर्थः।
अत्राहुः अथेतिविशिष्टमानन्तर्य्यंद्योतयति।किन्तत्? यथोपयोगमुत्तरतोऽग्नेर्द्रव्याणामधोमुखानामुदगग्राणां पूर्व्वपूर्व्वक्रमेण आसादनं, वीक्षणं, प्रोक्षणञ्च अद्भिः कृत्वा। तदेतत्। कुतः? शास्त्रान्तरदर्शनात्। तथाच कर्मप्रदीपः।
“प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः।
तत्तथाऽऽसादयेद् द्रव्यं यद् यथा विनियुच्यते”।
इति। सांख्यायनगृह्यम्। “उत्तरतोऽग्नेर्यथोपयोगमवाञ्चि पात्रास्यासादयेत्” -इति।
“द्रव्याणामुपक्लृप्तानां होमीयानां यथाक्रमम्।
प्रसिञ्चन्वीक्षणं कुर्य्यादद्भिरभ्युक्षणन्तथा”।
इति च स्मृत्यन्तरम्। इदञ्च द्रव्यासादनाद्यनन्तरं भूमिजपादिकं चर्व्वनङ्गे द्रष्टव्यम्। चर्वङ्गे तु कर्मणि द्रव्यासादनाद्यनन्तरमेव चरुश्रवणमाचार्य्यः सूत्रयिष्यति,‘अथोल्लूखलमुषले’इत्यादि। ततश्च चर्व्वङ्गके कर्मणि, द्रव्यामादनाद्यनन्तरं चरुश्रवणंअनन्तरंभूमिजपादिकं कर्त्तव्यम्। अतएव, कर्मप्रदीपकृद्भिः ‘तिर्य्यगूर्द्धसमिन्मात्रा’ इत्यादिना, ‘शूर्पं वैष्णवमेवच’ इत्येवमन्तेन ग्रन्थेन चर्व्वङ्गमभिधाय,‘दक्षिणं वामतो वाह्यम्’ इत्यादिनाभूमिजपपरिममूहनहस्तविन्यासोऽभिहितः। तस्माद् ब्रह्मस्थापनद्रव्यासादनादिचरुश्रपणेभ्यः परं भूमिजपपरिसमूहनादिकम्इति भवदेवभट्टवीरेश्वररघुनन्दनप्रभृतयः। भट्टभाष्ये तु,भूमिजपं, अचेन परिममूहनञ्च कृत्वा ब्रह्मस्थापनं कर्त्तव्यम्, इत्युक्तम्। सरलापरिशिष्टप्रकाशकाराभ्यान्तु,- भूमिजपानन्तरं चरुश्रपणम्– उक्तम्।
इदन्त्विहवक्तव्यम्। कर्मप्रदीपकृता पदार्थानामुपन्यासमात्रं कृतं न तु क्रमोऽपि तेषामभिहितः। तत्रचर्व्वङ्गमभिधाय भूमिजपप्रकाराभिधानात् खल्वानुमानिकः क्रमः परिचिकल्प यिषितः। सचायमाचार्य्यपुत्रोपदिष्टक्रमविरोधाद्भवितुं नार्हति। तथाच“लेखनाभ्युक्षणे कृत्वा” इत्यादि पुरस्ताददाहृतम्। तस्मादाचार्य्यपुत्रवचनात् भूमिजपं त्यृचेन परिसमूहनञ्च कृत्वा ब्रह्मस्थापनंकर्त्तव्यं ततश्चरुश्रपणमित्यादरणीयम्। आचार्योऽपि ब्रह्मस्थापनात्परं चरुश्रपणं सूत्रयिष्यति। अन्यच्चेष्टेदित्यनर्थकं तर्हि, ननु“अथोलूखलमुषले” इति सूत्रयिष्यत्येव। नानर्थकम्। कथं कृत्वा?सामान्यविशेषभावोपपत्तेः। ‘अन्यच्चेष्टेत्’ इति सामान्यतः सूत्रयित्वा अथोलूखलमुषले,इति विशेषतः सूत्रणमुपपद्यते। सामान्यप्राप्तेस्तुविशेषकथनमपुनरुक्तमेव। शास्त्रे चास्मिन् पुनरुक्तिरनुमतैवाचार्यस्येति च निवेदितमधस्तादेव। आदरार्थत्वाच्च। आदरार्थमपिपुनरुपादानं शास्त्रे बहुलमुपलभ्यते। यत्र चरुर्नास्ति, तत्र, अन्यदाज्यमंस्कारादिकमित्यभिप्रायेण वा वचनमेतमुपपादनीयम्।द्रव्यासादनन्तु आस्तां तावदिदानीं, यावदग्निस्थापनादपि पूव्वेंकरणीयमिति पुरस्तादेव व्यवस्थापितम्। सांख्यायनगृह्यन्तु नास्माकमित्यनुदाहरणम्॥ २१॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य षष्ठी खण्डिका॥ ०॥
_______
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके सप्तमी खण्डिका।
** अथोलूखलमुषले प्रक्षाल्य सूर्पञ्च पश्चादग्नेः प्रागग्रान्द र्भोनास्तीर्य्योपसादयति॥ १॥**
अथेति आनन्तर्य्यार्थं पूर्व्वप्रकृतार्थेवा। पूर्वमासादिते उल्लूखलमुषले सूर्पञ्च तत् त्रयम्
“मुषलोलूखले वार्क्षेस्वायते सुदृढ़े तथा।
इच्छाप्रमाणे भवतः सूर्पं वैणवमेवच”।
इति कर्म्मप्रदीपलक्षणम्, प्रक्षाल्य, पश्चादग्नेः प्रागग्रान् दर्भानास्तीर्यतत्रोपसादयति स्थापयतीत्यर्थः। पूर्वं खल्वग्नेरुत्तरतः समामादितानां सूर्पोलूखलमुषलानासिदानीमग्नेःपश्चिमतः स्थापनं कर्त्तव्यं निर्वापाद्यर्थम्। तत्रोलूखलमुषले खदिरादियज्ञियवृक्षमये। “वारुणान्यहोमसंयुक्तानि” इति वचनात् वारुणमयानि वा। ‘सूर्पंवैणवमेवच,‘इत्यत्र, ‘सूपें चैषिकमेवच,’ - इति केचित् पठन्ति। तत्रैषिकग्रहणं वेणवस्याप्यपलक्षणार्थमिति भट्टभाष्यम्। विसमासकरणं पृथक् संस्कारप्रज्ञापनार्थम्॥ १॥ ०॥
अथ हविर्निव्विंपति व्रीहीन् वा यवान् वा कँसेन वा चरुस्थाल्या वा॥ २॥
अथानन्तरम् आसादितेतस्मिन्नुलूखले हविर्निर्वपति प्रक्षिपति।
हविर्विशिनष्टि व्रीहीन् वा यवान् वा’। केन निर्वपति ? तदुच्यते। कंसेन वा चरुस्थाल्या वा॥२॥०॥
कथं निर्वपति? तदभिधीयते –
** अमुष्मै त्वा जुष्टं निर्वपामीति देवतानामादेशँसकृत् ; द्विस्तूष्णीम्॥ ३॥**
अमुष्मैत्वाजुष्टं निर्वपामीति अनेन मन्त्रेण, देवतायाः वेदमेयत्यागोद्देश्यायाः नाम्न आदेशः आदिश्यते इत्यादेशःसमुच्चारणंयथा भवति, तथा सकृदेकवारं निर्वपति ,द्विः’ वावद्वयंंतूष्णीममन्त्रं निर्वपतीतिसम्बन्धः। तेन, अग्नये वा जुष्टं निर्वपामिइत्येवमादिमन्त्रेण सकृन्निरूप्य तूष्णींद्विर्निर्वपेत्।
अत्र च यावता निरुप्तेन होमो निर्वर्त्त्यते किञ्चिच्चावशिष्यते, तावत् परिमितमेव हविर्निप्तव्यम्। बहुदैवत्ये च चरौ न प्रत्येकमेवानुनिर्वापौकर्त्तव्यौ, किन्तु तन्त्रेण द्वावेवानुनिर्वापौ सर्वशेषे करणीयौ। तदेतत्सर्वंकर्मप्रदीपः स्पष्टयाञ्चकार। तथा चोक्तम्।
“चरुः समशनीयोयस्तथा गोयज्ञकर्म्मणि।
वृषभोत्सर्ज्जने चैव अश्वयज्ञे तथैवच।
श्रावण्यां वा प्रदोषे यः कृष्यारम्भे तथैवच।
कथमेतेषु निर्वापाः? कथञ्चैव जुहोतयः?
देवतासंख्यया ग्राह्या निर्वापाश्च पृथक् पृथक्।
तूष्णीं द्विरेव गृहीयात् होमश्चापि पृथक् पृथक्।
यावता होमनिर्वृत्तिर्भवेद्वा यत्र कीर्त्तिता।
शेषञ्चैव भवेत् किञ्चित्तावन्तं निर्वपेञ्चरुम् ”।
इति। अत्र, एतेषु इति, एतत्प्रकारेष्वन्येष्वपीत्यर्थः। प्रकारान्तरमाह गृह्यासंग्रहः।
“चतुर्मुष्टिश्चरुः कार्य्यश्चतुर्णामुत्तरोऽपिवा”।
इति मुष्टिः पत्रमिति गृह्यासंग्रहभाष्ये वक्ष्यामः॥ ३॥ ०॥
** अथ पश्चात् प्राङ्मुखोऽवहन्तुमुपक्रमते; दक्षिणोत्तराभ्यां पाणिभ्याम्॥ ४॥**
अथेति पूर्वप्रकृतार्थम्। अथ पूर्वप्रकृतेन अस्मादितेन मुषलेनपश्चादनन्तरं प्राङ्मुखः प्राङ्मुख आसीनः पूर्वप्रकृतानेव निरुप्तान् व्रीहिन्वा यवान् आवहन्तुम्। अवहननं कण्डनम् इत्याख्यायते। उपक्रमते आरभेत। कथम्? दक्षिणोत्तराभ्यां, दक्षिणः करः उत्तरःउपरिगतो ययोः पाण्योप्ताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यां गृहीतेनमुषलेनेत्यर्थः। “उपक्रमते इति वचनादुपक्रम एवायं नियमः। ततश्च शिष्येनापि पश्चादवहननं कारयतो न दोषः”इति भट्टभाष्यम्॥४॥०॥
** त्रिःफलीकृताँस्तण्डुलान्त्रिर्देवेभ्यःप्रक्षालयेदित्याहुद्विर्म्मनुष्येभ्यःसकृत्पितृभ्य इति॥५॥**
त्रिर्वारत्रयम् अवघातेन फलीकृतान् - फल निष्पत्तौ - इति स्मरणात् निष्पत्तीकृतान् तण्डुलान् कृतच्छटनानित्यर्थाल्लभ्यते। एतदुक्तंभवति। मुषलेन तथाऽवहन्तव्यं यथा वारत्रयवघातेन तण्डुला निष्पद्यन्ते - इति। तथाच स्मरणम्।
“कण्डनं सेचनञ्चैव तथैवोलूखलक्रिया।
सकृदेवपितॄणांस्याद्दैवेत्रित्वंविधीयते”।
इति। अन्ये त्वाहुः ‘फलीकरणं तण्डुलानां कंबूकापनयनं छटनमिति प्रसिद्धम्। सकृत् कण्डनेनैवापनीततुषांस्तण्डुलान् कृत्वाततः त्रिः फलीकृतान् छटितान्’ इति। तदिदं सकृत् कण्डन वचनसमङ्गतम्। देवे त्रित्वम् इति स्मरणात्। अपरे तु व्याचक्षते, ‘त्रिः फलीकृतान् त्रिधा वितुषीकृतान् कण्डनप्रच्चटनाभ्यामिति शेषः’ इति। तदेतत् मनीषिभिश्चिन्तनीयम्। तानिमांस्तण्डुलान्त्रिर्वारत्रयं देवेभ्यः प्रक्षालयेदित्याऽब्रुवन्ति आचार्याः। अनेनैवसूत्रशेषोव्याख्यातः॥ ५॥ ०॥
** पवित्रान्तर्हिताँस्तण्डुलानावपेत्॥ ६॥**
प्रक्षालितांस्तण्डुलान् पवित्रान्तर्हितान्। पवित्रम्।
“अनन्तर्गर्भणां साग्रं कौश द्विदलमेवच।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्”।
इति कर्म्मप्रदीपोक्तलक्षणम्, अन्तर्हितं व्यवहितं येषां, तान् पवित्रान्तर्हिता कृत्वा श्रावपेत निःक्षिपेत् चरुस्थाल्याम्। चरुस्थाल्यामुत्तरात्रं पवित्रं निःक्षिप्य तण्डुलान्निः क्षिपेत्-इति तत्त्वकारप्रभृतयः॥ ६॥ ०॥
** कुशलशृतमिवस्थालीपाकँश्रपयेत् प्रदक्षिणमुदायुवन्॥ ७॥**
कुशलः पाक-निपुण भण्यते। तेन शृतं पक्वमिव स्थालीपाकं
श्रपयेत् पचेत्। इवेति निपातः। कीदृशंपुनः शृतं कुशलशृतमिवभवति? उच्यते। अदग्धम् अकठिनम् अनतिशिथिलम्अवीतरसम् किलशृतं कुशलशृतमिव भवतीत्याक्ष्महे। कुतः?लोकप्रसिद्धेः कर्मप्रदीपोऽप्याह।
“स्वशाखोक्तश्चरुः खिन्नोह्मदग्धोऽकठिनः शुभः।
न चातिशिथिलः पाच्यो न च वीतरसोभवेत्”।
इति। प्रदक्षिणं दक्षिणावर्त्तन यथा भवति, तथा उदायुवन् ‘यु मिश्रणे’ इ त स्मरणान्मेक्षणेनोर्द्धमीषन्मिश्रयन्त्रवघट्टयन्नित्येतत्। अपयेदितिसम्बन्धः। मेक्षणेनइति कुतो लभ्यते? ‘तस्मिन्नेवाग्नौ अपयत्योदनचरूञ्च मांसचरुञ्च पृथङ्मेक्षणाभ्यां प्रदक्षिणमुदायुवन्,इत्यन्वष्टक्ये दर्शनात्॥ ७॥ ०॥
** शृतमभिघार्य्योदगुद्वास्य प्रत्यभिधारयेत्॥ ८॥**
शूतं पक्वं स्फुटितं चरुम् अभिघार्य्यंआज्यस्रुवेवेणाप्लाव्य उदगुत्तरस्याम् अग्नेः उद्धास्य उत्तार्य्यप्रत्यभिधारयेत् पुनस्तथाऽऽप्लावयेत्। अभिधारणं चेदं शृतं पवित्रान्तर्हितं कृत्वा करणीयम्। तथाच गृह्यासंग्रहः।
“पवित्रान्तर्हितं कृत्वा चरुं प्राज्ञोऽभिधारयेत्।
उद्वास्यचैवविधिना एवंतन्त्रंनलुप्यते ”।
इति॥८॥ ०॥
अग्निमुपसमाधायकुशैःसमन्तंपरिस्तृणुयात्;पुरस्ताद्दक्षिणतउत्तरतःपश्चादिति॥ ९॥
अग्निम् उपसमाधाय समिद्भिः समिध्य प्रज्वाल्य इत्येतत्।कुशैःपूर्व्वमासादितैः विशाखानि प्रति लूनैः समन्तं समन्तात् सर्व्वतःसर्व्वासुदिक्षु इत्यर्थः। परिस्तृणुयात् आच्छादयेत् विकिरेत्वा। कथम्? पूर्वस्यां दक्षिणस्याम् उत्तरस्यां पश्चात्— इत्यनेन क्रमेण॥ ९॥०॥
सर्व्वतस्त्रिवृतं पञ्चवृतं वा॥ १०॥
सर्व्वतःसर्वासुदिक्षु त्रिवृतंवारत्रयं, पञ्चवृतंपञ्चकृत्वो वा,परिस्तृणुयात्इत्यनुवर्त्तते॥ १०॥ ०॥
कथम्पुनरेकं परिस्तरणं सम्पद्यते? यस्यत्रिःपञ्चकृत्वो वाकरणमुपदिश्यते। तदुच्यते,
बहुलमयुग्मसँहतम्॥ ११॥
बहुलं बहुतृणकम्। अयुग्मसंहतं, युग्मञ्च संहतञ्च युग्मसंहतम् इति द्वन्देकवद्भावः, तन्त्र भवतीत्ययुग्मसंहतम्, अयुग्ममरूहतङ्केत्यर्थः। केचित्तथेव पठन्ति। अमहतम् असंलग्नं पृथक् पृथगित्यनर्थान्तरम्। तदेवं प्रतिदिशमयुग्मैः परम्परमसंलग्नैर्बहुभिस्तृणैरेकम्परिस्तरणं सम्पद्यते. तस्यस्खल्वस्य त्रिः पञ्चकृत्वोवा करणमुपदिश्यतेइत्यर्थः। तत्त्वकारेणाप्यभिहितं प्रतिदिशं दर्भत्रयेणावृतानि कृत्वा तेषां मूलानि तथैवाच्छादयेत्’ इति। तत्र दर्भत्रयेणेति न नियमपरं वाक्यम। कस्मात् ? परिस्तरणेदर्भसंख्यानियमाभावात्।तच्चपुरस्तादुदाहृतमस्माभिः। तदिदं परिस्तरणं पूर्वस्याम् उत्तरान्ताद्दङ्क्षिणान्तं यावत्, दक्षिणस्यां पूर्वान्तात् पश्चिमान्तं यावत्, यथा
दक्षिणस्यां तथोत्तरस्यां, यथा पूर्वस्यां तथा पश्चाद्दिशि कर्त्तव्यम्। कुतः पुनरेवमुच्यते? कुशानां प्रागग्रत्वानुरोधात्। ‘प्राचीसौम्यापराजिता’ इति च स्मरणादिति वदन्ति।
तदेतत् परिस्तरणस्वरूपप्रतिपादनपरं सूत्रम्, ‘बहुलभयुग्म संहतम्’ इति, न तु ‘त्रिवृतं पञ्चवृतं वा’ इत्यस्य विशेषार्थम्। बहुलमयुग्मम् इत्यनुवादापत्तेः। यच्च “त्रिवृतं पञ्चवृतं वा” इत्यनेनैवायुग्मत्वे सिद्धे अयुग्ममित्येकावृतस्यापि प्राप्यर्थम्। तथाच गृह्यान्तरम्। “सकृत् निर्वा प्रदक्षिणं प्रतिदिशमग्नेस्तणोति”इतिरघुनन्दनादृतं भट्टनारायणादिमतम्। तदसङ्गतम्। न ह्येतत् विशेषार्थेसूत्रं, किन्तर्हि?परिस्तरणस्वरूपप्रतिपादनार्थम् इत्यवोचाम। न खल्वदर्शिते परिस्तरणस्वरूपे निवृतं पञ्चतं वाइति समञ्जसं वचनम्। अदर्शिते हि स्वरूपे कस्य चितृत्पञ्चद्दा उपदिश्येत। तदिदमर्थतः सूत्रं ‘तच्चोदकेषु मन्त्राख्या’ इतिवदादितो द्रष्टव्यम्। तदेवं स्थिते, अयुग्मम् इत्यस्य कुत एवानुवादापत्तिः?येन तत्परिहारार्थमेकाऽप्यावृत् परिकल्प्येत। कथमन्यथा, बहुलम् इत्यत्र अनुवादता परिहरणीया? नित्यानुवादतया परिहारश्चान्यत्रापि समानः।गृह्यान्तरमपि प्रदक्षिणं परिस्तरणं विदधत् कौथुमादीनामन्यववतिष्ठते। ‘पुरस्ताद्दक्षिणतउत्तरतः पश्चात् ’ इति खल्वाचार्यः सूत्रयाञ्चकार॥ ११॥ ०॥
अथेदानीं परिस्तरणप्रकारोऽभिधीयते,—
प्रागग्रैरग्रैर्मूलानिच्छादयन्॥ १२॥
प्रागग्रैः प्राक्कृताग्रैः कुशैः पश्चादास्तृतैरग्रैरग्नप्रदेशैर्न मध्धैर्नापि
मूलैः पूर्वास्तृतानां कुशानां मूलानि च्छादयन् स्तृन्वन् परिस्तृणुयात्॥ १२॥ ०॥
एकस्तावदयं परिस्तरणप्रकार उक्तः, अथेदानीमन्योऽपि प्रकार उच्यते,
** पश्चाद्वाऽऽस्तीर्य दक्षिणतः प्राञ्चंप्रकर्षतितथोत्तरेण॥ १३॥**
पञ्चाद्दिश्यग्नेरास्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति प्रकिरन्नयति, तथा तेनैव प्रकारेणणेत्तरेणोत्तरतः प्राञ्चं प्रकर्षति। उभयहस्तेनकुशान् गृहीत्वादक्षिणहस्तगृहीतैर्दक्षिणतः परिस्तृणोति सव्यहस्तगृहीतैरपि सव्यतः इति भट्टनारायणोपाध्यायाः॥ १३॥ ०॥
दक्षिणोत्तराण्यग्राणि कुर्य्यात्॥ १४॥
दक्षिणानि च तान्युत्तराणिचेति दक्षिणोत्तराणि कुशाग्राणिकुर्य्यात्। दक्षिणहस्तगृहीतानि कुशाग्राण्युत्तराणि उपरिष्टात् –ऊर्द्धं पूर्वस्यां दिशिइत्येतत्। अर्थात् सव्यहस्तगगृहीतान्यधराणि पश्चाद्दिशीत्यर्थः।
एवं वा,—
दक्षिणानि च उत्तराणि च इति विग्रहः। दक्षिणस्यामग्राणिदक्षिणदिग्गतानि, उत्तरस्याञ्चोत्तराणि उत्तरदिग्गतानि कुर्य्यात्॥ १४॥
एष परिस्तरणन्यायः सर्व्वेष्ठाहुतिमत्सु॥ १५॥
एषोऽनन्तरोक्तः परिस्तरणप्रकारः सर्वैष्वाहुतिमत्सुयत्रयत्रहुयते तत्र तत्र भवत्यन्यत्र सायंप्रातर्होमादिभ्यः। स्तरणादधःप्रोक्तेष्वन्येष्वपि क्षिप्रहोमेषु न भवति परिस्तरणमिति ह्यवोचाम।यत्र पुनश्चरुर्न क्रियते, तत्रापि परिस्तरणं न करणीयम्। ब्रह्मैवतत्र परिस्तरणस्थानीयो भवति। तदाह गृह्यासंग्रहः।
** ** “ब्रह्माणं स्तरणंविद्याञ्चरुर्यत्र न कल्पितः”।
इति॥१५॥०॥
कुशानां तत्प्रतिनिधीनाञ्च खल्वभावे,–
** परिधीनप्येके कुर्व्वन्ति शामीलान् पार्णान् वा॥१६॥**
परिधीन् -
“बाहुमात्राः परिधय सृजवः सत्वक्षोऽव्रणाः।
त्रयोभवन्त्यशीर्णाग्रा एकेषान्तु चतुर्दिशम्”।
इति कर्मप्रदीपोक्तलक्षणसंख्याकान्, एके आचार्य्याःकुर्वन्तिपरिस्तरणार्थम। तानेव विशिनष्टि। शामीलान् शमीमयान्,तद्सम्भवे पार्णान् पलाशमयान् वा। परिधीनां विन्यासप्रकारमाह कर्मप्रदीपः।
“प्रागग्रावभितः पश्चादुद्गग्रमथापरम्।
न्यसेत् परिधिमन्यश्चेदुद्गग्रः स पूर्वतः”।
इति। त इमे परिधयो गृह्याकर्मसु न करणीयाः। कुशाद्यभावेऽप्युदकाञ्जलिभिरेव तत्र परिधिकृत्यं निर्वर्त्यते। तथाच गृह्यासंग्रहः।
“परिधीस्तु न कुर्वीत गृह्याकर्मसु याज्ञिकः।
उदकाञ्जलयस्तिस्रस्ते वै परिधयः स्मृताः”॥
इति॥२६॥०॥
उत्तरतोऽपां पूर्णः सुवः प्रणीता॥१७॥
उत्तरतः उत्तरस्यां दिश्यग्नेरपाम् उदकेन पूर्णः सम्भूतः स्रुवोयथोक्तलक्षणः प्रणीता भवति। तदनेन संस्कारविशेषादाप एवाभिधीयन्ते। ताभिश्च पर्य्यु्क्षणपवित्रमार्जनादय उदकार्थाः कर्त्तव्याः इत्यभिप्रायः।“प्रणीताभिरुदकार्थः कार्य्यः" इति च गृह्यान्तरम्।
भावे न वा स्यादित्येके॥१८॥
भावः सत्तेत्यनर्थान्तरम्। भावे अन्यस्य महतःपात्रस्य, अनन्तरोक्तः स्रुवः स्याद्वाअदृष्टार्थम्, न वा स्यात्इत्येकेआचार्य्यामन्यन्ते। सेयं विहितप्रतिषिद्धा प्रणीता गृह्याकर्मसु नोपकल्पयितव्या। कुतः ?
“विहितप्रतिषिद्धाञ्च प्रणीतां नोपकल्पयेत् ”
इति गृह्यासंग्रहोक्तेः॥१८॥०॥
वर्हिषि स्थालीपाकमासाद्येध्ममभ्याधायाज्यँसंस्कुरुते॥१९॥
व
र्हिषि आस्तृते, स्थालीपाकं चरुम् आसाद्य स्थापयित्वा, इध्मंयथोक्तलक्षणम् अभ्याधाय,
“इध्मोऽप्येधार्थमेवाग्नेर्हविराजतिषु स्मृतः”।
इति कर्मप्रदीपदर्शनात्,
“इध्मः सन्नहनादानं चरुश्रपणमेवच।
तूष्णीमेतानि कुर्वीत समस्तञ्चेध्मामाददेत्”।
इति गृह्यासंग्रहवचनाच्च अमन्त्रकमग्नौ प्रक्षिष्य अन्यत्राङ्ग होमादिभ्यः। इज्यते अनेनेत्याज्यं संस्कुरुते वक्ष्यमाणेन विधिना।॥१९॥०॥
किन्तदाज्यम्? इत्यत आह,-
सर्पिस्तैलंदधिपयोयवागूं वा॥२०॥
सर्पिर्धृतम्। अयं तावन्मुख्यः कल्पः। तदलाभे तैलं तिलस्नेहम्।तदसम्भवे दधि। तदभावे पयः क्षीरम्। तस्याप्यालाभे यवागूं वा।संस्कुरुतेइति प्रतिपदं सम्बध्यते। सर्व्वमेतदाज्यमुच्यते, इत्यभिप्रायः। तदाह गृह्यासंग्रहः।
“अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा।
चतुर्भिरेव यत् पूतं तदाज्यमितरद्घृतम्।
घृतं वा यदि वा तैलं पयो वा यदि यावकम्।
आज्यस्थाने नियुक्तानामाज्यशब्दोविधीयते”।
इति॥२०॥०॥
तत एव वर्हिषः प्रादेशमात्रे पवित्रे कुरुते॥ २१॥
ततस्तस्मादास्तीर्णशेषादेव वर्हिषः सकाशात्,- इति अन्यद्
वर्हिरास्तृतं व्यवच्छिद्यते। यस्मादेव वर्हिषःकुशमादाय आस्तरणंकृतं, तस्मादेव वर्हिषः, इत्यर्थः। अन्ये वाः, तत एव स्तृतादेव वर्हिषः इति। तदसङ्गतम्। कस्मात्? उच्यते। न खल्वेतत्सम्भवति एकमेव वर्हिः स्तरणाय च पवित्रकरणाय च इति। न खल्वेकैव कुक्कुटीरन्धनाय च कल्प्यते प्रसवाय च!। न चैकत्रविनियुक्तानां वर्हिषामसति विशेषवचने अन्यत्र विनियोगः शक्यतेवक्तुम्। इदमेव विशेषवचनम् इति चेत्। न, प्रमाणाभावात्।नास्ति अत्र किञ्चित् प्रमाणं भवदभिमत एवार्थोऽस्यवचनस्य इति।अन्यथा खल्वेतदस्माभिर्व्याग्व्यातम्। अस्ति च विनियुक्तशेषं वर्हिरितितदेव ग्रहीतुमुचितम्। तथा चोक्तम्। “विरोधे च श्रुतिविशेषादव्यतः शेषे” इति। ततो विस्तीर्णशेषादिति च भट्टभाभ्यम्।
प्रादेशमात्रे विस्तृततर्ज्जन्यङ्गुष्ठप्रमाणे। प्रमाणार्थे मात्रट्। पवित्रेकुरुते। द्विवचनं दलापेक्षम्।प्रादेशमात्रस्य वर्हिर्द्वयस्यखल्वत्र
पवित्रीकरणमुपदिश्यते। न हि द्विदलपवित्रस्य द्वित्वं शक्यते वक्तुम्।‘वर्हिषः प्रादेशमात्रे’ इत्यभिधानात्। तथाच कर्मप्रदीपः।
“अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेवच।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्।
एतदेव हि पिञ्जुल्या लक्षणं समुदाहृतम्।
आज्यस्योत्पवनार्थंयत्तदप्येतावदेव तु”।
इति आज्यस्यत्पवनार्थं द्विदलमेव पवित्रमाह। “समावप्रच्छिन्नाग्रौदर्भौप्रादेशमात्रौपवित्रे करोति”- इति च ब्राह्मणम्॥११॥०॥
** ओषधिमन्तर्धाय च्छिनत्ति न नखेन पवित्रे स्थोवैष्णव्याविति॥२२॥**
औषधिं व्रीह्यादिकम् अन्तर्धाय अन्तरा कृत्वा, ‘पवित्रे स्थोवैष्णव्यौ’ इत्यनेन मन्त्रेण च्छिनत्ति वृश्चति। न नखेन नकरजेन, इति श्रोषध्यन्यदप्यन्तर्धाय च्चिनत्ति, इति दर्शयति॥२२॥०॥
** अथैने अद्भिरनुमार्ष्टि, विष्णोर्म्मनसा पृते स्थ इति॥ २३॥**
अथानन्तरमेवाविमुञ्चन् एने पवित्रे अभिः प्रणीताद्भिरनुमार्ष्टिसव्यहस्तेन मूलप्रदेशे गृहीत्वा दक्षिणहसेनानुसृजेत् विष्णोर्मनसा पूते स्थः इत्यनेन मन्त्रेण॥२३॥०॥
सम्पूयोत्पुनात्युदगग्राभ्यां पवित्राभ्याम्॥२४॥
प्रकृतत्वादाज्यं, सम्पूय–
“पवित्रमन्तरा कृत्वा स्याल्यामाज्यं समावपेत्।
एतत् सम्पूयनं नाम पश्चादुत्पवनं स्मृतम्”।
इत्युक्तक्रमेणआज्यस्थाल्याम् -
“आज्यस्थाली चकर्त्तव्या तैजसद्रव्यसम्भवा।
महीमयीवा कर्त्तव्या सर्व्वास्वाज्याहुतिषु च॥
आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत्।
सुदृढ़ामव्रणां भद्रामाज्यस्थालींप्रचक्षते”॥
इति कर्मप्रदीपोक्तलक्षणायां निधाय। मक्षिकादिकमपनीय,-
इति सरला। उद्गग्राभ्यां पवित्राभ्यां पवित्रघटकदलाभ्याम्, इत्यर्थः। उत्पुनाति ऊर्द्धं शोधयति॥२४॥०॥
कथम् उत्पुनाति? तदुच्यते -
** अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गलिभ्यामभिसंगृह्य प्राक्शस्त्रिरुत्पुनाति, - देवस्त्वा सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्य्यस्य रश्मिभिरिति सकृद् यजुषा द्विस्तूष्णीम्॥२५॥**
अङ्गुष्ठाभ्याम्– इत्येवमादिद्विवचनं पाणिदयार्थम्। अङ्गुष्ठाभ्यामुपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्याम् अभिसंगृह्य प्रकृतत्वात् पवित्रेगृहीत्वा। मूलदेशस्य सव्यहस्तेन पूर्व्वमेव धृतत्वात् अग्रे दक्षिणहस्ता नामिकाङ्गुष्ठाभ्यां मूले च वामहस्तानामिकाङ्गुष्ठाभ्यां गृहीत्वा, अन्तयोर्गृहीत्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम्” इति गृह्यान्तरदर्शनात् कुशपत्रयोरुद्गग्रत्वानुरोधात् उत्पवनस्य सौकर्य्यार्थञ्च दक्षिणहस्तोपरिभावेनाधोमुखव्यस्तपाणिरिति भवदेव भट्टादयः। प्राक्शः प्राग्गतं यथा भवति तथा त्रिः वारत्रयम् उत्पुनाति आज्यमग्नौनिःक्षिपति। त्रिरित्येतद्विशिनष्टि, ‘देवस्त्वा’ इत्यनेन इतिकरणान्तेन यजुषा सकृदेकवारं, तूष्णीम् अमन्त्रकञ्चद्विवरद्वयम्॥२५॥०॥
अथैने अद्भिरभ्युक्ष्याग्नावप्युत्सृजेत्॥२६॥
अथानन्तरमेवाविमुञ्चन्नेने पवित्रे सव्येन गृहीत्वा दक्षिणेन
प्रणीताद्भिरभ्युक्ष्य दक्षिणेनैव अग्नौ अप्युत्सृजेत् त्यजेत्। अपिरुपसर्गः॥२६॥०॥
अथैतदाज्यमधिश्रित्योदगुद्वासयेत्॥२७॥
अथानन्तरम् एतदनन्तरोक्तं सर्पिरादिरूपमाज्यम् अधिश्रित्यअग्नेरुपरि कृत्वा उदगुत्तरस्याम् अग्नेः, उद्वासयेत् स्थापयेत्। आज्यमिति योग्यत्वादाज्यपात्रम्इत्यर्थः। तदनेन आज्यपात्रमपिसंस्कृियते इति; सकृत् संस्कृताज्यपात्रे यदाज्यान्तरं निःक्षिप्यते, न तत्र संस्कारान्तरापेक्षा तदाह गृह्यासंग्रहः।
“यथा सिमन्तिनीनारी पूर्व्वगर्भिण संस्कृता।
एवमाज्यस्य संस्कारः संस्कारविधिचोदितः॥
आज्यस्य हविषां चैव आज्ये पूर्व्वक्रियाविधिः।
तस्यसंपवनंपूर्वं चरोःपर्युक्षणं परम्”॥
इति। अत्र च घृततैलपयसामधिश्रयणं कुर्य्यान्न दध्नः यवाग्वास्तु विकल्पः, इति भट्टनारायणः। आचार्यपुत्रस्त्वाह गृह्यासंग्रहे।
“आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते।
अनधिश्रयणं दध्नः शेषाणां श्रयणं स्मृतम् ”॥
इति॥२७॥०॥
एवमाज्यस्य सँ्स्करणकल्पो भवतीति॥२८॥
एवम् अनेन प्रकारेण आज्यस्य संस्करणकल्पो भवति, यत्रयत्राज्यं संस्कृियते तत्र तत्रैवं कर्त्तव्यम् - इत्यभिप्रायः। इतिः
खण्डिकापरिममाप्त्यर्थः स्रुवादिसंस्कारसमुच्चयार्थोवातथाच्चगृह्यान्तरम्। “स्रुवं प्रतप्य दर्भेःसंमृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात्” इति। कर्मप्रदीपोऽप्याह।
“तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गो जुहूषता।
प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा”।
इति॥२८॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयग्गृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य सप्तमीखण्डिका॥ ०॥
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके अष्टमी खण्डिका।
** पूर्व्वमाज्यमपरः स्थालीपाकः॥१॥**
पूर्व्वापरदेशत्वादनयोरपि पूर्व्वापरव्यपदेशः। पूर्व्वस्याम् आज्यम् आसादयितव्यम्, अपरस्याञ्च स्थालीपाकः आसादयितव्यः इतिवाक्यशेषः। पूर्व्वं खल्वेग्नेरुत्तरतः समासादितयोरनयोरिदानींक्रियासौकर्य्यार्थमग्नेःपश्चिमतः पूर्व्वापरभावेन समासादनम्। इति बोद्धव्यम्। तथाच गृह्यान्तरम्। “होत्रग्न्योरन्तराज्यहविषी आसादयेत् पूर्व्वं चाज्यम्”इति। इदानीं हविषः पश्चिमतः समासादनादेव वक्ष्यत्याचार्य्यः, “अथैतद्धविरुच्छिष्टमुदगुद्वास्य”इति॥१॥०॥
** पर्य्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणोनोपघातँ होतुमेवोपक्रमते॥२॥**
अदितेऽनुमन्यस्व,- इत्येवमादिना अग्निं पर्युक्ष्य स्थालीपाके चरौ आज्यम् आनीय प्रक्षिप्य। “स्रुवमात्रमनादेशे” इति वचनांत्स्रुवमात्रमाज्यं चरौ प्रक्षियेत्यर्थः। मेक्षणेन यथोक्तेन उपघातम्- उपघातनामा यथा भवति होमः तथा होतुमेव उपक्रमते प्रारभते।
विध्यर्थे लट्। प्रारभेत – इत्यर्थः। उपघातं होतुम्, उपघातनामानंहोमं कर्तुम्– इति वा व्याख्येयम्। अन्ये त्वाहुः। उपहत्यावदाय होतुमेवोपक्रमते इति। एवशब्दोऽवधारणार्थः। होतुमेवोपक्रमते, नान्यत् किञ्चिदभिघारणादिकं कुर्य्यादित्यर्थः। “चरावाज्यमानीयप्रपदविरूपाक्षौजपित्वा समिधमादाय जुहुयादेव" इति भट्टभाष्यम्। तदनेनोपघातहोमे अभिघारणादिकम् आज्यभागौचन भवतीति सूचयति।
द्विविधः किल होमो याज्ञिकप्रसिद्धः, उपघातः उपस्तीर्णाभिघारितञ्च। चरावाज्यंनिःक्षिप्य विनैव अभिघारणादिकंयद्धूयते, स उपघातः यच्च स्रुचि स्रुवेणाज्येन अभिघार्य्य चरुमवदायपुनराज्येनाभिघार्य्य डूयते, तदुपस्तीर्णाभिधारितमित्याख्यायते।स्रुवेण स्रुचि यदाज्यं प्रथमं गृह्यते तदुपस्तीर्णं; हविरवदायानन्तरं यदाज्यं दीयते तदभिघारितम् इति ध्यपदिश्यते। यथोपस्तीभिधारितं होतव्यं तदुपरिष्टाड्युत्पादयिष्यति, यथोपघातहोमस्तदत्र सूच्यते। तथाच गृह्यासंग्रहः।
“पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः।
हूयते चानुपस्तीर्य्य उपघातः सउच्चते।
यद्युपघातं जुहूयाच्चगवाज्यं समावपेत्।
मेक्षणेन तु होतव्यं नाज्यभागौ न स्विष्टकृत्”।
इति।तदेवम्, उपघातः—इति पारिभाषिको संज्ञा होम विषेशस्य। तस्मात्– हिंसार्थाच्चैककर्मकादितितृतीयाक्तोपपदेन णमा उपधातपदव्युत्पत्तिरप्रामाणिकी। उपघातं जुहुयात् —इत्यादौ
तृतीयान्तोपपदाभावाच्च। स खल्वयमुपघातहोमःसमशनीयचरूपितृयज्ञचर्वोः अन्यत्रापि बहुदेवत्ये चरौ, अन्वष्टक्यचरौ चभवति। तदाह कर्म्मप्रदीपः।
“चरौ समशनीये तु पितृयज्ञचरौ तथा।
होतव्यं मेक्षणेनान्यदुपस्तीर्य्याभिघारितम्”।
इति।
“चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्”।
इति च स्मरणम्। वक्ष्यति चान्वष्टक्ये “कंसे चरू समवदाय मेक्षणेनोपघातं जुहुयात् ” इति।तान्वष्टक्यपितृयज्ञयोःक्षिप्रहोमधर्माःसमशनीयेतु ब्रह्मोपवेशनादितन्त्रधर्मः, इतिभट्टनारायणोपाध्यायाः। एतेन, यत् कश्चिदाह। अभावविकल्पोऽयमुपस्तीर्णाभिघारितहोमा शक्तावुपघात होमः, इति। यच्चापर आह उत्तरसूत्रादेव पूर्व्वसूत्र क्तस्योपघातहोमस्य प्रतिषेधोऽनुमीयते, इति। तदुभयमपि पुरुष प्रेक्षामूलभित्युपेक्षणीयम्।वृषोत्सर्गहोमस्य तु बहुदैवतत्वेऽपि नोपघातत्वम्। तदाह कर्मप्रदीपः।
“एतेभ्य एव जुहुयान्मेक्षणेनानदाय च।
स्रुच्याहुतीश्वरोः पृथक् मिञ्चेदाज्याभिघारितम्”।
इति।
“चतुर्गृहीतं कृत्वाऽऽज्यमाभिर्ऋग्भिः पृथक् पृथक्।
स्वाहाकारावसानाभिर्जुहुयाद्विधिवत् सदा”।
इति च॥२॥०॥
** यद्युवा उपस्तीर्णाभिघारितंजुहुषेत्, आज्यभागावेवप्रथमौजुहुयात्॥३॥**
उ वै– इत्यनर्थफौ निपातौ। यदि उपस्तीर्णाभिधारितंयथोक्तलक्षणं होतुमिच्छेत्, तर्हि आज्यभागावेव प्रथमौ जुहुयात्।एवकारोऽवधारणार्थः।यद्युपस्तीर्णाभिधारितं जुहुषेत्, तदैवआज्यभागौ प्रथमौ जुहुयात् इत्येवमवधियते। तस्मादिमावाज्य भागौ उपघातहोमे न भवतः इति दर्शयति।
भट्टनारायणस्त्वाह, यत्र यत्र ब्रह्मोपवेशनादि, तत्र तत्रोभयोर्विकल्पयोराज्यभागौ प्रथमौ जुहुया देव’ इति। सेयंनिर्वासनिका व्यवस्था कस्मात्? उपस्तीर्णाभिघारितेनानयोराज्यभागयो रेकवाक्यत्वात्। प्रमाणविशेषस्यचाभावात्। यद्युपस्तीर्णाभिघारितं होतुमिच्छेत् आज्यभागौ जुहुयात् इति स्पष्टेकवाक्यता। न खलु भङ्गा वाक्यमन्यत्र कल्पयितमुचितौ। आचार्य्यपुत्रश्च उपघातहोमे साक्षादाज्यभागौ निषिषेध। तच्चोदाहृतमस्माभिः पूर्व्वस्मिन् सूत्रे \। वक्ष्यति चाचार्य्यः’नाज्यभागौ न स्विष्टकृत्’ इति।
केचिदत्र,जुहुषेत् इत्यत्र जुहुयादिति प्रकल्प्य सूत्रद्वयंकल्पयन्ति। तत्र च, यद्युवा उपस्तीर्णाभिधारितं जुहुयात्इत्येकम् आज्यभागावेवप्रथमौ जुहुयात् इति चापरं सूत्रंमन्यन्ते। यद्युवा इत्येतम्य च अथवा इत्यर्थमाचक्षते॥३॥०॥
कथमाज्यभागौ जुहुयात् ? तदुच्यते।
** चतुर्गृहीतमाज्यꣳ गृहीत्वापञ्चावत्तन्तु भृगूणाम्, अग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः प्राक्शोजुहुयात्॥४॥**
चतुगृहीतं चतुःकृत्वो गृहीतम्। केन गृहीतम्? स्रुवेण। कस्मात्? आज्यग्रहणे तस्य गुणत्वात्। कस्मिन् गृहीतम्? स्रुचि। कस्मात्? ‘जुहुःप्रदाने गुणभूता’इति तान्त्रिकसमयात्।“यस्य पर्णमयी जूहुर्भवति न स पापश्लोकं शृणोति, यस्यखादिरौ न सोऽन्नात् परिच्यवते” इति च रौरुकीयसमाम्नायेश्रवणात्। तथा चोक्तम्। “द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः म्यात्” इति। “अनेन गृहीतं जुहा जुहोति"इतिच गृह्यान्तरम्। तदेवं स्रुवेण स्रुचि चतुर्गृहीतमाज्यं गृहीत्व। अश्वालम्भनमालभेत इत्यादिवत् इहापि प्रत्ययार्थमात्रविवक्षा।कृत्वा इत्यर्थः। पञ्चावत्तं पञ्चकृत्वोगृहीतं तु भृगूणाम्, अपत्यप्रत्ययस्य लोपात् भृगोरपत्यानामित्यर्थः। ‘भृगूणां भृगुगोचाणाम्’ इति सरलावृत्तिरप्येतमेवार्थमाह।‘भृगगोत्राणां भार्गवप्रवराणाञ्चइति भवदेवभट्टः। ‘भार्गवप्रवराणाम्’।इति भट्टनारायणापाध्यायः। “पञ्चावदानानि पञ्चर्षियाणाम्” इति गृह्यान्तरम्। स्मरन्ति चापरे।
“जामदग्न्या वसविदावार्ष्टिषेणस्तथेवच।
भार्गवाख्यवना और्व्वाः पञ्चावत्तिन ईरिताः”।
इति। तदस्तु किं विस्तरेण।
सूत्रशेषमिदानीं विव्रियते। तदेवं स्रुचि आज्यं गृहीत्वा
अग्नये स्वाहा इत्यग्रेरुत्तरभागे प्राग्मतं यथा भवति तथा जुहुयात्। एवं तथैव गृहीत्वा, सोमाय स्वाह इत्यग्नेर्दक्षिणभागे प्राग्गतंजुहुयात्। अन्यास्त्वाऽहुतयोऽग्नेर्मध्यभागे होतव्याःइत्यर्थादवगम्यते। वक्ष्यति च आचार्य्यः, “अग्नये स्वाहेति मध्ये जुहुयात्” इति। तथाच सांख्यायनगृह्यम। “उत्तरमाग्नेयं दक्षिणे सौम्यं मध्येऽन्याहुतयः” इति॥४॥०॥
अथहविषउपस्तीर्य्यावद्यति॥५॥
अथानन्तरं हविषश्चरीरवद्यति, अवदाय चरुं गृहातीत्यर्थः। किं कृत्वा? उपस्तीर्य्य प्रकृतत्वादाज्य स्रुवेणप्लाव्य, स्रुचम् इत्यर्थात्॥५॥०॥
कथमवद्यति? तदुच्यते;-
** मध्यात् पूर्व्वार्द्धाच्चतुरवत्तीचेद्भवति, मध्यात्पूर्व्वार्द्धवात्पश्चार्द्धदिति पञ्चावत्तौ चेद्भवति॥६॥**
मध्यात् चरोर्मध्यप्रदेशात्। पूर्व्वार्द्धात्, चरोरित्येव। चशब्दश्चसमुच्चयार्थोलुप्तवत् द्रष्टव्यः। मध्यात् पूर्वार्द्धाच्च इत्यर्थः। तथाचगृह्यान्तरम्। “मध्यात् पूर्वार्द्धाच्च हविषोऽवद्यति”इति।चतुरवत्तौ, चत्वार्य्यवदानानि यस्य, सोयं चतुरवत्ती इत्युच्यते।चेद् यदि चतुरवत्तौ भवत्यवदाता, तर्हि चरोर्मध्यात् पूर्वार्द्धाच्चावद्यति इति गतेन संबन्धः। एवं खल्वाज्याभिधारणं चर्व्ववदानद्वयं पुनरभिधारणञ्च इति चत्वार्य्यवदानानि सम्पद्यन्ते। यदिपुनः पञ्चावती भवत्यवदाता, तदा चरोर्मध्यात् पूर्वार्द्धात् पश्चार्द्धात्– पश्चिमार्द्धाच्च अवद्यतीत्यर्थः। इतिशब्दः चशब्दार्थः समुच्चये।इति एवम् अवदानम् –इति वा व्याख्येयम्। मध्यात्, इत्यत्रमध्यमादिति केचित् पठन्ति। तत्रापि मध्यमस्थानादित्यर्थो नभिद्यते॥६॥०॥
अभिघारयत्यवदानानि॥७॥
अभिधारयत्याज्यस्रुवेणाप्लावयति अवदानानि यथाश्रुति गृहीतानि। बहुवचनं व्यक्तिभेदापेक्षया, वक्ष्यमाणत्रिर्होमपक्षापेक्षया वा॥७॥०॥
प्रत्यनक्त्यवदानस्थानान्ययातयामतायै॥८॥
अवदानानां स्थानान्यवदानस्थानानि। यस्मात् प्रदेशादवद्यतेतदवदानस्थानम्। तान्यवदानस्थानानि मेक्षणक्षतस्थानानीत्यर्थः। बहुवचनं पूर्ववद्वर्णनीयम्। तानि खल्ववदानस्थानानि प्रति, अनक्तिअक्तानि करोतिआअज्यस्रुवेणाप्लावयतीत्येतत्। किमर्थमनक्ति? अयातयामतायै। यागायोग्यता यातयामतेत्युच्यते। न यातयामता अयातयामता, तस्यै। एतदुक्तं भवति। मेक्षषणाक्षतेन यातयामताचरोरुत्पद्यते, आज्याप्लावनेन पुनरयातयामता तस्य भवतिइति।अयातयामतायाः, इति पाठे, फलमपि हेतुरित्युक्तेर्हेतौपञ्चमी द्रष्टव्या॥८॥०॥
एवं खल्ववदाय,—
अग्नये स्वाहेति मध्ये जुहुयात्॥९॥
मध्ये अग्नेरेव॥९॥०॥
कति जुहुयात् ? उच्यते,—
सकृदा त्रिर्वैतेन कल्पेन॥ १०॥
एतेन कल्पेनानन्तरोक्तया आवृता, इत्यादरार्थमुक्तम्। सकृदा त्रिर्वाजुहुयात्। वाशब्द द्वयं तुल्यवद्विकल्पार्थम्। त्रित्वपक्षेच, “एका देया तिस्रो देयाः”इत्यादिवत् ओयमो भूयस्त्वं कन्पयितव्यम्। अन्ये, त्वाहुः,अभावविकल्पोऽयम्, त्रित्वपक्षाशक्तौ सकृत्, इति॥१०॥०॥
** अथ स्विष्टकृत उपस्तीर्य्यावद्यत्युत्तरार्द्धपूर्व्वार्द्धात्सकृदेव भूयिष्ठं, द्विरभिघारयेत्॥११॥**
“प्राक् स्विष्टकृत आवापः”इति वचनात् अथ प्रधानहोमामन्तरं स्विष्टकृतोऽवद्यति स्विष्टकृदर्थमवद्यति। किं कृत्वा? उपस्तीर्य आज्यस्रुवेण स्रुचमाप्लाव्य। कथमवद्यति चरोरुत्तरार्द्धपूर्वार्द्धात्। उत्तरार्धश्चपूर्वार्द्धश्च तस्मात्। अपराजिताया दिशःइत्येतत्। दिगन्तरालानि खलु दिशोर्दिशोर्लक्षणसाङ्कर्य्यात्पदार्थतत्त्वनिपुणा व्यवहरन्ति। तथा चोक्तम्। “तथा दिगन्तरालानि”इति। अर्द्धशब्दः खल्वत्र विषमांशवाची। अपराजिता यादिशश्चेदवद्यते, तर्हि उत्तरार्द्रदप्यवद्यते पूर्वार्द्धादपि इति शक्यते वक्तुम्। तस्मादपराजिताया दिशःसकृदेकवारमेव भूयिष्ठंबहुतरमवद्यति। अवद्य च द्विरभिधारयेत् वारद्वयमाज्स्रुवेणाप्लावयेत्। एवं किल चत्वार्य्यवदानानि सम्पद्यन्ते॥११॥०॥
यद्युपञ्चावत्तीस्यात् द्विरुपस्थीर्थ्यावदायद्विरभिघारयेत्॥१२॥
उ—इत्यनर्थको निपातः। यदि पञ्चावती भवेत्, तर्हि द्विराप्लाव्यअवदाय पुनर्द्विराप्लावयेत् पञ्चावदानसम्पत्त्यर्थम्। यद्यु वा—इतिपाठे, उ वा—इति निपातौ, यद्युवा —इति वा निपातसमुदायोयद्यर्थः॥१२॥०॥
न प्रत्यनक्त्यवदानस्थानँयातयामतायै॥१३॥
स्विष्टकृतोऽद्य च अवदानस्थानं यातयामतायै यातयामतानिवृत्तये न प्रत्यनक्तिनाज्यस्रुवेणाप्लावयति। कुतः? स्विष्टकृद्धोमानन्तरं तेन चरुणा होमान्तराभावात्, होमार्थमेव चाप्लावनस्यविहितत्वात्। तस्मादिदानींयातयामतायामपि नास्ति क्षतिरितिनप्रत्यक्तव्यमवदानस्थानम् इत्यभिप्रायः। तदत्र यातयामतायै इति निवृत्तौ तदर्थे चतुर्थी बोद्धव्या।
यातयामतायाः– इति पाठेऽपि यातयामतां निर्वर्तयितुम् इतिसएवार्थः। अथवा यातयामताया इति हेतौ पञ्चमी। हेतोर्व्वचनात् यत्रायातयामता दूष्यते तत्रावदानस्थानं प्रत्यनक्ति,इदानींन्तु सानेष्यते इति न प्रत्यनक्त्यवदानस्थानम् इति॥१३॥०॥
अग्नये स्विष्टकृते स्वाहेत्युत्तरार्द्धपूर्वार्द्धे जुहुयात्॥१४॥
उत्तरार्द्धपूर्वार्द्धे अग्नेरेव। कृतभाष्यमन्यत्॥१४॥०॥
महाव्याहृतिभिराज्येनाभिजुहुयात्॥१५॥
भूर्भुवः स्वरितिमहाव्याहतयस्तिस्रःप्रसिद्धाः। कर्माप्रदीपोऽप्याह।
“भूराद्यास्तिस्रएवैता महाव्याहृतयोऽव्ययाः”।
इति। ताभिर्महाव्याहृतिभिस्तिसृभिराज्येन, द्रवद्रव्यकत्वात्स्रुवेण अभिजुहुयात् आहुतित्रयम्।अभिरूपसर्गः। स खल्वयं महाव्याहृतिहोमः चरुहोमात् परस्तात् एव कर्त्तव्यः न तु पुरस्तादपि। कस्मात्? इदानीमेवोपदेशात्। आज्यहोमात्तु पुरस्तात् परस्ताच्च कर्त्तव्यः, इत्युपरिष्टाद्वक्षति॥१५॥०॥
प्राक् स्विष्टकृत आवापः॥१६॥
प्राक् पूर्व स्विष्टकृतःस्विष्टकृद्धोमात्, आउप्यते इत्यावापःप्रधानहोमः कर्त्तव्यः इति सूत्रशेषः। एवञ्च मुख्यहोमे त्वकृतेयदि चरुर्नष्टो दुष्टो वा भवति तदाऽन्यः पाच्यः, मुख्ये कृतेचेन्नाशदुष्टी स्यातां तदा आज्येनैव स्विष्टकृद्धोमः इति सरला।
अत्र ब्रूमः।अर्थकर्मत्वे स्विष्टकृद्धोमस्य तत्र च शेषस्य प्रतिपादने सत्येतदेवं स्यात्। न त्वेवम्।कुतः? “एकदेशद्रव्यश्चोत्पत्तौ विद्यमानसंयोगात्” इति सिद्धान्तात् स्विष्टकद्धोमस्यप्रतिपत्तित्वात्। प्रतिपत्तेश्च प्रतिपाद्याभावे लोप एव आकरेनिरूपितः। यजतित्वेऽपि स्विष्टकृतः प्रस्तरप्रहरणवत् प्रतिपत्तित्वं नविरुध्यते। शेषश्रुतिश्च न शेषिणं प्रयोजयति। न चेत्शेषिणं प्रयोजयति; न तरां तत्प्रतिनिधिमपि। शेषप्रतिनिधिं तर्हि प्रयोजयतु? न इति ब्रूमः।कस्मात्? विद्यमानसंयोगादेवन खल्वेतत् शेषमपि प्रयोजयितुंशक्नोति, प्रतिपत्तेः न प्रतिपाद्यप्रयोजकतायामसामर्थ्यात्। सति प्रतिपाद्ये खल्वियंप्रवर्त्तते। अन्यथा अर्थकर्मणः प्रतिपत्तेर्विशेषो न स्यात्।
तस्मात् यथा,–सर्व्वावदानेन शेषाभावात् ध्रौवाज्यात् स्विष्टकृदिड़ं नेज्यते साकंप्रस्थाय्ये च तद्वदत्रापि शेषापचारे शेषाभावस्याविशेषात् स्विष्टकृन्न यष्टव्यो भवति। अतएव, मुख्यमात्रोपयोगिन्यपि व्रीह्यादौ सति तदेवादेयं तत्र लोपएव शेषकार्य्याणांस्विष्टकृदादीनाम्, न तु तनिष्पादनसमर्थमपि नीवारादिकम्–इति सिद्धान्तः। अतएव च–स्विष्टकृदर्थमवत्तस्य हविषोऽपचारे नपुनरवदातव्यम्, अपि तु प्रतिपाद्यमानाभावात् लोप एवस्विष्टकृतःस्यात् इति षष्ठाध्याये निरूपितम्। तथा चोक्तम्। “अपि वा शेषभाजां स्यात् विशिष्टकारणत्वात्”इति। कथमन्यथा तत्रापि अन्यत् न प्रतिनिधीयते !। एवं खल्वाचार्य्याणांलोपवचनं प्रलापमात्रं स्यात्। तस्मान्न किञ्चिदेतत्।
मुख्यहोमार्थमवत्ते च हविषि नष्टे दुष्टे वा खल्वाज्येन होतव्यं न पुनरवदातव्यं, न वा अन्यत् पाच्यम्। कुतः?“निर्देशाद्वाअन्यदागमयेत्” इति सिद्धान्तात्।“यस्य सर्वाणि हवींषि नभ्येयुर्दुष्येयुर्व्वा अपहरेयुर्व्वा, आज्येन ता देवताः परिसंख्याय यजेरन्” इति च हविषोनाशे आज्यविधानात्। “तत्र सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वात् नाशमात्रे सर्वत्राज्यस्यविधिः” इत्यधिकरणमालायां माधवाचार्य्याः।
याश्च प्रायश्चित्ताहुतयस्ता अपि स्विष्टकृद्धोमादर्वागेव होतव्याः –
इत्येके मन्यन्ते। तदसङ्गतम्। तासामप्रधानत्वात्। आगन्तुकानामन्तएवाभिनिवेशस्य न्याय्यत्वाच्च। आगन्तुकाः खल्पेताआहुतयः प्रायश्चित्तरूपत्वात्। प्रायश्चित्ताहुतयो हि प्रकृतहोमवैगुण्यदोषोपशमनाय विधीयन्ते, इति प्रकृतहोमात् परत एवहोतुमुचिताः। महाव्या हृतिहोमान्तेनैव हि प्रकृतहोमनिष्पत्तिः।तस्मात् महाव्याहृतिहोमं कृत्वा कर्मापवर्गविहितां समिधमाधायप्रायश्चित्ताहतयो होतव्याः। ताः खल्वेताःहविषोऽनादेशादाज्येन आज्यतन्त्रेण हूयन्ते।
स खल्वयं प्रायश्चित्तहोमः,व्यस्तसमस्तमहाव्याहृतिभिर्वा,अज्ञातम्इत्यादिमन्त्रेण वा प्राजापत्यमन्त्रेण वा कर्त्तव्यः।कुतः? “तस्मादेतामेव जुहुयात् अपिवाऽज्ञातं यदनाज्ञातम्” इत्यवमादिकायां श्रुतौ विकल्पोपदेशात्। व्यक्तमाह कर्मप्रदीपः।
“यत्र व्याहृतिभिर्होमःप्रायश्चित्तात्मको भवेत्।
चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा॥
अपिवाऽज्ञातमित्येषा प्राजापत्याऽपिवाऽऽहुतिः।
होतव्या, त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः”॥
इति। तदत्र त्रिविकल्पःइत्यनेन कल्पान्तरस्य प्रतिषेधोऽव गम्यते। केचित् पुनरत्र, “पाहि नोऽग्नएनसे स्वाहा”–
इत्यादिकं प्रायश्चित्तहोममाचक्षते। तदसारम्। इह तस्यानुपदेज्ञात्। ‘यदपि भाष्यायनकं कुग्रन्थान्तरमपपाठभृतमधीयते। तदप्यप्रमाणम्। अनार्षत्वात्। परिशिष्टमध्यान्तःपातित्वासम्भवाच्च’, इतिभट्टनारायणोपाध्यायाः। शाट्यायनहोमस्य समूलत्वेऽपि शाख्यन्तरीयत्वम्–
इति तत्वकारः। शाट्यायनपठितोहोमः शाट्यायनिनां स्यात् न कौथुमादीनामिति युक्तमस्य शाख्यन्तरीयत्वम्।कौथुमादीनान्तु कर्मप्रदीपोक्त एव प्रकार इति नैवात्रकिञ्चिद्वक्तव्यमस्ति।
एतत् सर्व्वप्रायश्चित्तं क्षिप्रहोमवर्ज्जंसर्वत्रैव स्यात् –
इति भट्टभाष्यम्। श्रुतिश्चात्र भवति। “यच्चावगतं यच्चानवगतं सर्वस्यैषैव प्रायश्चित्तिः” इति॥१६॥०॥
** गणेष्टेेेकं परिसमूहनमिध्मो वर्हिः पर्युक्षणमाज्यमाज्यभागौ च॥१७॥**
गणेषु एकदा क्रियमाणेषु अनेकहोमेषु एकं परिसमूहनम्।एकशब्दः परस्तादपि प्रत्येक मनुषञ्जनीयः। अनेनैव सूत्रशेषोव्याख्यातः। प्रत्येकं तन्त्रविधाने प्राप्ते यानि तन्त्रेण कर्तुंशक्यन्ते, तेषां तन्त्रभाव इहोपदिश्यते। परिकीर्त्तनञ्च परिसमूहनादिनामुदाहरणपञ्चार्थे। न परिमख्यानार्थम्। तेन उल्लूखलमुषलादिकमपि एकमेव भवतीति द्रष्टव्यम्। गणेषु इति सामान्यतोऽभिधानात् विभिन्नदेवताकेष्वपि होमेषु एकदा क्रियमाणेषु एकमेवपरिसमूहनादिकम् इत्यवगम्यते। तथाच गृह्यान्तरम्।
“पाकयज्ञान् समासाद्य एकाज्यानेकवर्हिषः।
एकस्विष्टकृतः कुर्य्यान्नानाऽपि सति दैवते”॥
इति॥१७॥०॥
** सर्व्वेभ्यः समवदाय सकृदेव सौविष्टकृतं जुहोति॥१८॥**
** **गणेषु–
इत्येव। ऋजुरक्षरार्थः। सकृदेकवारं न पृथक् पृथगित्यभिप्रायः। उपलक्षणमेतत् महाव्याहृत्याद्यपि सकृदेव भवति–
इति सरला॥१८॥०॥
हुत्वैतन्मेक्षणमनुप्रहरेत्॥१९॥
एतत् इति सन्निकर्षातिशयात् सौविष्टकृतं ब्रूमः। एतत् सौविष्टकृतं हुत्वा मेक्षणमनुप्रहरेत् अग्नौ क्षिपेत्। सेयं कर्मार्थस्य मेक्षणम्य अनन्तरमेव कर्मणःप्रतिपत्तिराम्नाता। अन्ये त्वाहुः, हुवेति वचनात् महाव्याहृतिभिरपि हुत्वा मेक्षणमनुप्रहरेत् न स्विष्टकृद्धोमादनन्तरमेव इति। स खल्वयं मेक्षणप्रक्षेपःअन्यब्रह्मकेषु होमेषु प्रतेतव्यः। कुतः? अत्र चरुशेषस्य तस्मै प्रतिपादयितव्यत्वस्यवक्ष्यमाणत्वात् अन्यत्र च मेक्षणेनैवोद्धृत्यतद्भोजनस्यसूत्रणात्। न चानुप्रहृतेन मेक्षणेनोद्धरणं शक्यं कर्तुम्। तस्माद्यथोक्त एवार्थः। यद्यप्यनुप्रहरतिर्यजतिवचनो दृष्टः,अष्टावष्टौशकलान्याहवनीयेऽनुप्रहरेयुः इति सुत्रकारवचनात्। तथापि प्रस्तरप्रहरणवत् प्रतिपत्तिरेवासौ॥१९॥०॥
प्रक्षाल्य वैनेनोद्धृत्य भुञ्जीत॥२०॥
प्रक्षाल्य वा मेक्षणम्, एनेन एतेन मेक्षणेनोद्धृत्य चरुशेषंभुञ्जीत यजमानः। एनः प्रकृत्यरमेतदर्थः। एतेन इति वा पाठः। अन्ये पुनर्–
एनं प्रकृत्यन्तरमविद्वांसो भाषन्ते, प्रक्षाल्य वाऽनेन, इति पाठे प्राप्ते छान्दसोऽयं प्रयोगः,इति। यत्र हौत्रं ब्रह्मत्वञ्चोभयमपि स्वयमेव करोति, सोऽस्य विषयः। यत्र च अन्यो ब्रह्मा भवति, तत्र वक्ष्यति,–
अथैतद्धविरुच्छिष्टम् –
इत्यादि॥२०॥०॥
न स्रुवमनुप्रहरेदित्येक आहुः॥२१॥
सुवमग्नौ न क्षिपेदित्येके आचार्य्या वदन्ति। अस्मादेवावगम्यते, स्रुवमग्नौ क्षिपेत् इत्यन्ये वदन्ति इति। तस्मात् स्रुवमग्रौ क्षिपेद्वान वां क्षिपेदिति विकल्पः॥२१॥
** आग्नेय एवानाहिताग्नेरुभयोदैर्शपौर्णमासयोः स्थालीपाकः स्यात्॥२२॥**
अनाहिताग्निः श्रौताग्निरहितः स्मार्त्ताग्निरित्येतत्। ऋज्वन्यत्॥२२॥०॥
** आग्नेयोवाऽग्नीषोमीयोवाऽऽहिताग्नेःपौर्णमास्याम्॥२३॥**
ऋज्वर्थं सूत्रम्॥२३॥०॥
** ऐन्द्रो वैन्द्राग्नोवा माहेन्द्रोवाअमावस्यायाम्॥२४॥**
** **आहिताग्रेरेव। ऋजुरक्षारार्थः। अत्रैके विनिवेशविकल्पमाहुः, चैन्द्रमाहेन्द्रौ सोमयाजिनः, चैन्द्राग्नस्त्वमोमयाजिनः। तत्रापि एकेनदृष्टवत ऐन्द्रो बहुभिरिष्टवतो माहेन्द्रःइति। अन्ये तुइच्छाविकल्पमाहुः॥२४॥०॥
** अपिवाऽऽहिताग्नेरप्युभयोर्दशैपौर्णमासयोराग्नेय एवस्यात्॥२५॥**
** **ऋज्वर्थम्॥२५॥०॥
** समिधमाधायानुपर्य्युक्ष्य यज्ञवास्तु करोति॥२६॥**
समिधमाधायानुपर्युक्षेत्युक्तार्थम्। तदिदमभिधानं क्रमार्थंभवति। कथन्नाम? समिधमाधायानुपर्युक्ष्य अनन्तरं यज्ञवास्तु एतन्नामकं कर्म करोति॥२६॥०॥
कथं करोति ? उच्यते।
** ततएव वर्हिषः कुशमुष्टिमादायाज्ये वा हविषि वात्रिरवदध्यादग्राणि मध्यानि मूलानीत्यक्तँरिहाणा व्यन्तु वय इति॥२७॥**
ततस्तस्मादास्तृतादेववर्हिषः इति नियमादन्यद्वर्हिर्व्यवच्छिद्यते। शेषादेव वर्हिषःइति कुतो न वर्ण्यते? उच्यते। प्रधानकर्मापवर्गविहितमिदं प्रतिपत्तिरेव भवितुमुचितम्। अमृतानां वर्हिषामिदानौप्रतिपिपादयिषितत्वात्। प्रतिपत्तिप्राये वचनाच्च।व्याख्यातारचैवमेव प्रतिपन्नाः। तत्र वक्ष्यामः। ‘कुशमुष्टिम्’ अनियतसङ्ख्याकम्, आदाय गृहित्वाआज्ये यथोक्तेवा, हविषि चरौवा चिरवदध्यात् वारत्रयमञ्जयेत् अग्राणि मध्धानि मूलानिइति। प्रकृतं कुशमुष्टिम् अग्रादिस्थानत्र्येषु चिरञ्जयेत् एकैकस्थानं प्रत्येकैकम् अञ्जनम् इत्यर्थः। क्रं रिहाणा व्यन्तु वयः इत्यनेनमन्त्रेण वारत्रयं पठितेन। कुतः? प्रधानानुयायित्वात् गुणानाम्।
“कर्मावृत्तौ तु मन्त्रस्याप्यावृत्तिगृह्मकर्म्मणि”।
इति चाभियुक्तवचनात्। यत्र खल्वनावृत्तिरिष्यते मन्त्राणां,प्रायेण तत्रोत्तरत्र तूष्णीमिति करोति, ‘सकृद् यजुषा दिस्तूब्णीम्’ - इत्येवमादौ॥२७॥०॥
अथैनमद्भिरभ्युक्ष्याग्नावप्यर्जयेत्,— यः पशूनामधिपती रुद्रस्तन्तिचरोवृषा पशुनस्माकं माहिँषीरेतदस्तुहुतन्तव स्वाहेति॥२८॥
अथानन्तरमेवाविमुञ्चन्नेनं कुशमुष्टिमद्भिरभ्युच्य अग्नौ अप्यर्जयेत् क्षिपेत् दाहयेद्वा। अपि रूपसर्गः। अपवर्जयेत् इति पाठेऽपि स एवार्थः। यः पशूनाम् इत्यनेन मन्त्रेण॥२८॥०॥
एतद् यज्ञवास्त्वित्याचक्षते॥२९॥
तत एववर्हिषः इत्यारभ्य यदुक्तंतदेतत् कर्म यज्ञवास्तु इत्याचक्षते आचार्य्याः। किमर्थं पुनरिदमुच्यते? उच्यते। यज्ञवास्तुकरोति इत्युक्त, किमिदं यज्ञवास्तु इति न ज्ञायते, तदिदमनेन निगमनेन ज्ञाप्यते। अवचने स्वल्वेतस्य हविः शेषार्पणमपि यज्ञवास्तु इत्याशङ्क्येत। तदिदं प्रतिपत्तिकर्मा।कृतार्थानां वर्हिषामिहविनियोगाम्नानात् इत्याहुः। तेषां, नष्टेषु वर्हिःस्विदं न भवितुमर्हति। कस्मात्? प्रतिपत्तेः प्रतिपाद्य प्रयोजकत्वाभावात्।
ननु यज्ञवास्तु इति समाख्यालभ्यार्थसिद्धयर्थं वर्हिरन्यदुपादीयताम्? अन्यथा खल्ववास्तुर्यज्ञः स्यात्। उच्चते। काममवास्तुर्यज्ञः स्यात्। न प्रतिनिधिः। न खल्वेतदर्थक प्रतिपत्तीनाञ्च प्रतिपाद्याभावे लोपमत्रोचाम। अपिच। एवमप्यवास्तुर्यज्ञः स्यादेव। कुतः? तत एव वर्हिषः कुशमुष्टिमादाय यद्धूयते, तदेतत् यज्ञवास्त्वाचक्षते। तस्मादन्यस्मिन् वर्हिष्युपादीयमानेऽपि न स होमोयज्ञवास्तुर्भवति। समाख्यालभ्यार्थसिद्ध्यर्थम् इति चेत्। इति
चेद्भवान् पश्यति समाख्यालभ्यार्थसिद्धयर्थमन्यदपि वर्हिरुपादेयम्इति। तत्र ब्रूमः। नासामर्थ्यात्। नैतत् सम्भवति। कुतः? तदुच्यते।नैव समाख्या वदति अन्यद्वर्हिरुपादेयम् इति। समाख्यालभ्यार्थसिद्ध्यर्थमनुमीयते खल्वेतत्। प्रत्यक्षन्तु आस्तृतमेव वर्हिः। न च प्रत्यक्षं नियममुपरुध्य आनुमानिकमन्यद्वर्हिः शक्यमुपादातुम्। अनुमानस्य प्रत्यक्षबाधायामसामर्थ्यात्। दुर्बला च समाख्या नबलवत्तरं वाक्यं बाधितुं प्रभवति। नियमः खल्वेवमुपरुध्येत।
अथैवम्, एतद् यज्ञवास्त्वित्याचक्षते इति पुनः सूत्रणमनर्थकम्? इति चेत्। काममनर्थकं भवतु न तु शक्नोत्यन्यद्वदितुम्।सकृदुच्चरितेऽप्यस्य यावानर्थः शतकृत्वोऽप्युच्चारणे तावानेव प्रतीयते,न ततोऽधिकः। समाख्या च पूर्वेणापि वाक्येनावगम्यते इतिभवतामपि पुनः सूत्रणमनर्थकमेव। तदेतत् पुनरुपादानं निगमनरूपम् इत्यभिहितमस्माभिः। तत् कुत एवानर्थक्यमस्य। अवास्तुर्यज्ञः स्यात्? इति चेत्। नैषदोषः। स्मृत्यर्थत्वात् समाख्यायाः। न खल्वियं ‘यज्ञस्य वेश्मभूः। कथन्नाम? एवमयं होमो यदसौ यज्ञवास्तुरिति। प्रत्यक्षन्तु यज्ञस्त्यागो यजमाने वर्त्तते, विष्णुश्च न कस्मिंश्चित्। स्विष्टकृदादिवच्चैतदवगन्तव्यम्।यथाशोभनाभिलत्वितकारित्वस्य समाख्यालभ्यत्वेऽपिप्रतिपत्तिरेवामौ। यथा वा व्यतिरेके निन्दावचनेऽपि तवापि प्रतिपत्तिरेव श्राद्धे शेषभोजनम्। एवमिहापि प्रतिपत्तिरेवैतदित्यविरुद्धम्। स्तुत्यैव केवलप्रतिपत्तित्वमस्य निरम्यते,इति चेत्, श्राद्धशेषभोजनादावपि निरस्यताम्। तथाच तत्राप्यपचारे प्रतिनिधिरापद्येत। न चैवमिष्यते। तथात्वेऽपि वा न प्रतिनिधिः,नियमस्यार्थवत्त्वात्। तथापि किं स्तुतेः प्रयोजनम् ? इति चेत्। अफलायां प्रतिपत्तौ कथं प्रवरतेतइतिप्ररोचनमेव इत्यस्तु किं विस्तरेण। अन्ये तु मन्यन्ते, यद्यप्येतत् प्रतिपत्तिरेव, तथापि एतद् यज्ञवास्त्वित्याचक्षते, इति गुणाथेंपुनरुपादानात् नात्यन्तमिदं प्रतिपत्तिरिति दर्शयति। तस्मादपचारेऽप्यास्तृतानां वर्हिषां समाख्यालभ्यार्थार्थमन्यदपि वर्हिरादाय होतव्यम्। इतरथा अवास्तुर्यज्ञः स्यात् इति।
वयन्तु पश्यामः। नासौ प्रतिपत्तिः, किन्वर्थकमैवैतत्। कुतः? प्रतिपत्तितायां प्रमाणभावात्। यद्यास्तृतमेव वर्हिरिह प्रतिपाद्येत, भवेदियं प्रतिपत्तिः।न तु प्रतिपाद्यते। किन्तु स्तृतशेषाद्वर्हिषः कुशमुष्टरादीयते। कथं ज्ञायते? व्यवहितत्वात् स्तृतस्य वर्हिषः। सन्निहितत्वाच्च स्तृतशेषस्य। निर्देशसामान्याञ्च। किमिदं निर्देशसामान्यम्? उच्यते। “तत एव वर्हिषः प्रादेशमात्रेपवित्रे कुरुते” इति। पूर्वेनिर्दिष्टम्। तत्र च स्तृतशेषादेव वर्हिषः, इतिव्यवस्थापितम्। तद्वदिहापि निर्दिश्यते “ततएव वर्हिषः कुशमुष्टिमादाय” इति। तदिदं निर्देशसामान्यम्। तस्माच्च प्रतिपद्यामहे पूर्व्ववदिहापि स्तृतशेषमेव वर्हिरभिप्रेतम्, इति। ततएव वर्हिषः, इति निर्देशेहि स्तृतशेषमेव वर्हिः पूर्व्ववदिहाप्यागच्छति हृदयम्। आगच्छति चेत्, न युज्यते विना कारणमुतत्स्रष्टुम्।
स्तृतानां वर्हिषामिदानीं प्रतिपिपादयिषितत्वात्, इति चेत्। इति चेत् भवान् पश्यति स्तृतानि वर्हीषि इदानीं प्रतिपिपादयिषितानि। एतस्मात् कारणात् हृदयमागतमपि स्तृतशेषं
वर्हिरुत्सुज्यते,-इति। नैतत्। प्रमाणभावात्। न हि स्तृतानिवर्हीषि इदानीं प्रतिपिपादयिषितानि,– इत्यत्र किञ्चित्प्रमाणमस्ति।प्रतिपत्तिप्राये वचनादिति् चेत्। न। असिद्धेः। कथमसिद्धिः ? आग्नेयादीनामप्रतिपत्तीनां सन्निहिततरत्वात्। किञ्च। प्रतिपत्तिप्राये वचनात् खल्वानुमानिकं प्रतिपत्तित्वं परिचिकल्पयिषितम्। तच्च न्यायविरोधात् विनियुक्तविनियोगापत्तेर्वचनविरोधाच्च नार्हतिभवितुम्। तथाच न्यायः। “विरोधे च श्रुतिविशेषादव्यक्तःशेषे”– इति। तथा गृह्यासंग्रहः।
“स्तृतेभ्यो न प्रचिन्वीयात् यातमामं स्तृतं सृतम्।
स्तृतशेषात्ततो गृह्य यज्ञवास्तुक्रिया तथा”।
इति। तस्मात् स्तृतशेषादेव वर्हिषः कुशमुष्टिमादाय,इतिव्याख्यम्। यज्ञवास्तुक्रियां कृत्वा चाज्येन पूर्णाहुतिर्होतव्या। तदपि स एवानुपदमाह।
“यज्ञवास्तुक्रियां कृत्वा विधिदृष्टेन कर्मणा।
आज्यधारामविच्छिन्नाजुहुयात् सार्व्वकामिकीम्”।
इति। पूर्णाहुतिरियमिति कुतो ज्ञायते? सार्व्वकामिकीमिति वचनात्। “पूर्णाहुत्या सर्व्वान् कामानाप्नोति” इति हि ब्राह्मणम्॥२९॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तावागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य अष्टमीखण्डिका॥०॥
गोभिलीयगृह्यसूत्रे
प्रथमप्रपाठके नवमी खण्डिका।
** अथैतद्धविरुच्छिष्टमुदगुद्वास्योद्धृत्य ब्रह्मणे प्रयच्छेत्॥१॥**
अथेत्यानन्तर्य्यार्थम्।प्रदक्षिणप्रणीताविमोकोदपात्रपूरणानि कृत्वा अनन्तरम् इति भट्ठभाष्यम्। ‘एतत्’ अभिप्रेतं, हविः,उच्छिष्टम् अवशिष्टम्, उदगुद्वास्य। एतस्मादवगम्यते होमकालेहोत्रग्न्योरन्तरा हविषः समासादनम् इति। उद्धृत्य पात्रान्तरेकृः वा ब्रह्मणें प्रयच्छेत् प्रदद्यात्। एतत्इति कतमदिह अभिप्रेयते? समशनीयनवयज्ञवास्तूपशमनादिचरुभ्योऽन्यत् इति ब्रूमः। कुतः?तत्र तत्रअन्यस्या अन्यस्याः प्रतिपत्तेरुपदेशात्। एतच्चावसरेप्रदर्शयिष्यामः।अनर्थकं तर्हि। तत्र तत्र प्रतिपत्त्यन्तरविधानादेवहविरुच्छिष्टस्य ब्रह्मणे प्रदानं न भविष्यतीति चेत्।न। एतदित्यनुक्तौतत्र तत्र प्रतिपत्तिद्वयमाशङ्कीत कञ्चिदित्येतदित्युक्तम्। उच्छिष्ट ग्रहणेनाप्राधान्यं द्योतयन् प्रतिपत्तित्वमस्य ज्ञापयति। तेनाप्रदत्तएवैतस्मिनष्टेदुष्टे वा प्रदानार्थं नान्यद्धविरुत्पाद्यमिति। अयमप्यर्थ एतदित्यनेनोपोद्वल्यते। स्वयमुभयकरणे तु चरुशेषंस्वयमेव भुञ्जीत, ब्राह्मणन्त्वन्नन्तरेण तर्पयेदिति वृद्धाः॥१॥०॥
किं ब्रह्मणे चरुशेषस्य प्रदानमात्रम्?। न। किन्तर्हि ?
तंतितर्पयिषेत्॥२॥
तं ब्रह्माणं तर्पयितुमिच्छेत्। यथा असौ तृप्यति, तथा कर्त्तव्यम् इत्यर्थः। तर्पयेत् इति वक्तव्ये मनोविशद्धिप्रदर्शनायेंतितर्पथिषेत्इत्यभिहितम्। कथं नाम? श्रद्धादिगुणवता मनसा ब्रह्माणं तर्पयितुमिच्छेत् तत्कृतमतिशय विशेषं जानानः। तथाच स्मरणम्।
“श्रद्धाविधिसमायुक्तं कर्म यत् क्रियते नृभिः।
सुविशुद्धेन भावेन तदानन्त्याय कल्पते”।
इति।
“देशकालाश्रमक्षेत्रद्रव्यदातृमनोगुणाः।
सुकृशम्यापि दानस्य फलातिशयहेतवः”।
इति चैवमादि। श्रद्धारहितस्य खल्वन्नमभोज्यमाहुराचार्याः। तच्चेह विस्तरभयान् न प्रस्तूयते॥२॥०॥
कस्मात् पुनः कारणात् ब्रह्मणः तर्पणे प्रयत्नातिशयःउपदिश्यते ?तदुच्यते,
** ब्राह्मणस्य तृप्तिमनु तृप्यामीति ह यज्ञस्य वेदयन्ते॥३॥**
ब्राह्मणस्य तृप्तिम्, अनु पश्चात् लक्षीकृत्य वा, अहं तृप्यामि,- ब्राह्मणस्य तृप्तौ जातायां ममतृप्तिर्भवति—इत्येतत्। इति एवं ह किल यज्ञस्य अभिप्रायं वेदयन्ते ज्ञापयन्त्याचार्य्याः। एतस्मात्
कारणात् तं तितर्पयिषेत्। सोऽयं ब्राह्मणशब्दो ब्रह्मपरोवर्णनीयः,उपक्रमानुग्रहार्थम्॥३॥०॥
यस्मादेवं ब्रह्मणास्तर्पणम्, तस्मात् चरुशेषस्य अपचारे तेन वा तृप्त्यसम्भवे, अन्येनापि अनेन तं तर्पयेत् –
इत्याह–
अथ यदस्यान्यदन्नमुपसिद्धँस्यात्॥४॥
अथेत्यानन्तर्य्यार्थम्। अथ अनन्तरमेव भोजयेत् नात्मीयं भोजनकालमपि प्रतीक्षेत इत्यर्थः। अस्य यजमानस्य यत् किञ्चिदन्यदन्नम्, उप समीपे तत्कालस्य सिद्धं निष्पन्नं स्यात् भवति, तेन निषिद्धातिरिक्तेन तं तितर्पयिषेत्इति गतेन सम्बध्यते।प्रदानस्य प्रतिपत्तित्वेऽपि वचनप्रमाण्यादन्नान्तरमुपादेयम्। चरुशेषप्रादानादनन्तरमन्यदप्यन्नं प्रयच्छेत् इति वा वर्णनीयम्॥४॥०॥
अथ ब्राह्मणान् भक्तेनोपेप्सेत्॥५॥
अथ स्वपाकसिद्ध्यानन्तरं ब्राह्मणान् भक्तेन अन्नेन उपेप्सेत् तर्पयितुमिच्छेत्। उपेत्ययमुपसर्गः। अत्रापि गौरवं, मनमोविश्शुद्धिप्रदर्शनार्थम्। अपवर्गे तावदभिरूपभोजनं विहितम्, तदत्र कृतेनब्रह्मतर्पणेनैव कृतं मा मंस्त, इति पुनरिदमसूत्रयदाचार्य्यः॥५॥०॥
पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात्॥६॥
पूर्णपात्रःपूर्णपात्रम्। पुंस्त्वं छान्दसम्। तदिदं पूर्णपात्रंदक्षिणा–इत्यत्सर्गः। तं ब्रह्मणे दद्यात्। दक्षिणाग्रहणं ब्रह्मणोऽभावेऽप्यन्यस्मै दानार्थम्। कथं नाम? दक्षिणेयम् – इति कृत्वा स्वयं
कर्मकरणेऽप्यन्यस्मै अवश्यं देया। व्यतिरेके वैगुण्यापत्तेः। “हतोयज्ञस्त्वदक्षिणः”–
इति हि स्मरन्ति। तदाह कर्म्मप्रदीपः।
“ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता।
कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्।
विदध्याद्धौत्रमन्यश्चेद्दक्षिणाऽर्द्धहरो भवेत्।
स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत्”।
इति। पूर्णपात्रादिका, इत्यादिपदात् दक्षिणाविशेषालाभेमूलादिकमपि संगृहाति। तथाच मैत्रायणीयपरिशिष्टम्। “दक्षिणाऽलाभे मूलानां भक्ष्याणां दक्षिणां ददाति” इति। तदत्र, यत्र याइति सर्व्वनाम्ना व्याप्त्यवगमात् कर्म्मान्तेइति च सामान्याभिधानात्, दक्षिणामात्रमेव ब्रह्मणे देयम् इत्युपदिशति। न च प्रधानकर्मदक्षिणानामन्यस्मै दानं शिष्यते इतिविशेषोपदेश विरहादपि ब्रह्मण एष तेषां देयता पर्य्यस्यति। सखल्वयमाचार्य्यस्यास्पष्टोऽभिप्रायः कर्म्मप्रदीपकृता स्पष्टीकृतः–
इत्यास्थेयम्।
न चैतत्सूत्रानुसारात् कर्मान्त इति ब्रह्ममाध्यहोमान्तपरम् इतियुक्तम्, एतद्विवरणरूपत्वात्तस्य। न ह्यत्रापि होमदक्षिणेयम् इत्युच्यते, किन्तु प्रकरणादनुमीयते, वाक्यन्तु अविशेषाद्ब्रह्मणेदक्षिणादानमुपदिशति। दुर्बलञ्च प्रकरणं वाक्यात्–
इत्यवोचाम। अपिच। इयमपि दक्षिणा प्रधानस्यैव कर्मणः। परमेतत् होमात्मकम्–
इति नैतावता किञ्चिदपक्षीयते। तथात्वे वा दर्शादियागप्रस्तावात् तस्यैव दक्षिणा ब्रह्मणे देया –
इत्यापतति।
स चायं पर्य्यनुयोगः सामान्याभिधानबलादेव परिहर्त्तव्यः। सचान्यत्रापि समानः। विदध्याद्धौत्रम् इति तु होमप्रस्तावाद्वा प्रायेण गृह्यकर्मणां सहोमकत्वाद्वा समाम्नातम्। न खल्वन्यत्रैतत्निषिध्यते। एकस्मिन्नुपदेशश्च विशेषोपदेशविरहे अन्यस्मिन्नपिकल्पनीयःइति निबन्धारोमन्यन्ते। तस्मात् अन्यैरपि ऋत्विग्भिर्विभज्यैव दक्षिण ग्रहीतव्या। न्यायस्याविशेषात्।
अपिच। सहोमके कर्मणि ब्रह्मणः सद्भावात् कर्मदक्षिणायाश्चब्रह्मणे देयत्वसूत्रणात् होतुः किं तत्र दक्षिणा नास्त्येव?इत्याशङ्कायां, ‘विदद्ध्याङ्कौत्रमन्यश्चेत्’इति वचनारम्भो न्याय्य एव,इति न किञ्चिदनुचितम्। सखल्वयमुत्सर्गोविधिरिति यत्र स्पष्टमन्यस्मै आचार्य्यादिकाय दक्षिणाविशेषस्य दानमुपदिश्यते तत्र नैतत् प्रवर्त्तते। अब्रह्मके तु कर्मणि सुतरामन्यस्मै दक्षिणा दातव्या। ब्रह्मणे इति कर्मकारयित्रुपलक्षणत्वे तु प्रागेव नानुपपत्तिः। सेयंभट्टनारायणादीनां बहूनामनुमता व्यवस्था। तत्त्वकारस्तु, होमदक्षिणैवब्रह्मणेदेया,कर्म्मान्ते इति ब्रह्मसाध्यहोमान्तपरम् इत्येकत्राभिदधानः, कर्मान्तेइति यथाश्रुतमेव ब्रह्मणेइति कर्मकारयित्रुपलक्षणम्–
इति पुनरन्यत्र ब्रुवाणःशास्त्रार्थमाकुलयाञ्चकार।
यदाऽप्यन्यस्मै दक्षिणा दीयते, तदाऽपि कुलर्त्विजे गुरवे वादेया, तयोः प्रतिग्रहवैमुख्यादिना ग्रहणासम्भवेबहुतरायां वादक्षिणायामन्यस्मै अपि दातुमिच्छायां तदनुमत्या, दूरस्थत्वे चतयोस्ताभ्यामुद्दिश्य मनसा दत्वैव देया। तदप्याह कर्मप्रदीप एव।
“कुलर्त्विजमधीयानं सन्निकृष्टं गुरुं तथा।
नातिक्रमेत् सदा दित्सन् यदीच्छेदात्मनोहितम्।
अहमस्मै ददानीति एवमाभाष्य दीयते।
नैतावपृष्ट्वा ददतः पात्रेऽपि फलमस्ति हि।
दूरस्याभ्यामपि द्वाभ्यां प्रदाय मनसा वरम्।
इतरेभ्यस्ततोदद्यादेष दानविधिः स्मृतः”।
इति। सूत्रद्वयं वैतत्, ‘पूर्णपात्री दक्षिण’ इति ‘तं ब्रह्मणेदद्यात्’इति च। तत्र, ‘पूर्णपात्रोदक्षिणा’ इत्यनेन पूर्णपात्रंदक्षिणा भवति कर्मणामनुच्यमानायां दक्षिणायाम्,इत्युच्यते। कथं ज्ञायते? अनुज्यमानायां दक्षिणायां पूर्णपात्रादिका दक्षिणा भवति इति कर्मप्रदीपवचनात्।
‘तं ब्रह्मणे दद्यात्’ इत्यनेन ब्रह्मणे दक्षिणायादानमुपदिश्यते। तदनेन तच्छब्देन दक्षिणैव परामृश्यते न पूर्णपात्रम्। कस्मात्?सन्निहिततरत्वाद्दक्षिणायाः। व्यवेतत्वाच्चपूर्णपात्रस्य \। अर्थवत्त्वाच्च।दक्षिणादानेन हि नः प्रयोजनं, न पूर्णपात्रदानेन। लिङ्गव्यत्ययस्त्वन्यत्रापि समानः। ‘ब्रह्मणे दक्षिणा देया’इति कात्यायनवचनाच्चैतदेवं प्रतिपत्तव्यम्। स खल्वस्पष्टानां गोभिलीयानां पदार्थानां प्रददीपवत् स्पष्टमुपदेष्टेत्यवोचाम॥६॥०॥
किमिदं पूर्णपात्रं नाम? तदुच्यते,–
कꣳसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि वा फलानामेवैतं पूर्णपात्रमित्याचक्षते॥७॥
कंसं कांस्यभाजनम्, चमसं वानस्पत्यं पात्रं वा, अन्नस्य पूरयित्व
अन्नैर्वर्द्धयित्वा। अन्नस्य – इत्येतद्विशिनष्टि, कृतस्य वा अकृतस्य वा। अपि वा अथवा अन्नासम्भवे फलानामेव – फलैरेव भोज्यरित्येवकारकरणादुपदिशति, अन्यच्च फलमभोज्यं व्यवच्छिनत्ति। पूरयित्वा,एवंपूर्णपात्रम् – इत्याचक्षते आचार्य्याः। एतत् कंसादिकं पूर्णपात्रमाचक्षते। कथं कृत्वा? अन्नस्य पूरयित्वा स्थापितम्इत्यर्थः। कियन्मितस्य पुनरन्नस्य पूरणम्? तदाह गृह्यासङ्ग्रहः।
“अष्टमुष्टिर्भवेत्कुञ्चिः कुञ्चयोऽष्टौचपुष्कलम्।
पुष्कलानिचचत्वारिपूर्णपात्रंविधीयते”।
इति। असम्भवे पुनरेतस्य परिमाणस्य यावताऽन्नेन बहुभोक्तुःपुरुषस्य तृप्तिः सम्पद्यते, तावतोऽप्यन्नस्य पूरितं पात्रं पूर्णपात्रंभवति। तदाह कर्मप्रदीपः।
“यावताबहुभोक्तुश्चतृप्तिःपूर्णेनजायते।
नावरार्द्धंततःकुर्य्यात्पूर्णपात्रमितिस्थितिः”।
इति॥ ७॥
ब्रह्मैवैकऋत्विक्॥८॥
दर्शपौर्णमासप्रस्तावादिदमुच्यते। तेन सायं प्रातर्होमिवैश्वदेवादीनामब्रह्मत्वेऽपि न क्षतिः। एक एव ब्रह्मा ऋत्विग्भवति। किमनेनोक्तम्? इदमनेनोक्तम्एक एव ब्रह्मा सर्व्वकर्मसु ऋत्विक्कर्त्तव्येन पुनरेकस्मिन् कर्मण्येको ब्रह्मा अन्यस्मिंश्चान्यः अपरापरस्मिंश्चापरापरः –इति। तदनेन,– यजमानेन ऋत्विगत्याज्यो भवतीत्युपदिशति। तथाच स्मरणम्।
“ऋत्विग्याज्यमदुष्टं यस्त्यजेदनपकारिणम्।
अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि।
क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षुच स्वयम्।
यादृच्छिके तु संयोज्ये तत्त्यागे नास्ति किल्विषम्”।
इति। तथा मनुः।
“ऋत्विजं यस्त्यजेद् याज्यो याज्यञ्चर्त्विक् त्यजेत्तु यः।
शक्तं कर्मण्यदुष्टञ्चतयोर्दण्डः शतं शतम्”।
इति। अथवा। एकोब्रह्मैव ऋत्विगिति ब्रह्मणे दक्षिणा दानेहेतुवचनमेतत्। होताऽप्यस्त्यन्य ऋत्विगित्याशङ्कयामुत्तरं सूत्रं प्रवर्त्स्यति॥८॥०॥
पाकयज्ञेषु स्वयंँहोता भवति॥९॥
पाकयज्ञेषु अल्पयज्ञेषु प्रशस्तयजेषु वा। कस्मात्? उभयत्र पाकशब्ददर्शनात्। दृश्यते खल्वल्पे पाकशब्दः,–
योऽस्मत् पाकतरः–
इति। तं पाकेन मनसाऽपश्यम् इति, योमा पाकेन मनसाइति चप्रसंशायां पाकशब्दः प्रयुक्तः। स खल्वयमर्थो गृह्यान्तरवृत्तिकारैर्निरूपितः। तत्त्वकारादयस्तु मन्यन्ते,–
पाकयजः–
पाकाङ्गकयज्ञो वृषोत्सर्गादिःइति। वयन्तु, एकाग्नौ ये यज्ञाः तान् पाकयज्ञानवगच्छामः। कस्मात्? अस्माकमेव ग्रन्थान्तरे समाम्नानात्। तथाच लाट्यायनसूत्रम्।“पाकयजा इत्याचक्षते एकाग्नौयज्ञान्” इति।
तेषु पाकयज्ञेषु स्वयं–
स्वयमेव होता भवति। तदिदं स्वयमेव होतृत्वं प्रशस्तम् इत्यवगम्यते। कुतः?
“स्वयं होमे फलं यत्तु तदन्येन न जायते”।
इति स्मरणात्। अन्यो होतैव कुतो न व्यवच्छिद्यते? स्वयमशक्तौ पाकयज्ञलोपापत्तेः। न चैतदुचितम्। जुहुयाद्वा हावयेद्वा इति सामान्यतः सूत्रणात्। न प्रवसन्नुपवसेत् इति चप्रवास
दर्शनात्।
“निःक्षिप्याग्निंस्वदारेषु परिकल्प्यर्त्विजन्तथा।
प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं क्वचित्”।
इति च कर्मप्रदीपवचनात्। तथाच स्मॄत्यन्तरम्।
“मनसा नैत्यिकं कर्म प्रवसन्नप्यतन्त्रितः।
उपविश्य शुचिः सर्वं यथाकालमनुद्रवेत्”।
इति॥९॥ ०॥
पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा॥१०॥
पूर्णपात्रः–
इति पुंस्त्वं व्याख्यातम्। पूर्णपात्रम् अवमं सर्व्वनिकृष्टंपाकयज्ञानां दक्षिणा। नातोऽप्यल्पतरी तेषां दक्षिणा अस्तीत्यर्थः॥१०॥०॥
अपरिमितं परार्द्ध्यम्॥११॥
नपरिमितम् अपरिमितं बहु–इत्यभिप्रेतम्। तदिदम् अपरिमितं परार्द्ध्यंप्रशस्तं भवति दक्षिणा पाकयज्ञानाम्। परार्द्धम्–
इति केचित् पठन्ति। परार्द्धंखल्वन्तिममङ्कस्थानमुच्यते गणितेषु।
तथाच अपरिमितं वरार्द्धपर्यन्तमपि पाकयज्ञातां दक्षिणाइति तत्रार्थः॥११॥०॥
एतस्मिन्नर्थे दृष्टान्तमुपन्यस्यति,–
** अपि ह सुदाः पैजवन ऐन्द्राग्नेन स्थालीपाकेनेष्ट्वा शतꣳसहस्राणि ददौ॥ १२॥**
अपिरन्यानपि समुच्चिनोति। ह–
इत्यैतिह्यर्थको निपातः। शोभनं ददाति –
इति सुदा नामतः, पिजवनस्य अपत्यं पुमान्पैजवनोऽपि ह किल ऐन्द्राग्नेनस्थालीपाकेन दृष्ट्वा शतं सहस्राणिशतगुणितानि सहस्राणि लक्षम् इत्येतत्। ददौ, दक्षिणाम् इतिप्रकरणालभ्यते। कस्यवस्तुनः शतं सहस्राणि? गवाम् इतिब्रूमः। कस्मात्? संख्यामात्रकीर्त्तनात्। संख्यामात्रकीर्त्तने च प्रायेणगा एव संख्येयतया व्यवहरन्ति याज्ञिकाः। शतदक्षिणेनाहं यक्षेद्वादशशतदक्षिणेनइति खल्वाहः। “संख्यामात्रे च दक्षिणगा एव”इति च द्राह्यायणसूत्रात्॥२॥०॥
एवं तावत् सायं प्रातर्होमवैश्वदेवबलिहरणदर्शपौर्णमासाख्यानि नित्यानि कर्म्मण्युक्तानि। तेषां चस्वे स्वेकाले यावज्जीविकोऽभ्यामःन्यायविद्भिर्निरूपितः। एवञ्च कालस्य बहुत्वात् कदाचित्,–
** अथ यदि गृह्येऽग्नौ सायं प्रातर्होमयोर्वा दर्शपूर्णमासयोर्व्वा हव्यं वा होतारं वा नाधिगच्चेत्; कथं कुर्य्यादिति॥१३॥**
अथेति पूर्व्वप्रकृतार्थम्। अथैतयोऽर्गृह्याऽग्नौ यावज्जीवं कर्त्तव्ययोः
सायंप्रातर्होमयोर्व्वा, दर्शपूर्णर्मासयोर्व्वा।प्रदर्शनमेतत् वैश्वदेवस्यापि। देवादन्यस्माद्वाकस्माञ्चित् कारणात् हव्यं हवनीयं वस्तु वा होतारंहवनकर्त्तारं वा स्वयमशक्तौ, यदि न अधिगच्छेत् न लभेत, तर्हिकथं कुर्य्यात्। किं स्वस्वकालात्ययमात्रेण लुप्यतएव तत्तत् कर्म्म,उतास्ति कश्चित् कालावधिरियति काले अतीते इति। एवमादिसंशयचिच्छिदिषयैतत् पृच्छ्यते॥१३॥०॥
एवं पृष्ट आह,–
** आ सायमाहुतेः प्रातराहुतिर्नात्येत्याऽऽप्रातराहुतेः सायमाहुतिराऽमावास्यायाः पौर्णमासं नात्येत्याऽऽपौर्णमास्या आमावास्यम्॥१४॥**
आसायमाहुतेःसायमाहुतिपर्य्यन्तम्। सेयं सायमाहुतिर्म्मर्य्यादा अवधिः सीमेत्येतत्। प्रातराहुतिः नात्येति नातिक्रामति। सा खल्वियं स्वकाले अहुता प्रातराहुतिरिदानींप्रायश्चित्तात्मकंमहाव्याहृतिहोमं कृत्वा होतव्या। प्रायश्चित्तात्मकं महाव्याहृतिहोमं कृत्वेति कुत एतत्? श्रुतौ विधानादित्याह। तथाच ब्राह्मणम्। “सहोवाच किं होष्यमीति,प्रायश्चित्तमिति किंप्रायश्चित्तमिति,सर्व्वप्रायश्चित्तमिति, किं सर्व्वप्रायश्चित्तमिति, महाव्याहतीरेवमब्रुवन्” इत्यादि। तथाच गृह्यान्तरम्।
“स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः।
प्राक् प्रातराहुतेः कालः प्रायश्चित्ते कृते सति।
प्राक् सायमाहुतेः प्रातर्होमकालाऽनतिक्रमः।
“प्राक् पौर्णमासार्द्दर्शस्य प्राग्दर्शदितरस्य च”।
इति। एतेनैवसूत्रशेषोव्याख्यातः। तदिदं प्रदर्शनार्थंपरिकीर्त्तनं सायमाहुत्यादीनां न नियमार्थम्। कुतः? याज्ञिकसमयात्। तथाचोक्तं त्रिकाण्डमण्डनेन।
“मुख्यकाले यदाऽवश्यं कर्म कर्त्तुंन शक्यते।
गौणकालेऽपि कर्त्तव्यं गौणोऽप्यत्रेदृशो भवेत्।
आ सायमाहुतेः कालात् कालः स्यात् प्रातराहुतेः।
प्रातराहुतिकालात् प्राक् कालः स्यात् सायमाहुतेः।
पूर्णमासस्य कालोऽस्ति पुरा दर्शस्य कालतः।
स्यात् साकमेधकालोऽपि आसुनासीरकालतः।
सुनासीरीयकालोऽप्याऽऽवैश्वदेविककालतः।
श्यामाकै व्रीहिभिश्चैवयवैरन्योन्यकालतः।
प्राग्यष्टुं युज्यतेऽवश्यं नैव त्वाग्रयणात्ययः।
दक्षिणायनकाले या पश्विज्या योत्तरायणे।
अन्योन्यकालतः पूर्वेयष्टुं युक्तेउभे अपि।
एवमागामियागीयमुख्यकालादधस्तनः।
स्वकालादुत्तरो गौणः कालः पूर्व्वय कर्मणः।
यद्वाऽऽगामिक्रियामुख्यकालस्याप्यन्तरालवत्।
गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणि”।
इति। सर्व्वमेव प्राक्तनकर्म प्रायश्चित्तहोमानन्तरमेव गौणकालेकरणीयम्। सायमाहुत्यादौ तथा दर्शनात्।
“गौणेषु तेषु कालेषु कर्म चोदितमारभेत्।
प्रायश्चित्तप्रकरणप्रोक्तांनिष्कतिमाचरेत्”।
इति स्मरणाच्च। वैश्वदेवस्य पुनरतिक्रमे अभोजनमपि कृत्वाकालान्तरे तदाचरणम्। तथाच गृह्यान्तरम्।
“वैश्वदेवे त्वतिक्रान्ते अहोरात्रमभोजनम्।
प्रायश्चित्तमथो कृत्वा पुनः सन्तनुयाद्ब्रतम्”।
इति। प्रथमवैश्वदेवातिक्रमे दिवा अभोजनं, द्वितीयवैश्वदेवातिक्रमे च रात्रावभोजनम् इति परिशिष्टप्रकाशः। वैश्वदेवद्वयातिक्रमे तु विशेषमाह कर्म्मप्रदीपः।
“परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम्।
पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च।
अनिष्ट्वा नवयज्ञेन नवान्नप्राशने तथा।
भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत्”।
इति। प्राक् सूर्य्याम्तमयात् प्रथमो वैश्वदेवो नात्येति, प्राक् चरात्रेःसार्द्धात् प्रहरात् द्वितीयः। कुतः? यतस्तावानेव भोजनकालः। तथाच कर्मप्रदीपः।
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्।
अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः”।
इति॥१४॥०॥
एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सेत॥१५॥
एतेनइति गौणकालपरामर्शः। लिप्सेतलब्धुमिच्छेत्।लिप्सेत् - इति पाठे व्यत्ययात् परस्मैपदम्। प्राप्तस्याप्यादरार्थमभिधानम्। कथं नाम? तथा लिप्स्येतयथा गौणकालो नात्येति,तस्याप्यतिक्रमे कर्मैव लुप्यते, इत्यभिप्रायः। ऋज्वन्यत्। यदापुनर्लभ्यते, तदा होतव्यम्। तदाह कर्मप्रदीपः।
“पौर्णमासात्यये हव्यं होता वा यदहर्भवेत्।
तदहर्जुहुयादेवमामावस्यात्ययेऽपिच”।
इति॥१५॥०॥
अपि वा यज्ञियानामेवोषधिवनस्पतीनां फलानि वा पलाशानि वा श्रपयित्वा जुहुयात्॥१६॥
अपि वा– इति पक्षान्तरमुपदिश्यते। एतेनाप्यवकाशेन हविष्यनुपलभ्यमाने यज्ञियानां यज्ञार्हाणामनिषिद्धानाम् –इत्येतत्। ओषधीनाम्–
“व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः।
यवाश्वौषधयः सप्त विपदो घ्नन्ति धारिताः”।
इति कर्मप्रदीपोक्तानाम्। वनस्पतीनां वृक्षाणाञ्च,–
“अपुष्पाःफलवन्तोयेतेवनस्पतयःस्मृताः”।
इत्युक्तलक्षणानां वा फलानि सस्यानि वाः पलाशानि कूदनानि पत्राणि वा, यथोपपन्नानि; अपयित्वा स्थालीपाकविधिना, जुहुयात्॥१६॥०॥
** अप्यप एवान्ततो जुहुयादिति ह स्माह पाकयज्ञऐड़ो हुतं ह्येव॥१७॥**
अन्ततःसर्वासम्पत्तौअपउद्कम् अपि जुहुयादेव,नतु
अद्भिः कथं होमः –इत्याशङ्कीत। सर्वालाभे उदकमप्यन्ततो मध्यतएवाग्नेर्जुहुयात् न त्वग्न्युपशमाशङ्कां कुर्य्यादिति वा व्याख्येयम्। इति ह किल आहस्मउवाच, नामतः पाकयज्ञःइड़ाया अपत्यम् अैड़ः कश्चिदाचार्यः; इतमेव भवत्येवमपि कृते। कृते। हिशब्दोयस्मादर्थे। यस्मादेवमपि कृते हुतमेव भवति नअहुतम्– इति पाकयज्ञ आहस्म, तस्मादप एवान्ततो जुहुयादित्यर्थः॥१७॥०॥
अहुतस्य प्रायश्चित्तं भवतीति॥१८॥
हुत–इति कर्त्तरि निष्ठा। न हुतं येन– इति वा विग्रहः। अहुतस्य उदकस्याप्यलाभात् होममकुर्वतः प्रायश्चित्तं भवति। किं पुनस्तत् प्रायश्चित्तम्? पुनराधानम् इति ब्रूमः। कुतः?
“होमद्वयात्यये दर्शपूर्णमासात्यये तथा।
पुनरेवाग्निमादध्यादिति भार्गवशासनम्”।
इति स्मरणात्। इतिरन्यान्यपि पुनराधाननिमित्तानि समुच्चिनोति। तानि च,–
“असमक्षन्तु दम्पत्योर्होतव्यं नर्त्विगादिना।
द्वयोरप्यसमक्षन्तु भवेद्धुतमनर्थकम्”।
इत्येवमादीनि कर्मप्रदीपादिष्वनुसन्धेयानि। पुनराधानप्रकारश्च,–
“पूर्वैव योनिः पूर्वाऽऽवृत्पुनराधानकर्मणि”।
इत्यादिना कर्म्मप्रदीप एव अभिहितः॥१८॥०॥
नाव्रतोब्राह्मणःस्यादिति॥१९॥
व्रतरहितो ब्राह्मणो न स्यादल्पमपि कालम्। “मुहूर्त्तमपिनावतो ब्राह्मणः स्यात्”इति पाठे व्यक्त एवार्थः। इतिर्हेतौ। यस्मात् नाव्रतो ब्राह्मणःस्यात्, तस्मात् पुनराधाननिमित्ते जाते, अविलम्ब मेवादध्यादित्यभिप्रायः॥१९॥०॥
अथाप्युदाहरन्ति॥२०॥
ऋजुरक्षरार्थः। अहुतस्य प्रायश्चित्तं पुनराधानमुक्तम्, अथेदानीमन्यदपि पक्षान्तरं तत्र दर्शयितुं ब्राह्मणवाक्योदाहरणाभासरूपंसूत्रम्॥२०॥०॥
** यावन्नहूयेताऽभोजनेनैव तावत् सन्तनुयात्॥२१॥**
हविषोऽलाभे यावन्नहूयेत हूयते, अभोजनेनैव तावत् तावन्तंकालं सन्तनुयात् सन्ततम विच्छिन्नमलुप्तं कुर्य्यादग्निव्रतम् इत्यर्थः। यावता कालेन हविर्लभ्यते, तावति काले अभोजनेऽपि व्रतमलुप्तंभवतीत्यभिप्रायः॥२१॥०॥
किमभोजनेनैव व्रतं सम्पद्यते? न। किन्तर्हि?–
अथयदाऽधिगच्छेत् प्रतिजुहुयात्॥२२॥
यदा पुनरधिगच्छेल्लभेतहविः, तदा अथ,–
सायमाद्युपक्रमत्वात्कर्मणांसायमादिकालं प्रतीक्ष्य, प्रतिजुहुयात्। यावत्रहूयतेतावन्तंकालमभोजनेन क्षपयित्वायदाहविरुपलभ्यते तदा
तदानीमेव न जुहुयात्, किन्तु सायमादिकालं प्रतीक्ष्य प्रतिजुहुयादित्यर्थः। प्रतिशब्दोहोमस्य प्रकारविशेषद्योतनार्थः। कतमः पुनरसौ प्रकारः? उच्यते। अतिक्रान्ताः सर्व्वा अग्निदैवत्या आहुतीर्वीगणय्य तावन्ति हवीषिं पात्रे कृत्वा, अग्नये स्वाहाइति सकृदेव जुहुयात्। एवं प्राजापत्याः। एवम् अपरापराः। तदाह कर्मप्रदीपः।
“आहूयमानेऽनश्नश्चेंत् नयेत् कालं समाहितः।
सम्पन्ने तु यथा तत्र हूयते तदिहोच्यते।
अहुताः परिसङ्ख्याय पात्रे कृत्वाऽऽहुतीः, सकृत्।
मन्त्रेण विधिवद्धुत्वा एवमेवापरा अपि”।
इति॥२२॥०॥
एवमप्यस्य व्रतँसन्ततं भवतीति॥२३॥
एवम् अपि कृते अस्य व्रतिनो व्रतं नियमः सन्ततम् अविलुप्तं भवति। तस्मात् पुनराधानं न कर्त्तव्यम् इत्यभिप्रायः। इतिःब्राह्मणवाक्यावसानज्ञापनार्थः, प्रकरणपरिसमाप्त्यर्थो वा॥ २३॥
एषोऽत ऊर्द्धँहविराहुतिषु न्यायः॥२४॥
अत ऊर्द्धम् अस्मात् परतो वक्ष्यमाण एष न्यायो हविराजतिषु – हूयते इति इविः, अविशेषात् समिदाज्यपश्वपूपशाकादिकं सर्वमुच्यते, तस्य हविष आहुतिषु बोद्धब्यःइतिपरिभाष्यते।
पराचीनस्यापि बुद्ध्यासन्निकृष्य एतदा परामर्शः। न्यायग्रहणां क्वचिदाम्नातस्यापि प्रतिषेधार्थम्। यथा समाम्नातोऽपि मन्त्रान्ते स्वाहाकारः स्वाहान्ते मन्त्रे नाद्रियते, अन्यायत्वात्। तच्चोन्तरध्ववक्ष्यामः। एवमन्यदपि ऊह्यम्।
एवं वा —
एषोऽनन्तरोक्तोन्यायःप्रकारःइत्येतत्। अत ऊर्ध्वं वक्ष्यमाणासु हविराजतिषु द्रष्टव्यः इत्युतः प्रकारः सर्वत्रातिदिश्यते। न्यायग्रहणेन किमुक्तंभवति? एतदनेनोक्तंभवति;अत ऊर्ध्वंये क्षिप्रहोमा ब्रह्मचारिसमिदाधानादयो वक्ष्यन्ते, तेषु क्षिप्रहोमोक्तएव प्रकारो भवति। ये पुनस्तन्त्रहोमाःवैवाहिकहोमादयः, तेषुब्रह्मोपवेशनादि तन्त्रं द्रष्टव्यम्। तथा क्वचित् प्राप्तोऽप्यर्थोदुर्थाभावानिवर्त्तते। किमुदाहरणम्? इदमुदाहरणम्। आज्यतन्त्रेषु मुषलोलूखलसूर्पादयो निवर्त्तन्ते, पाष्याजतिषु मेक्षणस्रुगादयः इति। सोऽयं न्यायशब्दस्यार्थः॥२४॥०॥
मन्त्रान्ते स्वाहाकारः॥२५॥
होममन्त्राणम्अन्ते अवसाने स्वाहाकारः कर्त्तव्यः इति सूत्रशेषः। अधिकाराध्वोपमन्त्राणामेवान्ते स्वाहाकारः कर्त्तव्यो न जपादिष्वपि। तत्रापि ये मन्त्राः स्वाहाकाररहिता एव पद्यन्ते, यथा अग्नेप्रायश्चित्ते इत्यादयः, तदन्त एवं स्वाहाकारः स्वात्। न त्वाम्नातस्वाहाकारान्तेष्वपि अग्निरेतु प्रथमइत्येवमादिषु।किं
कारणम्? हविस्त्यागार्थः खन्वयं स्वाहाकारःइति आम्नात स्वाहाकारान्तेषु मन्त्रेषु नैष विधिरुपतिष्ठते। तत्र खन्वाम्नातेनैव स्वाहाकारेण हविस्त्यागः कृतः इत्यपरस्थानानमनर्थकं भवति। तथाचतान्त्रिकाःपठन्ति।
“नमोऽन्ते न नमो दद्यात् स्वाहान्ते द्विठमेवच।
पूजायामाहुतौ चापि सर्वत्रायं विधिः कृतः।
इति। यत्र च मन्त्रादितोऽपि समाम्नातः स्वाहाकारो हविस्त्यागार्थो भवति, तत्राप्यग्नौकरण होमे मन्त्रान्ते स्वाहाकारान्तरं नकर्त्तव्यमेव। न्यायस्याविशेषात्। तत्र हि स्वाहाकारेण हविस्त्यागं कृत्वा परतो मन्त्रः समापनीयः। तदाह कर्मप्रदीपः।
“स्वाहां कुर्य्यान्न चात्रान्ते न चैव जुहुयाद्धविः।
स्वाहाकारेण हुत्वाऽग्नौपश्चान्मन्त्रं समापयेत्”।
इति। होममन्त्राणाञ्चादौ न प्रत्येकम् ॐकारः करणीयः। तदप्याह स एव।
“नोङ्कुर्य्याद्धोममन्त्राणां पृथगादिषु कुत्रचित्।
अन्येषाञ्च विकृष्टानां कालेनाऽऽचमनादिना ”।
इति॥२५॥०॥
** आज्याहुतिष्वाज्यमेव सँस्कृत्योपघातं जुहुयात् नाज्यभागौ न स्विष्टकृत्॥२६॥**
आज्यस्ययथोक्तस्याऽऽहुतिषु–यत्राज्यमेव हूयते–इत्यर्थः। तेषु
चतुर्थीकर्मादिषु। आज्यंसंस्कृत्यैव उपघातं यथा भवति तथाजुहुयात्, द्रवद्रव्यकत्वात् स्रुवेण– इत्यर्थः। एवकारेण यद्व्यवच्छिद्यते, तदप्युच्यते सुखावबोधार्थम्। नाज्यभागावत्र भवतःन च स्विष्टकृदपि भवति। तदेते अतिदेशागता इह प्रतिषिध्यन्ते॥२६॥०॥
आज्याहुतिष्ठनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होमः॥२७॥
आज्याहुतिषुआज्यमात्राहुतिषु, यत्राज्यमेव हुयते न चर्वादिकंतत्रेत्यर्थः। आहुतेरनादेशे च मध्यात् पूर्वार्द्धादितिवच्च शब्दः। समुच्चयार्थो लुप्तवत् द्रष्टव्यः। यत्र होम एव नादिश्यते उपदिश्यते चाग्निग्वगम्यते वा किञ्चिदन्यद्बोमलिङ्गं, तत्र गर्भाधानपुंसवनशङ्गाकर्म्म सीमन्तकरणचूड़ाकरणादिषु प्रधानकर्म्मणो गर्भाधानाऽसाभिमर्शणादेः पुरस्ताच्चउपरिष्टाच्च, आश्राद्यन्तयोरित्यर्थः। महाव्याहृतयः तिस्रः व्याख्याताः,ताभिर्होमःकर्त्तव्यः–इतिवाक्यशेषः। एवं स्वल्वग्नेरुपदेशस्तत्र तत्रार्थवान् भवति। इतरथाऽनर्थको वा स्यात्, अदृष्टार्थो वा कल्प्येत। तथा च “पश्चादग्नेरूदगग्रेषु दर्भेषु” – इत्यादिना तत्र तत्राग्निमुपदेक्ष्यति। मनुरपि सहोमकत्वमेषामाह।
“गार्भैर्होमैर्जातकर्म्मचौड़मौञ्जीनिबन्धनैः।
बैजिकं गार्भिकञ्चैमोद्विजानामपमृज्यते”।
इति ब्रुवाणः। चन्द्रदर्शनादावपि तर्हि पुरस्ताच्चोपरिष्टाच्चमहाव्याहृतिभिर्होतव्यम्? न। तत्राग्नेरप्युपदेशाभावात्। अतएव,–
“अहोमकेष्वपिभवेत्यथोक्तंचन्द्रदर्शने”।
इति कर्म्मप्रदीपेऽपि चन्द्रदर्शनस्याहोमकत्वमुक्तम्। गर्भाधानेऽपि होममवसरे उपपादयिष्यामः।
अन्ये तु वर्णयन्ति, ‘आज्याहुतिष्वनादेशे आज्याजतयोऽपियत्र नादिश्यन्तेहोम एव यत्र नादिश्यतेइत्यर्थः। न पुनराव्याहुतिषु अनादेशे च– इति व्याख्यानं युक्तं, चकाराध्याहारदोषात्’ इति। अत्र ब्रूमः। आज्याहुतयो यत्र नादिश्यन्ते –इतिवर्णनायां चर्वाहुतिष्वतिप्रसङ्गः। आज्याहुतयोऽपि यत्र नादिश्यन्ते– इत्यर्थकल्पने च व्यक्तमपेरध्याहारः। आज्यपदञ्चैवमनतिप्रयोजनं स्वात्। आहुतिष्वनादेशे– इति खल्वभिप्रेयते। तस्मादस्मदुक्तमेव व्याख्यानमादरणीयम्। द्योतको हि चशब्दस्तात्पर्य्यस्येव्यते। तच्चेत् तात्पर्य्यमन्यस्मादपि कारणादवगम्यते, अकिञ्चित्करं तदकीर्त्तनं भवति। आज्याहुतिषु– इति सप्तमीनिर्देशश्चैवं तात्पर्य्यमुपोद्वलयति।आज्याहुतिध्वनादेशे इति चासमासकरणं प्रत्येकमन्वयं द्योतयति॥२७॥०॥
यथा पाणिग्रहणे; तथा चूडाकर्म्मण्युपनयने गोदाने च॥२८॥
यथा पाणिग्रहणे महाव्याहृतिभिः व्यस्तसमस्ताभिश्चतस्रआहु–
तयो ह्वयन्ते। तथाच पाणिग्रहणे वक्ष्यत्याचार्य्यः,–महाव्याहृतिभिश्च पृथक्, समस्ताभिश्चतुर्थीम्–इति। तथा चूड़ाकर्मणि। तथा शब्दः प्रत्येकमभिमम्बध्यते। तथोपनयने, तथा गोदाने च,–इत्यतिदिश्यते। सोऽयमनागतातिदेशः। चूड़ाकर्म्मादिव्यतिरिक्तेषु तु तिस्र एवाहुतयो भवन्ति॥२८॥०॥
** अपवृत्ते कर्म्मणि वामदेव्यगानं शान्त्यर्थंशान्त्यर्थम्॥२९॥**
अपवृत्ते समाप्ते कर्मणि वामदेव्यगानं, कर्त्तव्यम्—इति परिभाव्यते। तस्मात् सर्व्वेषामेव कर्म्मणामपवर्गे वामदेव्यं साम गातव्यम्। कर्मणि—इति सामान्येनोपदेशाच्च। बहूनाञ्च कर्मणामेकदा करणे अन्ततः सकृदेव वामदेव्यं गातव्यं न प्रत्येकमन्ते। तदाह कर्मप्रदीपः।
“अहोमकेष्वपि भवेत् यथोक्तंचन्द्रदर्शने।
वामदेव्यं गणेष्वन्ते वक्ष्यन्ते वैश्वदेविके”।
इति। गानस्य अशक्तावपि ऋचो वारत्रयं पठनीयाः। तदप्याह स एव।
“अन्ते च वामदेव्यस्य गानं कुर्य्यादृचस्त्रिधा”।
इति। शान्त्यर्थम्—इति विहितं वामदेव्यागानमनेन स्तूयते—इत्यर्थवादोऽयम्। उभयस्मिन् विधीयमाने हि वाक्यं भिद्येत। वामदेव्यगानं कर्त्तव्यम्, तच्च शान्त्यर्थं भवति—इति। तस्मात्,–
“उदुम्बरो यूपो भवति ऊर्ग् वा उदुम्बर ऊर्क्पशव ऊर्ज्जेवास्माऊर्ज्जंपशूनाप्नोति ऊर्ज्जाऽवरुध्यै”–इतिवदिहापि स्तुतिरेव प्रयोजनं न फलविधिः। अन्ये त्वाहुः,–शन्त्यर्थम्–इति वचनान्नातीव अस्य नित्यत्वम्–इति। शान्त्यर्थं शान्त्यर्थम्–इत्यभ्यासः प्रपाठकपरिसमाप्तिं द्योतयति॥२९॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये प्रथमप्रपाठकस्य नवमीखण्डिका समाप्ता॥०॥
समाप्तश्चायं प्रथमः प्रपाठकः॥ ॐ
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके प्रथमा खण्डिका।
एवन्तावत् प्रथमे प्रपाठके अग्निसमाधानम्, समाहिताग्नेश्चावश्यकर्त्तव्यं सायंप्रातर्होमादिकम् देवसवितरित्यादेश्च मन्त्रस्य पर्य्युक्षणे विनियोगो निरूपितम्। समाधानञ्चाग्नेर्जायायाः पाणिं जिघृक्षोरभिहितम्। अथेदानीं कथं जायायाः पाणिर्गृह्यते, देवसवितरित्यादेः परेषाञ्च मन्त्राणां विनियोगः,—इत्येवमर्थजातं निरूपयितुं द्वितीयः प्रपाठक आरभ्यते। प्रसङ्गागतञ्चान्यत्। तत्र तावत् “देव सवितः”—इति मन्त्रादूर्द्ध्वंपाणिग्रहणलिङ्गामन्त्राः पठ्यन्ते। तद्विनियोगविवक्षया पाणिग्रहणमेव प्रथमं निरूप्यते,—
** पुण्ये नक्षत्रे दारान् कुर्व्वीत॥१॥**
पुण्ये शोभने, नक्षत्रे ऋक्षे। “उदगयने पूर्व्वपक्षे पुण्येऽहनि”—इति सिद्धत्वादेतदवाच्यम्—इति चेत्। न। दारकर्म्मणि तिथिवारयोगकरणापेक्षया नक्षत्रस्यादरातिशयार्थत्वात्। दाराः गृहाः पञ्चालाः—इत्येवमादयो नित्यबहुवचनान्ताः शब्दाः पुंलिङ्गाः। दारान् सहधर्म्मचारिणीम्, पत्नीम्—इत्यनर्थान्तरम्। वक्ष्यमाणेन पाणिग्रहणविधिना कुर्व्वीत॥१॥०॥
कीदृशान् दारान् कुर्व्वीत? तदाह
** लक्षणप्रशस्तान् कुशलेन॥२॥**
प्रशस्तम् अवैधव्यादिसूचकं लक्षणं चिह्नं येषां, त इमे प्रशस्तलक्षणाः सन्तो व्यत्ययेन लक्षणप्रशस्ता इत्युच्यन्ते। तान्। लक्षणेन शोभनलक्षणेन प्रशस्तान् श्रेष्ठान्—इति वाऽर्थः। दारान् कुर्व्वीत—इति दारसम्बन्धविवक्षया इत्थं निर्देशः। कथमवगम्यन्ते लक्षणानि? तदुच्यते। कुशलेन स्त्रीलक्षणविदा। स्त्रीणां लक्षणानि शुभाशुभसूचकानि यो वेत्ति सोऽयं स्त्रीलक्षणविद् उच्यते। तेन परीक्षितान्—इत्यर्थः। तथाच स्मरणम्।
“सदा गृही सुखं भुङ्क्तेस्त्रीलक्षणवती यदि।
अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत्”।
इति। इयमपरा सूत्रयोजना।लक्षणविदा कर्त्रालक्षणेन शोभनलक्षणेन प्रशस्तान् अन्तर्भूतनिजर्थतया प्रशंसितान् दारान् कुर्व्वीत।लक्षणशब्दः शोभनलक्षणार्थोऽन्यत्रापि दृश्यते^(१)॥२॥
———————————————————————————————
१. केचिदेतत्सूत्रानन्तरम्–“अनार्धशुल्करहिताम्”–इति सूत्रमधिकं पठन्ति। “आर्षशुल्कं गोमिथुनादि, तदितरशुल्कनीतां त्यजेत्”–इति व्याचक्षते च। तदिदं सूत्रमनार्षमिति प्रतिभाति। तथाहि। पूर्व्वं“दारान् कुर्व्वीत”–इति सूत्रयित्वा, तद्विशेषणत्वविवक्षयैव च–“लक्षणप्रशन्तान्”–इति, किमिति “अनार्षशुल्करहितान्”–इति नासूत्रयत्। “तदलामे पिण्डान्”–इत्युत्तरं सूत्रमप्येवं सत्युपपद्यते। तत्र हि तच्छब्देन स्त्रीलक्षणविदः परामर्शः। एतच्चानयोरेव सूत्रयोरानन्तर्य्ये सुश्लिष्ठं स्यात्। न पुनरन्तरा सूत्रान्तरेण व्यवधाने। अपिच। अनार्षशुल्करहिताम्–इत्यनेर्थेऽपि गोमिथुनस्य शुल्करूपता प्रतीयते। सोऽयमर्थो न्यायविरुद्धोमनुविरुद्धश्च। तथाच मनुः।
“व्यार्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्।
अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः”।
इति। सूत्रपुस्तकेषु सर्व्वेस्वस्मदवलोकितेषु सोसाइटिभाष्यपुस्तकेषु च, अनार्षशुल्करहिताम्–इति सूत्रं न दृश्यते।
———————————————————————————————
** तदलाभे पिण्डान्॥३॥**
तदिति प्रकृतः स्त्रीलक्षणवित् परामृश्यते। तस्य स्त्रीलक्षणविदोऽलाभे पिण्डान् कुर्व्वीत॥३॥०॥
कुतो मृदमादाय पिण्डाः कर्त्तव्याः? तदाह—
वेद्याः सीतायाः हृदाद्गोष्ठाच्चतुष्पथादादेवनादादहनादीरिणात्॥४॥
वेदिरग्निष्टोमोदौ विहिता। सीता लाङ्गलपद्धतिरित्यनर्थान्तरम्। कृष्टं क्षेत्रम्—इत्येके। ह्रदोऽगाधजलाशयो ग्रीष्मेऽपि यः शोषं नैति। गावो यत्र तिष्ठन्तितद्गोष्ठम्। चतुष्पथः प्रसिद्धः। आदीव्यते यत्र तदादेवनं द्यूतस्थानम्। आदह्यते यत्र तदादहनं श्मशानम्। यत्रोप्तं बीजं न प्ररोहति तदीरिणम् ऊषरम्—इत्येकोऽर्थः। एतेभ्यो वेद्यादिस्थानेभ्यो मृदमादाय पृथगेव पिण्डान् कुर्व्वीत। पृथगिति कुतो वर्ण्यते? असमासकरणादित्याह। सर्व्वेभ्यः सम्भार्य्यम्—इति चोत्तरत्राम्नानात्। एवं खल्वष्टौ पिण्डाभवन्ति॥४॥०॥
सर्व्वेभ्यः सम्भार्य्यंनवमम्॥५॥
सर्व्वेभ्यो वेद्यादिस्थानेभ्यः स्तोकस्तोकां मृदं सम्भृत्याहृत्य क्रियते—
इति सम्भार्य्यंनवमं पिण्डं कुर्व्वीत॥५॥०॥
** समान् कृतलक्षणान्॥६॥**
समान् समानान् प्रमाणतः, कृतं लक्षणं येषां तान् कृतलक्षणांश्च
पिण्डान् कुर्व्वीत। लक्षणं चिह्नम्—इत्यनर्थान्तरम्। यतमः पिण्डोयतमस्या मृदस्तच्चिह्नंकर्त्तव्यं वक्ष्यमाणार्थम्॥६॥०॥
तान् खल्विमान् पिण्डाम्—
पाणावाधाय कुमार्य्या उपनामयेदृतमेव प्रथममृतं नात्येति कश्चनत्तेइयं पृथिवी श्रिता सर्व्वमिदमसौ भूयादिति, तस्यानाम गृहीत्वैषामेकं गृहाणेति ब्रूयात्॥७॥
स्वकीये पाणौ हस्ते आधाय कृत्वा कुमार्य्याः कन्यायाः उप समीपे नामयेत् स्थापयेत्, ऋतमेव प्रथमम्—इत्यनेन मन्त्रेणेतिकारान्तेनेत्यर्थः। किं कृत्वा? असावित्यस्मिन्मन्त्रस्थाने तस्याः कुमार्य्यानाम गृहीत्वा उच्चार्य्य। तेन ‘सर्व्वमिदं गौरीदा भूयात्’—इत्येवमादिकः प्रयोगः। एवं स्थापयित्वा पुनः तस्या नाम गृहीत्वा योग्यत्वात् सम्बोधनविभक्त्या उच्चार्य्य—एषामेकं गृहाण—इति ब्रूयात्। ‘गौरीदे! एषामेकं गृहाण’—इत्यादिः प्रयोगः। तदिदं तस्या नाम गृहीत्वेति मध्यपठितं मध्यमणिन्यायेनोभाभ्यां सम्बध्यते। अतएव गृहाणेति सम्बोध्यमानार्थापेक्षी मध्यमपुरुषोऽप्याञ्तस्येनोपपद्यते॥७॥०॥
** पूर्व्वेषांचतुर्णां गृह्णन्तीमुपयच्छेत्॥८॥**
पूर्व्वेषां चतुर्णां वेदि-सीता-ह्रद-गोष्ठमृन्निर्म्मितानां पिण्डानाम्
एकतमं पिण्डं गृहन्तीं(छान्दसोऽयं प्रयोगः) गृहतीम् आददानां कुमारीमुपयच्छेत् विवाहयेदित्यर्थः॥८॥०॥
** सम्भार्य्यमपि त्वेके॥९॥**
सम्भार्य्यमपि पिण्डमाददानामुपयच्छेदित्येके आचार्य्या मन्यन्ते। अस्मादेवावगम्यते,—सम्भार्य्यमाददानां नोपयच्छेदित्यन्ये मन्यन्ते—इति। तस्मात् सम्भार्य्यमाददानामिच्छयोपयच्छेद्वान वोपयच्छेत्—इति सिद्धम्। किं कारणम्? शुभाशुभयोर्मिश्रत्वम्। कुतः पुनरेतत्? प्रत्येकशः फलार्थवाददर्शनात् सम्भार्य्यस्य च सर्व्वघटितत्वात्। तथाच गृह्यासंग्रहः।
“वेदिपिण्डात् क्रियावती सीतायाः फलते कृषिः।
अक्षोभ्या च ह्रदे ज्ञेया गोष्ठे भवति गोमती।
चतुष्पथे प्रकीर्णा स्यात् द्यूतस्थाने कलिप्रिया।
श्मशाने म्रियते भर्त्ता बन्ध्या भवति चोषरे।
नवमे सर्व्व एवैते कन्यायाः परिगृह्यन्ते”।
इति। शाखान्तरेऽप्येवमेव प्रायः फलवादाः श्रूयन्ते। किन्तुतत्र क्रियावत्त्वादिकमपत्यगतमिति विशेषः। तथा चोक्तम्।
“गृहाना वेदिपिण्डञ्च प्रसूते याज्ञिकान् सुतान्।
सीतापिण्डन्तु गृहाना सुतान् सूते कृषीबलान्।
सर्व्वकामसमृद्धांश्च तृतीयस्य परिग्रहात्।
गोष्ठपिण्डग्रहाच्चापि गोमिनः सुखिनस्तथा।
दूतश्चेतश्चगन्तारः पञ्चमेनास्थिताः सुताः।
षष्ठेन तु गृहीतेन भवन्ति द्यूतसेविनः।
श्मशानपिण्डग्रहणाद्विधवा जायते ध्रुवम्।
बन्ध्या वा विधवा वा स्यादष्टमग्रहणादपि।
मिश्रमेतद्भवेत् सर्व्वं यतः पूर्व्वोदितं फलम्।
नवमस्य ग्रहस्तस्मात् शुभो वा यदि वाऽशुभः”।
इति॥९॥०॥
अथेदानीमासन्नविवाहायाः कन्यायाः स्नपनमभिधीयते,—
क्लीतकैयवैर्म्माषैर्व्वाऽऽप्लुतां सुहृत् सुरोत्तमेन सशरीरां त्रिर्मूर्द्धन्यभिषिञ्चेत्
—काम वेद ते नाम मदाेनामासीति, समानयामुमिति पतिनाम गृह्णीयात्,स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत्॥१०॥
क्लीतकैः क्लिन्नकैः चूर्णीकृत्योदकेन द्रवीकृतैरित्येतत्। कैः?यवैर्माषैर्व्वा।यवमाषौ प्रसिद्धौ। वाशब्दो विकल्पार्थः। “मसूरयवमाषाणां श्लक्ष्णचूर्णान्येकीकृत्य”—इति भवदेवभट्टवचनमप्रमाणम्। तदेभिर्यवैमाषैर्व्वाआप्लतां कृतसर्व्वाङ्गोद्वर्त्तनां, सुहृत् मित्रं स्निग्धहृदयः—इत्यनर्थान्तरम्। सह शरीरेण वर्त्तमानां कन्यांमूर्द्धनि शिरसि त्रिर्व्वारत्रयम् अभिषिञ्चेत्। मूर्द्धनि तथाऽभिषेक्तव्यं यथा सर्व्वमेव शरीरमभिषिक्तंभवतीत्यर्थः। केन अभिषिञ्चेत्? सुरोत्तमेन। धरुणा सुराऽररिन्दानीत्युदकनामसु नैघण्टुक काण्डे पाठादुदकनामैतत्—यत् सुरेति। तदयमर्थः। उदकेन
उत्तमेन शोभनगन्धवर्णादियुक्तेन अभिषिञ्चेत्। सुरैव कस्मान्नोच्यते? उच्यते। सुरा हि नामात्यन्तमपवित्रं यदस्याः प्राणस्पर्शयोरपि प्रायश्चित्तमुपदिशन्ति। तथाच स्मर्य्यते।
“सुराया गन्धमाघ्राय स्नात्वाऽऽज्यं प्राश्य शुध्यति।
स्पर्शे प्रतिग्रहे चैव त्र्यहं पीत्वा तथोदकम्”।
इति। “सुरास्नानसमं तैलम्”—इति च सुरास्नानस्यात्यन्तनिन्द्यतां दर्शयति। वचनबलाददोषः?—इति चेत्। न। अन्यथोपपत्तेः। अन्यथाऽपि वचनमुपपद्यते—इति नास्ति वचनस्य बलम्।न खल्वविरोधेन सम्भवति वचनार्थे विरुद्धमर्थं प्रकल्प्य वचनबलाददोषः—इतीयं कल्पना साधीयसीभवति। अन्यथोपपन्नञ्चवचनं न सामान्यस्यापि शास्त्रस्यबाधकं भवितुमर्हति—इतिचमसिनां शेषभक्षाधिकरणे दर्शितम्। तस्मादुदकेनैवाभिषेकः। तथाच गृह्यासंग्रहः।
“सर्व्वयज्ञेषु विप्राणामद्भिः पूर्व्वंप्रवर्त्तते।
तस्मात् सुरोत्तमा ह्यापो अद्भिरेवाभिषेचयेत्”॥
इति। किं तूष्णीमभिषिञ्चेत्? न। कथं तर्हि? काम वेदते नाम मदोनामामि—इत्येवमादिभिः ऋग्भिः। कतिभिः ऋग्भिः? स्वाहाकारान्ताभिः। अस्मिन् प्रदेशे स्वाहाकारान्ता यावत्यमृचः सन्ति तावतीभिः,—तिसृभिरित्यर्थः। तस्मादेकैकामृचमुच्चार्य्यएकैकोऽभिषेकः कर्त्तव्यः। उत्तराभ्यान्तु द्वाभ्याम् ऋग्भ्याम् उपस्थंयोनिं प्लावयेत्। एतदुक्रं भवति। तिसृभिरेव ऋग्भिः तथा शिरस्यभिषेकः कर्त्तव्यो यथा सर्व्वंशरीरमभिषिक्तंभवति, परमुत्तराभ्यां
तथाऽभिषेक्तव्यं यथोपस्थो विशेषतः प्लावितो भवति—इति। अथेदानींमन्त्रे विशेषमाह। समानयामुमित्यत्र अमुमित्यस्मिन् मन्त्रस्थाने समानयामुकमित्यभिषेक्तव्यायाः कन्यायाः भविष्यतः पत्युर्नाम गृह्णीयात् उच्चारयेत्। तदिदं सूत्रमत्सृज्य पाठक्रममनुसृत्यार्थक्रमं व्याख्यातम्॥१०॥०॥
** ज्ञातिकर्म्मैतत्॥११॥**
एतत् कन्यास्नपनं ज्ञातेर्मातापित्रोरन्यस्यकुलीनस्य सुहृदः कर्म्म। ज्ञातिकर्म्मत्वादेवेदं नातीवावश्यकमित्यवगम्यते। एवमेके। अयञ्चाभिषेको दौर्भाग्यालक्ष्म्युपसर्गाणां नोदनार्थं शाखान्तरेष्वपि पद्यते, तस्मात् प्रयत्नतः कर्त्तव्यः। एवमन्ये। तदत्र भगवन्तोभूमिदेवाः प्रमाणम्॥११॥०॥
अथेदानींपाणिग्रहणमभिधीयते,—
** पाणिग्रहणे पुरस्ताच्छालाया अग्निरुपसमाहितोभवति॥१२॥**
पाणिग्रहणे कर्म्मणि प्रक्रान्ते पुरस्तादग्रतः शालायाः गृहस्य—चत्वर इत्यर्थः। अग्निरुपसमाहितः स्थापितो भवति, पूर्वोक्तामावृतं कृत्वा। अनुपदेशात् कर्त्तुरनियमः। तेन यावद्वरोवधूमादाय गृहान्निष्क्रम्यागच्छति, तावदन्य एव कश्चिदग्निं स्थापयति। आवृतमपि स एव करोति। अतएव सूत्रयिष्यति—“वर्हिषोऽन्तं कटान्तं प्रापयेत्”—
इति।
यद्यप्याचार्य्येण कन्याप्रदानं प्रतिग्रहश्च न सूचितम्, तथापि“अलङ्कृत्य कन्यामुदकपूर्वांदद्यात्”—इत्येवमादिगृह्यान्तरदर्शनात्तदप्यादरणीयम्। पाणिग्रहणे शिष्यजिज्ञासा समुत्कटेति तन्निरसिसिषया क्रमप्राप्तानां पाणिग्रहणलिङ्गानां मन्त्राणां विनियोगविवक्षया वा खल्वाचार्य्यस्तदेव सूत्रयाञ्चकार, न कन्याप्रदानम्—इति श्लिष्यते। प्रदानञ्चेदं कन्यादातुः कर्म्म, न प्रतिग्रहीतुः।प्रतिग्रहोऽपि दानाधीन एव॥१२॥०॥
अथ जन्यानामेको ध्रुवाणामपां कलसं पूरयित्वासहोदकुम्भः प्रावृतो वाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते॥१३॥
अथानन्तरं स्थापितेऽग्नावित्यर्थः। जन्याःनवोढ़ाज्ञातयो वरस्निग्धा वा। तेषामेकोऽन्यतमः ध्रुवाणां सन्ततानां सम्यग्विस्तृतानाम्,—
“महानदीषु या आपः कौप्यान्याश्च ह्रदेषु च।
गन्धवर्णरसैर्युक्ता ध्रुवास्ता इति निश्चयः”॥
इति गृह्यासंग्रहोक्तलक्षणानाम्। अपां, ध्रुवाभिरद्भिरित्येतत्।कलसं कुम्भं पूरयित्वा वर्द्धयित्वा, सह उदकुम्भेन उदकपूरितेन कुम्भेन वर्त्तमानः—तमादायेत्यर्थः। प्रावृतो वस्त्रेणाच्छादितः।कृतोष्णीषः–इत्यन्ये। वस्तुतस्तु, प्रावृत इत्यनेन प्रावृतांसोऽभिप्रेयते। स खल्वयंगन्धमाल्यैरुदकुम्भमलङ्कृत्य धारयेत्। तथाच गृह्यासंग्रहः।
“गन्धमाल्यैरलङ्कृत्य सकुम्भो वाग्यतः शुचिः"।
धारयेत्त्रिषु वर्णेषु प्रावृतांसो द्विजोत्तमः”॥
इति। ‘वाग्यतोऽग्रेणाग्निं परिक्रम्य’–इति कृतभाष्यम्। दक्षिणतो दक्षिणस्यांदिशृग्नेःब्रह्माऽऽसनं परित्यज्य इत्यर्थाल्लभ्यते। उदङ्मुखःकौवरीदिगभिमुखः अवतिष्ठते ऊर्ध्वस्तिष्ठति। अवपूर्वस्तिष्ठतिरनुपविष्टतां बोधयति। अत्रापि वाग्यमनलांपे पूर्वोक्तमेव प्रायश्चित्तं, कारणास्याविशेषात्–इति द्रष्टव्यम्। एवमन्यत्रापि॥१३॥०॥
प्राजनेनान्यः॥१४॥
प्राजनेन सह प्रतोदेन अन्यः कुम्भधारिणोऽपरः जन्यः प्रावृतोवाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते॥१४॥०॥
शमीप
लाशमिश्रांश्च लाजांश्चतुरञ्जलिमात्रान् सर्पेणोपसादयन्ति पश्चादग्नेः॥१५॥
शमी प्रमिद्धा। तस्याः पलाशानि पत्राणि, तन्मिश्रान् लाजान्—
“अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते।
भृष्टास्तु ब्रीहयो लाजा घटा खाण्डिक उच्चते"॥
इत्युक्तलक्षणात्। चत्वारोऽञ्जलयः परिमाणमेषाम्—इति चतुरञ्जलिमत्वान्। परिमाणे मात्रट। यावद्भिश्चत्वारोऽञ्जलयः पूर्य्यन्ते तावत्—इत्येतत्। सूर्पणोपमादयन्ति सूर्पस्यान् कृत्वा स्थापयन्तिपश्चादग्नेः। बहुवचनात् कर्त्तुरनियमः। चः समुच्चये पूर्वोक्तमेवसमुच्चिनोति॥१५॥०॥
दृशत्पुत्रञ्च॥१६॥
दृशत् शिला पेषणाधारात्मिका पुत्रश्चोपलःपेषणकरणस्वरूपः। सा च स चेतिद्वन्द्वैकवद्भावः तच्चोपमादयन्ति पश्चादग्नेः। कुतः पुनः पुत्र उपल इति वर्ण्यते? सन्निधानादित्याह। सन्निहितैव दृशज्जातिरागच्छति हृदयमिति सेव पुत्रस्यापि कल्पयितुमुचिता। श्लोकमपि उदाहरन्ति।
“प्रसिद्धार्थस्यसान्निध्ये योऽप्रमिद्धायउच्यते।
तत्सन्निधानसामर्थ्यात्तज्जातीयोऽवगम्यते”॥
इति। दृशज्जातीयपुत्रस्यैवासादनं न तु दृशदःपुत्रस्य च—इतिवा व्याख्येयम्॥१६॥०॥
** अथ यस्याः पाणिं ग्रहीष्यन् भवति सशिरस्कासाऽऽप्लुता भवति॥१७॥**
अथेति पूर्वोक्ताभिषेकानन्तरमिदानीमाप्लवनान्तरं दर्शयति।यस्याः कन्यायाः पाणिं ग्रहीष्यन् ग्रहीतुमिच्छन् भवति—ग्रहीष्यतिवरः, सा कन्या सशिरस्का आप्लुता अविधवोपनीतमङ्गलोदकैः स्नाता भवति। अस्मिंश्चाप्लवने
“सवर्णाभिरनिन्द्याभिरद्भिरक्षतमिश्रितैः।
स्नानं चतुर्भिः कलसैःस्त्रीभिः स्त्रींयत्र प्लावनम्”॥
इति गृह्यासंग्रहोक्तो विशेषो प्रष्टव्यः॥१७॥०॥
अहतेन वसनेन पतिः परिदध्याद्,—या अवृन्तन्नित्येतयर्च्चा, परिधत्त धत्त वाससेति च॥१८॥
अहतेनाक्षुणेनास्वण्डितेन यन्त्रनिर्मुक्तेन नवेनेत्येतत्। आहतेन—इति केचित् पठन्ति। तदनाकरम्। वसनेन वाससा, पतिःयस्याः पाणिं ग्रहीष्यन् भवति तां परिदध्यात् अन्तर्भूतणिजथतयापरिधापयेत् संयोजयेत्—अहतं वासस्तां परिधापयेदित्यर्थः। अतएव परिधत्स्व—इति, परिधत्त—इति च मन्त्रलिङ्गमनुगृह्यते।गृह्यान्तरे परिधापनोपदेशाच्चैवमवगन्तव्यम्। तच्चोदाहरिष्यामः।वरस्य परिधापनोपदेशादेव वध्वाः परिधानमप्याक्षिप्यते। तद्विनातदनुपपत्तेः। आचार्य्यस्याध्यापनविधिनेव माणवकस्याध्ययनमप्याक्षिप्यते—इति यद्वत्। या अकृन्तन्नित्येतया ऋचा, परिधत्त धत्तवाससा—इति मन्त्रेण च परिदध्यादिति गतेन सम्बन्धः। अथएतया—इत्यवाच्यम्?—इति चेत्। न। स्वरवर्णनियमार्थत्वात्।कथं नाम? एतथा एवम्भूतस्वरवर्णयैव न तु व्यत्यस्तस्वरवर्णयेत्यर्थः। तदनेन स्वरवर्णसम्पादनार्थमवश्यं यतितव्यम्—इति दर्शयति।तथा चोक्तम्।
“
मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात्"॥
इति। अत्र किञ्चिद्वक्तव्यमस्ति। द्वयीखल्वत्र परिधापनक्रियाऽवधार्य्यते। कस्मात्? भेदेनोपदेशात्। ‘एतयर्च्चा’—इति, ‘इति च’—इति चानयोर्मन्त्रयोर्भेदेनोपदेशो विभिन्नक्रियाविनियोगंमन्त्रयोरवगमयति। यदि पुनरेकस्यामेव परिधापनक्रियायामुभयोर्विनियोगोऽभिप्रेयेत, तर्ह्यलं भेदोपदेशेन। तस्माद्वसनद्वयपरिधापने
मन्त्रद्वयस्य विनियोगः—इत्यादिमो मन्त्रोऽधरीयवसनपरिधापने, ऽन्तिमश्चोत्तरीयवसनपरिधापने करणम्—इति श्लिष्यते। गृह्यान्तरे चोपदेशात्। गृह्यान्तरे च वसनद्वयस्य—अधरीयस्य उत्तरीयस्य च परिधापनमुपदिश्यते—इतीहापि तथैव वर्णयितुमुचितम्।तथाच गृह्यान्तरम्। “अथैनां वासः परिधापयति”—इति।“अथोत्तरीयम्”–इति च।
“द्विकच्छःकच्छशेषश्च मुक्तकच्छस्तथैव च।
एकवामाअवामाश्च नग्नः पञ्चविधः स्मृतः”॥
इत्येकवाससोनग्नत्वस्मरणाच्चैतदवगन्तव्यम्॥१८॥०॥
** प्रावृतां यज्ञोपवीतिनीमभ्युदानयन् जपेत्—सोमोददङ्गन्धर्व्वायेति॥१९॥**
प्रावृतां कृतोत्तरीयाम्। कथं प्रावृताम्? यज्ञोपवीतिनींयज्ञोपवीतिनीमिव, यज्ञोपवीतवत् कृतोत्तरीयामित्यर्थः।
एवं वा—
प्रावृतां प्रकर्षेणावृताम् आच्छादिताम्,—“न नाभिं दर्शयेत्कुलवधूरागुल्फाभ्यां वासः परिदध्यात् न स्तनौ विवृतौ कुर्य्यात्”–इति स्मृत्युक्तरीत्या परिहिताधरीयवमनाम्—इत्येतत्। यज्ञोपवीतंयज्ञोपवीतवत् विन्यासविशिष्टमुत्तरीयं, तत् यस्या अस्ति, सेयंयज्ञोपवीतिनी, ताम्। यज्ञोपवीतवत् परिहितोत्तरीयवसनामित्यर्थः। तदाभ्यां पदाभ्यां पूर्वत्र सूचितयोर्वाससोर्विन्यासविशेषमिह
दर्शयति। यज्ञोपवीतपदञ्चोत्तरीयेऽपि प्रयुज्यते विन्यासविशेषलाभार्थम्—इति पुरस्तादभिहितमस्माभिः।
यज्ञोपवीतवतीमित्येव कुतो न वर्ण्यते? तदभावादित्याह। नखल्वस्ति योषितां यज्ञोपवीतं, येनानूद्येत। अनुमीयतामिति चेत्।स्यान्मतम्, अस्मादेवानुवादात् योषितामपि यज्ञोपवीतमनुमीयताम्। न। अन्यथोपपत्तेः। अन्यथैवोपपन्नोऽयमनुवादो न विधिमनुमापयितुमलम्। अनन्यथासिद्धः खल्वनुवादो विधिमनुमापयति। सिद्धवदुपदेशाच्चासिद्धिः। सिद्धवत् खल्वेतदुपदिश्यते—यज्ञोपवीतिनीम्–इति। सिद्धं खल्वासां यज्ञोपवीतशब्दमुत्तरीयंन यज्ञोपवीतम्। तस्मादसिद्धिर्योषितां यज्ञोपवीतस्य।
तत्र ब्रूमः। यज्ञोपवीतिनीमित्यस्य यज्ञोपवीतवतीमित्ययमेवार्थः शब्दस्य श्रवणमात्रादवगम्यते। स खल्वयमर्थः श्रुत्याऽवगम्यते इति न युज्यते विना कारणमुत्स्रष्टुम्। यज्ञोपवीतवद्विन्यासविशिष्टे चोत्तरीये यज्ञोपवीतशब्दो गौणः। न चात्र लक्षणाकारणमस्ति। प्रमाणान्तरावगम्या हि सा न खल्वपि प्रमाणान्तराभावे सेद्धुमर्हति। न चात्र प्रमाणान्तरमस्ति। तथा चोक्तम्।
“गौणे सदपि सामथ्येन प्रमाणान्तरं विना।
आविर्भवति मुख्ये तु शब्दादेवाविरस्ति तत्॥
तात्पर्य्यञ्च स्वतो मुख्ये गौणार्थपरता पुनः।
प्रमाणान्तरविज्ञेया तदभावान्न सिध्यति”॥
इति। योषितां यज्ञोपवीताभावादनुवादानुपपत्तिरिति चेत्।न। प्रावृतामित्यनुवादेन प्रावरणस्येव यज्ञोपवीतिनीमित्यनुवादेन
यज्ञोपवीतस्यापिविध्यनुमानोपपत्तेः। अग्रिमेऽपि सूत्रे अनुवादाद्विधेरनुमाने न विवादः। अन्यथोपपत्तेरिति चेत्। इति चेत् भवान् पश्यति, अन्यथाऽपि उत्तरीये गौणतयाऽप्युपपद्यमानोऽयमनुवादो न विधिमनुमापयितुमर्हतीति। तन्न। गौणतायाः प्रमाणाभावेनासम्भवात्,—इत्युक्तमादावेव। एतेन सिद्धवदुपदेशोऽपि व्याख्यातः। अपिच पुराकल्पे किल पुंसामिव योषितामपि यज्ञोपवीतमासीत्। तदाह यमः।
“पुराकल्पे कुमारीणां मौञ्जीबन्धनमिष्यते।
अध्यापनं च वेदानां सावित्रीवचनं तथा॥
पिता पितृव्यो भ्राता वा नैनामध्यापयेत् परः।
स्वगृहे चैव कन्याया भैक्षचर्य्याविधीयते॥
वर्ज्जयेदजिनं चीरं जटाधारणमेवच”।
इति। तथा हारीतः। “द्विविधाः स्त्रियो ब्रह्मवादिन्यःसद्योवध्वश्च”–इति। तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययनं स्वगृहे भिक्षाचर्य्याइति। बधूनां तूपस्थिते विवाहे कथञ्चिदुपनयनमात्रं कृत्वा विवाहः कर्त्तव्य इति माधवाचार्य्याः। तस्मात्, यज्ञोपवीतिनीमित्यस्य यज्ञोपवीतवतीमिति यथाश्रुत एवार्थ आदरणीयः।
तामिमां प्रावृतां यज्ञोपवीतिनीं बधूं अभ्युदानयन्–“पित्राप्रत्तामादाय गृहीत्वा निष्क्रामयति”–इति गृह्यान्तरदर्शनात्करेण करे गृहीत्वा गृहादग्नेरभिमुखीमानयन् जपेत् पतिः—सीमीदददित्येतं मन्त्रम्॥१९॥०॥
** पश्चादग्नेःसंवेष्टितं कटमेवंजातीयं वाऽन्यत् पदाप्रवर्त्तयन्तींवाचयेत्—प्र मे पतियानः पन्थाः कल्पतामिति॥२०॥**
पश्चादग्नेरित्युक्तार्थम्। संवेष्टितं सम्यग्वेष्टितमधश्चोपरि चपार्श्वेचाच्छादितमहतेन वसनेनेत्यर्थः। कटं, कटः प्रसिद्धः वीरणपत्रैर्ग्रथ्यते। तस्य खल्वसम्भवे एवंजातीयं तृणजातीयम् अन्यद्वाकिञ्चित् तृणवेष्टकादि, पदा चरणेन प्रवर्त्तयन्तीं प्रमारयन्तीम्—अग्निसमीपं नयन्तींबधूं वाचयेत् भाषयेत् पतिः। किं वाचयेत्?प्र मे पतियानः–इत्येतं मन्त्रम्। गतमन्यत्। अत्रानुवादाद्विधिरनुमीयते,—वरबध्वोरुपवेशनार्थं कटः कर्त्तव्यः इति। कर्त्तुश्चानियमः। एतदुक्तं भवति, वरेण नीयमाना बधूः चरणेन कटंप्रसार्य्याग्निसमीपं नयत्युपवेशनार्थम्, मन्त्रञ्च तत्कालमेव पठति—इति। अत्र विशेषमाह गृह्यासंग्रहः।
“यदा निष्क्रामयेत् कन्यां वरः पाणिं जिघृक्षयन्।
अग्निं प्रदक्षिणं कृत्वा कटस्तीर्णे पदं नयेत्॥
पदा प्रपद्य पन्थानं पतियान जपेद्वधूः।
वरो वाऽत्र जपेन्मन्त्रमा कटान्तादिति स्थितिः"॥
इति॥२०॥०॥
** स्वयं जपेदजपन्त्यां प्रास्याइति॥२१॥**
लज्जया अन्येन वा केनचित् कारणेन तं मन्त्रमजपन्त्यां बध्वांपतिः स्वयमेव जपेत्। तत्र च, प्र मे—इत्येतस्मिन् मन्त्रस्थाने प्रास्या इत्येष विशेषःकार्य्यः॥२१॥०॥
पदा प्रवर्त्तयन्तीमित्युक्तम्। तत् कियन्तं प्रवर्तयेत्? उच्यते,—
** बर्हिषोऽन्तं कटान्तं प्रापयेत्॥२२॥**
बर्हिषः—इति जात्याश्रयमेकवचनम्। बर्हिषाम् आस्तृतानामन्तं कटस्यान्तं प्रापयेत्। अयमर्थः। कटस्तथा पदा प्रवर्त्तयितव्यो बध्वा, यथा तदन्तभाग आस्तृतबर्हिषां किञ्चिदुपरि स्यादिति। तस्मादवगच्छामः,–यावद्वामः परिधाप्य वरो बधूमादायागच्छति, तावद्बर्हिरास्तरणादिका सर्व्वाऽप्यावृदन्येनैव कर्त्तव्या–इति।
रघुनन्दनस्त्वाह–“अन्तशब्दौ समीपवचनौ, आस्तृतवर्हिषां च समीपं देशं—कटवर्हिषोरन्तरालरूपं बधूं प्रापयेत् पतिः”–इति। तदसङ्गतम्। उपात्तं कर्मद्वयमुत्सृज्यानुषङ्गेन बध्वाः कर्म्मत्वकल्पनाऽनौचित्यात्। नाप्यन्तरालदेशं गतया बध्वा किञ्चित् प्रयोजनमस्ति। उपविष्टया खल्वेतया प्रयोजनम् “प्रापयेत्”—इत्यत्र “प्रेरयेत्”–इति केचित् पठन्ति। तत्रापि तथैवार्थः॥२२॥०॥
एवं वरगृहीतकरा बधूरागत्य,—
** पूर्व्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति॥२३॥**
पूर्वे कटान्ते कटस्य पूर्वस्मिन् भागे दक्षिणतोदक्षिणम्यां दिशि उपविशति। कस्य दक्षिणतः? पाणिग्राहस्य। यः पाणिमस्याग्रहीष्यति तस्य॥२३॥०॥
** दक्षिणेन पाणिना दक्षिणम् समन्वारब्धायाः षड़ाज्याहुतार्जुहोत्यग्निरेतु प्रथम इत्येतत्प्रभृतिभिः॥२४॥**
दक्षिणेन सव्येतरेण।वामाचारा योषितः—इति ह्याचक्षते।
तस्मात् सन्निहितत्वाच्च सव्येनैवेदमन्वारम्भणं मा भूदिति खल्वाचार्य्योदक्षिणेनेत्याह। अन्वारब्धायाः—इति कर्त्तरि निष्ठा। षष्ठी चेयं सम्बन्धार्था। तदयमर्थः। दक्षिणेन पाणिना दक्षिणमंसं स्कन्धं वरस्येत्यर्थात्। अन्वारब्धायाः अन्वारभमाणायां बध्वां, पाणिग्राहः षड़ाज्याहुतीःषट्संख्याका आज्यहविष्का आहुतीर्जुहोति, अग्निरेतु—इत्येवमादिभिः षड्भिर्मन्त्रैः। होमस्य खल्वस्याज्यहविष्कतया आज्यतन्त्रविहितो महाव्याहृतिहोमः पुरस्तादपि भवति। आज्यभागौ स्विष्टकृच्च न भवन्तीत्यवगन्तव्यम्॥२४॥०॥
** महाव्याहृतिभिश्च पृथक्॥२५॥**
महाव्याहृतिभिर्व्यस्ताभिः, अत एव पृथक् नानेत्यनर्थान्तरम्। एकैकशः—इत्येतत्। आज्याहुतीर्जुहोतीत्यनुवर्त्तते। एवं खलु तिस्र आहुतयो भवन्ति॥२५॥०॥
** समस्ताभिश्चतुर्थीम्॥२६॥**
समस्ताभिर्महाव्याहृतिभिश्चतुर्थीमाज्याहुतिं जुहोति। सेयं संख्या महाव्याहृतिहोमापेक्षया बोद्धव्या। ताः खल्वेताश्चतस्र आहुतयः षड़ाहुतीनां परस्ताद् भवन्ति। कुतः? तथैवोपदेशात्॥२६॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मज श्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य प्रथमा खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके द्वितीया खण्डिका
हुत्वोपोत्तिष्ठतः॥१॥
उपेति संहतहस्तत्वमुच्यते। तदनेन होमानन्तरं दम्पत्योरञ्जलिकरणमुपदिशति। विनियोगस्तु तस्योत्तरसूत्रेवक्ष्यते। हुत्वा संहतहस्तौ दम्पतीउत्तिष्ठतः।‘उप’—इत्यत्र, ‘उपेत्य’—इतिकेचित् पठन्ति। उपेत्य अञ्जलिं बध्वा—इति व्याचक्षते च। आहएककर्त्तृकत्वाभावात् कथं हुत्वेति क्त्वाप्रत्ययः? पाणिग्राहो हि जुहोति। उच्यते। पूर्व्वापरोभावमात्रमत्र क्त्वाप्रत्ययार्थः, न त्वेककर्त्तृकत्वमपि। तत्राप्येष दृश्यते—“आज्याहुतिं हुत्वा मुख्यं धनंदद्यात्”–इत्येवमादौ बहुलम्। अत्र खल्वन्यो जुहोति, अन्यश्य ददाति। अध्वर्य्युर्हि जुहोति, यजमानश्च ददाति। होमं कुर्व्वाणस्यपत्त्युरंसमन्वारभमाणा बधूरपि कयाचिद्विवक्षया होमानुकूलचेष्टावतीभवति–इत्यस्ति समानकर्त्तृकत्वम्—
इति तत्त्वत्कारः।
अथ हुत्वेत्येतदवाच्यं नन्वभिधानादेव तत् प्राप्यते—इति चेत्।न। हुत्वा अनन्तरमेवोत्तिष्ठतः न तु तन्त्रसमापनादिकमपि कृत्वा—
इत्येवमर्थत्वात्॥१॥०॥
** अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते बध्वञ्जलिं गृहीत्वा॥२॥**
पृष्ठम् अनु लक्ष्मीकृत्य अनुपृष्ठं, बध्वा इत्यव। बध्वाः पृष्ठतः
पश्चिमया दिशा पतिः परिक्रम्य गत्वा, दक्षिणतो बध्वा एव, उदङ्मुखोऽवतिष्ठते ऊर्द्धस्तिष्ठतिकृत्वा बध्वञ्जलिं गृहीत्वा, स्वेनाञ्जलिना–इति भट्टनारायणभवदेवभट्टादयः। पूर्व्वमञ्जलिकरणमनयोः सूचितं तदुभयमेवमुपयुज्यते। रघुनन्दनस्त्वाह—“बध्वञ्जलिं दक्षिणेन पाणिना गृहीत्वा"—
इति। तदत्र पत्त्युरञ्जलिकरणस्यार्थवत्तां न पश्यामः।
स खल्वयमञ्जलिः पाणिग्रहणपर्य्यन्तं स्थास्यति। पतिश्च तावन्तंकालममुमञ्जलिमनापत्सु न त्यजेत्। तथाच गृह्यान्तरम्।
“हुत्वाऽऽज्यमथ जायाया अन्वारभ्याञ्जलिं पतिः।
न विमुञ्चेदनापत्सु यावत् पाणिग्रहो जपः"॥
इति॥२॥०॥
पूर्व्वा माता लाजानादाय भ्राता वा बधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन॥३॥
पूव्वा पूर्व्वदिश्यवस्थिता—इत्यर्थः। यत्तु—‘पूर्व्वामातेत्येकं पदम्,पूर्व्वदिश्यवस्थिताया बध्वा एव माता’—इति। तदसुन्दरम्। सामानाधिकरण्येनान्वयसम्भवे वैयधिकरण्येनान्वयानौचित्यस्यउद्भिदाद्यधिकरणे दर्शितत्वात्! यच्च वर्णयन्ति—पूर्व्वाबह्वीनां मातृणांमध्ये या प्रथमा माता’—इति। तदप्यसङ्गतम्। अमुख्यत्वापत्तेः। जनन्यां हि मातृशब्दं स्मरन्ति। सा खल्वेकैव। मातृपदस्यपितृपत्नीपरत्वे च लक्षणाप्रमङ्गः। सचान्याय्यः। यः पुनरेवं समाधत्ते—‘एकमातृकायां पूर्व्वापदस्यानर्थक्यप्रसङ्गात्’—इति। सोऽप्यनेनैव निरस्तः। किञ्च। सतावदविद्यमानमातृकायां मातृपदस्यार्थवत्त्वं पर्य्यनुयोक्तव्यः। तावतैव तूष्णीमासिष्यते।
सूत्रमिदानींयोज्यते। पूर्व्वदिशूवस्थिताजननीभ्राता एकपितृजातो वा पूर्व्वदिश्यवस्थित एव। अन्यो वा ब्राह्मणः कश्चित्—इति भवदेवरघुनन्दनौ। बधूं अश्मानम् आक्रामयेत्, दक्षिणेन प्रपदेन पदाग्रेणेत्यर्थः। किं कृत्वा? लाजान् सूर्पस्थितान् आदाय गृहीत्वा। सव्येनपाणिना लाजान् सूर्येण गृहीत्वादक्षिणेन वधूमश्मानमाक्रामयेत्—इति भट्टभाष्यम्। अन्ये त्वाहः—अञ्जलिनेव लाजानादाय बधूमाक्रामयेत्—इति। अश्मानमाक्रामयेत् इति वचनादवगम्यते,—बध्वा अग्रतोऽश्मा निधातव्यः—
इति॥३॥०॥
तया चाश्मन्याक्रम्यमाणे—
पाणिग्रहो जपति,
—इममश्मानमारोहेति॥४॥
ऋज्वर्थम्॥४॥०॥
** सकृत् संगृहीतं लाजानामञ्जलिं भ्राता बध्वञ्जलावावपति॥५॥**
सकृदेकवारं संगृहीतं सम्यक् गृहीतं, यथा नविकीर्य्यते तथा गृहीतम्—इत्यर्थः। ‘संगृहीतं कृत्वा’—इति केचित् पठन्ति। अकिरन् इत्यर्थः—इति वर्णयन्ति च। ‘लाजानामञ्जलिम्’ अञ्जलिपरिमितान् लाजान—इत्येतत्। लाजाञ्जलिम्—
इति पाठेऽपि तथैवार्थः। ‘बध्वञ्जलौ’ ‘आवपति’ ददाति। कः? भ्राता। माता वा। कुतः? पूर्वत्र विकल्पश्रवणात्। अभावे चान्योऽपि ब्राह्मणः।
कम्मात्? कर्म्मणःप्रधानत्वात्। होमः खल्वत्र प्रधानं, ताञ्चावापोगुणभावेनोपकरोति, तमपि भ्राता माता वा। न खलुगुणस्यगुणानुरोधेन प्रधानमेव न कर्त्तव्यम्—इति युक्तम्। मुख्यं कथं सगुणं स्यात्—इति खल्वसौगुणेषु प्रवर्त्तते। स यदि गुणस्य गुणंविनिपातयति,–नास्य किञ्चिद्धीयते। न ह्यसौ गुणं सगुणं कर्त्तुं प्रवृत्तः। अथ यदि गुणं सगुणं कुर्व्वाणः प्रधानं विनिपातयति, स्वार्थोऽस्यहीयते,–अनर्थका अस्य प्रवृत्तिः स्यात्। तस्मादन्योऽप्यावपेदिति सिद्धम्। भ्राता–इत्यत्र माता भ्रात्रादिर्व्वा—
इति केचित् पठन्ति, तदा व्यक्त एवार्थः॥५॥०॥
तंसोपस्तोर्णाभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिम्—इयं नार्य्युपब्रूते–
इति॥६॥
तं लाजाञ्जलिं सोपस्तीर्णाभिघारितम्—
उपस्तीर्णञ्च अभिघारितञ्च उपस्तीर्णाभिघारितं तत्सहितम्–इत्यर्थः। तस्मात् लाजावापस्यपुरस्ताच्चोपरिष्टाच्च घृतस्रुवेणाप्लावयितव्यम्। तत्र लाजानां सकृन्मात्रावापस्यसूचितत्वात् त्रीण्याप्लावनान्यपेक्षितानि चतुरवत्तिनाम्, अन्येषाञ्च चत्वारि! चतुरवत्तिनां तावत् पुरस्तादेकमाप्लावनंपरस्तात् द्वे आप्लावने। अन्येषान्तु पुरस्तादप्याप्लावनद्वयंपरस्तादपि। कस्मात्? स्विष्टकृदवदाने तथा दर्शनात्।
सोपस्तीर्णाभिघारितम्–इत्युच्यते, न ज्ञायते,—कोवा उपस्तृणुयात् कोवा अभिघारयेत्?—इति। तद्वक्तव्यम्। उच्यते। माता भ्राता वा उपस्तृणुयात् अभिघारयेच्च। कस्मात्? यस्मात् लाजावापे तावन्निर्विवादमनयोः कर्त्तृत्वं, तस्मादुपस्तरणाभिघारणयोरपितयोरेवकर्त्तृत्वं कल्पयितुमुचितम्। लाजावापः खलु होमस्योपकरोति, उरस्तरणमपि तस्योपकरोति अभिघारणमपि। तस्मादितरत्र यः कर्त्ता इतरत्रापि सएव भवितुमर्हति। यः खल्वेकमर्थंकरोति, शक्नोति सोऽपरमपि कर्त्तुं, शक्नोति चेत् करिष्यतितराम्। न चान्यः कश्चिदिह सन्निहितः। वरस्तर्हि करोतु? नेत्युच्यते। कुतः? अशक्यत्वात्। अशक्यंहि वरस्योपस्तरणमभिघारणञ्च कर्त्तुम्। किं कारणम्? बध्वञ्जलिःखल्वेवं परित्यजेत। तच्चानिष्टम्—इत्यवोचाम। अपि च। लाजानावपत उपस्तरणमप्यर्थादाक्षिप्यते। तद्विना तस्य कर्त्तुमशक्यत्वात्। तत्सामान्यादभिधारणेऽपि तथा। एतेन—यत् रघुनन्दनादयो वर्णयन्ति,—वर एवोपस्तृणोति अभिघारयति च—इति। तदसङ्गतम्। प्रमाणाभावाच्च। अत्र च शमीपलाशमिश्राणां लाजानां पूर्व्वमासादितानामभिधारणार्हता न केवलानामित्याह गृह्यासंग्रहः।
“सोमः प्रकृतिरेखा हि लाजानाश्रित्य तिष्ठति।
विरुद्धमाज्यं सोमेन नाभिघारणमर्हति॥
शमीपलाशमिश्राणां लाजानामभिघारणम्।
पूर्व्वाणां घृतमिश्राणामाचार्य्येःकल्पितं तथा"॥
इति। सूत्रशेषोव्याख्यायते। अग्नौजुहोतीत्युक्तार्थम्। कथंजुहोति? लाजाञ्जलिम् अविच्छिन्दती विच्छेदमकुर्वती—
अञ्जलिभेदमकुर्वतीत्यर्थः। “अविच्छिन्नमञ्जलिम्”—इति पाठेऽपि तथैवार्थः। होमप्रकारश्च शाखान्तरे पठ्यते।
“अङ्गुल्यग्रैर्न होतव्यं तथा चाञ्जलिभेदतः।
अञ्जलीवामपार्श्वेन लाजहोमो विधीयते”।
इति। वस्तुतस्तु,
“तथा लाजाञ्जलिर्व्वध्वा हूयतेऽङ्गुलिपर्व्वभिः”।
इति गृह्यासंग्रहोक्तप्रकारेणास्माकमयं होमो भवति, न शाखान्तरोक्तप्रकारेण। स्वशाखाश्रयमुत्सृज्य परशाखाश्रयकरणस्य निषेधादिति द्रष्टव्यम्। केन मन्त्रेण जुहोति? इयं नार्य्युपब्रूते—इति मन्त्रेण वरेण पठितेन—
इत्यर्थः।
कस्मात् पुनः कारणात् वरो मन्त्रं पठति? न माता न वाभ्राता न वा वधूरेव। उच्यते। माता तावन् न पठति, अमन्त्रत्वात्। नापि भ्राता, प्रमाणाभावात्। वरस्तुपठति शरीरार्द्धत्वस्मरणात्। “अर्द्धो ह वा एष आत्मनो यज्जाया"—इति च वाजसनेये ब्राह्मणे। शरीरार्द्धेनचेत् क्रियते, तर्हि स्वयमेव क्रियते—इति शक्यं वक्तुम्। पत्नीपाठ्यमन्त्राणामप्यस्यपाठः समाम्नायते। पत्नीस्वयमेव पठतु—इति चेत्। न, अमन्त्रवात्। प्रमाणभावाच्च। आक्षिप्यतामिति चेत्। न। अन्यथोपपत्तेः। काममाक्षिप्येत पत्न्यामन्त्रपाठो यद्यन्यथा होमो नोपपद्येत। न तु नोपपद्यते। वाक्यादिति चेत्। इति चेत् पश्यसि वाक्यात् पत्न्या मन्त्रपाठः—इति। तदपि न। कुतः? वाक्याद्धि लिङ्गं बलीयः। लिङ्गं खल्वेवमुपरुध्यते—इयं नार्य्युपब्रूते—इति। अथ कस्मादियं श्रुतिरेव न भवति;–‘इयं नार्य्यपब्रूते—इति जुहोति’—
इति। नेत्युच्यते। होमकरणत्वमात्रं हि मन्त्रस्य श्रुत्याऽवगम्यते,न तु करणमन्त्रस्य
पत्न्याः पाठोऽपि। एतेन वाक्यमपि व्याख्यातम्। तदपि तावतैवकृतकृत्यंनातीवास्यामन्त्रपाठमाह। तस्मात् बधूर्जुहोति, वरोमन्त्रं पठति—इति साधुक्तम्। कथमन्यो जुहोति अन्यश्च मन्त्रंपठति? शास्त्रतात्पर्य्यबलादित्याह। दृश्यते खल्वध्वर्युर्जुहोतिहोता वषट्करोति। तस्माद्वधूरेवमन्त्रं पठति—इत्यमीमांसकवचनं हेयम्॥६॥०॥
** अर्य्यमणं नु देवं पूषणमित्युत्तरयोः॥७॥**
उत्तरयोर्लाजहोमयोर्यथाक्रमम् ‘अर्य्यमणं नु देव’ ‘पूषणम्’—इयेतौमन्त्रौ विनियोक्तब्यौ। प्रसङ्गाल्लाघवाच्च अत्रैवैतदुच्यते। एकस्मादेव हि लाजहोमात् परं परिणयनमभिधासृति, ततोऽपरंहोमम्। ‘एवं त्रिः’—इति च सूत्रयिष्यति। होमत्रयस्यैव त्रित्वमिति चेत्। न। असम्भवात्। चतुरञ्जलिमात्राणां लाजानामामादनस्य सूचितत्वात्, एकाञ्जलिमात्रावापविधानाच्च॥७॥०॥
हुते पतिर्यथेतं परिव्रज्य3प्रदक्षिणमग्निं परिणयति मन्त्रवान् वा4 ब्राह्मणः—कन्यला पितृभ्यः—
इति॥८॥
हुते—इष्टेकवचनसंयोगादेकस्मिन्नेव लाजाञ्जलौहुते—
इत्यर्थः।अन्यथेतदनर्थकं स्यात्। हुते पतिः परिव्रज्यपुनरागत्य। कथं
पुनरागन्तव्यम्? यथेतं, यथा येन प्रकारेण पत्नी-पृष्ठदेशेनइतं गतं गमनं कृतं पत्नीदक्षिणस्यां, तथैव पत्नी-पृष्ठदेशेन पुनरागन्तव्यम् इत्यर्थः। तदेवमागत्य प्रदक्षिणं यथा भवति तथा पत्नीमग्निं परिणयति परि सर्व्वताोभावेन नयति—अग्नेः प्रादक्षिण्येन भ्रामयेदित्येतत्। कन्यला—इत्यनेन मन्त्रेण। यातीयम्—इति मन्त्रलिङ्गात् मन्त्रं पठन् परिणयतीत्यर्थः। सोऽयं पतिरञ्जलिमविमुञ्चन्नेव पत्नींपरिणयति—इत्यवोचाम।
कस्याञ्चिच्चापदि पत्युरसामर्थ्ये—अन्यो वा मन्त्रवानधीतवेदोब्राह्मणः परिणयति। मन्त्रवान् वा ब्राह्मणः—इत्येकस्माद्वाशब्दादवगम्यते—जघन्योऽयं पक्षः—इति। अस्मिन्नपि कल्पे पतिरेवमन्त्रं पठति। कस्मात्? ‘त्वया वयं द्विषोऽतिगाहेमहि’—इतिमन्त्रलिङ्गात्।
तस्मात् मन्त्रलिङ्गविरोधादन्यो न परिणयति—इति रघुनन्दनमतमसङ्गतम्। अर्थवत्त्वोपपत्तेश्च। मन्त्रवान् वा ब्राह्मणः—इतिवचनस्यार्थवत्त्वमेवं सत्युपपद्यते। अन्यथाऽनर्थकं स्यात्। यच्च—मन्त्रवान् ब्राह्मणः पतिः—इति वर्णितम्। तदप्यनर्थकमेव। न खल्वस्यविशेषणस्य कमप्यर्थमुपलभामहे। सोऽयमनर्थिकां योजनामनुजानानोऽर्थवतीञ्च प्रत्याचक्षाणः प्रेक्षावतामनपेक्षणीयवचनोभवति। यदपि—व्यवहारापरिगृहीतत्वादन्यो न परिणयति—इत्युक्तम्। तदप्ययुक्तम्। आपत्कल्पत्वादेव तस्य कादाचित्कत्वावगमात्। अनाचाररूपस्य च व्यवहारापरिगृहीतत्वस्य अप्रवर्त्तकत्वमेव परं, न प्रवृत्तिनिरोधकत्वम्। अनाचारस्य श्रुतिकल्पनानिमित्तत्वानुपपत्तेः। आचारस्यापि शास्त्रमपेक्ष्य दुर्ब्बलत्वं वक्ष्यामः।
अत्र चाग्निप्रदक्षिणे लाजादीनामपि प्रदक्षिणम्। तथाच स्मरणम्।
“लाजानाज्यंस्रुवं कुम्भं प्राजनाश्मानमेवच।
प्रदक्षिणानि कुर्य्यातां दम्पती न विनाऽग्निकम्।
प्राजग्राहमुदग्राहं ब्रह्माणमृत्विजं तथा।
एतानि वाह्यतः कृत्वा शेषाणन्तु प्रदक्षिणम्।
दक्षिणां दिशमास्थाय यमोमृत्युश्च तिष्ठतः।
तयोस्तु रक्षणार्थाय तस्माद् ब्रह्मा वर्हिभवेत्"।
इति। यश्चायं होमात् परतः परिणयः सोऽयं ब्राह्यादिषुविवाहेषु द्रष्टव्यः। गान्धर्व्वादिषु पुनर्व्विवाहेषु प्रथममेव परिणयस्ततो होमः करणीयः। तथाच गृह्यासंग्रहः।
“ब्रह्मस्यार्षस्य दैवस्य प्राजापत्यस्य याज्ञिकैः।
पूर्व्वंहोमविधिः प्रोक्तःपश्चात्परिणयः स्मृतः।
गान्धर्व्वासुरपैशाचा विवाहाराक्षसाश्च ये।
तेषां परिणयः पूर्व्वं पश्चाद्धोमो विधीयते”।
इति। सखल्वयमाचार्य्योब्राह्यादीन् प्रशस्तान् विवाहानभिप्रेत्यहोमात् परतः परिणयनं सूत्रयाञ्चकारेति श्लिष्यते। ब्राह्यादीनां प्राशस्त्यञ्च,
“चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः”।
इत्यादिस्मृत्यन्तरदर्शनादवसेयम्। इति॥०॥८॥०॥
** परिणीता तथैवावतिष्ठते तथाऽऽक्रामति, तथा जपति, तथाऽऽवपति, तथा जुहोति॥९॥**
परिणीता बधूः, तथैव अनुपृष्ठगमनेन दक्षिणस्यामुदङ्मुखावस्थितेन पत्या गृहीताञ्जलिका प्राङ्मुखी, अवतिष्ठते ऊर्द्धा तिष्ठति। तथा, यथा पूर्व्वंतेनैव प्रकारेण मात्रादिभिः प्रेर्य्यमाणा दक्षिणेन प्रपदेन, आक्रामति अश्मानम्। तथा पूर्व्ववत् जपति पाणिग्राहः–इममश्मानम्—इति मन्त्रम्। तथा पूर्व्वोक्तेनैव प्रकारेण, आवपति बध्वञ्जलौ माता भ्राता वा सकृत् संगृहीतं लाजाञ्जलिम्। तथा पूर्व्ववत्, उपस्तीर्णाभिधारितं लाजाञ्जलिमविच्छिन्दती बधूर्जुहोति—इयं नार्य्युपब्रूते—इति मन्त्रेण वरेण पठितेन। तथा—इति पूर्व्वोक्तातिदेशात् जपादीनां प्राचीना एव कर्त्तारो भवन्ति—इत्यवगन्तव्यम्॥०॥९॥०॥
** एवं त्रिः॥१०॥**
एवम् अनन्तरोक्तंसर्व्वं त्रिः कर्त्तव्यम्। एवम्—इति प्रधानत्वादवस्थानादिका क्रिया भण्यते। तस्मात्—प्रथमेन सहैव त्रित्वम्। उत्तरयोर्द्वयोरेव मन्त्रान्तरोपदेशाच्च जुहोतीनां त्रित्वमवगम्यते। तत्सामान्यादन्यासामपि क्रियाणाम्, प्रागेव तु तदावृतामपि—इत्यवधेयम्। नाप्यन्यविधं त्रित्वं सम्भवति—इत्यवोचाम। अत्र च—इममश्मानम्—इति, कन्ययापितृभ्यः—इति च मन्त्रावावर्त्तनीयौ। उत्तरयोर्मन्त्रान्तरानुपदेशात्॥०॥१०॥०॥
चतुर्थ्याञ्च वेलायाम्—
** सूर्पेण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्त्येकमिष इति॥११॥**
सूर्पेण सूर्पजिह्वया। कस्मात्?
“एवं लाजहविःशेषं हूयते सूर्पजिह्वया"।
इति गृह्यासंग्रहवचनात्। शेषं लाजशेषम्—उपस्तीर्णाभिघारितम्—इति भवदेवभट्टादयः। शेषम्—इति वचनात् सर्व्वात्रापोऽवगम्यते, न किञ्चिदवशेष्यमित्यर्थः। ‘अग्नौ’ समिद्धे, ‘ओप्य’ आ उप्यप्रक्षिप्य हुत्वेत्येतत्। ‘आरोप्य’—इति पाठेऽपि तथैवार्थः। कथमिदंहोतव्यम्? तूष्णीम्—इति भट्टनारायणोपाध्यायाः। कस्मात्? मन्त्रदेवतयोरनुपदेशात्। तस्मादत्र स्विष्टकृन्निवर्त्तते। इत्थमेव शेषस्योपक्षयात्। तथा गृह्यान्तरम्। “सूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम्”—इति। ‘चतुर्थवचनादत्र स्विष्टकृन्न स्यात्’,—इति गार्ग्यनारायणः।‘तूष्णीं-वचनं प्रजापतिज्ञापनार्थम्’—
इत्यपि स एव। युक्तञ्चैतत्। कुतः?
“मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः।”
इति कर्म्मप्रदीपस्मरणात्। “त्रिः परिणीता प्राजापत्यंजुहोति"—इति च गृह्यान्तरम्। तस्माद्वधूः शेषं जुहोति, वरश्चप्रजापतिं ध्यायति—इति सिद्धम्। स्मरन्ति च।
“सूर्पाग्रेणैव होतव्यं तूष्णीं निरवशेषतः।
तस्यां तूष्णीन्तु जुहुत्यां वरो ध्यायेत् प्रजापतिम्”।
इति।
प्रजापतिं चतुर्थ्यन्तं स्वाहायुक्तं वरः स्मरेत्।
इति चैवमादि। तस्मात्—“अग्नये स्विष्टकृते स्वाहेति लाजशेषं जुहुयात्”—इति भवदेवरघुनन्दनादिमतमसङ्गतम्। प्रमाणविशेषाभावाच्च। एतदनन्तरं वामदेव्यगानम्—इति सरलाकल्पनायामपिप्रमाणं न पश्यामः।
तदेवं हुत्वा। पूर्व्वापरीभावमात्रं क्त्वाप्रत्ययार्थः। शेषहोमंकृत्वाऽवस्थितां वधूम्—इति वा वर्णनीयम्। प्रागुदीचीम्, अपराजितां दिशम्, अभ्युत्क्रामयन्ति–आभिमुख्येन वरगृहीताञ्जलिकामुत्क्रामयन्ति दक्षिणं पादमुन्नाम्य वामञ्चानु–नयन्ति–एकमिषे—इत्येवमादिभिः सप्तभिर्मन्त्रैः। प्रतिमन्त्रमेकैकः पादन्यासः—
इत्यर्थः। बहुवचनादनियतः कर्त्ता॥०॥११॥०॥
सा चोत्क्रामन्ती—
** दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत्॥१२॥**
दक्षिणेन पादेन प्रक्रम्य गत्वा, अनु पश्चात् सव्येन क्रामेत् गच्छेत्। सव्यं पादमग्रतो न कुर्य्यादित्यर्थः॥०॥१२॥०॥
ताञ्च क्रामन्तींपतिः,
** मा सव्येन दक्षिणमतिक्रामेति ब्रूयात्॥१३॥**
सव्येन पादेन दक्षिणं पादं मा अतिक्राम—अग्रतो वामपादन्यासं मा कुरु—इति कथयेत्। आक्राम इति पाठे, सव्यपादेन दक्षिणपादस्याक्रान्तिं मा कुरु,—दक्षिणपादस्योपरि सव्यपादं माकुरु—इत्यर्थः॥०॥१३॥०॥
एवं बध्वा सप्तपदाक्रमणे कृते तथैवावस्थितः पाणिग्राहः,—
** ईक्षकान् प्रतिमन्त्रयेत् सुमङ्गलीरियं बधूरिति॥१४॥**
ईक्षकान् विवाहप्रेक्षकान्। प्रतिमन्त्रणमनुमन्त्रणमभिमन्त्रणमित्यनर्थान्तरम्। तच्चात्र ईक्षकानवलोकयता कर्त्तव्यम्। योग्यत्वात्।तदाह कर्म्मप्रदीपः।
“स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि।
अनुमन्त्रणीयं सर्व्वत्र सर्व्वदैवानुमन्त्रयेत्”।
इति। अभिमन्त्रयेत,–
इति क्वचित् पाठः। ऋज्वन्यत्॥०॥१४॥०॥
अपरेणाग्निमौदकोऽनुसंब्रज्यपाणिग्राहं मुद्धैदेशेऽवसिञ्चति तथेतरां समञ्जन्त्वित्येतयर्च्चा॥१५॥
अपरेणाग्निम् अग्नेः पश्चिमया दिशा, अनु संव्रज्य आगत्य सप्तपदीस्थानमिति भवदेवभट्टः। औदको गृहीतोदकुम्भः पूर्व्वावस्थितः पाणिग्राहं मूर्द्धदेशे उत्तमाङ्गे अवसिञ्चति,—कलसस्याभिर्ध्रुवाभिरद्भिः। तथा तेनैव प्रकारेण इतरां वरेतरां बधूमपि अवसिञ्चति। समञ्जन्तु–इत्येतया ऋचा वरेण जप्यमानया—इत्यर्थः।कस्मात् पुनः कारणात् वर एव ऋचं जपति, न पुनरौदकः? लिङ्गात्—इत्याह। ‘समापो हृदयानि नौ’—
इति ‘नौ’ आवयोरित्युच्यते। न चैतत् बध्वा सहौदकस्योपपद्यते।
यच्च वर्णयन्ति,—‘करणत्वात् कुम्भधारिणोऽयं पाठ्यःन सिच्यमानस्य, नाविति तु युवयोरित्यर्थे छान्दसो व्यत्ययः’—
इति।
तदसङ्गतम्। प्रमाणाभावात्। न खल्वौदकस्य मन्त्रपाठे प्रमाणमस्ति। करणत्वन्तु नानन्यथासिद्धम्—इत्यवोचाम। वाक्यमपि दुर्ब्बलमेव लिङ्गात्। न च वाक्यस्यापि तथा सामर्थ्यम्। न खल्वियं श्रुतिरित्यपि शक्यते वक्तुम्। सोऽयमकाण्ड एव यदृच्छया छान्दसं व्यत्ययमभ्युपगच्छन् वाक्यञ्चानुरोध्य लिङ्गमुपरुन्धन्ननभिनन्दनीय एव। ‘मन्त्रलिङ्गाद् वर एवावसिञ्चति’—इति वीरेश्वरमतमप्यनादरणीयम्। औदकोऽवसिञ्चति—इति वचनविरोधात्। मन्त्रलिङ्गस्य च वरपाठमात्रेण कृतार्थत्वात्। तस्मादियमेवावधारणा,—पाणिग्राहो मन्त्रं जपति औदकोऽवसिञ्चति—इति। तथाच गृह्यासंग्रहः।
“विवाहे यो विधिः प्रोक्तो मन्त्रादाम्पत्यवाचकाः।
वरस्तु तान् जपेत् सर्वान् ऋत्विक् राजन्यवैश्ययोः”।
इति। इदमिदानीं सन्दिह्यते। किं वरस्य बध्वाश्च तन्त्रेणैवावसेकः उत भेदेन—अन्योऽवसेको वरस्य अन्यश्चबध्वाः?—इति।भेदेन–इति ब्रूमः। कुतः? तथेतराम्—इति भेदेनैवोपदेशात्।यदि पुनस्तन्त्रेणैवाऽवसेकः स्यात्, तर्हि स बध्वा इव वरस्यापि भवति। तत्रेतरवचनमसञ्जसम् आपद्येत। तन्त्रेण चावसेके समस्याभिधानं स्यात्। तथा-शब्दाच्च। यथा वरस्यावसेकस्तेनैव प्रकारेण बध्वा अप्यवसेकः–इति भेदेनैवावसेकस्तथाशब्दादवगम्यते।अतएव मन्त्रोऽप्यावर्त्तनीयः। प्रधानावृत्तावङ्गावृत्तेर्युक्तत्वाच्च। तथाचसूत्रान्तरम्। “भेदे मन्त्रावृत्तिः सम्पातित्वात्”—इति। तथाचोक्तम्।
“कर्म्मावृत्तौ तु मन्त्रस्याप्यावृत्तिगृह्यकर्म्मणि”।
इति। अस्माच्चावसेकात् परं प्राजनिनोऽनुगमनमाह गृह्यासंग्रहः।
“अवसिक्तंतु विधिना पाणिग्रहन्तु प्राजनी।
रक्षणार्थमनुगच्छेत् सप्ताहं त्र्यहमेववा”।
इति। सोऽयं “प्राजनेनान्यः"—
इति सूत्रोपदिष्टस्यप्राजनिनोविनियोगः॥१५॥०॥
अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य5दक्षिणेन पाणिना दक्षिणं पाणिंसाङ्गुष्ठमुत्तानं गृहीत्वैताःषट् पाणिग्रहणीया जपति—गृभ्नामि त—
इति॥१६॥
अवसिक्तायाः कृतावसेकायाः। नन्वेतदवाच्यं अर्थादेव प्राप्तत्वात्? देशलक्षणार्थम्—इत्याह। तेनावसेचनदेशस्थिताया एव बध्वाःपाणिग्रहणम्। अवसिक्तायाः—इति वचने श्रूयमाणे खल्ववसेचनंतावत् प्रतीयते, तत्प्रतीतौ च तस्य स्थानमप्यागच्छति हृदयं,तन्नयुज्यते विना कारणमुत्स्रष्टुम्। यथा “अवभृतं यन्ति”—इत्यवभृतेन देशं लक्ष्यति; यस्मिन् देशेऽवभृतस्तं देशं यन्ति—इति,
“देशार्था अवभृतश्रुतिः”–इति चतुर्थाध्याये निर्णीतं, तथाऽत्रापीत्यवगन्तव्यम्।
अवसिक्ताया बध्वा अञ्जलिं सव्येन पाणिना, उपोद्गृह्य—उपेति सामीप्ये, उप समीपे अञ्जलेः–‘मणिबन्धप्रदेशे’—इति भट्टनारायणोक्तमादरणीयम्। यच्च—मणिबन्धसमीपे ग्रहणम्—इति मतम्। तदसङ्गतम्। उपस्थितमञ्जलिमपेक्ष्यैव सामीप्यवर्णनौचित्यात्। उद्गृह्य–उद्धृत्य गृहीत्वा, दक्षिणेन पाणिना स्वकीयेन, बध्वाः दक्षिणं पाणिं साङ्गुष्ठमङ्गुष्ठसहितम्, उत्तानम्ऊर्द्धतलं, गृहीत्वा, गृभ्नामि ते–इत्येवमादिकाः षट्संख्याकाः पाणिग्रहणीयाः पाणिग्रहणकर्म्मणि विनियुक्ताः ऋचः जपति पाणिग्राहः। ‘उत्तानम्—इत्यनेन करस्यपृष्ठग्रहणं प्रतीयते’—इतिरघुनन्दनवर्णनन्त्वसारमेव। नियमतस्तत्प्रतीतौ कारणविशेषाभावात्। न ह्युत्तानस्यकरस्योपरिष्टाद्ग्रहणं न सम्भवति—इतिशक्यते वक्तुम्। मानाभावात्। “उत्तानेनोत्तानं गृह्णाति नीचेनचोत्तानम्"—इति शास्त्रान्तरे चोत्तानस्यापि करस्योपरिष्टादपिग्रहणोपदेशात्॥१६॥०॥
** समाप्तासूद्वहन्ति6॥१७॥**
समाप्तासु पाणिग्रहणक्रियासु पाणिग्रहणीयास्तृक्षुवा रथेनाश्वादिना वा बधूमुद्वहन्ति उत्थाप्य नयन्ति। वरसहायाः। समाप्तास्विति सूत्रणादत्रैव पाणिग्रहणक्रियायाः परिसमाप्तिः अत्रैव च तन्त्रसमापनम्।
दक्षिणा चानादेशात् पूर्णपाचादिका। सोऽयं विवाहः।इतः परमुत्तरविवाहः। केचित् ‘समाप्तासु’—इति सूत्रच्छेदं मन्यन्ते। ‘समाप्तासु पाणिग्रहणीयासु। किम्? तन्त्रं समापयेदिति वाक्यशेषः’—इति व्याचक्षते च। उद्वहन्ति—इति तु उत्तरखण्डिकायाःप्रथमसूत्रप्रतीकम्—इति मन्यन्ते॥१७॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीय-गृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्यद्वितीया खण्डिका॥०॥
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके तृतीया खण्डिका।
उद्वहन्ति—इत्युक्तम्। कुत्र उद्वहन्ति? तदभिधीयते,—
** प्रागुदीच्यांदिशि यद्ब्राह्मणकुलमभिरूपम्॥१॥**
प्रागुदीच्यामैशान्यां दिशि यद्ब्राह्मणकुलं ब्राह्मणगृहं, तपःस्वाध्यायव्रतादिभिरभिरूपं रमणीयं भवति, तत्र उद्वहन्ति— इतिगतेन सम्बन्धः। तत्राग्निरुपसमाहितो भवतीत्यनागतेन वा। प्रागुदीच्यामभिरूपब्राह्मणकुलस्यालाभे अन्यस्यामपि दिशि अन्यस्मिन्नपि ब्राह्मणकुले उद्वहेयुः। दिक् आभिरूप्यञ्च ब्राह्मणकुलं विशिंषदस्य गुणो भवति। सचेदुपादीयमानो प्रधानमुपरुणद्धि गुणत्वमस्य नावकल्पते। गुणो हि प्रधानमुपकर्त्तुंव्याप्रियते,नैतदुपरोद्धुम्। अतएव वेद्यामेवान्ततः कर्म्म कर्त्तव्यम्। कर्म्मणः प्रधानत्वात्। तथाच गृह्यान्तरम्। “अथोत्तरविवाहः प्रागुदीच्यामन्यत्र वा ब्राह्मणकुले मन्त्रवति वेद्यां वा"—इति। अस्मादप्यवगम्यते,—इतः प्रभृति उत्तरविवाहसमाख्यानं कर्म्म—इति॥१॥०॥
** तत्राग्निरुपसमाहितो भवति॥२॥**
तत्र ब्राह्मणकुले अग्निरुपसमाहितः लक्षणं कृत्वा स्थापितोभवति। लक्षणं कृत्वा—इति सूत्रशेषतयैव केचित् पठन्ति। वेद्याञ्च
करणे प्रधानमात्रस्यैव कर्त्तव्यता, आवृच्च तन्त्रेणैव स्यात्। कुतः? “गणेष्वेकं परिसमूहनम्”—इति वचनात्। एवञ्च वेद्यां करणपक्षे एतस्यापि कर्म्मणोऽनन्तरमेव तन्त्रसमापनं न तु पाणिग्रहणकर्म्मणः परत एव—इति बोद्धव्यम्॥२॥०॥
** अपरेणाग्निमानडुहं रोहितं चर्म्म प्राक्ग्रीवमुत्तर7लोमास्तीर्णं8 भवति॥३॥**
अपरेणाग्निम् अपरस्यान्दिश्यग्नेः, आनडुहं वार्षभं रोहितं लोहितवर्णंचर्म्म—शुष्कमित्यर्थः। प्राग्ग्रीवं पूर्व्वशिरस्कम्, उत्तरे उपरिष्टाल्लोमानि यस्य, तदिदमुत्तरलोम, आस्तीर्णं प्रसारितं भवत्युपवेशनार्थ बध्वाः। कर्त्तुरनियमः। अत्रापि, लौहित्यस्य। उपरिष्टाद्वा लोम्नामलाभे अन्यादृशमपि चर्म्मास्तीर्णंभवति। चर्म्मणःप्रधानत्वात्॥३॥०॥
** तस्मिन्नेनां वाग्यतामुपवेशयन्ति॥४॥**
तम्मिन् चर्म्मणि एनां बधूं वाग्यतां नियमितवचनां कृतमौनाम्—इत्येतत्। उपवेशयन्ति, य एव केचित्॥४॥०॥
** सा खल्वास्तएवनक्षत्रदर्शनात्॥५॥**
साखल्वेवमुपविष्टा वाग्यता अभुञ्जाना आस्त एव नोत्तिष्ठति,—मूत्रपुरीषकरणादन्यत्र—इत्यर्थः। खल्वित्यनर्थको निपातः।
अभुञ्जाना—इति कुतो वर्ण्यते? एवशब्दादित्याह। कथन्नाम?आस्त एव नान्यत् किञ्चिदपि भोजनादिकं कुर्य्यात्—इति। कियन्तं कालमास्ते? आ नक्षत्रदर्शनात्। नक्षत्रस्याभिमतस्यदर्शनपर्य्यन्तम्॥५॥०॥
** प्रोक्ते नक्षत्रे षड़ाज्याहुती र्जुहोति—लेखासन्धिष्वित्येतत्प्रभृतिभिः॥६॥**
यस्य नक्षत्रस्य दर्शनमपेक्षितं तस्मिन् प्रोक्ते—दृश्यमिदानींवर्त्तते—इति केनापि कथिते। प्रोद्गते—इति पाठे उदिते—इत्यर्थः। षड़ाज्याहुतीर्जुहोति पतिः, लेखासन्धिष्वित्येतत्प्रभृतिभिः षड्भिर्मन्त्रैः। तदत्राज्यतन्त्रविहितो महाव्याहृतिहोमः पुरस्ताच्चोपरिष्टाच्च भवति, आज्यभागौ स्विष्टकृच्च न भवन्तीत्यवगन्तव्यम्। एवमन्यत्रापि॥६॥०॥
** आहुतेराहुतेस्तु सम्पातं मूर्द्धनि बध्वा अवनयेत्॥७॥**
आहुतेराहुतेर्हुतायाः पश्चात् सम्पततीति सम्पातः स्रुवविगलितधृतविन्दुरुच्यते। तथाच गृह्यासंग्रहः।
हुत्वाऽऽज्यं परिशेषेण यत् द्रव्यमुपकल्पितम्।
स्रुवेणैव तु तत् स्पृष्टं सम्पातञ्चैव तं विदुः॥
इति। तं सम्पातं। जात्यभिप्रायेणैकवचनम्। बध्वा मूर्द्धनिअवनयेत् पातयेत्। अथ, आहुतेराहुतेः—इति शक्यमवक्तुम्? मैवम्। आहुतेराहुतेः—इति सन्निहितपरिग्रहात् अनन्तरोक्तायाःषड़ाहुतेरेव सम्पातानां बध्वाः शिरस्यवनयनं, न महाव्याहृत्यादीनामपि—इत्येवमर्थत्वात्। अतएव, तु–शब्द इतरासामाहुतीनांव्यवच्छेदकः सुखार्थो भवति॥७॥
** हुत्वोपोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति॥८॥**
हुत्वा यथोक्ताज्यहोमादनन्तरमेव, न तु तन्त्रसमापनादपिपरम्—इत्यर्थः। उप—इति सामीप्ये। बध्वाः समीप एवोत्थानं नव्यवधाने—इत्ययमर्थः। अतएव लोके अञ्चलसन्दामनरूढ़िः।उपनिष्क्रम्य,—उप समीपे होमस्थानस्य, निष्क्रम्य वहिर्गत्वा ध्रुवं तन्नामख्यातनक्षत्रविशेषं बधूं दर्शयति पतिः। ध्रुवं पश्य—इतिप्रैषोऽर्थादवगम्यते॥८॥०॥
साखल्वेवमुक्ता बधूर्ध्रुवमवलोक्य—
** ध्रुवमसि ध्रुवाऽहं पतिकुले भूयासममुष्यासाविति पतिनाम गृह्णीयादात्मनश्च॥९॥**
ध्रुवमसि–इत्यादिकं पठति। तत्र च, अमुष्य–इति षष्ठ्यन्तस्थाने षड्यन्तं पतिनाम, असौ—इति प्रथमान्तस्थाने च प्रथमान्तमात्मनो नाम बधूर्गृह्णीयात्। अथ वाग्यताया मन्त्रपाठो विरुह्यते? न विरोत्स्यते। कुतः? वाचनिकत्वादस्यार्थस्य। मनसैववा मन्त्रं पठिष्यति। प्रतिषिद्धेऽपि वाग्व्यापारे मनसो व्यापारस्याप्रतिषिद्धत्वात्॥९॥०॥
** अरुन्धतीच्च॥१०॥**
सप्तर्षिसमीपवर्त्तिनींकाञ्चित् सूक्ष्मतमां तारामरुन्धतीमाचक्षते। ताञ्च दर्शयति—इत्यनुवर्त्तते। अरुन्धतींपश्य—
इति प्रयोगः॥१०॥०॥
बधूश्चारुन्धतीं दृष्ट्वा जपति,—
** रुद्धाहमस्मीत्येवमेव॥११॥**
ऋजुरक्षरार्थः। एवमेव–इति कोर्थः? उच्यते। एवमेवजप्तव्यम्, न तु पूर्व्ववन्नाम गृह्णीयात्। सोऽयमस्यार्थः। एवं रघुनन्दनभवदेवभट्टादयः। एवमेव—इत्यनेन पूर्व्ववदेव पत्युरात्मनश्चनाम ग्रहीतव्यम्। तत्र च, पत्युर्नाम्नः तृतीयान्तत्वम्—
इत्ययमेवविशेषः। एवं भट्टनारायणोपाध्यायाः। इदमेव तावन्मतमनुमन्यामहे। कस्मात्? यस्मात् एवमेवेत्यवचनेऽपि तावन्मात्रस्यैव पाठः स्यात्। पत्युरात्मनश्च नामग्रहणस्य प्रापकाभावात्। तद्व्यावर्त्तनार्थम् ‘एवमेव’ वचनमनर्थकमेव स्यात्। तस्मात् ‘एवमेव’ शब्दस्यार्थवत्त्वार्थंव्यवहितस्यापि नामग्रहणस्य बुद्ध्या सन्निकृष्य एवमा परामर्शः॥११॥
** अथैनामनुमन्त्रयते ध्रुवा द्यौरित्येतयर्च्चा॥१२॥**
अथानन्तरमेव न तु तन्त्रसमापनमपि कृत्वा, ध्रुवा द्यौरिति मन्त्रेण एनां बधूमनुमन्त्रयते पतिरनामिकाग्रेण स्पृशन्। ‘बधूं पश्यन्’—इति भवदेवभट्टः॥१२॥०॥
** अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते॥१३॥**
अनुमन्त्रितैव बधूरभिवादयते, न तु तन्त्रसमापनमपिप्रतीक्षते—इति पूर्व्ववदर्थः। अभिवादनं पादग्रहणमित्यनर्थान्तरम्।
कमभिवादयते? गुरुम्। कः पुनरसौ? पतिरित्याह। कुतः?“पतिरेको गुरुः स्त्रीणाम्”—इति स्मरणात्। कथमभिवादयते? गोत्रेण। अभिवादनप्रयोगः परतो वक्ष्यते।
इदमिदानींसन्दिह्यते। किं पितृगोत्रेणाभिवादयते, उतपतिगोत्रेण? पितृगोत्रेण इति ब्रूमः। कस्मात्? इदानीमपि तस्याः पितृगोत्रत्वात्। तत् कस्य हेतोः?
“विवाहे चैव निर्वृत्ते चतुर्थेऽहनि रात्रिषु।
एकत्वमागता भर्त्तुःपिण्डे गोत्रे च सूतके"॥
इति भवदेवभट्टधृतमनुवचनात्। लिखितसंहितायामप्येतत्।वक्ष्यमाणबृहस्पतिवचनाच्च। यत् पुनर्हारीतस्मरणम्—
“स्वगोत्राद्भ्रश्यते नारीविवाहात् सप्तमे पदे।
पतिगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया”॥
इति। तत् सप्तमे पदेहृताया अन्येन पुनर्भूकृताया बोद्धव्यम्। तदेतदाह स एव।
“पदे तु सप्तमे या तु बलात् काचित् हृता भवेत्।
स्वामिगोत्रं भवेत्तस्यास्तच्च भूयो विशिष्यते॥
पैतृकन्त्वप्रसूतायास्ततः पौर्व्विकभर्तृकम्”।
इति। तच्च स्वामिगोत्रं भूयः पुनरपि विशिष्यते,—इतिब्रुवाणो विशेषान्तरमपि द्योतयति। तच्च प्राक्तनस्य वचनस्यैतद्वचनोक्तंपुनर्भूकरणमेव—इत्यवधार्य्यते। अन्यस्य विशेषस्यानुपलम्भात्—इत्यवधेयम्। यच्च बृहस्पतिस्मरणम्—
“पाणिग्रहणिका मन्त्राः पितृगोत्रापहारकाः
भर्तृगोत्रेण नारीणां देयं पिण्डादिकं ततः।
इति। तदपि पाणिग्रहणमन्त्राणां पितृगोत्रापहारकत्वमाह,न तेषामेव। केषां तर्हि? तेषां चतुर्थीहोममन्त्राणाञ्च।कस्मात्? यस्मादनन्तरमेवाह बृहस्पतिः।
“चतुर्थीहोममन्त्रेण त्वङ्मांसहृदयेन्द्रियैः।
भर्त्रा संयुज्यते पत्नी तद्गोत्रा तेन सा भवेत्”।
इति। अथवा। पाणिग्रहणिका मन्त्राः—
इति वचनं सप्तमेपदे गतायां बध्वामवगन्तव्यं हारीतसमानार्थम्। तथाच मनुः।
“पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे”।
इति—सप्तमे पदे गतायां बध्वां पाणिग्रहणमन्त्राणां निष्ठांस्मरति। तदिदं पाणिग्रहणात् परं सप्तपदीगमनमन्येषामेव नास्माकम्। अम्मदाचार्य्यैःपाणिग्रहणात् पूर्व्वमेव तत्सूचणात्। आश्वलायनपारस्कराभ्यां हि पाणिग्रहणात् परं तत् सूत्रितम्। यदपि शातातपस्मरणाम्—
“संस्थितायान्तु भार्य्यायां सपिण्डीकरणान्तिकम्।
पैतृकं भजते गोत्रमूर्द्धन्तु पतिपैतृकम्।
एकमूर्त्तित्वमायाति सपिण्डीकरणे कृते।
पत्नी पतिपितृणन्तु तस्मात्तद्गोत्रभागिनी”।
इति। तदपि चतुर्थीतः पूर्व्वमेव संस्थितायां बोद्धव्यम्।सपिण्डीकरणेनैकमूर्त्तित्वप्राप्तेरुत्तरवचने हेतुत्वकीर्त्तनात्। वृत्तायां खलु चतुर्थ्यां तथैव त्वगादिसंसर्गादेकमूर्त्तित्वं पूर्व्वमेव निष्पन्नम्—
इति, पुनरिदानींसपिण्डीकरणस्य तत्र हेतुत्वोपन्यासो नोपपद्यते।एवमन्यान्यपि वचनानि व्याख्येयानि।
सपिण्डीकरणपर्य्यन्तं पितृगोत्रभजनमासुरादिनिन्दितविवाहोढाविषयम्–
इति स्मृतिमञ्जरीकारादिमतम्। तदपि सङ्गतम्।
“आसुरादिविवाहेषु पितृगोत्रेण धर्म्मवित्"।
इति वृद्धशातातपवचनात्। परं सपिण्डीकरणपर्य्यन्तमित्यवधिकीर्त्तनमप्रमाणम्। सपिण्डीकरणमपि तस्या न भर्त्रादिभिः किन्तु मात्रादिभिरित्यपि तेनैवोक्तम्। यथा।
“तन्मात्रा तत्पितामह्या तत्श्वस्रावा सपिण्डनम्।
आसुरादिविवाहेषु विन्नानां योषितां भवेत्”।
इति। तस्मादासुरादिविवाहोढानां पितृगोत्रमेव। अन्यासान्तुसप्तमे पदे बलात् हृताया अप्रसूतायाः पितृगोत्रं प्रसूतायाः पूर्व्वभर्त्तुगोत्रम्। इतरासां चतुर्थीहोमपर्य्यन्तं पितृगोत्रं ततः परंभर्त्तृगोत्रम्। चतुर्थीतः पूर्व्वं संस्थितायान्तु सपिण्डीकरणपर्य्यन्तं पितृगोत्रं सपिण्डीकरणात् परं भर्त्तृगोत्रमित्यास्थेयम्।
यच्च ‘आसुरादिविवाहोढ़ाया अप्यप्रजाया मृतायाः सपिण्डीकरणपर्य्यन्तं पितृगोत्रभागित्वं; तद्धने पितुरधिकारस्मरणात्, गोत्रमृक्थयोश्च युगनद्धवाहित्वस्यौत्सर्गिकत्वात्’—इति नारायणोपाध्यायवर्णनम्। तन्मन्दम्। मरणादनन्तरमेव पितुरधिकारेण सपिण्डीकरणपर्य्यन्तमित्यवधिकरणानुपपत्तेः। मरणात् प्रागेकतरगोत्रग्रहणानध्यवसायापत्तेश्च। कथम्? यदि नामेयमप्रजैव संस्थास्यते, तर्हिसपिण्डीकरणादूर्द्ध्वंभर्तृगोत्रमेषा प्रतिपत्स्यते। अथ सप्रजा,तदा पूर्व्वमेव। न खल्वादितः एकतरदवधारयितुं शक्यते,—सप्रजावा संस्थास्यते, अप्रजा वा—इति। तदिदानीमेकतरगोत्रपरिग्रहेन किञ्चित् कारणमस्ति। एतच्चानिष्टम्। तत्रैव व्यभिचाराच्च। अपुत्रस्य भर्त्तुरादितः संस्थाने खल्वेषैव तद्धनमधिकरोति—
इतिभवन्मते तत्रैव गोत्रमृक्थयोर्युगनद्धवाहित्वं व्यभिचरति। तस्मान्न किञ्चिदेतत्।
अपरे पुनरप्रजाया विवाहाष्टकोढ़ाया एव भर्त्रा प्रेतकृत्येक्रियमाणे तत्पितृगोत्रेण कर्त्तव्यम्—इति प्रलपन्ति। रघुनन्दनस्तु,—हारीतवचनमवलम्ब्य सप्तपदीगमनात्;बृहस्पतिवचनञ्चाश्रित्यपाणिग्रहणात् गोत्रापहारमभिधाय, ‘सपिण्डनस्य गोत्रापहारित्वप्रतिपादकवचनं शाख्यन्तरीयंशिष्टव्यवहाराभावात्’—इतिकल्पयामास। तदप्यनादरणीयम्। शिष्टव्यवहाराभावस्य शाख्यन्तरीयत्वहेतुत्वेमहाविप्लवापत्तेः। प्रादेशिकस्य च व्यवहाराभावस्याकिञ्चित्करत्वात्। मन्वादिवचनविरोधस्य तावताऽप्यपरिहाराच्च।
सेयं शिष्टव्यवहाराभावव्यपदेशेन शाख्यन्तरीयत्वकल्पना, वचनविरोधभयात् सुखपरिहारत्वाद्वासमुल्लसिता, न शिष्टव्यवहाराभावात्—इति श्लिष्यते। शिष्टव्यवहारस्यापि शास्त्रीयमर्थमन्यथयितुं नास्ति सामर्थ्यम्—इति वक्ष्यामः। अपि च। पाणिग्रहणात्पूर्व्वमेव बध्वाः संस्थाने कतरद्गोत्रमेतस्या भवतामनुमतम्—इतिनावगच्छामः। “ऊढ़ाणां भर्तृगोत्रता”—इति सामान्यञ्चाभिधानंविशेषवचनमपेक्ष्यैवप्रवर्त्तमानं न स्वातन्त्र्येण कञ्चिदर्थं साधयितुं
प्रभवति। विशेषवचनास्यानर्थक्यप्रसङ्गात्। अपि च। विवाहादपिगोत्रापहारः सप्तमे पदे गतायामेव बध्वां भवति। कुतः?
“स्वगोत्रात् अश्यते नारी विवाहात् सप्तमे पदे”।
इति वचनात्। विवाहात् कारणात् यः स्वगोत्रभ्रंशः, स खल्वत्र सप्तमे पदे भवतीत्युच्यते। तत् कुत एव विवाहमात्राद्गोत्रभ्रंशः शक्यते वक्तुम्। न च भवत्कल्पनायां किञ्चित् प्रमाणमस्ति। तस्मादस्मदुक्तएव वचनार्थः।
यदपि पतिगोत्रेण पत्युरभिवादनं वर्णितं, तदपि पूर्व्वोक्तवचनानामनवलोकनेनेति हेयमेव। सप्तमे पदे गोत्रापहारबोधकवचनस्य तु पुनर्भूविषयतया हारीतेनैव प्रतिपादनाच्च यदृच्छाकल्पितोऽयमर्थः प्रमाणपरतन्त्रैरतन्त्रीकर्त्तव्य एव विद्वद्भिरित्यस्तु किं विस्तरेण॥०॥१३॥०॥
वाग्यताया बध्वा उपवेशनमुक्तमित्येतावन्तं कालं वाग्यतैश्रेयमासीत्। अथेदानीं योऽयं पत्यभिवादो विहितः,—
** सोऽस्या वाग्विसर्गः॥१४॥**
ऋजुरक्षार्थः। अत्रोत्तरविवाहकर्म्मणः परिसमाप्तिः—
इतिभट्टनारायणप्रभृतयो वृद्धाः।कथं ज्ञायते? परत्र समशनीयचरुहोमोपदेशात्। समशनीयचरुहोमः खलु कर्म्मान्तरम्।
“चरुः समशनीयोयस्तथा गोयज्ञकर्म्मणि"।
इत्यादौ गोयज्ञादिसाहचर्य्यात्तथाऽवगतेः। अर्ध्यमप्यन्तरालविहितं प्रक्रान्तस्य कर्म्मणः परिसमाप्तिं द्योतयति। खकर्म्मव्यापृतस्य तदनुपपत्तेः। उत्तरविवाहकर्म्मणो मध्ये ब्रह्मचर्य्यादिनियमविधानस्याश्लिष्टत्वाच्च। तस्माद्विवाहकर्मण इवोत्तरविवाहकर्मणःपरिसमाप्तिः साक्षादसूत्रिताऽप्यर्थतः प्रतिपत्तव्या। तस्मात् तन्त्रसमापनमिदानींकरणीयम्। दक्षिणा चानुपदेशात् पूर्णपात्रादिका देया स्यादिति केचित्।
अन्ये त्वाहुः। नात्रोत्तरविवाहकर्मणः परिसमाप्तिः। प्रमाणाभावात्। उत्तरसूत्रे ब्रह्मचर्य्यादिविधानात्—इति चेत्। एतदपि तादृगेव। न ह्युत्तरविवाहकर्मणः परत एव ब्रह्मचर्य्यादि विधातव्यम्—इत्यत्रापि किञ्चित्प्रमाणमस्ति। अपि च। ब्रह्मचर्य्यादिसूत्रणादानुमानिकी खल्वत्र कर्मणः परिसमाप्तिः। समशनीयचरुशेषप्रतिपत्तेस्तु परतः प्रत्यक्षामेव तामुपलभामहे। न खल्वनुमानं प्रत्यक्षमपि बाधितुमीष्टे। अथापि स्यात्—तस्यैव कर्मणःसा परिसमाप्तिः न उत्तरविवाहकर्मणः—इति। न—इति ब्रूमः। कुतः? समशनीयचरोर्होमस्य प्रतिपत्तेश्च सूत्रणादेव तदपवर्गस्य सुखमवगमात्। तदर्थमपवर्गसूत्रणस्यानतिप्रयोजनत्वात्। तन्मात्रपरत्वे प्रमाणभावाच्च। तस्मादुत्तरविवाहकर्मणोऽपवर्गम्यान्यत्राऽसूत्रितत्वात् तस्यैव सोऽपवर्गः—इत्यपगच्छामः। दक्षिणा च गौरेवं सति कर्मणोऽनुरूपा स्यात्! अत इदानींतन्त्रसमापनं नकर्त्तव्यम्—इति। तदत्र भगवन्तोभूमिदेवाः प्रमाणम्॥०॥१४॥०॥
** तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ भूमौ सह शयीयाताम्॥१५॥**
तावुभौ दम्पती, तत्प्रभृति विवाहकर्म्मारभ्य। तदिति विप्रकृष्टस्यविवाहकर्म्मणः परामर्शः। नोत्तरविवाहस्य पत्यभिवादनस्यवा। एवं खल्वेतदो निर्देशः स्यात्। अतो यदि दैवान्मानुषाद्वा कुतश्चिदन्तरायाद्विवाहदिने पत्यभिवादनान्तं न क्रियते, तदापि तत एवारभ्य यथासम्भवममीनियमा भवन्ति।
त्रिरात्रं तिस्रो रात्रयो यत्र, त्रीण्यहोरात्राणि—इत्येतत्।अक्षारलवणाशिनौ, क्षारंराजिकादि, लवणं सैन्धवादि। क्षारत्वेऽपि लवणस्य ब्राह्मणपरिव्राजकन्यायात् पृथगुपादानम्। क्षारञ्चलवणञ्च क्षारलवणं, तन्नभवतीत्यक्षारलवणम्—
“गोक्षीरं गोघृतञ्चैव धान्यं मुद्गास्तिला यवाः।
अक्षारलवणा ह्येते क्षाराश्चान्ये प्रकीर्त्तिताः”॥
इति स्मृत्युक्तलक्षणं वा। अशितुं शीलं ययोः, तौ अक्षारलवणशिनौ स्याताम्। यत्तु अक्षारलवणमकृत्रिमलवणम्—इतिरघुनन्दनवर्णनम्। तदसङ्गतम्। क्षारपदस्य कृत्रिमपरत्वे लक्षणाप्रसङ्गात्। अथ, क्षारमृत्तिकादिकृतं लवणं क्षारलवणमुच्यते? एवमपि लक्षणैव। अपि च। एवं खल्वकृत्रिमलवणाशनसमकालमेवान्यस्मिन्नपि क्षारादरावशिते दोषो वा न स्यात्, अकृत्रिमलवणादन्यद्वाकिमपि न अशितव्यं स्यात्।
ननु “हविष्यमन्नंभुञ्जीत”—इति सूत्रयिष्यति, तेनैवाक्षारलवणाशनं सेत्स्यति? न—इति ब्रूमः। एतस्मिन्नसूत्रिते हि “हैमन्तिकं सितास्विन्नम्’—इत्यादि पारिभाषिकस्य हविष्यस्य,—
“हविष्ये गोघृतं मुख्यं तदभावे तु माहिषम्”।
इत्येवमादिकस्य वा भोजनं स्यात् न अक्षारलवणस्य। अतइदानीमिदं सूत्रितम्। अन्यार्थत्वाच्चनिर्देशस्य। तच्चोत्तरत्रवक्ष्यामः। परमार्थतस्तु परत्र “हविष्यमन्नम्”—इति सूत्रयन्नेतदेवाक्षारलवणं व्याकरोति। तथाच गृह्यासंग्रहः।
“अयुक्तमम्ललवणैरपर्य्युषितमेवच।
हविष्यमेतदन्नाद्यमसुरैश्चाप्यसंयुतम्”॥
इति। अतएवोत्तरसूत्रे, हविष्यमन्नमित्युक्तार्थमिति भट्टनारायणेन व्याख्यातम्। ‘ब्रह्मचारिणौ’ च स्यातां दम्पती। ‘तत्प्रभृति त्रिरात्रम्’—इत्यनुषज्यते। एवमुत्तरत्रापि। ब्रह्मचर्य्यमिह व्यवायवर्ज्जनमुच्यते। विवाहस्य वृत्तत्वात् व्यवायः प्राप्नोति। वैदेहेषु च सद्य एव व्यवायो दृष्टः। सोऽयमिदानींप्रतिषिध्यते।
“त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम्”।
इत्येवमादिके च कल्पे व्यवायस्य नासम्भवः—इति द्रष्टव्यम्।‘भूमौ’ अधस्तात् ‘सह’ मिलित्वा’शयीयातां’ दम्पती। भूमाविति पल्यङ्कादीनां प्रतिषेधो न स्वस्तरकम्बलादीनाम्। सह—इत्येकस्वस्तरनियमार्थम्॥०॥१५॥०॥
** अत्रार्घ्यमित्याहुः॥१६॥**
अत्रैतस्मिन्नवसरे अर्घ्यमर्हणं वरस्य, कन्यापित्रा कर्त्तव्यमित्याहुराचार्य्याः। ‘षड़र्घ्याभवन्ति’—इति वक्ष्यति। तत्र योविवाह्यः, सोऽयम्॥०॥१६॥०॥
** आगतेष्ठित्येके॥१७॥**
विवाहार्थमागतमात्रेष्वेवार्हणं कर्त्तव्यमित्येके आचार्य्यामन्यन्ते॥०॥१७॥०॥
** हविष्यमन्नंप्रथमं परिजपितं भुञ्जीत॥१८॥**
हविष्यं माषकोद्रव्यादिवर्ज्जमन्नम्। अक्षाारलवणमित्येतत्।हविषि साधु हविष्यं—इति भङ्ग्या वा होमोऽत्र सूच्यते इतिहोमावशिष्टमेव भुञ्जीत। युक्तञ्चैतत्।
“अघं स केवलं भुङ्क्तेयः पचत्यात्मकारणात्।
यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते”॥
इति स्मरणात्।“केवलाघो भवति केवलादी"—इति चब्राह्मणम्। न चेदेवं, पूर्व्वमेव त्रिरात्रमक्षारलवणाशनसूत्रणात् ‘हविष्यमन्नम्’—इति पुनरुपादानमनर्थकं स्यात्। अथवा। हविष्यमन्नमित्यनेन पूर्व्वोक्तमक्षारलवणं व्याख्यातमित्युक्तमादावेव। ‘परिजपितम्’ अन्नपाशेन मणिना—इत्यादिना इत्यर्थः। कुतः? उत्तरत्र तथा सूत्रणात्। प्रथमं भुञ्जीत, वरः। तदिदमस्य विवाहात्परतः प्रथमभोजनम्। यत्तु—श्वशुरगृहे प्रथममिदं भोजनम्—इति वर्णयन्ति। तन्मन्दम्। मानाभावात्। श्वशुरगृहादागत्य प्रागुदीच्यां ब्राह्मणकुले चेदानीमस्यावस्थानात्॥०॥१८॥०॥
श्वोभूते वा समशनीयं स्थालीपाकं कुर्व्वीत॥१९॥
श्वः अनागतदिने भूते—प्रभाते जाते—इत्येतत्। वाशब्दो विकल्पार्थः। रात्रौ भोजनकालादुपरि विवाहे, होमविधिना वा भोजनकालातिक्रमे एतद् बोद्धव्यम्। सम्यगशनार्थं क्रियते इतिसमशनीयं स्थालीपाकं कुर्व्वीत॥०॥१९॥०॥
तस्य देवता अग्निः प्रजापतिर्व्विश्वेदेवा अनुमतिरिति॥२०॥
तस्य—इति तच्छब्देन पूर्व्वदिने परदिने वा करणेऽपि स्यालीपाकस्यैता देवताः—इति दर्शयति। मृज्वन्यत्। असमासकरणं पृथङ्निर्व्वापहोमप्रज्ञापनार्थम्। देवतानाञ्च प्राधान्यात् त्रिस्तण्डुलानां प्रक्षालनम्। देवताभ्यः खल्वेताभ्यो मेक्षणेनोपघातं होतव्यम्। तदिदमधस्तादुक्तम्॥२०॥०॥
** उद्धृत्य स्थालीपाकं व्यू्ह्यैकदेशं पाणिनाऽभिमृशेदन्नपाशेन मणिनेति॥२१॥**
उद्धृत्य पात्रान्तरे कृत्वा स्यालीपाकमवशिष्टम्। व्यूह्य पात्रान्तरे स्थापयित्वा। एकदेशं न सर्व्वमपि भाण्डस्थमन्नम्। स्थालीपाकशेषात् एकदेशं पात्रान्तरेणावदाय पात्रान्तरे स्थापयित्वा—इत्येतत्। दक्षिणेन पाणिना अभिमृशेत् अन्नपाशेन मणिना—इति मन्त्रत्रयेणेत्यर्थः। अत्र असावित्यस्मिन् मन्त्रस्थाने सम्बोधनान्त वधूनाम प्रयोक्तव्यम्। “असाविति नाम गृह्णाति" इति सूत्रान्तरात्। अत्र, असावित्यूहं विनैव, विनैव होममशनमात्रञ्च लिखन् भवदेवोऽनादेयवचन एव॥०॥२१॥०॥
** भुक्तोच्छिष्टं बध्वै प्रदाय यथार्थम्॥२२॥**
परिजपितमन्नं पतिः किञ्चित् भुक्त्वा उच्छिष्टं बध्धै प्रदाय यथार्थम्—इति कर्म्मणःपरिसमाप्तिरिह विज्ञायते। तदिदानीं
तन्त्रं समापयितव्यम्। यच्चोक्तं तत्त्वकारेण—“यद्यशक्तेः कुलाचाराद्वातद्दिन एव धृतिहोमादि चतुर्थीहोमान्तं कर्म्म क्रियते, तदाऽभिमन्त्रितं कदलादिकं स्वयमाघ्राय बधूमाघ्रापयेत्”—इति। तदसङ्गतम्। कस्मात्? अशक्तेःस्वकालात् पूर्व्वंकर्म्मकरणे मानाभावात्। विहितकालाच्चार्व्वाक् कृतस्यापि कर्म्मणः खल्वागते कालेपुनः करणमेवानुशिष्यते।
“अकाले चेत् कृतं कर्म्म काले तस्य पुनः क्रिया”।
इत्यादिवचनैः। एतच्च स्वयमपि वर्णितम्। तत् कथमत्र विपरीतमुच्यते—इति स एव जानाति। अथास्तु कुलाचारादन्यत्रापि काले कर्म्मणःकरणम्?नेत्युच्यते। न खल्वयमाजानिकः समाचारः। किन्तर्हि? आलस्यादर्व्वाचीनानां उपरिष्टादेव प्रवृत्तः—इत्यनुमीयते। न हि पूर्व्वेषामयथा क्रिया युक्ता सम्भावयितुम्। सोऽयमाचारः क्षाराद्यशनाचार इव दुराचार एव न कुलाचारः। अपि च। स्मृतिमूलः खल्वाचारः तथा विरोधे स्वयमेव बाध्यते नजातुचिदपि तां बाधितुमीष्टे। न हि पश्चिमसिद्धेनाचारेण पूर्व्वसिद्धं शास्त्रमुपरोद्धव्यं—इति युक्तम्। तथा चोक्तम्।
“स्मृतिमूलो हि सर्व्वत्र शिष्टाचारस्ततोऽत्र च।
अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा”॥
इति। गौतमोऽपि स्मरति। “देशजातिकुलधर्म्माश्चाम्नायैरविरुद्धाः प्रमाणम्”—इति। तथा वशिष्ठः। “देशधर्मजातिधर्म्मकुलधर्म्मान् श्रुत्यभावादब्रवीन्मनुः”—इति।
येषामपि आचारमूलकत्वं स्मृतीनाम्—इति दर्शनम्, तेषामपि
स्मृत्युक्त एव प्राक्तनाचारोऽनुसरणीयः न तूपरिष्टात् यदृच्छया प्रवृत्तः—इत्यास्थेयम्। पूर्व्वेखल्वृषयः साक्षात्कृतधर्म्माणः सर्व्वज्ञकल्पालोकस्थितिचिकीर्षया यमाचारं प्रवर्त्तयन्तिस्म, नायमर्व्वाचीनानामतथाभूतानां यदृच्छया कल्पितमात्रेणाचारेणोपरोद्धुमुचितः। अथ खलूच्चावचा जनपदधर्म्माग्रामधर्म्माश्च तान् विवाहे प्रतीयात्” “यत्तु समानं तद्वक्ष्यामः”—इति गृह्यान्तरसूत्राभ्यामपि गृह्योक्तधर्म्माणां जनपदादिधर्म्माणाञ्च विरोधे गृह्योक्तधर्म्माणामेव करणम्—इति गृह्यकाराणां मतं विज्ञायते॥०॥२२॥०॥
गौर्दक्षिणा॥२३॥
समशनीयचरुहोमस्य,—इति केचित्। उत्तरविवाहकर्म्मणः,—इत्यन्ये॥२३॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य तृतीया खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके चतुर्थीखण्डिका।
अथ भर्तृगृहगमनार्थं बध्वाम्—
यानमारोहन्त्यांसुकिंसुकंशाल्मलिमित्येतामृचंजपेत्॥१॥
पाणिग्राहः—इति सम्बध्यते। आरोहन्त्याम्—इति निर्देशादारोहणकालीनत्वं जपस्य। एतामितिकरणाच्च रथासम्भवे अश्वादियानपक्षेऽपि एताम्—एवम्भूतामेव जपेत् न विलोपनमूहं वाकुर्य्यादित्यर्थः॥१॥०॥
** अध्वनि चतुष्पथान् प्रतिमन्त्रयेत नदीश्च विषमाणिच महावृक्षान् श्मशानञ्च,—मा विदन् परिपन्थिन इति॥२॥**
बध्वा सह अध्वनि मार्गे वर्त्तमानः पाणिग्राहः मा विदन्—इति मन्त्रेण चतुष्पथान् समीपस्थाननुमन्त्रयेत् अवलोकयन्। एवंनदीश्चेत्यादावपि व्याख्येयम्। नद्यः—
“धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते।
न ता नदीशब्दवहा गर्त्तास्ते परिकीर्त्तिताः”।
इति कर्म्मप्रदीपोक्तलक्षणाः। विषमाणि सिंहव्याघ्रचौरादिभयाकुलानि, उन्नतानतानि वा। महावृक्षा अतिप्रवृद्धास्तरवः॥०॥२॥०॥
** अक्षभङ्गे नद्धविमोक्षे यानविपर्य्यासेऽन्यासु चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हुत्वाऽन्यत् द्रव्यमाहृत्य यऋतेचिदभिश्रिषे—इत्याज्यशेषेणाभ्यञ्जेत्॥३॥**
अध्वनि अक्षभङ्गे। रथचक्रं, तस्य भङ्गे। नद्धस्य योक्त्रादिबद्धस्य अश्वादेर्व्वाविमोक्षे। यानस्य रथस्य विपर्य्यासे औत्तराधर्य्यप्रातिलोम्ये अन्यथागमने वा। अन्यासु च आपत्सु यानात् परिपतनादिकासु चौरव्याघ्रादिकृतासु वा। यमेवाग्निमौपासनं हरन्ति नयन्ति,—यमेव वा कञ्चिदग्निं लौकिकं सन्निधौ लब्ध्वाआनयन्ति। ‘तमेव’ अग्निम् ‘उपसमाधाय’ इन्धनादिना सन्धुक्ष्य।तदेतद् यथार्थमभिप्रेतम्। कथन्नाम? शालाग्नेस्तत्रैव, अनग्नेस्तु यमेव लब्धा आनयन्ति, तत्र—इति।
ननु यमवाग्निं हरन्ति—इत्येतत् शक्यमवक्तुं, नित्यनैमित्तिककाम्यहोमार्थमेव हि सोऽग्निरुपादीयते, अथोच्यते कारणं वक्तव्यम्? उच्यते। ‘सायमाहुत्युपक्रम एवात ऊर्द्धंगृह्येऽग्नौ होमो विधीयते”—इति सूत्रणात् सायमाहुतेः पूर्व्वमक्षभङ्गादौ जाते होमोऽयं विवाहाग्नौ न प्राप्नोति। तदर्थं ‘यमेवाग्निं हरन्ति’—इति सूत्रितम्। ‘व्याहृतिभिः’ आज्येन स्रुवेण ‘हुत्वा’। “व्याहृतिभिरिति
वचनं परिसङ्ख्यानार्थम्। तेन क्षिप्रहोमः स्यात् न तन्त्रहोमः। एवञ्च न्यञ्चकरणपर्य्युक्षणे कृत्वा आज्यं संस्कृत्य समिधमाधाय प्रायश्चित्तार्थत्वात् व्याहृतिचतुष्टयं हुवा अनुपर्य्युक्षेत्"—इति भट्टभाष्यम्। ततश्च ‘अन्यत्’ अक्षादि ‘द्रव्यं’ आनीय, यऋतेचिदित्यनया ऋचा न साम्ना, ऋगधिकारात् साम्नेति चावचनात्। ‘आज्यशेषेण होमावशिष्टेनाज्येन अभ्यञ्जेत् अभ्यञ्जयेत्—इत्यर्थः। क्वचित्तथैव पाठः। अभ्यञ्जनमिह स्रक्षणम्। अञ्जु व्यक्तिस्रक्षणगतिषु—इति स्मरणात्। अभ्युक्षणम्—इत्यसङ्गता वर्णना॥०॥३॥०॥
** वामदेव्यं गीत्वाऽऽरोहेत्॥४॥**
वामदेव्यं नाम साम गीत्वा बधूसहितः पतिर्यानमारोहेत्। आरोहयेत्–इति पाठे बधूं यानमारोहयेत्—इत्यर्थः। ननु इदमवाच्यम् ‘अपवृत्ते कर्म्मणि वामदेव्यगानम्’—इति सिद्धत्वात्। मैवम्। कर्म्मापवर्गविहिताद्वामदेव्यगानादपरस्यैव वामदेव्यगानस्यैतदर्थत्वात्। अन्ये त्वाहुः,—सिद्धस्यापि वामदेव्यगानस्य पुनरुपादानं क्रमार्थम् अन्यथा अनुपर्य्युक्षणान्त एव स्यात्—इति॥०॥४॥०॥
** प्राप्तेषु वामदेव्यम्॥५॥**
बध्वा प्राप्तेषु पतिगृहेषु वामदेव्यं गायेत् पतिः। वामदेव्यं गीत्वा प्रवेशयेत्–इति रघुनन्दनवर्णनायां प्रमाणं नास्ति। बधूश्चेदानीमपि यानस्थितैव वर्त्तते, ब्राह्मण्यः खल्वेनां यानादवरोपयिष्यन्ति॥०॥५॥०॥
** गृहागतां पतिपुत्रशीलसम्पन्ना ब्राह्मण्योऽवरोप्यानडुहे चर्म्मण्युपवेशयन्ति—इह गावः प्रजायध्वमिति॥६॥**
पतिगृहागतां बधूम्।गृहं याताम्—इति पाठेऽपि पतिगृहं प्राप्तामित्येक एवार्थः। पतिः, पुत्राः, शीलं ब्रह्मण्यतादि त्रयोदशविधं हारीतोक्तम्। एतैः सम्पन्नाः—अवियुक्ताः ब्राह्मण्यः, अवरोप्य यानादवतार्य्य, आनडुहे चर्म्मण्युपवेशयन्ति–इत्युक्तार्थम्। इह गाव इतिमन्त्रेण वरेण पठितेनेत्यर्थः॥०॥६॥०॥
** तस्याः कुमारमुपस्थ आदध्युः॥७॥**
तस्या आनडुहे चर्म्मण्युपविष्टाया बध्वा उपस्थे उत्सङ्गे कुमारमकृतचूडं कञ्चिद्वालकमादध्युः स्थापयेयुः। ता एव ब्राह्मण्यः॥०॥७॥०॥
** तस्मै शकलोटानञ्जलावावपेयुः॥८॥**
तस्मै—इति व्यत्ययेन षष्ठ्यर्थे चतुर्थो। तस्य बधूत्सङ्गोपविष्टस्यकुमारस्याञ्जलौ शकलोटान् आवपेयुर्दद्युस्ता एव ब्राह्मण्यः। आह। क हमे शकलोटा नाम? उच्यते। शके कर्दमे लोटन्ति—इति शकलोटाः शालूकान्यूच्यन्ते। तानि च कह्लारकुमुदनीलोत्पलमूलानि॥०॥८॥०॥
** फलानि वा॥९॥**
फलानि वा चूतादीनि तस्याञ्जलावावपेयुः॥९॥०॥
** उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोत्यष्टाविह धृतिरिति॥१०॥**
बधूत्सङ्गादुत्थाप्य कुमारम्, ‘सन्निधावुपवेश्य’—इति भट्टनारायणः। ध्रुवाः ध्रुवफलकाः। ध्रुवत्वं स्थिरत्वं वा बध्वाः पतिगृहे जन्यते आभिरित्याहुतयो ध्रुवा इत्युच्यन्ते। अथवा। ध्रुवाः आवश्यकाः। यद्यपि सर्व्वासामप्याहुतीनामावश्यकत्वमस्ति, तथापि स्वगृहागमनात् परं सूचितत्वात् श्वशुरगृहावस्थानपक्षे एता आहुतयो न प्राप्नुवन्ति, इति, तत्राप्यवश्यमासां होतव्यत्वार्थन्तदुपादानम्। ‘आज्याहुतीर्जुहोति’—इत्युक्तार्थम्। कियत्यः पुनस्ताः? अष्टौ। कथं जुहोति? इह धृतिरित्यष्टभिर्मन्त्रैः। अष्टाविति किमर्थम्? आहुतीनामष्टत्वप्रज्ञापनार्थम्। इह धृतिरिति कतमे मन्त्राः इहाभिप्रेयन्ते, तन्नैवावधार्य्यते। तस्मादष्टाविति वचनं सुखेन तदवगमार्थम्। ‘आम्नाये ह्यवमानत्वान्मन्त्रस्याहुतिद्वयमेकैकेन मन्त्रेण माभूदित्यष्टावित्युक्तम्’—इति भट्टभाष्यम्।
तदत्र, इह धृतिः स्वाहा—इत्यादि प्रयोगः। ननु स्वाहायोगे चतुर्थी प्राप्नोति? सत्यं प्राप्नोति, आम्नायविरोधात्तु न क्रियते। चतुर्थ्यां हि कृतायाम्—इह धृतिः इत्याम्नाय उपरुध्येत। ‘मन्त्रान्ते स्वाहाकारः’—इति च सूत्रयन्नाचार्य्यः समाम्नायपठितस्य मन्त्रस्य स्वाहाकारान्तत्वमेव विशेषो नान्यः कश्चिदिति दर्शयति। तथाच कर्म्मप्रदीपः।
“धृतिहोमे न प्रयुञ्ज्याद्गोनामसु तथाऽष्टसु।
चतुर्थीमध्न्यइत्येतद्गोनाम्नि न हि हूयते”॥
इति॥०॥१०॥०॥
** समाप्तासु समिधमाधाय यथावयसं गुरून् गोत्रेणाभिवाद्य यथार्थम्॥११॥**
समाप्तासु—इति, समिधमाधाय—इति च, द्वयमपि क्रमार्थमुच्यते। कथन्नाम? समाप्तासु ध्रुवाहुतिषु अन्यास्वपि आज्यतन्त्रविहितास्वाहुतिषु समिधमाधायैव अभिवादयेत् न त्वनुपर्य्युक्षणादिकमपि कृत्वा।यथावयसं वससोऽनतिक्रमेण—यो योवयसा वृद्धस्तं तमित्यर्थः। गुरून् विद्यागुरुपितृमातृप्रभृतीन्।गोत्रेण अभिवाद्य—इत्युक्तार्थम्। तत्रापि प्रथमं विद्यागुरुमेवाभिवादयेत्। कुतः?
“लौकिकं वैदिकं वापि तथाऽऽध्यात्मिकमेवच।
आददीत यतो ज्ञानं तं पूर्व्वमभिवादयेत्”॥
इति।
“न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत्”।
इति च स्मरणात्। पित्रोस्तु प्रथमं मातरमेव।
“सहस्रेण पितॄन् माता गौरवेणातिरिच्यते”।
इति गौरवातिरेकस्मरणात्।
“उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता"।
इति च गौरवातिरेकस्य गुरोः पितृभ्यामादितोऽभिवादनस्य
दर्शनात्। तस्मात् मातुर्गौरवातिरेकस्मरणं पोषणरक्षार्थम्—इतिमतमसङ्गतम्। अथ,—
“कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम्।
देवक्याश्चमहाबाहुर्बलदेवसहायवान्”।
इति पौराणिकलिङ्गात् क्रमः कल्प्यताम्? उच्यते। कल्पनीयःक्रमः—इति सत्यम्। स च तावत् स्मार्त्तेनैव लिङ्गेन कल्पयितुमुचितः। न तु एतदनादृत्य पौराणिकेन लिङ्गेन। कस्मात्?स्मृतेर्बलवत्त्वात्, विशेषतस्तु मनुस्मृतेः। ‘भगवानपि सर्व्वात्मा’—इत्युपक्रम्य—
“ननाम दण्डवद्भूमौ मातरं पितरन्तथा”।
इति पुराणान्तरगतेन लिङ्गेन सत्प्रतिपक्षितत्वाच्च।
“मातरं पितरञ्चोभौ दृष्ट्वा पुत्रस्तु धर्म्मवित्।
प्रणम्य मातरं पश्चात् पितरं प्रणमेद्गुरुम्”।
इति पुराण एव प्रथमं मातुः प्रणामाभिधानाच्च।तस्मात्—पितुरादौ पादग्रहणं ततो मातुः—इति तत्त्वकारमतमसङ्गतम्। यथार्थम्—इति कर्म्मणःपरिसमाप्तिरुच्यते। तेनानुपर्य्युक्षणादि तन्त्रमिदानींसमापयेत्। दक्षिणा चानादेशात् पूर्णपात्रादिकास्यात्॥०॥११॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य चतुर्थी खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके पञ्चमी खण्डिका।
अथातश्चतुर्थीकर्म्म॥१॥
अथेति पूर्व्वप्रकृतार्थम्। अथ विवाहरात्रेर्या चतुर्थीरात्रिःतस्यां कर्म्म चतुर्थीकर्म, वर्त्तिष्यते—इति सूत्रशेषः। अथ, सन्निहिततरधृतिहोममेवापेक्ष्य चतुर्थीकथं न स्यात्? तर्हि अथशब्दोऽनर्थकःस्यात् सन्निधानादेव तदवगतेः। तस्मादथेति विवाहस्यपरामर्शः। चतुर्थी—इति स्त्रीलिङ्गनिर्देशाच्च चतुर्थीरात्रिरित्यवगम्यते। इतरथा चतुर्थकर्म्मेति निर्देशः स्यात्।
“विवाहे चैव निर्वृत्ते चतुर्थेऽहनि रात्रिषु।
एकत्वमागता भर्त्तुःपिण्डे गोत्रे च सूतके”।
इति।
“चतुर्थीहोममन्त्रेण त्वङ्मांसहृदयेन्द्रियैः।
भर्त्रासंयुज्यते पत्नी तद्गोत्रा तेन सा भवेत्”।
इति चानयोर्व्वचनयोस्तात्पर्य्यपर्य्यालोचनयाऽप्येतदवगम्यते।कथम्? इत्थम्। अत्रखल्वेकस्मिन् वचने चतुर्थेऽहनि रात्रौगोत्रैक्यमनुशिष्यते। अन्यस्मिंस्तु तस्य चतुर्थीहोममन्त्रफलत्वम्।तस्मादनुमिनुमः,—विवाहाच्चतुर्थदिने रात्रावचं होमः—इति। एवंखल्वत्र रात्रेरपेक्षा दृष्टार्था भवति। अन्यथा अदृष्टार्थत्वमस्याः कल्पनीयम्। तच्चानिष्टम्।
अतःशब्दो हेत्वर्थः। यस्मादेतस्मिन् कर्मण्यकृते याऽस्याः पापीलक्ष्मीः–इत्यादयो दोषाः शरीरादस्या नापयन्ति, अतः एतस्मात्कारणात् इदमवश्यं कर्त्तव्यम्—इत्यर्थः॥०॥१॥०॥
** अग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति अग्नेप्रायश्चित्त इति चतुः॥२॥**
अग्निमुपसमाधाय—इत्युक्तार्थम्। प्रायश्चित्तलिङ्गैर्मन्त्रैराज्याहुतयः प्रायश्चित्ताज्याहुतयः, ताः जुहोति, अग्ने प्रायश्चित्ते—इतिमन्त्रेण। किं सकृत्? न। कति तर्हि? चतुः। अत्र, चतुरितिवीप्सितमवगन्तव्यम्। तत्र हेतुं वक्ष्यामः॥०॥२॥०॥
किं समाम्नायपठितमेव अग्ने प्रायश्चित्ते—इति मन्त्रमविशेषेणअभ्यस्यचतुश्चतुर्होतव्यम्? न। कथन्तर्हि? उच्यते। प्रथमातावदाहुतिर्यथापठितेनैव मन्त्रेण होतव्या। अन्यासु पुनराहुतिषु—
** अग्नेः स्थाने वायु-चन्द्र-सूर्य्याः॥३॥**
क्रमशः प्रयोक्तव्याः—इति सूत्रशेषः। समाम्नायपाठादेतावानेवविशेषः न पुनरपरः कोऽपि। कुतः? प्रथमस्यैव मन्त्रस्याग्निपदस्थाने वायु-चन्द्र-सूर्य्यपदप्रक्षेपमात्रेणाभ्यासोपदेशात्। तस्मात्,चतसृष्वप्याहुतिषु पापी लक्ष्मीः,—इति पदमेव स्यात्॥०॥३॥
** समस्य पञ्चमीं बहुवदूह्य॥४॥**
समस्य अग्नि-वायु-चन्द्र-सूर्य्याः—इत्युच्चार्य्य, बहुवदूह्य प्रायश्चित्तयो यूयम्—इत्येवमादि बहुवचनमूहित्वा पञ्चमीमाहुतिं
जुहोति। अयमपि सूत्रितविशेषमात्रेण प्रथमस्यैव अग्ने प्रायश्चित्ते—इत्यादिमन्त्रस्याभ्यासोपदेशः। तेनात्रापि पापी लक्ष्मीः—इति पदमेव स्यात्। अत्रापि, पञ्चर्मीपञ्चमीम्—इति वीसा बोद्धव्या।
अत्र किञ्चिद्वक्तव्यमस्ति। पद्यमानमन्त्रकाण्डे प्रायश्चित्ताज्याहुतिलिङ्गाः पञ्च मन्त्राः पठ्यन्ते। तत्र, “अग्नेप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्याः पापीलक्ष्मीस्तनूस्तामस्या अपजहि”—इति प्रथमो मन्त्रः। “वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम–उपधावामि याऽस्याः पतिघ्नीतनूस्तामस्या अपजहि"—इति द्वितीयो मन्त्रः। “चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्याः अपुत्र्या तनूस्तामस्या अपजहि”—इति तृतीयो मन्त्रः। “सूर्य्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसिब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्याअपसव्या तनूस्तामस्या अपजहि”—इति चतुर्थो मन्त्रः। “अग्नि-वायु-चन्द्र-सूर्य्याःप्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयः स्थ ब्राह्मणो वोनाथकाम उपधावामि यास्याःपापीलक्ष्मीः पतिघ्नी अपुत्र्या अपसव्या तनूस्तामस्या अपहत"—इति पञ्चमो मन्त्रः। एवन्तावत् पञ्चमन्त्राः पठ्यन्ते।
तत्राचार्य्येण प्रथमेनैव मन्त्रेण पञ्च आहुतयः सूत्रिताः। प्रथमा तावदाहुतिर्यथापठितेनैव मन्त्रेण होतव्या। ‘अग्ने’—इत्यस्य स्थाने, ‘वायो’—इत्युक्त्वातेनैव द्वितीया, ‘चन्द्र’—इत्युक्त्वातेनैव तृतीया, ‘सूर्य’—इत्युक्त्वा तेनैव चतुर्थी, ‘अग्नि-वायु-चन्द्र-सूर्य्याः’—इत्युच्चार्य्य
बहुवदूहित्वा तेनैव पञ्चमी। एवं प्रथमपठितेनैव मन्त्रेण पञ्च मन्त्राः सम्पद्यन्ते, पञ्च चाहुतयोभवन्ति। अत्रमन्त्रपञ्चकएव पापी लक्ष्मीः—इति पदं स्यात्। सूत्रितविशेषमात्रेण प्रथमपठितस्यैव मन्त्रस्याभ्यासोपदेशात्—इत्यवोचाम।
तत्र च, प्रथमपठितमन्त्रस्य अग्निपदस्थाने एकैकशो वायु-चन्द्र-सूर्य्यपदप्रक्षेपेण ये चत्वारो मन्त्राः सम्पद्यन्ते, याश्च चतस्र आहुतयो भवन्ति, तेषां चतुर्णां चतुर्धा अभ्यास कर्त्तव्यः। कुतः? चतुश्चतुरिति वीप्साबलात्। तत्र, चतुर्णां मन्त्राणां चतुर्थेचत्वारो मन्त्राः चतुर्भिर्गुणिताः षोड़श सम्पद्यन्ते। आहुतयोऽपि षोड़शैव भवन्ति। एवं समस्ताग्नि-वायु-चन्द्र-सूर्य्यपदवान् बहुवचनान्तः पञ्चमोऽपि मन्त्रः चतुर्धैवाभ्यसितव्यः, पञ्चमीं पञ्चमीमिति वीप्साबलादेव। एवञ्च समस्ताम्न्यादिपदवन्तो बहुवचनान्ता अपि मन्त्राश्चत्वार एव सम्पद्यन्ते। आहुतयश्च चतस्रो भवन्ति। एवं मिलित्वा प्रयोगकाले विंशतिर्मन्त्राः, विंशतिश्चाहुतयः सम्पद्यन्ते। तथाच “व्यस्तस्य चतुष्टयस्यसमस्तस्य चैकस्य चतुर्धा आवृत्तिः सिद्धा”—इति नारायणोपाध्यायाः।
तदेवं चत्वारि मन्त्रपञ्चकानि भवन्ति। समस्य पञ्चमीम्—इति सर्व्वेषामेव बहुवचनान्तमन्त्राणां पञ्चमीत्वानुरोधात्। तत्र प्रथमं मन्त्रपञ्चकं यथा पठितव्यं, तथा पुरस्तादस्माभिर्दर्शितम्। उत्तरपञ्चकत्रयेऽपि प्रथमपञ्चकमन्त्रा एवाभ्यसितव्याः। तत्र द्वितीयपञ्चके पापी लक्ष्मीः—इति पदस्थाने पतिघ्नी—इति पठितव्यम्। अयमेव विशेषः, अन्यत् सर्व्वंपूर्व्ववत्। एवं तृतीयपञ्चके तत्रैव स्थाने,
‘अपुत्र्या’—इति, चतुर्थपञ्चके तत्रैव स्थाने ‘अपसव्या’—इतिविशेषः। सर्व्वमन्यत् पूर्व्ववदेव। कुतः पुनः पतिघ्न्यादिपदप्रयोगोवर्ण्यते? न खल्वेतत् सूत्रितम्। उच्यते। मन्त्रसमाम्नायेपतिघ्न्यादिपदपाठबलादेवमुन्नीयते। अन्यथा तत्रमन्त्रपञ्चकपाठोऽनर्थक एव स्यात्। प्रथमपठितेनैव मन्त्रेण पञ्चमन्त्राणांसूत्रितत्वात्। तस्मात् द्वितीय-तृतीय-चतुर्थमन्त्रपाठः, तत्तत्पञ्चकेपतिघ्न्यादिपदप्रक्षेपप्रज्ञापनार्थः। पञ्चममन्त्रपाठस्तु समस्ताघ्न्यादिपदवति मन्त्रे एकैकशः पापीलक्ष्म्यादिप्रत्येकपदपाठसूचनार्थः।तदेतत् सर्व्वंकर्मप्रदीपकृता कात्यायनेन स्पष्टीकृतम्।
“मन्त्राम्नायेऽग्न इत्येतत् पञ्चकं लाघवार्थिभिः।
पठ्यते, तत्प्रयोगे स्यात् मन्त्राणामेव विंशतिः।
अग्नेःस्थाने वायु-चन्द्र-सूर्य्या बहुवदूह्य च।
समस्य पञ्चमीं सूत्रे चतुश्चतुरिति श्रुतेः।
प्रथमे पञ्चके पापीलक्ष्मीरिति पदं भवेत्।
अपि पञ्चसु मन्त्रेषु इति मन्त्रविदो विदुः।
द्वितीये तु पतिघ्नीस्यादपुत्र्येति तृतीयके।
चतुर्थे त्वपसव्येति इदमाहुतिविंशकम्”।
इति। “यद्यपि, सूत्रे वीप्सा न श्रूयते, तथापि कल्प्या।अन्यथा पापीलक्ष्मीपदावृत्त्या व्यस्तसमस्ताः पञ्चैवाहुतयः स्युः। तदा चाम्नायपठितस्यवायो इत्यादिमन्त्रचतुष्टयस्य बधूदोषोपशमनार्थस्य प्रायश्चित्ताङ्गास्य बाधापत्तिः। आम्नायपठितस्य समस्ताम्न्यादियुतस्य पञ्चमस्यापि, पापीलक्ष्मीः—इत्याद्येकैकपदव्याहारेण
वीप्सापक्षे अनुरोधात्"—इति नारायणोपाध्यायाः। व्याख्यानान्तराणि परेषां न दूषितानि ग्रन्थगौरवभयात्॥०॥४॥०॥
** आहुतेराहुतेस्तु सम्पातमुदपात्रेऽवनयेत्॥५॥**
कृतभाष्यमेतत्॥०॥५॥०॥
** तेनैनांसकेशनखामभ्यज्य ह्रासयित्वाऽऽप्लावयन्ति॥६॥**
तेन उदकपात्रस्यसम्पाताज्येन एनां बधूं, सकेशनखांसह केशैश्चनखैश्चवर्त्तमानाम्, अभ्यज्य स्रक्षयित्वा, ह्रासयित्वाउद्धर्त्तनादिनातदभ्यञ्जनमपनीश्च। अथवा। ह्रासतिर्गतिकर्म्मा। तस्मात् प्रदेशात् प्रदेशमन्यं गमयित्वा। क्रामयित्वा—इति पाठे व्यक्त एवायमर्थः। वस्तुतस्तु, उद्वर्त्तनं नखरोमच्छेदनं मेखलायाः संमनञ्च ह्रासनमुच्यते। कथं ज्ञायते?
“उद्वर्त्तनं नखच्छेदो रोमच्छेदनमेवच।
स्रंसनंमेखलायाश्च ह्रासनानि विदुर्बुधाः"॥
इति गृह्यासंग्रहवचनात्। एतदविद्वांसएव ‘क्रामयित्वा’—इति पठन्ति। आप्लावयन्ति स्नापयन्ति। बहुवचनादनियतः कर्त्ता। अत्र चतुर्थीकर्म्मणः परिसमाप्तिः॥०॥६॥०॥
** ऊर्द्ध्वंत्रिरात्रात् सम्भव इत्येके॥७॥**
प्रक्ततात् त्रिरात्रादूर्द्ध्वंपरतः, सम्भवत्यमेन—इति सम्भवः सम्भोगःव्यवायः कर्त्तव्यः—इत्येके प्राचार्या मन्यन्ते। अथ, सूत्रमिदंशक्यमवक्तुम्, सम्भवस्य रागत एव प्राप्तेः। विवाहात् प्रभृति
त्रिरात्रं ब्रह्मचर्य्यविधानाच्च तदूर्द्ध्वं ब्रह्मचर्य्यनियमाभावस्यावगतेः।उच्यते। उपरिष्टात् स्नातकव्रतेषु सूत्रयिष्यति—“नाजातलोम्न्या सहोपहासमिच्छेत्”—इति, तदपवादार्थमिदमुच्यते। कथन्नाम?यद्यजातलोम्न्येवातीव पुरुषोपभोगाभिलाषिणी भवति, तर्हित्रिरात्रादूर्द्धं तद्रक्षार्थं सम्भवितव्यम्। अपि च। ऋतुकालादन्यत्ररागमात्राधीनत्वात् सम्भवस्य स्त्रीणां तदभिलाषेऽपि पुंसो रागाभावादकरणमपि प्राप्नोति। तदनेन निरस्यते। अन्यथा खल्वभिन्नाषपरवशा कदाचिदकार्य्यमपि कुर्य्यात्। तस्माद्विनाऽपि ऋतुकालं स्त्रीणां रक्षार्थं सम्भवितव्यम्—इति। रक्षणं खल्वासामवश्यमेव कर्त्तव्यम्। अकुर्व्वतो दोषश्रवणात्। तथा च मनुः।
“सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः।
द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः”।
इति। सोऽयं रक्षणोपायः सम्भवोऽपि नियम्यते। तथाच स्मरणम्।
“यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन्।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः”।
इति।
“ऋतुकालाभिगमनं कार्य्यं पुंसा प्रयत्नतः।
सदैव वा, पर्व्ववर्ज्जंस्त्रीणामभिमतं हि यत्”।
इति चैवमादि॥०॥७॥०॥
** यदर्त्तुमतीभवत्युपरतशोणिता तदा सम्भवकालः॥८॥**
यदा ऋतुमतीभवति। ऋतुर्नाम गर्भधारणयोग्यावस्थोपलक्षितः कालविशेषः। स च शोणितनिःसरणादारभ्य षोड़शाहोरात्रात्मकः। तदाह मनुः।
“ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोड़श स्मृताः”।
इति। किम् ऋतुमत्यां सत्यामेव सम्भवकालः? न। कदातर्हि? यदा उपरतशोणिता अपगतरक्तयोनिद्वारा भवति तदासम्भवकालः पर्व्ववर्जम्। कुतः? “पर्व्ववर्जंव्रजेदृतौ"—इति स्मरणात्। अयमप्यकरणे दोषश्रवणान्नियम एव। तथाच स्मृत्यन्तरम्।
“ऋतुमतीन्तु यो भार्य्यां सन्निधौ नोपगच्छति।
अवाप्नोति स मन्दात्मा भ्रूणहत्यामृतावृतौ”।
इति। यच्च वर्णयन्ति—
“ऋतौ तु गर्भशङ्गित्वात् स्नानं मैथुनिनः स्मृतम्।
अनृतौ तु सदा कार्य्यं शौचं मुत्रपुरीषवत्”॥
इत्यनृतौ मैथुनिनः शौचविशेषोपदेशान्नेयं परिसंख्या, अपि तुनियममोऽयम्—इति। तदसङ्गतम्। अस्पृश्यस्पर्शनादिवत् यदृच्छोपनतमैथुनानुवादेन तस्य कृतार्थत्वात्। तस्मादस्मदुक्तादेवहेतोर्नियमः। नेयं परिसंख्या भवितुमर्हति। निषेधरूपत्वात्तस्याः। यथाऽऽहुः।
“अन्यार्थश्रूयमाणा च याऽन्यार्थप्रतिषेधिका।
परिसंख्या तु साज्ञेया यथा प्रोक्षितभोजनम्”॥
इति। तथात्वे ‘सदैव वा’—इत्यादिस्मृत्यन्तरविरोधापत्तेः।प्रकरणे दोषश्रवणानुपपत्तेश्च। दोषत्रयदुष्टा च सान खल्वाश्रयितुमुचिता सम्भवन्त्यां गतौ। तथाचोक्तम्।
“श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात्।
प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका”॥
इति। विधिस्तावदसौन भवत्येव। स्वरसतः प्राप्तत्वात्।अत्यन्ताप्राप्तविषयो हि सः। तथाचाहुः।
“विधिर्विधायकं वाक्यं चोदनार्थं प्रवर्त्तकम्।
अत्यन्ताप्राप्तविषयं कर्त्तव्यास्त्वष्टका यथा”॥
इति। तस्माद्व्यतिरेके दोषश्रवणादावश्यकत्वावगतेर्नियम एवायम्। तथाचोक्तम्।
“स्वरुच्या क्रियमाणे तु यत्रावश्यं क्रिया क्वचित्।
नियमः सोऽत्र विज्ञेयः श्राद्धे मांसाशनं यथा”॥
इति॥०॥८॥०॥
** दक्षिणेन पाणिनोपस्थमभिमृशेद्विष्णुर्योनिंकल्पयत्वित्येतयर्च्चागर्भं धेहि शिनीवालीति च॥९॥**
कुत्सितप्रदेशानां सव्येनैव पाणिना कृत्योपदेशात् प्रदेशस्यचास्य कुत्सितत्वात् सव्येनैवायमभिमर्शः स्यादिति दक्षिणेनेत्याह। दक्षिणेन पाणिना उपस्थंयोनिमभिमृशेत् स्पृशेत् विष्णुर्योनिमित्येतथा ऋचा गर्भं धेहीत्येतया च। पृथङ्निर्देशात् पृथगेव स्पर्शः। स खल्वयं स्पर्शोमन्त्रपाठसमकालमेव स्यात्। कुतः? उत्तरसूत्रात्। अतएव, उपस्थं स्पृशन् जपति—इतिभवदेवभट्टोऽप्याहस्म। तस्मात्, मन्त्रपाठानन्तरं स्पर्शः—इति रघुनन्दनमतमसङ्गतम्॥०॥९॥०॥
** समाप्यर्चौ सम्भवतः॥१०॥**
ऋजुरक्षरार्थः। ननु, समाप्यर्च्चौ—इति शक्यमवक्तुम्।उच्यते। ‘समाप्य सम्भवत—एव नेतरत् किमपि कुर्य्यात्। इतरथा कर्म्मापवर्गविहितं वामदेव्यगानमत्र स्यात्’—इति भट्टनारायणः। नैतत् सारम्। कुतः? यतो न खल्वभिमर्शोऽत्र कर्म्म, येन तदन्ते कर्म्मापवर्गविहितं वामदेव्यगानं प्रसज्येत। किन्तर्हि? सम्भवः—इति ब्रूमः। कस्मात्? तथैवोपक्रमात्। अतः सूत्राच्च। तत् कुत एवेदानींवामदेव्यगानं प्रमज्येत, येन तन्निरासार्थमेतत् सूत्रितमुच्यते। सम्भवात् परतः खल्वेतत् स्यात्। “गर्भाधानवदुपेतो ब्रह्मगर्भंसन्दधाति”—इति शास्त्रान्तरमपि, गर्भाधानविधिना; विष्णुर्योनिं कल्पयत्वित्यादिना, उपेतः स्त्रियमुपगतः—इति सम्भवादन्यदावृदिति दर्शयति। तस्मात्, दर्शारम्भणीययोरिव कालार्थं वचनं वर्णनीयम्। कथन्नाम? ऋचौ समाप्य सम्भवत एव न पुनरन्तरा किञ्चिदन्यत् कुर्य्यात्—इति। तेन पूर्व्वत्र सूत्रितोऽभिमर्शोऽपि ऋचोः परतो न स्यात्, किन्तु तत्पाठसमकालमेव—इति सिध्यति। यत्तु तत्त्वकारेण, ऋचोरन्ते स्पर्शं व्याख्यायापि, ऋचौ ममाप्यैव संयोगं कुरुतः न मध्ये—इति वर्णितम्। तदप्यसङ्गतम्। न हि तन्मते ऋचोरनन्तरभाविनोऽभिमर्शादपि पराचीनस्य सम्भवस्य ऋचोर्मध्ये प्रसङ्गः शक्यते वक्तुं, येन तन्निरासार्थं ममाप्यैव—इति नियमनमर्थवत्। तस्मादस्मदुक्तैवावधारणा।
तदस्य गर्भाधानस्य पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होतव्यम्। कस्मात्?
“अग्नेऽस्तु मारुतजो नाम गर्भाधाने विधीयते”।
इति गृह्यासंग्रहोक्तस्याग्नेरर्थवत्तोपपत्तेः। यत्र यत्र खल्वग्निरुच्यते न होमः, तत्र तत्रैवमवोचाम, “आज्याहुतिष्वनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होमः”—इत्यत्र। तदत्र पूर्णाहुतिर्नकर्त्तव्या। कुतः?
“विवाहे व्रतबन्धे च शालायां चौलकर्म्मणि।
गर्भाधानादिसंस्कारे पूर्णाहुतिं न कारयेत्”॥
इति स्मरणात्। केचिदत्र,—
“विवाहादिः कर्म्मगणो य उक्तो-
गर्भाधानंशुश्रुम यस्य चान्ते।
विवाहादावेकमेवात्र कुर्य्यात्
श्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात्”॥
इति कर्म्मप्रदीपवचनं पश्यन्तः श्राद्धं निषेधन्ति। तदसङ्गतम्।यतो न खल्वेतत् गर्भाधाने श्राद्धं निषेधति। कुत्र तर्हि? गर्भाधानादर्व्वाचीनेषु विवाहादिषु प्रत्येकम्—इति ब्रूमः। कुतः?यस्य कर्म्मगणस्यान्ते गर्भाधानं शुश्रुम—इति गणाद्बहिर्भूतस्यैवगर्भाधानस्य गणलक्षणत्वावगतेः। तुकारार्थेन चकारेण तस्य गणबाह्यत्वप्रज्ञापनाच्च। ननु यथा विवाहो गणान्तर्भूतएव तदादित्वलक्षणः, तथा गर्भाधानमपि तथैवान्तलक्षणमस्तु। नैष दोषः।उक्तादेवहेतोस्तस्य गणबाह्यत्वप्रतिपत्तेः। वैयधिकरण्येन चोपदेशात्।यस्यान्ते गर्भाधानं शुश्रुम—इति वैयधिकरण्येनोपदिश्यते। तेनावगच्छामः, गणाद् वहिर्भूतमेव सद्गर्भाधानं तदन्तलक्षणम्—इति।
शुश्रुम—इति करणाच्च गर्भाधानस्य गणान्ते श्रवणमेव परं, नपुनरिदमपि तदन्तर्गतम्,—इति दर्शयति। सन्दिग्धश्च शास्त्रार्थःशास्त्रान्तरादवधार्य्यते। स्फुटमत्र शास्त्रान्तरेषु श्राद्धमुपलभ्यते।
“निषेककाले सोमे च सीमन्तोन्नयने तथा।
इष्टौ पुंसवने चैव श्राद्धं कर्माङ्गमेवच”।
इति।
“जन्मन्यथोपनयने विवाहे पुत्रकन्ययोः।
पितृन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्व्वकम्।
देवव्रतेषु चाधानयज्ञपुंसवनेषु च।
नवान्नभोजने स्नाने ऊढ़ायाःप्रथमार्त्तवे”।
इति चैवमादौ बहुलम्।यच्चोक्तं तत्त्वकारेण। अन्तशब्दोऽत्रगणस्यावयवार्थः दशान्तः पट इति वत्। समीपार्थत्वे उपलक्षणंस्यात्। ततश्च विशेषणत्वोपलक्षणत्वसन्देहे विशेषणत्वेन ग्रहणंकार्य्यान्वितत्वात्। गर्भाधाने श्राद्धविधायकं वचनं छन्दोगेतरविषयमिति। तदसमीचीनम्। सिद्धे हि श्राद्धविधायकवचनस्यछन्दोगेतरविषयत्वेऽन्तशन्दोऽवयवार्थः स्यात्, सिद्धे चावयवार्थत्वेअन्तशब्दस्य श्राद्धविधायकवचनं छन्दोगेतरविषयमित्यन्योन्याश्रयापत्तेः। स्मृत्यर्थसन्देहे स्मृत्यन्तरसंवादादेवार्थनिर्णय इति च सएवाह। तत्कथमत्रैवं ब्रवीतीति न खल्वधिगच्छामि।
‘गर्भसंस्कारश्चायं गर्भाधानाख्यः पात्रद्वारेण स्यात्। ततश्च,सकृत्संस्कृते स्त्रीद्रव्ये यो यो गर्भ उत्पद्यते, स स संस्कृत एवभवति। तस्मात् सकृदेव स्यान्न प्रतिगर्भमपि। एवं पुंसवनसीमन्तोन्नयनयोरपि द्रष्टव्यम्’—इति भट्टनारायणप्रभृतयः। ‘त्रयोऽप्यमीसंस्काराः प्रतिगर्भमावर्त्तन्ते, अन्यथा परेषां गर्भाणामसंस्कारः स्यात्’—इति कर्कोपाध्यायाः। गर्भाधानं प्रतिगर्भमावर्त्तते नपुंसवनसीमन्तोन्नयने—इति विज्ञानेश्वरः। सीमन्तोन्नयनं प्रतिगर्भंनावर्त्तते, गर्भाधानपुंसवने आवर्तेतेएव—इति शूलपाणिगार्ग्यनारायणप्रभृतयः। किं पुनरत्र युक्तम्? गर्भाधानपुंसवनयोःप्रतिगर्भमावृत्तिर्न सीमन्तकरणस्य—इति ब्रूमः। कुतः पुनरियमवधारणा? परतो वक्ष्यामः। गर्भाधानमपि प्रतिगर्भं नावर्त्तते—इति तु विप्रतिषिद्धमेव। सम्भवरूपत्वादस्य। तदन्तरेण गर्भसंस्थितेरेवाभावात्। प्रतिऋतु खल्वेतदावर्त्तते। ‘ऋतावृतौ’—इतिस्मरणात्। अभिमर्शः ह्यावृदित्यवोचाम। परमन्वाहार्य्यश्राद्धस्यनावृत्तिः।
“असकृद्यानि कर्म्मणि क्रियेरन् कर्म्मकारिणा।
प्रतिप्रयोगं नैव स्युर्मातरः श्राद्धमेवच”।
इति कर्म्मप्रदीपवचनात्। प्रतिमासकर्त्तव्यदर्शपौर्णमासादीनामिव प्रतिऋतुकर्त्तव्यगर्भाधानस्याप्यविशेषात्। ‘उढ़ायाः प्रथमार्त्तवे’—इवि वचनाच्च॥०॥१०॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य पञ्चमी खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
गर्भाधानानन्तरं पुंसवनमुपदिशन्निदमाह—
** तृतीयस्य गर्भमासस्यादिसदेशे पुंसवनस्य कालः॥१॥**
गर्भो यस्मिन् मासि जायते सोऽयं गर्भमासः। तस्य यस्तृतीयोमासः।संबन्धलक्षणा षष्ठी। तृतीयो यो गर्भमासः—गर्भादारभ्ययस्तृतीयोमासः—इति वा व्याख्येयम्। तदस्य आदिसदेशे आदिसमीपप्रदेशे प्रथमे तृतीयभागे—इत्येतत्। ‘आदिमदश’—इतिपाठान्तरम्। तदा व्यक्त एवायमर्थः। एतस्मिन् काले यत् पुण्यमहः,तत् पुंसवनस्य कालः।पुमान् सूयते येन कर्म्मणा तदिदं पुंसवनमितिगर्भसंस्कारकर्म्मविशेषस्य नामधेयम्। अनेन हि कर्म्मणा अव्यक्तलिङ्गंगर्भं पुमांसं करोति। ‘पुंसवनात् पुंसीकरोति’—इति स्मरणात्।यदि पुनर्दैवान्मानुषाद्वा कुतश्चिदन्तरायात् यथोक्तकालोऽतिपतति,तदा कालान्तरे प्रायश्चित्तं कृत्वा करणीयम्। तथाच कर्मप्रदीपः।
“देवतानां विपर्य्यासेजुहोतिषु कथं भवेत्।
सर्व्वप्रायश्चित्तं हुत्वा क्रमेण जुहुयात् पुनः॥
संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन।
हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः”॥
इति। उपनयनादधः—इति करणात् चूड़ाकरणपर्य्यन्तमेवसर्व्वप्रायश्चित्तहोमः प्रायश्चित्तम्। उपनयनातिपाते तु व्रात्यस्तोमः शास्त्रान्तरे पठ्यते, स एव प्रायश्चित्तं दोषगुरुत्वात्—इत्यभिप्रायः॥०॥१॥०॥
** प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु9, पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति॥२॥**
प्रातः उदयसन्निधौ। अन्यथा ‘प्रागावर्त्तनात्’—इति प्राप्तत्वात्पुनरुक्तत्वापत्तेः। तथाच स्मरन्ति। “प्रातःकालोमुहूर्तांस्त्रीन्”—इति। ‘उदगग्रेषु दर्भेषु’ उपविश्य ‘सशिरस्काऽऽप्लुता’ सती, वधूः‘पश्चादग्नेरुदगग्रेषु दर्भेषु’ ‘प्राची’ प्राङ्मुखी ‘उपविशति’,—दक्षिणतः पाणिग्राहस्य। कस्मात्? “दक्षिणतः पाणिग्राहस्योपविशति”–इति दर्शनात्॥०॥२॥०॥
उपविष्टायां खल्वस्यां महाव्याहृतिहोमान्तं कृत्वा—
** पश्चात् पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंसमन्ववमृश्यानन्तर्हितं नाभिदेशमभिमृशेत् पुमांसौ मित्रावरुणावित्येतयर्च्चा॥३॥**
‘पश्चात्’ पृष्ठदेशे ‘पतिरवस्थाय’ प्राङ्मुख ऊर्द्धःस्थित्वा, ‘दक्षिणेन पाणिना’ बध्वाः ‘दक्षिणमंसं’ ‘अन्ववमृश्य’ स्पृष्ट्वा, ‘अनन्तर्हितम्’ अव्यवहितं वस्त्राद्यनाच्छादितम्,—इत्येतत्। ‘नाभिदेशम्’‘अभिमृशेत्’ स्पृशेत्, पुमांसावितिमन्त्रेण। तूष्णीमंमस्याभिमर्शनंमन्त्रेण नाभिदेशस्य—इति भट्टनारायणप्रभृतयः। वस्तुतस्तु मन्त्रानादेशे व्याहृतयः प्रयोक्तव्या भवन्ति। तथाच गृह्यासंग्रहः।
“यत्र मन्त्रा न विद्यन्ते व्याहृतीस्तत्र योजयेत्।
मन्त्राणामेवचादेशे मन्त्रात् कर्म्म समाचरेत्”।
इति। चरुश्रपणादिकमेवतूष्णीं कर्त्तव्यम्। तदप्याह स एव।
“इध्मःसन्नहनादानं चरुश्रपणमेवच।
तूष्णीमेतानि कुर्व्वीत समस्तञ्चेध्ममाददेत्”।
इति। तस्मात् व्याहृतिभिरंसस्याभिमर्शनं मन्त्रेण नाभिदेशस्येत्यादरणीयम्॥०॥३॥०॥
** अथ यथार्थम्॥४॥**
अथानन्तरं यथार्थम्—इति कर्म्मणः परिसमाप्तिरुच्यते।तन्त्रसमापनमत्र कर्त्तव्यम्। दक्षिणा चानुपदेशात् पूर्णपात्रादिकाम्यात्। एवमन्यत्र॥०॥४॥०॥
** अथापरम्॥५॥**
अथैतस्मात् पुंसवनकर्म्मणोऽनन्तरम्, अपरमन्यत् पुंसवनकर्म्म कर्त्तव्यम्। पाठादेवानन्तर्य्यलाभादथशब्दः पूर्व्वप्रकृतार्थो वा वर्णनीयः। पूर्व्ववदिदमपि पुंसवनं पूर्व्वप्रकृत एव काले करणीयम्—इत्यर्थः। तच्चैकदिने दिनद्वये वा—इति न गम्यते विशेषः।
एकदिने चेत् द्वयं क्रियते, तर्हि नान्दीमुखश्राद्धमपि तन्त्रेणैवकर्त्तव्यम्। तथाच कर्मप्रदीपः।
“गणशःक्रियमाणे तु मातृभ्यः पूजनं सकृत्।
सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु”।
इति॥०॥४॥०॥
** प्रागुदीच्यां दिशि न्यग्रोधशुङ्गामुभयतःफलामस्रामामकृमिपरिसृप्तां त्रिःसप्तैर्यवैर्माषैर्व्वापरिक्रीयोत्थापयेत्॥६॥**
प्रागुदीच्यामैशान्यां दिश्यवस्थिता या न्यग्रोधस्य वटस्य शुङ्गा—
“लताग्रपल्लवो गूढ़ः शुङ्गेति परिगीयते।
पतिव्रता ब्रतवती ब्रह्मबन्धुस्तथाऽश्रुतः”॥
इत्युक्तलक्षणा, मुकुलितपल्लवः—इत्येतत्। तामेतां शुङ्गां परिक्रीय क्रीत्वा उत्थापयेत् गृह्णीयात्। शुङ्गां विशिनष्टि। उभयतःफलाम्, उभयतः पार्श्वद्वये फले यस्याः सेयमुभयतःफला। ताम्।अस्रामाम् अस्वानाम्। अकृमिपरिसृप्ताम्, कृमिभिः परिसृप्तापरिव्याप्ता—कृमिपरिसृप्ता, सा न भवतीत्यकृमिपरिसृप्ता। ताम्।कृमयःप्रसिद्धाः। कियता मूल्येन परिक्रयणम्? त्रिःसप्तैः त्रिरावृत्तैः सप्तभिः। केचित्तथैव पठन्ति। एकविंशतिभिरित्येतत्। यवैर्माषैर्वा।यवान् माषान् वा वृक्षमूले निःक्षिप्य परिक्रयणम्।एवमेके।क्रयश्च वृक्षस्वामिनो न वृक्षात्, तेन वृक्षस्वामिने यवामाषा वा देयाः। एवमपरे॥०॥६॥०॥
किमिदं परिक्रयणमुत्थापनञ्च तूष्णीमेव। न। कथन्तर्हि?मन्त्रैः। कतमे पुनस्ते मन्त्राः? उच्यते। परिक्रयणन्तावत्—
** यद्यसि सौमीसोमाय त्वा राज्ञे परिक्रीणामि,यद्यसि वारुणीवरुणाय त्वा राज्ञे परिक्रीणामि, यद्यसिवसुभ्यो वसुभ्यस्त्वा परिक्रीणामि, यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परिक्रीणामि, यद्यस्यादित्येभ्य आदित्येभ्यस्त्वापरिक्रीणामि, यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि,यद्यसि विश्वेभ्योदेवेभ्यो विश्वेभ्योदेवेभ्यस्त्वा परिक्रीणामि॥७॥**
एतैः सप्तभिः क्रयलिङ्गैर्मन्त्रैः प्रतिमन्त्रं यवत्रयेण माषत्रयेण वाकर्त्तव्यम्॥०॥७॥०॥
ततश्च,—
ओषधयः सुमनसो भूत्वाऽस्यां वीर्य्यंसमाधत्तेयंकर्म्म करिष्यतीत्युत्थाप्यतृणैः परिधायाहृत्य वैहायसींनिदध्यात्॥८॥
ओषधय इत्यनेन मन्त्रेणेतिकारान्तेनेत्यर्थः। उत्थाप्य उत्तोल्य,तृणैः परिधाय वेष्टयित्वा, आहृत्य आनीय, वैहायसींविहायःस्थामाकाशस्यां निदध्यात् धारयेत्॥०॥८॥०॥
तां खल्वाहृतां शुङ्गाम्—
** दृशदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धुःकुमारी वाऽप्रत्याहरन्तीपिनष्टि॥९॥**
दृशदं पेषणाधारात्मिकां शिलाञ्च पेषणकरणरूपां प्रक्षाल्य,पिनष्टि चूर्णीकरोति। कः पिनष्टि? ब्रह्मचारी प्रथमाश्रमीव्रतवती पतिव्रता योषिद्वा। गर्भवती—इति भवदेवलेखोऽप्रमाणः।ब्राह्मणान् बन्धून् व्यपदिशति न स्वयं ब्राह्मणवृत्तो यः, सोऽयंब्रह्मबन्धुरनधीतवेद इहाभिप्रेतः। तथा चोक्तम्।
“पतिव्रता व्रतवती ब्रह्मबन्धुस्तथाऽश्रुतः”।
इति। स वा। ‘अब्रह्मबन्धुः’—इति केचित् पठन्ति। तदाब्रह्मबन्धुर्योन भवति सः, अधीत वेदः—इत्यर्थः। कुमारी अनूढ़ास्त्री।सा वा। कथं पिनष्टि? अप्रत्याहरन्ती प्रत्याहरणमकुर्व्वती।कथन्नाम? तिर्य्यक् पुत्रकेण न पेषणं कर्त्तव्यम्। एवं खलु प्रत्याहरणं पुत्रकस्य स्यात्। कथन्तर्हि? उच्छ्रितपुत्रकेण आहत्याहत्यपेषणं कर्त्तव्यम्। अथवा। सकृत् प्रयोगेनैव यथा पेषणं निर्व्वहति,तथा कर्त्तव्यम्—इत्यप्रत्याहरणस्यार्थः॥०॥९॥०॥
बधूश्च—
** प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु गर्भेषु, पश्चादग्नेरुदगग्रेषु दर्भेषु10 प्राक्शिराः संविशति॥१०॥**
प्राक्शिराःपूर्व्वदिगवस्थितशिरस्का। ईशानकोणमस्तका—
इति भवदेवमतमसङ्गतम्। संविशतिस्वपिति कृतभाष्यमन्यत्॥०॥१०॥०॥
एवं संविष्टायां बध्वां—
** पश्चात् पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपनिष्ठिकया चाङ्गुल्याऽभिसंगृह्य दक्षिणे नासिकास्रोतस्यवनयेत्—पुमानग्निः पुमानिन्द्र इत्येतयर्च्चा॥११॥**
पश्चादग्नेःपतिरवस्थाय। बध्वग्न्योरन्तराले—इत्यर्थः। पिष्टांशुङ्गामभिसंगृह्य गृहीत्वा, दक्षिणे सव्येतरे, नासिकास्रोतसि नासापुटरन्ध्रे बध्वा एव, अवनयेत् क्षिपेत् पुमानग्निरितिमन्त्रेण। व्याख्यातमन्यत्। वस्त्रबद्धां शुङ्गां गृहीत्वा निष्पीड्य दक्षिणनासापुटे रसं निक्षिपेत्—इति भवदेवभट्टः। अत्रापि पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिहोमो द्रष्टव्यः। एवमन्यत्र॥०॥११।०॥
** अथ यथार्थम्॥१२॥**
कृतभाष्यं सूत्रम्॥०॥१२॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य षष्ठी खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके सप्तमीखण्डिका।
अथ सीमन्तकरणम्11प्रथमगर्भे॥१॥
अथानन्तरं सीमन्तकरणं वर्त्तिष्यते—इति सूत्रशेषः। सीमानमन्तति बध्नाति—इति सीमन्तः केशरचनाविशेषः। सकन्ध्वादित्वात्साधु। तस्य वक्ष्यमाणेन विधिना करणम्—इति कर्म्मणोनामधेयम्। तदिदं सीमन्तकरणं ‘प्रथमगर्भे’ प्रथमश्चासौगर्भश्चेतिप्रथमगर्भस्तस्मिन् कर्त्तव्यम्, न द्वितीयादिष्वपि गर्भेषु। किं कारणम्? संस्कारः खल्वयं स्त्रीपात्रस्य तत्द्वारेण च गर्भस्य स्यात्।कुतः? सीमन्तकरणम्—इति समाख्यानात्। तस्मात् सकृदेवकर्त्तव्यम्। सकृत् संस्कृतपात्रजातानां सर्व्वेषामपत्यानां खल्वेवमेवसंस्कारः सम्पत्स्यते। सखल्वयं सूत्रार्थ आचार्य्यपुत्रेणापि दर्शितः।तथाच गृह्यासंग्रहः।
“यथा सिमन्तिनीनारी पूर्व्वगर्भेण संस्कृता।
एवमाज्यस्य संस्कारः संस्कारविधिचोदितः”॥
इति। तदिदं सीमन्तकरणं प्रथमगर्भे सूत्रयन्नाचार्य्योगर्भाधानपुंसवनयोः प्रतिगर्भमावृत्तिं दर्शयति। तथा हारीतः।
“सकृच्च कृतसंस्काराः सीमन्तेन कुलस्त्रियः।
यं यं गर्भं प्रसूयन्ते स गर्भःसंस्कृतो भवेत्”।
इति सीमन्तेन सकृत्कृतसंस्कारत्वेसर्व्वेषां गर्भाणां संस्कृतत्वंस्मरन् एतदेवाह। अन्यथा सीमन्तेनेत्यानर्थक्यापत्तेः। तथा आश्वलायनगृह्यपरिशिष्टम्। “सीमन्तोन्नयनं प्रथमे गर्भे, सीमन्तोन्नयनसंस्कारो गार्भपात्रसंस्कार इति श्रुतिरिति”। गर्भश्च पात्रञ्चगर्भपात्रे, तयोरयं गार्भपात्रः सचासौ संस्कारश्चेति स तथा।गर्भ उदरस्थमपत्यम्। पात्रं तदाधारः स्त्री। तदत्र ‘सीमन्तोन्नयनं प्रथमे गर्भे’—इति सुव्यक्तमुपदेशात् गर्भाधानपुंसवनयोःप्रतिगर्भमावृत्तिरवगम्यते। अन्यथा सीमन्तोन्नयनपदस्य प्रमत्तगीतता स्यात्। श्रौतञ्चास्य गार्भपात्रसंस्कारत्वमुपन्यस्यन्मुनिरन्ययोःपात्रसंस्कारत्वं नास्तीति ज्ञापयति। ‘यथा सिमन्तिनौ’—इत्याचार्य्यपुत्रवाक्येऽपि सीमन्तिन्या नार्य्याःपूर्व्वगर्भेण संस्कृतत्ववचनादेवमवगम्यते। “सीमन्तोन्नयनं प्रथमगर्भे”—इति च गृह्यान्तरम्।तथा स्मृत्यन्तरम्। “विज्ञाते गर्भेतिव्येण पुंसवनं, तत् तृतीयेमास्यन्यत्र गृष्टेः”—इति। गृष्टिः प्रथमगर्भः—गार्ग्यनारायणः।तदत्र, प्रथमगर्भादन्यत्र तृतीये मासि पुंसवनम्—इति स्फुटमस्य प्रतिगर्भमावृत्तिः स्मर्य्यते। न चैतदसंस्कृतप्रथमगर्भविषयमितिसन्तव्यम्।तन्मात्रपरत्वे प्रमाणाभावात्। ‘तिव्येण पुंसवनम्’—इतिशाखान्तरविषयं स्मरणम्। “तिव्येणोपोषितायाः”—इत्यादि शाखान्तरगृह्यकारसूत्रात्। ‘अन्यत्र गृष्टेस्तृतीये मासि’—इत्यपिनादरणीयम्। आचार्य्यसूत्रविरोधात्। केवलमस्यावृत्तिप्रदर्शनार्थमिदमुक्तम्।
तस्मात् गर्भाधानपुंसवनयोः गर्भसंस्कारतैव परं न तु पात्रसंस्कारताऽपि। तस्मात्ते प्रतिगर्भमावर्त्तनीये। कुतः पुनर्गर्भसंस्कारतैव तयोर्न पात्रसंस्कारतापि? पात्रसंस्कारतायां प्रमाणाभावात्। समाख्यानाच्च गर्भसंस्कारताऽवगतेः। “गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म्म-नामकरणान्नप्राशन-चौड़ोपनयनम्”—इतिगौतमादिभिः पुरुषसंस्कारमध्ये गणनाच्च। तथाऽन्यत्र। “गर्भाधानवदुपेतो ब्रह्मगर्भं सन्दधाति, पुंसवनात् पुंसीकरोति”—इति।
“वैदिकैः कर्म्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्।
कार्य्यः शरीरसंस्कारः पावनः प्रेत्यचेहच।
गार्भैर्होमैर्जातकर्म्मचौड़मञ्जीनिबन्धनैः।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः”॥
इति चैवमादि बहुलम्। ननु, उपस्थमभिमृशेत्—इति वचनादभिमर्श उपस्थमपि संस्करोति? संस्करोतु नाम, किमतो भविष्यति? यद्येवमेतदतो भविष्यति। उपस्थस्य संस्कृतत्वात् सीमन्तकरणस्येव गर्भाधानस्यापि न पुनरावृत्तिरिति। मैवम्। नखल्वेतावता गर्भाधानस्यावृत्तिः शक्यते वारयितुं, तस्य गर्भसंस्कारत्वात् सम्भवरूपत्वाच्च। तदावृत्तौ तु प्रयोगवचनेन प्राप्तत्वात् दीक्षादिसंस्काराणामिवाभिमर्शस्याप्यावृत्तिर्भवत्येव। उलूखलादिसंस्कारवच्चैतदवगन्तव्यम्। यथा हि यागसाधनानामुलूखलादीनां संस्कारकर्म्माणि प्रोक्षणादीन्यपूर्व्वप्रयुक्तानि—इति संस्कृताअप्युलूखलादयः उपादीयमानाः प्रयोगवचनबलात् पुनः प्रोक्षणादिभिः संस्क्रियन्ते यथा चावघातस्य वितुषीकरणार्थत्वेऽपि प्रयोगवचनेन प्राप्तत्वात् तण्डुलमप्युपादीयमानमवहन्यते। तथाऽत्रापिगर्भाधानसाधनस्योपस्थस्य संस्कारकर्म्मणोऽभिमर्शस्याप्यपूर्व्वप्रयुक्तत्वात् गर्भाधानान्तरे संस्कृतोऽप्युपस्थः प्रयोगवचनबलात् गर्भाधानान्तरे पुनःसंस्करिष्यते। तस्मात्, अङ्गत्वादेव यावत्प्रधानमभिमर्शोऽप्यावर्त्तनीयः—इति न किञ्चिदनुचितम्। पुंसवनेऽप्ययमेव न्यायश्चिन्तनीयः।
सीमन्तकरणमपि तर्हि प्रतिगर्भं क्रियताम्? ननु प्रयोगवचनबलात् सत्यपि पुनः संस्करिष्यते। न—इति ब्रूमः। कस्मात? यस्मात् सीमन्तकरणमिति समाख्यानात् प्राधान्येन स्त्रीसंस्कारतैवास्यावगम्यते—इति नैतत् प्रतिगर्भं क्रियते। शास्त्रप्रामाण्याच्च।सोऽयं शास्त्रोपोद्वलितोऽर्थः शास्त्रैकशरणैरादरणीयः। यत्पुनर्देवलवचनम्—
“सकृच्च संस्कृता नारीसर्व्वगर्भेषु संस्कृता।
यं यं गर्भं प्रसूयेत स गर्भः संस्कृतो भवेत्”।
इति। तदपि सीमन्तकरणाभिप्रायमेव वर्णनीयम्। सकलवचनानां सामञ्जस्यात्। सकृत् संस्कृता नारी—इत्यस्योद्देश्यानुवादकतथा च यथाप्राप्तानुवादस्यैव वर्णयितुमुचितत्वात्। न खल्वत्रसकृत् संस्कृतत्वं नार्य्याविधित्सितम्, अपि तु सकृत्संस्कृतायाःसर्व्वगर्भेषु संस्कृतत्वम्—इत्यनुवाद एवायम्। तस्मात् संस्कारोऽत्र सीमन्तकरणमेव। तत् हि सकृत् क्रियते। ‘संस्कृता नारी’—इतिवचनाच्च। सीमन्तकरणेन हि सासंस्क्रियते, न गर्भाधानपुंसवनाभ्याम्—इत्यवोचाम। तस्माद्गर्भाधानपुंसवनयोः प्रतिगर्भमावृत्तिर्नसीमन्तकरणस्य—इति सिद्धम्।
दैवाच्च सीमन्तकरणादर्व्वागेव गर्भनाशे पुनर्गर्भोत्पत्तौ तत्करणीयम्। अन्यथा खल्वस्य संस्कारस्याभावेन असंस्कृतं पात्रमपत्यञ्च स्यात्। न चैतदुचितम्। शास्त्रान्तरबलाच्च। तथाचस्मरणम्।
“पूर्व्वश्च स्रावितो यश्च गर्भो यश्चाप्यसंस्कृतः।
द्वितीये गर्भसंस्कारस्तेन शुद्धिर्विधीयते"।
इति। तदिदं सीमन्तकरणविषयं वचनम्। न खल्वत्र प्रतिगर्भमावृत्तिर्निषिध्यते संस्कारस्य, किन्तर्हि? प्रथमगर्भविहितस्यसंस्कारस्य दैवादकरणे गर्भान्तरे करणमुपदिश्यते। सीमन्तकरणञ्चप्रथमगर्भे विहितं, न गर्भाधानपुंसवने। तथा स्मृत्यन्तरम्।
“या नार्य्यकृतसीमन्ता प्रसूयेत कदाचन।
अङ्के निधाय तं बालं पुनः संस्कारमर्हति”।
इति। असंस्कृतगर्भप्रसवे द्वितीयगर्भे संस्कारस्तु प्रकृतबालविनाशविषयो बोद्धव्यः॥०॥१॥०॥
यस्मिन् काले सीमन्तकरणं कर्त्तव्यं, तदाह—
चतुर्थे मासि षष्ठेऽष्टमे वा॥२॥
ऋजुरक्षरार्थः! वाशब्दैक्यान्नैते कालास्तुल्यवद्विकल्प्यन्ते।तस्मादेतेषु कालेषु यत्रोदगयनादि सम्पद्यते, स काल इहादरणीयः—इति भट्टभाष्यम्। अन्ये त्वाहुः—पूर्व्वपूर्व्वकालासम्भवेअपरापरः कालः—इति।
केचित् पुनर्गर्भाधानपुंसवनयोरपि प्रतिगर्भमावृत्तिमसहमानाः
‘प्रथमगर्भे’—इति पूर्व्वसूत्रप्रतीकेनास्य एकसूत्रतां कल्पयन्तोवर्णयन्ति। ‘प्रथमगर्भे’—इत्युपादानात् प्रथमगर्भे एव सीमन्तकरणे चतुर्थमासादिकालविकल्पः। कथञ्चिदकृत एवैतस्मिन् संस्कारेगर्भनाशे, गर्भान्तरोत्पत्तौ तु नायं कालविकल्पः। किन्तु"गर्भस्पन्दने सीमन्तोन्नयनं यावन्न बालप्रसवः"—इति शङ्खलिखितोक्तकाल एव ग्राह्यः। तदिदमर्थं प्रथमगर्भे—इति वचनं नगर्भाधानपुंसवनकर्म्मणोरावृत्तिप्रज्ञापनार्थम्’—इति।
तदप्रमाणमसङ्गतञ्च। यदि तावत् इयं वचनव्यक्तिराश्रीयते,—सीमन्तकरणस्य प्रथमगर्भे एते कालविकल्पाः—इति। तदा गर्भान्तरे सीमन्तकरणं न प्राप्नोत्येव। कुतः? विहितस्य सीमन्तकरणस्य प्रथमगर्भे चतुर्थमासादिकालविधानात् तदपि प्रथमगर्भेएवावतिष्ठते। अग्राधिकरणन्यायात्। न हि विहितकालादन्यत्रकर्म्मणः करणमस्ति। सन्दिग्धोपक्रमं हि वाक्यमुपसंहारवशान्नीयते—इति च पूर्व्वोत्तरमीमांसयोरसकृदुपलभ्यते। तथाच सीमन्तकरणमात्रस्य प्रथमगर्भे विधानात् सिद्धा गर्भाधानपुंसवनयोःप्रतिगर्भमावृत्तिरित्यफलः प्रयासः। अथ, प्रथमगर्भ एवैतेकालविकल्पाः, द्वितीये तु गर्भे नायं कालविकल्पः—इत्यभिप्रायः तर्हि द्वितीयादिष्वपि गर्भेषु कालान्तरे सीमन्तकरणं स्यादेव। तथाच वृद्धिमिष्टवतो मूलमपि ते नष्टम्—इत्यहो प्रमादः।
स्यान्मतं—शास्त्रान्तरबलान्न द्वितीयादिषु गर्भेषु सीमन्तकरणम्—इति। एवन्तर्हि प्रथमे एव गर्भेसीमन्तकरणं शास्त्रार्थः—
इति
‘प्रथमगर्भे’—इति पूर्व्वसूत्रस्यैव प्रतीकम्—इति सिध्यति। एतत्सूत्रप्रतीकत्वे खल्वभिप्रेयमाणे भवन्मते गर्भान्तरेष्वप्यनेवंकाले नित्यवत् सीमन्तकरणमायाति। तच्चानिष्टम्। न चाकृते एव संस्कारेप्रथमगर्भविनाशविषयं तदिति वाच्यम्। तन्मात्रपरत्वेप्रमाणाभावात्। अथ, शास्त्रान्तरादन्यत्र सीमन्तकरणाभावावगमादगत्याएवं कल्प्यते। तर्हि शास्त्रान्तरे सीमन्तकरणमात्रस्य प्रथमगर्भेउपदेशात् गर्भाधानपुंसवनयोः प्रतिगर्भमावृत्तिरिय्यताम्। न हितयोरनावृत्तावस्मच्छास्त्रमस्ति, येन तद्विरोधात् शास्त्रान्तरमनादरणीयं स्यात्। न च परशास्त्रमपि तयोरावृत्तिनिषेधकमुपलभामहे। स्वशास्त्रञ्च किञ्चिदस्यार्थस्योपोद्वलकमुदाहराम।प्रथमगर्भनाशे तु विशेषशास्त्रान्तरादपरगर्भे तत्करणमुक्तम्। तच्च भवतामप्यवलम्बनीयमेव। अन्यथा खल्वेतत् सीमन्तकरणं प्रथमगर्भविनाशेऽपि गर्भान्तरे वा न स्यात्, सर्व्वेष्वेव वा गर्भेष्वविशेषेणस्यात्। न चैवमिष्यते।
नापि गर्भान्तरे सीमन्तकरणे कालान्तरकल्पना युक्ता।प्रथमगर्भविनाशे लाघवेनापरगर्भमात्रविधिपरतया शास्त्रान्तरस्यवर्णयितुमुचितत्वात्। कालश्चावृदिव स एवानुवर्त्तिष्यते। यदिपुनः प्रथमे एव गर्भेएष कालविकल्पो द्वितीयगर्भे नैवानुवर्त्तितुमर्हति—इति निर्ब्बन्धातिशयः क्रियते। तथाप्येष एवकालस्तत्रकल्पयितुमुचितः। स्वशास्त्रानुग्रहात्। प्रथमगर्भस्थाने द्वितीयगर्भमात्रविधानेन तदनुवृत्तौ बाधकाभावाच्च। शङ्खलिखितोक्तस्तु कालो नास्माकमाम्नायते। केषां तर्हि? येषामसौ सूत्रकारः
येषां वा पारम्करीयादीनां संस्कार एव परमाम्नायते न कालः,तेषामिति ब्रूमः।न च तद्वचनस्य द्वितीयगर्भमात्रविषयतायांप्रमाणमस्ति। सीमन्तोन्नयनस्य खल्वेष कालो विहितः। स चशास्त्रान्तरबलात् प्रथमगर्भविषय एव। न त्वेकस्य वचनस्य प्रथमगर्भेएकेषां कालविधायकत्वं, गर्भान्तरे तु तेषामन्येषाञ्च—इत्यर्द्धजरतीयमुचितम्। तस्मादन्येषामेवैष कालविधिः। सखल्वयं कालोऽस्माकं चिकल्पयिषितः।तद्वर स्वशास्त्रोक्त एव कल्प्यताम्।तस्मात्, शास्त्रान्तरानुमतं स्वशास्त्रोपोद्वलितञ्च सूत्रच्छेदमननुजानानाः अन्यादृशमेव यदृच्छया कल्पयन्तो न न्यायेन सङ्गच्छन्ते। तदिदं शास्त्रैकशरणैरनादरणीयम्॥०॥२॥०॥
** प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु, पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति॥३॥**
कृतभाष्यं सूत्रम्॥०॥३॥०॥
** पश्चात् पतिरवस्थाय युग्मन्तमौदुम्बरंशलाटुग्रथ्नमाबध्नाति अयमूर्ज्जावतो वृक्ष इति॥४॥**
पश्चात् पतिरवस्थाय—इत्युक्तार्थम्। युञ्जियुग्मानि फलानियस्मिन्, सोऽयं युग्मान् तं युग्मन्तम्। युज्शब्दान्मतुपा सिद्धम्। अथवा। युग्ममिति च्छेदः युग्ममुभयतःफलम्। तं पूर्व्वमाहृतम्।उदुम्बरः प्रसिद्धः, तत्र भवमौदुम्बरम्। शलाटुग्रथ्नम्। शलाटु नीलं, ग्रथ्नःस्तवकः। तथा चोक्तम्।
“शलाटु नीलमित्युक्तं ग्रथ्नःस्तवक उच्यते"।
इति। शलाटुश्चासौ ग्रथ्नश्चेति शलाटुग्रथ्नःतं, नीलस्तवकमित्यर्थः। बध्वाः कण्ठे आबध्नाति अयमूर्ज्जावतोवृक्ष—
इत्यनेन मन्त्रेण॥०॥४॥०॥
अथ सीमन्तमूर्द्धमुन्नयति12भूरिति दर्भपिञ्जूलीभिरेव प्रथमं, भुवरिति13 द्वितीयं, स्वरिति तृतीयम्॥५॥
अथेति स्थाननियमार्थम्। तत्रस्थएव पतिः। सीमन्तोव्याख्यातः। तम् ऊर्द्धमुन्नयति भूरित्यनेन मन्त्रेण। केन उन्नयति? दर्भपिञ्जूलीभिरेव।
“अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेवच।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्॥
एतदेव हि पिञ्जूल्या लक्षणं समुदाहृतम्।
आज्यस्योत्पवनार्थं यत् तदप्येतावदेव तु॥
एतत्प्रमाणामेवैके कौशीमेवार्द्रमञ्जरीम्।
शुष्कां वा शौर्णकुसुमां पिञ्जलीं परिचक्षते”॥
इति कर्म्मप्रदीपोक्तलक्षणाभिः। ‘दर्भपिञ्जूलीशब्देन प्रादेशप्रमाणं कुशपत्रत्रयं कुशान्तरेण वेष्टितमुच्यते’—इति स्वतन्त्राज्ञातु प्राज्ञैरवज्ञेयैव। कतमाभिर्दर्भपिञ्जूलीभिरुन्नयति? तिसृभिरित्याह। कुतः? कपिञ्जलन्यायेन बहुवचनस्य तदर्थत्वस्यौत्सर्गिकत्वात्। तदिदं प्रथममुन्नयनम्। भुवरिति द्वितीयं दर्भपिञ्जूलीभिरेव। स्वरिति तृतीयं दर्भपिञ्जूलीभिरेव। तदेवं तिसृभिस्तिसृभिरेकैकमुन्नयनमित्युन्नयनत्रित्वाद्दर्भपिञ्जूल्योऽपि नवैव सम्पद्यन्ते। तासाञ्च तिसृभिरेकमुन्नयनं, तावतीभिरपरं, तावतीभिरेवापरम्—इति भवदेवभट्टमतम्। अतएव, ‘भूरिति दर्भपिञ्जूलोभिः’—इति सूत्रयित्वा ‘प्रथमम्’—इति सूत्रितम्। यदिपुनस्तिस्रएव दर्भपिञ्जूल्यः स्युः, तर्हि आदित एव ‘दर्भपिञ्जूलीभिः—इति सूत्रयित्वा ‘भूरिति प्रथमं भुवरिति द्वितीयम्’—इति विनियोगममूषामसूत्रयिष्यत्। न चैवम्। तस्मादनुमिमीमहे, भूरिति प्रथमएवोन्नयने तिस्रो दर्भपिञ्जूल्यो व्याप्रियन्ते।एवमुत्तरयोः।
भट्टनारायणप्रभृतयस्तु वर्णयन्ति,–“दर्भपिञ्जूलीभिरित्येवकारकरणात् यावन्त्युन्नयनानि तावतीभिरेव, तिसृभिरित्यर्थः। प्रथमं द्वितीयं तृतीयम्—इति व्याहृतीनां पिञ्जूलीनाञ्च पृथग्विनियोगार्थम्। तथाचैकैकया पिञ्जूल्या एकैकमुन्नयनम्”—इति॥
तत्र ब्रूमः। यत्तावदुक्तं, प्रथम एवोन्नयने तिस्रोदर्भपिञ्जूल्योव्याप्रियन्ते, एवमुत्तरयोः,—इति। एतद्गृह्णीमः। यत् पुनरुक्तम्, उन्नयनत्रित्वाद्दर्भपिञ्जूल्योऽपि नवैव संपद्यन्ते,—इति। एतत् नानुजानीमः। किं कारणम्? “भूरिति दर्भपिञ्जूलीभिरेव प्रथमं भुवरिति द्वितीयं स्वरिति तृतीयम्”—इति वचनादेवकाराच्च या एव दर्भपिञ्जूल्यः प्रथमेनोन्नयनेन संबध्यन्ते, ता एव द्वितीयेन, ता एव तृतीयेनेति तावत् प्रतीयते। प्रतीयते चेत्, न युज्यते विना कारणमुत्स्रष्टुम्। तस्मात् तिस्र एव दर्भपिञ्जूल्यस्ताभिरेव प्रथममुन्नयनंताभिरेव द्वितीयं ताभिरेव तृतीयमिति न दर्भपिञ्जूलीनां नवत्वं न वा एकैकया पिञ्जूल्याएकैकमुन्नयनमिति। तथाच गृह्यासंग्रहः।
“सीमन्ते दर्भपिञ्जूल्यस्तिस्रस्ताभिस्त्रिरुन्नयेत्”।
इति॥०॥५॥०॥
** अथ वीरतरेण येनादितेरित्येतयर्च्चा॥६॥**
अथेति व्याख्यातम्। वीरास्तरन्यनेन संग्रामम्,—इति वीरतरःशरः—इत्येके। वीरतरस्तरुविशेषः—इत्यपरे। तथाच कर्म्मप्रदीपः।
“श्वाविच्छलाका शलली तथा वीरतरः शरः”।
इति। अत्रापि ‘वीरतरः शरः’—इत्येकेषां पाठः। ‘वीरतरस्तरुः’—इति चापरेषाम्। वाजसनेयिनान्तु वृक्षविशेषे रूढ़िः। तदत्र भगवन्तो भूमिदेवाः प्रमाणम्। तदनेन वीरतरेण, येनादितेरित्येतया ऋचा सीमन्तमूर्द्धमुन्नयति—इत्यनुवर्त्तते॥०॥६॥०॥
** अथ पूर्णचात्रेण राकामहमित्येतयर्च्चा॥७॥**
सूत्रपूर्णेन चात्रेण तर्कुणा, सीमन्तमूर्द्धमुन्नयति—इति प्रकृतंसम्बध्यते। गतमन्यत्॥०॥७॥०॥
** त्रिश्वेतया14च शलल्या यास्ते राके सुमतय इति॥८॥**
त्रिश्वेतया त्रिषु स्थानेषु श्वेतया शुक्लवर्णया, शलल्याशलली
व्याख्याता, तथा, यास्ते—इति मन्त्रेण, सीमन्तमृर्द्धमुन्नयति—इतिच-शब्दस्यार्थः॥०॥८॥०॥
** कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत्॥९॥**
कृमरः—
“तिलतण्डुलसम्पक्वः कृसरः सोऽभिधीयते”।
इति कर्म्मप्रदीपोक्तलक्षणः। स्थाल्यांयः पच्यते सोऽयं स्थालीपाकः। तदनेन स्थालीपाकावृता कृमरस्य पाकोऽवगम्यते। निर्व्वपणन्त्वत्र नास्ति। तथाच गृह्यासंग्रहः।
“चूड़ाकर्मणि सीमन्ते यस्तु पाकः सदा गृहे।
विवाहे चैव लाजानां नोक्तोनिर्वपणो विधिः"।
इति। मनुष्यार्थत्वाच्च द्विस्तण्डुलानां प्रक्षालनम्। उत्तरे उपरिघृतं यस्य सोऽयमुत्तरघृतः, उपरिदत्तघृतः—इत्यर्थः। तमिमं कृसरंस्थालीपाकं अवेक्षयेत् पत्नींदर्शयेत् पतिः। सखल्वयं कृसरः, स्थालीपाकावृता यत्र कुत्रचित् येन केनापि पक्तव्यः। सिद्धस्य तस्यावेक्षणमात्रस्यैव सूत्रणात्। तस्मादवेक्षणार्थमेवास्यासादनम्—इति सिद्धम्। ननु—
“आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते।
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः”।
इति कर्मप्रदीपवचनात् मन्त्रस्य देवतायाश्चानादेशाच्चप्राजापत्यएव स्थालीपाकः कुतो न स्यात्। नैष दोषः। यत्र हि होमस्योपदेशो न मन्त्रस्य नवा देवतायाः, तत्रैव प्राजापत्यो मन्त्रः
प्रजापतिश्च देवता—इति शास्त्रमर्य्यादा। अतएव, जुहोतिषु—इति वचनमुपपद्यते। तदिदं वचनं मतीषु जुहोतिषु मन्त्रदेवतयोः प्राजापत्यत्वमुपदिशति न पुनर्जुहोतिमपि चोदयति।जुहोतिषु—इति सिद्धवदुपदेशात्।
अथैवं वृथापक्वः—इत्येव कुतो न सूत्रितम्?चूड़ाकरणे खल्वेवंसूत्रयिष्यति,—“कृसरः स्थालीपाको वृथापक्वः”—इति। तस्मादेवमसूत्रणादस्त्यत्र स्थालीपाकस्य प्रयोजनमित्यवगच्छामः। उच्यते। सत्यमस्ति प्रयोजनं स्थालीपाकस्य। अस्मादेव कारणात् वृथापक्कः—इति न सूत्रितम्। तच्च प्रयोजनं न होमः। असूत्रणात्।किन्तर्हि? अवेक्षणं भोजनञ्च। तथैव सूत्रणात्। तस्मात् यथोक्तएवार्थः॥०॥९॥०॥
एवं स्थालीपाकं पश्यन्तींबधूम्—
** किं पश्यसीत्युक्त्वा, प्रजामिति वाचयेत्॥१०॥**
किं पश्यसि?—इति मन्त्रभागं पतिरुक्त्वा, प्रजाम्–इतिमन्त्रभागं बधूं भाषयेत्। एवञ्च, मन्त्रे मह्यं पत्युः—इति पदद्वयंवैयधिकरण्येन सम्बध्यते। मम बध्वाः;—पत्युः, इत्यर्थः। तथाचलिङ्गस्य बलवत्त्वाद्भङ्क्ता वाक्यं, ‘किं पश्यसि’—इति भागस्य प्रश्ने,‘प्रजाम्’–इत्यादिभागस्य च प्रतिवचने विनियोग आदरणीयः। भवदेवभट्टस्तु, किं पश्यसि—इत्यादि सर्व्वमेव मन्त्रं पतिः प्रश्नपूर्व्वमुच्चारयेत्। सर्व्वं भवदुक्तंपश्यामि—इति बधूर्बूयादित्याह।तदत्र सूत्रसङ्गतिं नावगच्छामः। पत्युः सर्व्वमन्त्रपाठे च, किं
पश्यसि—इत्युक्त्वा—इति, प्रजामिति वाचयेत्—इति च, पृथगुपदेशोऽसङ्गतः स्यात्। “किं पश्यसि प्रजां पशून् सौभाग्यं मह्यंदीर्घायुस्त्वं पत्युः”—इति हि मन्त्रः॥०॥१०॥०॥
** तंसा स्वयं भुञ्जीत॥११॥**
तमवेक्षितं कृसरं स्थालीपाकम्। ऋज्वन्यत्॥०॥११॥०॥
** वीरसूर्जीवसूर्जीवपत्नीति ब्राह्मण्यो मङ्गल्याभिर्व्वाग्भिरुपासीरन्॥१२॥**
वीरान् विक्रान्तान् सूते—इति वीरसूः। जीवान् जीवतःसूते—इति जीवसूः। जीवस्य जीवतः पत्नी जीवपत्नी, अविधवेत्यर्थः। वाक्यत्रयेऽपि ‘त्वं भव’—इति वाक्यशेषो बोद्धव्यः। इति एवंप्रकाराभिर्मङ्गल्याभिर्मङ्गलादनपेताभिर्व्वाग्भिर्ब्राह्मण्यो बधूमुपासीरन् गायेरन् अनुनयेयुरित्येतत्। “अविधवाः पुत्रवत्यो नार्य्योबधूं वेद्यामुत्थाप्य कलसोदकेनाभ्युक्षणादिकं मङ्गलकृत्यं कुर्य्युः”—इति भवदेवकल्पनायान्तु प्रमाणं न पश्यामः। कृसरभोजनमप्यस्मात् परं तेनोक्तंन युक्तमेव। पूर्वमेव तदुपदेशात्। ‘इदानीमेवतन्त्रसमापनम्’—इति एके मन्यन्ते। कुतः? उत्तरत्र कर्म्मान्तरोपदेशेन पूर्वस्य कर्म्मणोऽपवर्गावगतेः। अन्ये तु ‘प्रजाम्—इत्येतन्मन्त्रवाचनात् परमेव तन्त्रसमापनं ततः कृसरभोजनमुपासनञ्च’—इतिवर्णयन्ति॥०॥१२॥०॥
** अथ सोष्यन्तीहोमः॥१३॥**
अथेत्ययमपूर्व्वप्रकरणोपन्यासार्थः। सोव्यन्ती शूलायन्ती आसन्नप्रसवा—इत्येतत्। सुप्रसवे—इत्यस्माद्धातोः। तामिमां सोष्यन्तीं ज्ञात्वा यो होमः, सोऽयं सोय्यन्तीहोमः। कर्त्तव्यः—इति वाक्यशेषः॥०॥१३॥०॥
कस्मिन् काले कथञ्च होमोऽयं कर्त्तव्यः? उच्यते।
** प्रतिष्ठिते वस्तौ परिस्तीर्य्याग्निमाज्याहुतीजुहोति,—**
या तिरश्चीत्येतयर्च्चाविपश्चित् पुच्छमभवदिति च॥१४॥
वस्तिर्योनिद्वारम्। प्रतीत्ययमुपसर्गः। वस्तौ स्थिते गर्भे सतीत्येतत्। ‘अग्निं परिस्तीर्य्य’ अग्निपरिस्तरणं व्याख्यातं, तत्कृत्वा, द्वेआज्याहुती जुहोति, या तिरश्चीत्येतयाऋचा विपश्चिदित्येतयाच। भेदेनोपदेशात् भेदेनैव होमः। अथ, अग्निं परिस्तीर्य्य—इति सिद्धत्वादवाच्यम्, अथोच्यते; कारणं वक्तव्यम्? परिसंख्यानार्थमित्याह। किमनेनोक्तंभवति? एतदनेनोक्तं भवति। अग्निपरिस्तरणमेव न तु ब्रह्मोपवेशनादिकमपि—इति। तस्मात् क्षिप्रहोमः स्यादितिसिद्धम्। परिस्तरणमात्रमेवात्राधिकम्। ननु,आज्यपदमप्यनर्थकं, हविषोऽनादेशे खल्वाज्येनैव हूयते। उच्यते। आज्यग्रहणमाज्यसंस्कारप्रज्ञापनार्थम्। तेनाज्यसंस्कारोऽपि कर्त्तव्यः॥०॥१४॥०॥
** पुमानयं जनिष्यतेऽसौनामेतिनामधेयं गृह्णाति॥१५॥**
पुमानयं जनिष्यतेऽसौनाम—
इत्यसावितिमन्त्रस्थाने जनिष्यमानस्यहृदि कल्पितं नामधेयम्। नामैव नामधेयं, स्वार्थे धेयट्।गृह्णाति उच्चारयति॥०॥१५॥०॥
** यत्तद्गुह्यमेव भवति॥१६॥**
यन्नामधेयं गृह्णाति, तन्नामधेयं गुह्यम् अप्रकाशमेव भवति।एवकारात् सर्व्वदैवास्य गुह्यता बोद्धव्या॥०॥१६॥०॥
अथेदानीं जातकर्म्मोपदिदिक्षुरिदमाह—
** यदाऽस्मै कुमारं जातमाचक्षीरन्नथ ब्रूयात्;—**
काङ्क्षतनाभिकृन्तनेन स्तनप्रतिधानेन चेति॥१७॥
यदा यस्मिन् काले अस्मै पित्रे कुमारं जातमाचक्षीरन् शिष्यादयः कथयेयुः, अथ तदा अनन्तरं वा, पिता ब्रूयात् व्यक्तं कथयेत्—उच्चैरुच्चारयेदित्येतत्। किं ब्रूयात्? उच्यते। काङ्क्षत प्रतिपालयत, नाभिकृन्तनेन स्तनप्रतिधानेन च। कथन्नाम? नाभिकृन्तनं स्तनप्रतिधानञ्च मा तावत् कुरुत—इति। तदिदमुच्चैरुच्चारयेत्। नाभिर्नाभिलग्ना नाड़ी नालमित्यनर्थान्तरम्॥०॥१७॥०॥
** व्रीहियवौ पेषयेत्तयैवाऽऽवृता यया शुङ्गाम्॥१८॥**
व्रीहिश्च यवश्च व्रीहियवौ। समासकरणादुभावपि मिलितौयुगपत् पेषयेत् न त्वेकैकशः। तथैव परिपाठ्यापेषयेत्; यया परिपाठ्याशुङ्गांपूर्व्वोक्तांपेषयेत्। अन्यतरालाभेऽपि तत्प्रतिनिधिरुपादेयः। न तु प्रत्येकमेवादाय कर्म्म करणीयम्। इतरेतरयोगस्यार्थवत्त्वोपपत्तेः। तथाच कर्म्मप्रदीपः।
“यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत्।
यवानामिव गोधूमा व्रीहीणामिव शालयः”॥
इति। यच्च,—‘उभयालाभे प्रत्येकम्—
“यथालाभोपपन्नेषु रौप्येषु तु विशेषतः”।
इति याज्ञवल्क्यवचने पात्रे तथा दर्शनेनान्यत्राप्यशक्त्या तथाकल्प्यते’,—इति रघुनन्दनमतम्। तदसङ्गतम्। कस्मात्? यस्मात्न खलु याज्ञवल्क्येन श्राद्धपात्राणि वचनान्तरेणोक्तानि। नापिमिलितानां पात्राणां प्रत्येकमुपादानमनेन वचनेनोच्यते। न हिशास्त्रान्तरेऽपि समुच्चयेन पात्रविधिरस्ति। वैकल्पिकानां पात्राणांखल्वत्र यथालाभोपपन्नत्वमुच्यते। व्रीहियवौ त्वाचार्य्येण मिलितावुच्येते। तत् कथमत्र दर्शनं कल्पनामूलम्—
इति कल्पयितैवजानाति। न ह्यत्रोदगयनादिवदेकैकानुगुण्यद्योतकं वचनमस्ति।सेयं यदृच्छाकल्पना आचार्य्यवचनविरोधात् बुद्धिमद्भिरनादरणीया॥०॥१८॥०॥
तदेवं पिष्टौ व्रीहियवौ,—
** दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याऽभिसंगृह्य कुमारस्य जिह्वायां निमार्ष्टीयमाज्ञेति॥१८॥**
निमार्ष्टिनिश्च्योतयति। व्याख्यातमन्यत्। आह। कुमारग्रहणं किमर्थम्? कुमारीनिवृत्त्यर्थम्। एवमेके। तदसत्। कुतः?
एतयैवावृता स्त्रियाः—इति चूड़ाकरणान्तसंस्काराणां कुमार्य्या अपि सूत्रणात्। मन्त्रनिवृत्त्यर्थं तर्हि? न। तत्र ‘तूष्णीम्’—इति करणात्। कुमारग्रहणं तर्हि न कर्त्तव्यम्, अथ क्रियते,प्रयोजनं वक्तव्यम्? अधिकारार्थम्—इति ब्रूमः। तेनोपनयनादीनि व्रतानि कुमारस्यैव भवन्ति न कुमार्य्याः। ननु, ‘गर्भाष्टमेषुब्राह्मणमुपनयेत्’—इति सूत्रयिष्यति। स खल्वयं पुंलिङ्गनिर्देशःस्त्रियं व्यावर्त्तयिष्यति? न। कुतः? यतो न खल्वत्र ब्राह्मणोविधित्सितः। किन्तर्हि? उपनयनव्रतम्। तदर्थं ब्राह्मणोऽनूयते। तस्मात् जातिनिर्देशाच्चलिङ्गमविवक्षितं स्यात्। यथा ‘ब्राह्मणोन हन्तव्यः’—इति ब्राह्मण्यपि न हन्यते। तस्मात् कुमारग्रहणम्उपनयनादिव्रतेषु कुमारीव्यावर्त्तनार्थम्। मनुरपि—
“अमन्त्रिका तु कार्य्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्।
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः।
पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिष्क्रिया”।
इत्याभ्यां वचनाभ्यां जातकर्म्मादिसंस्कारमुपनयनादिव्रताभावञ्चस्त्रिया दर्शयति। अथवा।प्राधान्यात् कुमारग्रहणं क्रियते। अनुपादेयलिङ्गाविवक्षया तु कुमार्य्यापि अवगम्यमाना न निराक्रियते। उपनयनव्रतादिकमपि तर्हि कुमार्य्याः स्यात्? न स्यात्। किं कारणम्? अध्ययनार्थानि हि तानि व्रतानि। स्त्रियाः खल्वध्ययनं नास्ति। ‘स्त्रीशूद्रौ नाधीयेताम्’—
इति हि ब्राह्मणम्। पुराकल्पेचासामध्ययनमासीत्, तद्विशेषश्च पूर्व्वमेवाभिहितः।
तदिदं जातकर्म्म। एवमेके। अपरे तु ‘वक्ष्यमाणमपि सर्पिःप्राशनं जातकर्म्मान्तर्गतम्’—इति मन्यन्ते। तदत्र जातकर्म्मणि अन्वाहार्य्यश्राद्धाभिधानं भवदेवस्यासङ्गतम। कस्मात्?
“नाष्टाकासु भवेत् श्राद्धं न श्राद्धे श्राद्धमिष्यते।
न सोष्यन्तीजातकर्म्मप्रोषितागतकर्म्मसु”॥
इति कर्म्मप्रदीपकृता निषेधात्॥०॥१९॥०॥
तथैव मेधाजननं सर्पिः प्राशयेत्॥२०॥
तथैव—द्वयमाज्ञेतिमन्त्रेण, तथैव—दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या गृहीतं, मेधां धारणावतींबुद्धिं जनयतीति मेधाजननं सर्पिर्घृतं प्राशयेत् पिता। सर्पिषो मेधाजननत्वञ्चायुर्व्वेदप्रसिद्धम्। अन्ये तु वर्णयन्ति,—‘तन्त्रान्तरप्रोक्तंमेधाजननं व्रीह्यादि, सर्पिश्च प्राशयेत्’—इति॥०॥२०॥०॥
जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति,—मेधान्ते मित्रावरुणावित्येतयर्च्चा सदसस्पतिमद्भुतमिति च॥२१॥
जातरूपेण सुवर्णेन। वाशब्दः समुच्चये। केचित् चशब्दमेवपठन्ति। जातरूपेण सर्पिरादाय। ऋज्वन्यत्। जुहोतिचोदनाबलात् स्वाहान्तता मन्त्रयोरवगम्यते। मन्त्रयोर्भेदेनोपदेशात् भेदेनैव होमः। केचित् पूर्वसूत्रेणास्यैकसूत्रतां मन्यमाना वर्णयन्ति।‘तथैव दक्षिणस्य पाणेरित्याद्युक्तप्रकारेण गृहीत्वा प्राशयेत्, जातरूपेण वा जुहोति। सोऽयं विकल्पः,—‘हस्तेन वा ग्रहीतव्यं जातरूपेण वा’—इति। परमत्रापि पक्षेवाशब्दस्य समुच्चयार्थतैव युक्ता। कुतः? तथैव—इत्येवकारेण तन्नियमात्। विकल्पपक्षेखल्वयमुपरुध्येत! तस्मादेकसूत्रतापक्षे, ‘दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां धृतेन जातरूपेण घृतं गृहीत्वा’—इति तत्त्वकारव्याख्यानमादरणीयम्।
अत्रैके वर्णयन्ति,—‘अन्नप्राशनञ्चैतदेव छन्दोगानाम्, अन्यस्याविधानात्’—इति। तेषामयमाशयः। सर्पिषःप्राशनोपदेशः तावदिहोपलभ्यते। सर्पिश्चान्नम्। तस्मादन्नप्राशनमेतत्। तदिह कर्म्मान्तरोपदेशादितः पूर्वमेव जातकर्म्मणः परिसमाप्तिरवगम्यते। अतो नानयोरैक्यमाशङ्कनीयम्। शास्त्रप्रामाण्यबलाच्चैकेनापि कर्म्मणा संस्कारद्वयनिष्यत्तावपि न किमप्यनुचितम्। ननु, षष्ठेऽन्नप्राशनं मासि—इति नियतकालत्वन्नप्राशनस्य स्मर्य्यते नामकरणेन व्यवहितत्वञ्च। उच्यते। अस्मच्छास्ते खल्विदानीमेवान्नप्राशनमुपदिश्यते,—इत्यन्येषामेव नियतकालत्वं नामकरणेन व्यवहितत्वञ्च, नास्माकम्। नापि नियतकालत्वमस्यन्नप्राशनस्य। अतएव यमः।
“ततोऽन्नप्राशनं षष्ठे मासि कार्य्यंयथाविधि।
अष्टमेवाऽथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले”॥
इति कालद्वयमुपदिश्य कालान्तरमपि कुलानुगतमुपदिशति। आचार्य्यः किलोपदेष्टा छन्दोगकुलधर्म्माणाम्।मनुरपि—
“षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले”।
इति तथैवोपदिशति। अन्ये तु मन्यन्ते। ‘जातकर्म्मरूपत्वादेतस्य नान्नप्राशनत्वम्। न खल्वेकेन कर्म्मणा संस्कारद्वयनिष्पत्तिर्युक्ता। नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाच्चप्राङ्नाभिवर्द्धनात् करणं न युक्ततरम्। स्वशास्खायामन्यस्य विधानाभावेऽपि पारशाखिकमेवानुष्ठेयम्। तस्मादध्वर्य्युभ्यो गृह्णीयात्। प्रधानहोमदेवतामात्रमेवाध्वर्य्युभ्यो ग्रहीतव्यम्, पूर्व्वापरेतिकर्त्तव्यताकलापस्तु स्वशाखोक्त एव स्यात्’—इति। तदत्र भगवन्तोभूमिदेवाः प्रमाणम्॥०॥२१॥०॥
एतस्मिन् कर्म्मणि कृते पिता—
कृन्तत नाभिमिति ब्रूयात् स्तनञ्चप्रतिधत्तेति॥२२॥
कृन्तत नाभिम्—इति, स्तनञ्च प्रतिधत्त—इति च ब्रूयात्॥२२॥
अत ऊर्द्धमसमालम्भनमादशराचात्॥२३॥
अतः अस्मान्नाभिवर्द्धनात् स्तनप्रतिधानाच्च ऊर्द्धं परतः, असमालम्भनमस्पर्शनम् आदशरात्रात् दशरात्रपर्य्यन्तम्। तेन, “सूतिकां स्पृष्ट्वा सचेलः स्नायात्”—इत्येवमादिस्मृतौ मातरस्पृश्यत्वं यदभिहितं, तदस्मात् कर्म्मण ऊर्द्धमिति बोद्धव्यम्॥०॥२३॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य सप्तमी खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके अष्टमी खण्डिका।
** जननाद्यस्तृतीयो ज्यौत्स्नस्तस्य तृतीयायां प्रातः सशिरस्कं कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते॥१॥**
जननात् जन्मत आरभ्य तृतीयो यो ज्यौत्स्नः ज्योत्स्नायुक्तः पक्षःशुक्लपक्षः—इत्येतत्। तस्य तृतीयायान्तिथौ प्रातः सशिरस्कं कुमारमाप्लाव्य स्नापयित्वा। रात्रौ कर्मणो विधानात् रात्रावेव स्नानंमाभूदित्येवमर्थं प्रातरितिसूत्रितम्। अस्तमिते सवितरि, वीते विगते लोहितिम्नि लौहित्ये, सन्ध्योपरमे—इत्यर्थः। अञ्जलिकृतःकृतोऽञ्जलिर्येन सोऽयमञ्जलिकृतः। आहिताग्न्यादिपाठात् कृतशब्दस्य परनिपातः। पिता उपतिष्ठते आराधयति चन्द्रमसं तदभिमुखः सन्। कुतः? ‘पितोपतिष्ठते’ अभिमुखश्चन्द्रमसम्’—इति लिङ्गात्। यत्तु,—दिशोऽनादेशात् ‘प्राङ्मुखकरणञ्चानादेशे’—इति सूत्रकारवचनात् प्राङ्मुख उपतिष्ठते—इति वर्णनम्। तदसङ्गतम्। शुक्लतृतीयायां चन्द्रमसः पश्चिमदिगवस्थितत्वेन प्राङ्मुखेन पित्रा तदाराधनवर्णनस्यानुचितत्वात्। लिङ्गविरोधाच्च। ‘उत्तिष्ठते’—इति पाठे चन्द्राभिमुख ऊर्द्धस्तिष्ठति—इति व्याख्येयम्॥०॥१॥०॥
अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्च पित्रे प्रयच्छत्युदक्शिरसम्॥ २॥
अथानन्तरमेव माता शुचिना निर्निक्तेन वसमेन कुमारम् आच्छाद्य । आङ्मर्य्यादायाम् ईषदर्थे वा। कथन्नाम? मुखवर्ज्जंच्छादयित्वा। दक्षिणतः पितुर्दक्षिणस्यां दिशि भूत्वाउदञ्चमुत्तानम् उदक्शिरमञ्च कुमारं पित्रे प्रयच्छति प्रददाति॥०॥२॥०॥
प्रदाय च सा, -
अनुपृष्ठं परिक्रम्योत्तरतोऽवतिष्ठते॥ ३॥
अनुपृष्ठंपत्युः पृष्ठदेशेन परिक्रम्य गत्वा उत्तरतः पत्युरुत्तरस्यां दिशि अवतिष्ठते ऊर्द्धा तिष्ठति॥०॥३॥०॥
अथ जपति,— यत्ते सुसीम इति; यथाऽयन्न प्रमीयेत पुत्रो जनित्र्याअधीति॥ ४॥
अथेत्यानन्तर्य्यार्थम्। परिक्रम्योत्तरतः स्थितायां तस्याम् अनन्तरं पिता जपति, न तु परिक्रममाणायामेव। किं जपति? यत्ते सुसीम – इति त्र्यृचम्। किमन्तः पुनरयं त्र्यृचः? उच्यते।यथाऽयन्त्र प्रमीयेत पुत्रो जनित्र्या अधि – इत्येवमन्तः। तदिदं त्र्यृचस्यान्तप्रज्ञापनार्थमुतम्॥०॥४॥०॥
एवं जपित्वा अथ कुमारम्—
** उदञ्चंमात्रे प्रदाय यथार्थम्॥५॥**
ऋजुरक्षरार्थः। यथार्थमिति कर्म्मणःपरिसमाप्तिरुच्यते। तेन वामदेव्यगानमिदानीं कर्त्तव्यम्। तथाच कर्म्मप्रदीपः।
“अहोमकेष्वपि भवेत् यथोक्तंचन्द्रदर्शने।
वामदेव्यं गणेष्वन्ते बल्यन्ते वैश्वदेविके”।
इति। तदिदं कर्म्म चन्द्रदर्शनमिति निष्क्रमणमिति चाख्यायते। केचिदत्र,—
“बृहत्पत्रक्षुद्रपशुस्खस्त्यर्थं परिविश्यतोः।
सूर्य्येन्दोः कर्मणीये तु तयोः श्राद्धं न विद्यते”।
इति कर्म्मप्रदीपवचनपरार्द्धं पश्यन्तोऽन्वाहार्य्यश्राद्धं निषेधन्ति। तदसङ्गम्। पूर्वार्द्धानबलोकनात्। बृहद्वाहनानां चुद्रपशूनाञ्च स्वस्त्ययनार्थं परिविश्यमाने सूर्य्येचन्द्रमसि च ये कर्म्मणीवक्ष्यमाणे, तयोः श्राद्धं नास्ति—इति खल्बर्थोवचनस्य॥०॥५॥०॥
** अथ येऽत ऊर्द्धंज्यौत्स्नाः प्रथमोद्दिष्ट एव तेषु पितोपतिष्ठतेऽपामञ्जलिं पूरयित्वाऽभिमुखश्चन्द्रमसम्॥६॥**
अथेत्यपूर्वकर्म्मोपन्यासार्थम्। अन्ये तु वर्णयन्ति,—‘अथ शब्दोऽधिकारानुवृत्त्यर्थः। कथन्नाम? पूर्ववदिदमपि चन्द्रदर्शन एव’—इति। अतोऽस्मात् तृतीयात् शुक्लपक्षादूर्द्धं ये ज्यौत्स्नाः शुक्लपक्षाः, तेषु प्रथमोद्दिष्ट एव,—प्रथमं यः काल उद्दिष्टः कथितः तस्मिन्नेव काले तृतीयायामित्येतत्। प्रथमोदित एव,—इति पाठेऽपि प्रथममुदितः कथितो यः कालस्तस्मिन्निति स एवार्थः। अपरे
त्वाहुः,—‘प्रथमोद्दिष्ट एव प्रथमोदित एव चन्द्रमसि प्रतिपदि द्वितीयायां वा, न यथापूर्वं तृतीयायाम्’—इति। पिता अभिमुखः सन् चन्द्रमसं उपतिष्ठते आराधयति किं कृत्वा? अपामद्भिरञ्जलिं पूरयित्वा॥०॥६॥०॥
तञ्चाञ्जलिम्—
यददश्चन्द्रमसीति सकृद्यजुषाद्विस्तूष्णीमुत्सृज्ययथार्थम्15॥७॥
यददश्चन्द्रमसि—इति मन्त्रेण सकृच्चन्द्रमसं प्रत्युत्सृज्य अञ्जलिद्वयं तूष्णीमुत्सृजेत्। यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते। एतच्चकर्म्म देशान्तरस्थोऽपि कुर्य्यात्। मातृकुमारयोरस्मिन् कर्मण्यनङ्गत्वात्। कियन्तं कालं कुर्य्यात्? संवत्सरपर्य्यन्तम्। कुतः? तावतैव कृतत्वात्। वर्षान्तरेष्वपि तएव ज्यौत्स्नाःतएव मासाः तएव चर्त्तवः पुनरावर्त्तन्ते। ‘अत ऊर्द्धंज्यौत्स्नेषु’—इत्यकृत्वा, ‘ये अत ऊर्द्धं ज्यौत्स्नाः तेषु’—इति करणाच्चैवमवगच्छामः। सर्व्वनाम्नाखल्वभिमतेषु ज्यौत्स्नेष्वेतदुपदिश्यते। असमाम-गुरु-क्रमभेद पुनर्व्वचनार्थापत्तयः स्खल्वर्थविशेषप्रतिपादनार्था भवन्ति। शिष्टाश्चैमाचरन्ति॥०॥७॥०॥
** जननाद्दशरात्रेव्युष्टे शतरात्रेसंवत्सरे वा नामधेयकरणम्॥८॥**
जननात् जन्मदिवसात् आरभ्य दशरात्रे व्युष्टे अतिक्रान्ते, शतरात्रे व्युष्टे, संवत्सरे वा व्युष्टे नामधेयकरणं, नामैव नामधेयम्, तस्य करणम्—इति कर्म्मणो नामधेयम्। कर्त्तव्यम्—इति सूत्रशेषः। एकस्माद्वाशब्दान्नैते कालास्तुल्यवद्विकल्प्यन्ते। किन्तु यदि दैवान्मानुषाद्वाकुतश्चिदन्तरायात् दशरात्रेव्युष्टे नामधेयकरणं न सम्पद्यते तदा शतरात्रेव्युष्टे, तत्राप्यसम्पत्तौ संवत्सरे व्युष्टे—इति॥०॥८॥०॥
** अथ यस्तत् करिष्यन् भवति पश्चादग्नेरुगगग्रेषु दर्भेषु प्राङुपविशति॥९॥**
अथेति जातगृहनियमार्थम्। कथं नाम? यस्मिन् गृहे कुमारोजातः, तस्मिन् एव गृहे एतत् कर्त्तव्यम्। अन्यथा प्रागेव चन्द्रदर्शनात् कुमारस्यवहिर्गमनं स्यात्। तथा चोक्तं बह्वृचशाखायाम्। ‘तन्मध्ये जुहुयात् यस्मिन् जातः स्यात्’—इति। यः—इति सामान्याभिधानात् पितुरभावेऽन्योऽप्यधिकारी—इति दर्शयति। यः कश्चित् पित्रादिः तत् नामधेयकरणं करिष्यन् कर्त्तुमिच्छन् भवति, स पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्मुख उपविशति। सखल्वयमग्निः शालाग्नेरपि लौकिक एव बोद्धव्यो न पुनः स्वयमाहितः। गर्भसंस्कारहोमानामेव तत्रानुज्ञानात्। नामधेयादौ लौकिकाग्नेरुपदेशाच्च। तथाच कर्म्मप्रदीपः।
“न स्वेऽग्नावन्यहोमः स्यान्मुक्कैकां समिदाहुतिम्।
स्वगर्भसत्क्रियार्थांश्च यावन्नासौप्रजायते।
अग्निस्तु नामधेयादौ होमे सर्व्वत्रलौकिकः।
न हि पित्रा समानीतः पुत्रस्य भवति क्वचित्”।
** **इति॥०॥९॥०॥
** अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्चंकर्त्रेप्रयच्छत्युदक्शिरसम्॥१०॥**
कृतभाव्यं सूत्रम्॥०॥१०॥०॥
प्रदाय च माता,—
अनुष्पृष्ठं परिक्रम्योत्तरत उपविशत्युदगग्रेषु दर्भेषु॥११॥
उक्तार्थमेतत्॥०॥११॥०॥
** अथ जुहोति प्रजापतये तिथये नक्षत्राय देवताया-इति॥१२॥**
अथेत्यानन्तर्य्यार्थम्। कथं नाम? उपविष्टायां तस्यां कुमारं प्रदाय जुहोति। इतरथा गृहीतकुमारस्य हवनाऽसम्भवात्। एवमेके। गृहीतकुमार एव जुहोति। एवमपरे। कस्मै जुहोति? प्रजापतये जुहोति। यस्यां तिथौ कुमारोजातस्तस्यै तिथये जुहोति। यस्मिन् नक्षत्रे जातः तस्मै नक्षत्राय जुहोति। तिथेर्नक्षत्रस्य च या देवता तस्यै च जुहोति। अनादेशादाज्यं द्रव्यम्। इति-शब्दो होमस्य प्रकारविशेषं सूचयति। तत्र तिथयः प्रतिपदाद्याः। तासां देवताश्चामावस्यापर्य्यन्तानां ब्रह्म-त्वष्ट-विष्णु-यम-सोम-कुमार-मुनि-वसु-पिशाच-धर्म्म-रुद्र-वायु-मन्मथ-यक्ष-पितरः। पौर्णमास्यास्तु विश्वेदेवाः। तत्र तिथिहोमे, प्रतिपदे स्वाहा—इत्यादिकः प्रयोगः। तिथिदेवताहोमे विशेषमाह कर्म्मप्रदीपः।
“नामधेये मुनि-वसु-पिशाचा बहुवत् सदा।
यक्षाश्च पितरोदेवा यष्टव्यास्तिथिदेवताः।
इति। तेन, मुनि-वसु-पिशाच-यक्ष-पितरो विश्वेदेवाश्चबहुवचनान्ता होतव्याः, शेषा एकवचनान्ताः। नक्षत्रान्यश्विन्यादीनि। नक्षत्रहोमेऽपि विशेषमाह स एव।
“आग्नेयाद्येऽथ सर्पाद्ये विशाखाद्ये तथैवच।
आषाढ़ाद्येधनिष्ठाद्ये अश्विन्याद्ये तथैवच।
द्वन्द्वान्येतानि बहुवदृक्षाणां जुहुयात् सदा।
द्वन्द्वद्वयंद्विवच्छेषमवशिष्टान्यथैकवत्”।
इति। कृत्तिकाद्ये द्वेनक्षत्रे, अश्लेषाद्ये द्वे, विशाखाद्ये द्वे, आषाढ़ाद्ये द्वे, धनिष्ठाद्ये द्वे, अश्विन्याद्ये द्वे,—एतानि द्विकानि;—कृत्तिकाभ्यः स्वाहा, रोहिणीभ्यः स्वाहा,—इत्यादिबहुवचनयुक्तानि जुहुयात्। शेषमवशिष्टं द्वन्दद्वयं—भाद्रपदाद्वयं फल्गुनौद्वयञ्च;—पूर्व्वभाद्रपदाभ्यां स्वाहा, उत्तरभाद्रपदाभ्यां स्वाहा,—इत्यादिद्विवचनयुक्तं जुहुयात्। अवशिष्टानि मृगशिरः प्रभृतीनि नक्षत्राणि,—मृगशिरसे स्वाहा,—इत्याद्येकवचनान्तानि जुहुयात्।तत्रापि लिङ्गनिर्णयस्तन्त्रान्तरे।
“हस्ता-स्वाति श्रवणा अक्लीवे
मृगशिरो न पुंसि स्यात्।
पुंसि पुनर्व्वसुपुय्यौ
मूलन्त्वस्त्री स्त्रियः शेषाः”।
इति। तस्मात्, मूलायै स्वाहा—इति प्रामादिकः प्रयोगः। नक्षत्रदेवताश्चयथाक्रमम्, अश्वि-यम-अग्नि-प्रजापति-सोम-रुद्र-अदिति-बृहस्पति-सर्प-पितृ-भग-अर्य्यमन्-सवितृ-त्वष्टृ-वायु-इन्द्राग्नि-मित्र-इन्द्र-निर्ऋति-अप्-विश्वेदेव-विष्णु-वसु-वरुण-अजपाद-अहि-ब्रध्न-पूषाणः। नक्षत्रदेवताहोमेऽपि विशेषमाह कर्म्मप्रदीपः।
“देवता अपि हूयन्ते बहुवत् सर्पवस्वपः।
देवाश्चपितरश्चैव द्विवदेवाश्विनौ तथा”।
इति। तेन सर्पवस्वपो विश्वेदेवाः पितरश्च बहुवचनान्ताहोतव्याः। अश्विनौ द्विवचनान्तौ होतव्यौ। अर्थादन्यादेवता एकवचनान्ता होतव्याः। सोऽयं विशेषः, इतिशब्देन द्योतितः॥०॥१२॥०॥
तस्य मुख्यान् प्राणान् संमृशन् कोऽसि कतमोऽसीत्येतं मन्त्रं जपति॥१३॥
तस्य कुमारस्यमुख्यान् मुखे भवान् प्राणान् प्राणनिर्गमोपायभूतान् सप्त च्छिद्रविशेषान्–मुखमक्षिणी नासिके कर्णावित्येतद्रूपानिति यावत्।संमृशन् संस्पृशन्। क्वचित्तथैव पाठः। कोऽसि–इत्येतं मन्त्रं जपति। च्यवसानोऽयं मन्त्रः॥०॥१३॥०॥
तस्मिंश्च मन्त्रे,—
** आहस्पत्यं मासं प्रविशासावित्यन्ते च मन्त्रस्य घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतं नामदध्यात्॥१४॥**
‘आहस्पत्यं मासं प्रविशासौ’ – इत्यत्र असावित्यस्मिन् मन्त्रस्थाने,तेच मन्त्रस्य ‘परिददात्वसौ’ - इत्य साविति सर्व्वनामस्थाने, नामदध्यात् उच्चारयेत्। कीदृशं नाम? उच्यते। कृतं कल्पितं,कृदन्तं वा। अथवा। कृतप्रथमान्तं, “द्वादशेऽहनि पिता नाम कुर्य्यात्”–इति श्रुतेः पित्रादिकृतं वा। नामैव विशिनष्टि। घोषवदाद्यन्तरन्तस्यं दीर्घाभिनिष्ठानान्तम्। घोषवदादि। वर्गाणां प्रथमद्वितीयाः शेषसाश्चाघोषाः, तदन्ये व्यञ्जनवर्ण घोषवन्तः। घोषवदक्षरमादि यस्य नाम्नः, तत् घोषवदादि। अन्तरन्तस्थम्।अन्तस्थायरलवाः। अन्तर्मध्ये अन्तस्थमक्षरं यस्य तदन्तरन्तस्थम्।दीर्घाभिनिष्ठानान्तम्। दीर्घोद्विमात्रोवर्णः, अभिनिष्ठानं विसर्ज्जनीयमक्षरम्। राणायनौयानां ऋक्तन्त्रे प्रसिद्धा विसर्जनीयस्याभिनिष्ठानाख्येति भट्टभाव्यम्। दीर्घश्च अभिनिष्ठानञ्च दीर्घाभिष्ठाने, ते अन्ते यस्य तत् दीर्घाभिनिष्ठानान्तम्। एकस्मिन्नाम्नि, दीर्घस्य अभिनिष्ठानस्य च समुच्चयेनान्तत्वा सम्भवादर्थादनयोर्व्विकल्पः;- दीर्घान्तम् अभिनिष्ठानान्तं वा। तद् यथा, दीर्घान्तं नाम गोविन्दशर्म्मा- इत्यादिरूपं, अभिनिष्ठानान्तञ्च गोविन्दः - इत्यादिरूपम्।
इति भट्टनारायणप्रभृतयोवृद्धाः। गर्गोऽप्याह।
“आदौ घोषवदक्षरं यरलवान् मध्ये पुनः स्थापये-
दन्ते दीर्घविसर्ज्जनीयसहितं नाम प्रयत्नात् कृतम्”॥
इति। तथा चोभयथा दर्शनम्। “श्रुतशीलनाम्ने वराय”—इत्याश्वलायनगृह्यपरिशिष्टे। “गिरिशर्मैवमुक्तवान्”—इति कर्म्मप्रदीपे। एवमन्यत्र। गृह्यान्तरवृत्तिकारैरपि, द्व्यक्षरस्यचतुरक्षरस्य च नाम्न उदाहरणतया भवः इति विष्णुशर्म्माइति चैवमादिकं लिखितम्। दौर्घाभिनिष्ठानान्तमित्यत्र ‘दौर्घाभिनिष्ठानम्’—इति पठन्त्यन्ये। दीर्घेनाक्षरेण अभिनिस्तिष्ठते ममाप्यते यन्नाम तद्दीर्घाभिनिष्ठानं, यथा गोविन्दशर्म्मा—इति व्याचक्षते च।
तदिदं नाम्नः प्रतीकत्रयमादिमध्यान्तभेदेन सूत्रितम्। ये त्वाहुः, शर्म्मादीनां न नामावयवत्वं किन्तु नामभिन्नत्वं तदुपपदत्वञ्च,—इति। ते तु न्यायेन न सङ्गच्छन्ते। परमप्रेक्षावान् खल्वाचार्य्योनाम्न आदिं मध्यं चावयवं सूत्रयित्वा क्रमागतमवश्यसूत्रयितव्यमन्तमवयवमुपेक्ष्यनाम्न उपपदं सूत्रितवानित्यस्यासम्भवदुक्तिकत्वात्। को हि प्रेक्षावानेवमाचक्षीत। ‘अयुग्दान्तं स्त्रीणाम्’—इत्यग्रिमसूत्रे दाकारस्य नामावयवत्वस्य तेषामप्यनुमतत्वेनात्रापि तथैव वर्णयितुमुचितत्वाञ्च। तात्पर्य्यभेदकल्पनस्यान्याय्यत्वात्। उत्तरसूत्रे दाकारस्य दीर्घाभिनिष्ठानयोरपवादरूपेण प्रवृत्तेस्तस्येव तयोरपि नामप्रतीकत्वप्रतीतेश्च। पाठान्तरे तु शर्म्मेत्यस्यनामावयत्वेन सन्देहगन्धोऽपि। तथा स्नानसूत्रपरिशिष्टम्।
“गोत्रं स्वरान्तं सर्व्वत्रगोत्रस्याक्षय्यकर्म्मणि।
गोत्रस्तु तर्पणे प्रोक्तःकर्त्ता एवं न मुह्यति।
सर्वत्रैव पितः प्रोक्तंपिता तर्पणकर्म्मणि।
पितुरक्षय्यकाले तु अक्षयांतृप्तिमिच्छता।
शर्म्मन्नर्घ्यादिके कार्य्येशर्म्मातर्पणकर्म्मणि।
शर्म्मणोऽक्षय्यकाले च पितॄणां दत्तमक्षयम्”।
इति। तदत्र गोत्रसंबन्धन्नाम्नामुल्लेखप्रकारोपदेशपरे ग्रन्थे गोत्रसंबन्धयोरुल्लेखप्रकारमुपदिश्य ‘शर्म्मन्नर्घ्यादिके कार्य्ये’—इत्याद्यभिधानात् शर्म्मशब्दस्य नामप्रतीकत्वं स्पष्टमवगम्यते। तस्य नामभिन्नत्वे तदुपपदत्वेच क्रमागतस्य नाम्न उल्लेखप्रकारमनभिधाय तदुपपदस्योल्लेखप्रकाराभिधानमसङ्गतं भवेत्। न च सङ्गतं शास्त्रमसङ्गतं कर्त्तुमुचितम्। तथा मनुः।
“नामधेयं दशम्यान्तु द्वादश्यां वाऽथ कारयेत्।
पुण्येतिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते।
मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम्।
वैश्यस्य धनसंयुकं शूद्रस्य तु जुगुप्सितम्।
शर्म्मवद्ब्राह्मणस्य स्यात् राज्ञोरक्षासमन्वितम्।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रैष्यसंयुतम्”।
इति। नामधेयमिति विशेष्यमुत्तरवचनद्वयेऽनुषञ्जनीयम्। शङ्खस्त्वन्तिमं वचनमन्यथा पठितवान्। तद्यथा।
“शर्म्मान्तं ब्राह्मणस्योक्तंवर्म्मान्तं क्षत्रियस्य च।
धनान्तञ्चैव वैश्यस्य दासान्तञ्चान्त्यजन्मनः।
इति। शातातपस्याप्येतत्। यच्चाह यमः।
“शर्म्मादेवश्च विप्रस्य वर्म्मात्राता च भूभुजः।
भूतिर्गुप्तश्च वैश्यस्य दासःशूद्रस्य कारयेत्”।
इति। भूतिर्दत्तश्चेति पाठान्तरम्। तदनेन शर्म्मादेवश्चेत्यनयोर्विकल्पेनोत्तरप्रतीकत्वं विप्रनाम्नामिति तस्य मतं लक्ष्यते। अक्ष्मिन् विषये मुनीनां मतभेदोपलम्भात्। यथेहैव तावत्, ‘धनान्तञ्चैववैश्यस्य’—इति, ‘भृतिर्गुप्तश्च वैश्यस्य’—इति चैवमादि। चकारात्समुच्चयावगतिस्तु ‘ब्राह्मणो वैल्वपालाशौ’—इत्यादिवत् समर्थनीया। तथाच ‘ब्राह्मणो वैल्वपालाशौ’—इत्यत्र व्याख्यातं कुल्लूकभट्टेन, ‘वैल्वः पालाशो वा दण्डः—इति वाशिष्ठे विकल्पदर्शनादेकस्यैव दण्डस्य धारणम्। विकल्पितयोरेवैकब्राह्मणसंबन्धात् समुच्चयो द्वन्द्वेनानूद्यते’—इति। तद्वदत्रापि स्यात्। कस्यचिद्विप्रस्य शर्म्मा,—इति कस्यचिच्च देवः,—इति सर्व्वथाऽपि खलु द्वयमेतद्विप्रस्यैव भवति न क्षत्रियादेरिति। न त्वेकस्मिन् नाम्नि देवशर्म्मणोः समुच्चयः। मन्वादिविरोधात्। तथात्वे वर्म्मत्रात्रोर्भूतिगुप्तयोरपि समुच्चयः स्यात्। वस्तुतस्तु मन्वादिभिः कैरपि देवशब्दस्य नामप्रतीकत्वानुपदेशात् प्रतीकद्वयाभिप्रायेण यमवचनं वर्णनीयम्। मन्वादिस्वरसात्। तथाच शर्म्मादीनामेकप्रतीकत्वं, देवावबोधक-त्राणावद्योतकभूत्यभिव्यञ्जक-शब्दानामपरप्रतीकत्वं तस्यार्थः। प्रतीकयोः पौर्व्वापर्य्यन्तु वचनान्तरानुसारेणावसेयम्। विष्णुपुराणम्।
“ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि।
देवपूर्व्वंनराख्यं हि शर्म्मवर्म्मादिसंयुतम्।
शर्म्मेति ब्राह्मणस्योक्तंवर्म्मेतिक्षत्रियस्य च।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः”।
इति। नराख्यमेव प्रतीकद्वयेन विशिनष्टि; देवपूर्व्वमिति, शर्म्मवर्म्मादिसंयुतमिति च। तत्र च “देवपूर्व्वं श्राद्धं कुर्व्वीत”—इति “देवपूर्व्वं पितृभ्योऽन्नम्”—इति चैवमादिवत् देवः पूर्व्वोयस्येति बहुब्रीहिसमासाश्रयणेन देवबोधकशब्दस्य पूर्व्वप्रतीकत्वं शर्म्मवर्म्मादेश्चोत्तरप्रतीकत्वं पारिशेय्यादवसीयते। तथाच शङ्खलिखितौ। “देवतानक्षत्रादिसंबद्धं पिता नाम कुर्य्यात्”—इति। तथा शङ्खः। “कुलदेवतासंबद्धं पिता नाम कुर्य्यात्”—इति। इदं ‘कुलसंबद्धं देवतासंबद्धं वा’—इति मदनपारिजाते व्याख्यातम्। आचार्य्योऽप्यभिवादनीये नाम्नि सूत्रयिष्यति, “देवताश्रयं वा नक्षत्राश्रयं वा गोत्राश्रयमप्येके”—इति।
न च देवात् पूर्व्वं देवपूर्व्वमिति व्याख्यानं युक्तमिति वाच्यम्। पूर्व्वलिखितशास्त्रान्तरानुसारेण बहुब्रीहिसमासस्यैव युक्रत्वात्। तन्मते ‘शर्म्मादेवश्च विप्रस्य’—इति यमवचनानुसारेण विप्रनाम्न एव देवशब्दपूर्व्ववर्त्तित्वेन वर्म्मादेश्च क्षत्रियादिनाममात्रविषयत्वेन देवपूर्व्वस्य नाम्नो वर्म्मादिसंयुतत्वानुपपत्तेश्च। क एवमाह देवपूर्व्वस्य नाम्नो वर्म्मादिसंयुतत्वमिति, तस्य शर्म्मसंयुतत्वमेव ब्रूमः। तच्चैतद्विप्रविषयमिति मन्यामहे। सत्यमेवं ब्रवीति भवान्, मन्यते चैवम्। न त्वेवं वाक्यार्थो घटते। किं कारणम्? देवपूर्व्वस्यैव नाम्नःशर्म्मवर्म्मादिसंयुतत्वस्य वचनादवगतेः। किञ्च भवतां देवपूर्व्वस्य नाम्नो विप्रविषयतया उपात्ते देवपूर्व्वेनाम्नि शर्म्मयुतत्वमन्वीयते इति वक्तव्यम्। उक्तञ्चैवमेव भवद्भिः। एवञ्च नामान्तरस्यानुपादानात्
वर्म्मादियुतत्वमिदानीं कुत्रान्वीयताम्। न ह्यनन्वितमेवेदमिति शक्यं वक्तुम्। तथा सति बालोन्मत्तादिवाक्यवदपार्थकमेतदित्यापतति। न चैतदुचितम्। न वा वृत्तिशब्दैकदेशार्थस्यैवमभिसंवन्धोऽनुमतः प्रामाणिकानाम्। तस्मात्, देवपूर्व्वस्य नाम्नःशर्म्मवर्म्मादिसंयुतत्वान्वयोपपत्तये पूर्व्वोक्तैव व्याख्या धीमद्भिरादरणीया।
तदत्र शर्म्मादिपदोत्तरमितिकारकरणात् ‘गुप्तदासात्मकं नाम’—इति चाभिधानात् तावन्मात्रस्यैव परप्रतीकत्वं न देवादिशब्दसमुच्चितस्य। तथा शर्म्मादीनां नामावयत्वञ्च सुव्यक्तंप्रतीयते। तत्त्वकृतस्तु, ‘ततश्च नाम कुर्व्वीत’—इत्यनेनोपपदत्वं नामभिन्नत्वञ्च शर्म्मादीनामिति, ‘शर्म्मन्नर्घ्यादिके कार्य्ये’—इत्यत्र च शर्म्मान्नित्यनेन‘गोत्रसंबन्धनामानि’ इत्येकवाक्यतया शर्म्मान्तं नाम प्रतीयते,—इति च परस्परविरुद्धमेव किमित्युक्तवन्त इति तएव प्रष्टव्याः॥०॥१४॥०॥
एतदतद्धितम्॥१५॥
एतदिति नाम्नः परामर्शः। सूत्रितनाम्नस्तद्धितत्वासम्भवादेतदतद्धितान्तमिति व्याख्येयम्। दीर्घाभिनिष्ठानान्तत्वसूत्रणादेवातद्धितान्त्वेसिद्धे पुनरुपादानं नियमार्थम्। एतदेव नामाऽतद्धितान्तं न पुनरन्यदिति नियम्यते। तेन, ‘यत्तद्गुह्यमेव भवति’—इति ‘अभिवादनीयं नामधेयं कल्पयित्वा’—इति चैवमादिनाम्नां तद्धितान्तत्वमपि स्यात्। पूर्वप्रतीकाभिप्रायं वा सूत्रंवर्णनीयम्। तत्राप्येतदितिकरणादन्येषां नाम्नां पूर्वप्रतीकस्य तद्धितान्तत्वमनिषिद्धम्॥०॥१५॥०॥
**
अयुग्दान्त
अयुक् अयुग्माक्षरम्, दान्तं दाकारान्तं नाम स्त्रीणां दध्यादित्यनुवर्त्तते। अयमेव विशेषः। सर्वमन्यत् पूर्ववत्। तेन, स्त्रीणां नाम ‘गौरीदा’—इत्यादिरूपं—सिध्यति। यत्तु “देव्यन्तास्तु स्त्रियः स्मृताः”—इति वचनम्। तत् कौथुमादिव्यतिरिक्तविषयम्। दादेव्योः समुच्चयमिच्छन्त्यन्ये। उदाहरन्ति च ‘गौरी देवी दा’—इति॥०॥१६॥०॥
मात्रे चैव प्रथमं नामधेयमाख्याय यथार्थम्॥१७॥
तच्च नामधेयं प्रथमं पूर्वं मात्रे आख्याय कथयित्वा यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते तेन तन्त्रसमापनमिदानीं कुर्य्यात्। चशब्दात् पुरुषनाम्नःस्त्रीनाम्नश्च प्रथमं मात्रे कथनम्। एवशब्दो मातुरेव प्राथम्यं नियमयति। चैवेति वा निपातसमुदायः॥०॥१७॥०॥
गौर्दक्षिणा॥१८॥
नामधेयकरणकर्म्मणः॥०॥१८॥०॥
कुमारस्य मासि मासि संवत्सरे सांवत्सरिकेषु वा पर्व्वस्वग्नीन्द्रौ द्यावापृथिवीविश्वान्देवा
जननादयस्तृतीयोज्यौत्स्नः–इति जननाद्दशरात्रेव्युष्टे—इति च जन्मनः प्रकृतत्वात् ‘कुमारस्य’ जन्मतिथौ वक्ष्यमाणादेवता ‘यजेत’। कियन्तं कालं यजेत?—इत्यत्राह ‘मासि मासि’, प्रतिमासमित्यर्थः।
तेन वत्सरपर्य्यन्तं यागः। ऊर्द्ध्वंहि वत्सरात् तएव मासा आवर्त्तन्ते। ‘संवत्सरे’ वा, पूर्णे—इति वाक्यशेषः। अत्रापि जन्मतिथौ यजेत,—इति द्रष्टव्यम्। ‘सांवत्सरिकेषु वा पर्वसु’ यजेत। संवत्सरस्य इमानि सांवत्सरिकानि, तेषु पर्वसु त्रयाणां ऋतूनामवसानतिथिषु–कार्त्तिकीफाल्गुन्याषाढ़ीषु। अथवा। द्वावत्र कालविकल्पौ। संवत्सरपर्य्यन्तं मासिमासि कुमारस्य जन्मतिथौ यजेत, सांवत्सरिकेषु वा पर्वसु यजेत। कतमाः पुनस्तादेवताः? उच्यते। ‘अग्नीन्द्रौ’। ‘द्यावापृथिव्यौ’। एते द्वन्ददेवते। ‘विश्वान्देवांश्च’ यजेत॥०॥१९॥०॥
दैवतमिष्ट्वा तिथिं नक्षत्रञ्च यजेत॥२०॥
जन्मतिथेर्दैवतमिष्ट्वाजन्मतिथिम्, जन्मनक्षत्रस्य दैवतमिष्ट्वाजन्मनक्षत्रञ्च यजेत॥०॥२०॥०॥
** विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्द्धानंपरिगृह्य जपेत्, यदा वा पिता म इति विद्यादुपेतस्य वाऽङ्गादङ्गात्
स_(
विप्रोष्य प्रवासमनुभूय गृहमागतः पिता, ज्येष्ठस्य पुत्रस्य मूर्द्धानम्, उभाभ्यां पाणिभ्यां परिगृह्य अङ्गादङ्गादिति षड़वसानं त्र्यृचं जपेत्। यदा वा कुमारः, अयं मे पिता जनयिता,—इत्येवं विद्यात् जानीयात्, (शक्त्यर्थे लिङ्) ज्ञातुं शक्नोतीत्येतत्। तदा वा जपेत्। उपेतस्य उपनीतस्य वा कुमारस्य मूर्द्धानं परिगृह्य जपेत्। त इमे त्रयः कालविकल्पाः॥०॥२१।०॥
पशूनां त्वा हिङ्कारेणाभिजिघ्रामीत्यभिजिघ्य्रयथार्थम्॥२२॥
पशूनामिति मन्त्रेण अभिजिघ्य्रआभिमुख्येनाघ्राय—मूर्द्धानमिति प्रकृतेन सम्बन्धः। यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते। तेन वामदेव्यमिदानीं गातव्यम्। अत्रापि मन्त्रे असावित्येतस्मिन् सर्वनाम्नि सम्बोधनविभक्त्या पुत्रनाम प्रयोक्तव्यम्। अभिजिघ्रामि गोविन्दशर्म्मन्,—इति। तदिदं प्रोषितागतकर्म्मेत्युच्यते॥०॥२२॥०॥
** एवमेवावरेषाम्॥२३॥**
अवरेषां कनिष्ठानामप्येवमेव मूर्द्धालम्भनन्तदभिघ्राणञ्च कर्त्तव्यम्॥०॥२३॥०॥
** यथाज्येष्ठं यथोपलम्भं वा॥२४॥**
यो यो वयमा ज्येष्ठस्तस्य तस्य प्रथमं कर्त्तव्यम्, योयः पूर्वं सन्निधानमागच्छति तस्य तस्य वा॥०॥२४॥०॥
** स्त्रियास्तूष्णीं मूर्द्धन्यभिजिघ्रणं मूर्द्धन्यभिजिघ्रणम्॥२५॥**
ऋजुरक्षरार्थः। ननु तूष्णीं मूर्द्धन्यभिजिघ्रणमिति सूत्रणात् मूर्द्धालम्भः समन्त्रकः प्राप्नोति? न। मन्त्रलिङ्गविरोधात्।
“अमन्त्रिका तु कार्य्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्”।
इति स्मरणाच्च। तस्मात्, मूर्द्धालम्भोऽमन्त्रकः सिद्धः। अतोऽभिघ्राणमात्रस्य तूष्णीन्त्वं सूत्रितम्। तर्हि स्त्रियास्तूष्णीमित्येव कर्त्तुमुचितम्, अलं मूर्द्धन्यभिजिघ्रणमित्यनेन? उच्यते। एवं कुर्वन् अभिघ्राणादन्यत् वक्ष्यमणं होमादिकं समन्त्रकमेव स्यादिति दर्शयति। तथाच वक्ष्यति “मन्त्रेण तु होमः”—इति। तस्मान्नकेवलं प्रोषितागतकर्म्मैव स्त्रियाःस्यात्, अपितु जातकर्म्मादिकमपि—इति सिद्धम्। ननु तथाप्यनर्थकम्। मन्त्रेण तु होमः—इति सूत्रणादेव तत्सिद्धेः। उच्यते। तस्य चूड़ाकरणकर्म्मणोऽनन्तरं सूत्रितत्वात् तन्मात्रविषयत्वमप्याशङ्कीत कश्चिन्मन्दमतिः कदाचिदिति तन्निरासार्थमेतत् सूत्रितम्। पुनरुक्तं वैतदादरार्थम्। पुनरुक्तंखल्वाचार्य्यग्रन्थे विद्यत एवेत्यावेदितम्। द्विर्वचनं प्रकरणसमाप्त्यर्थमादरार्थं वा॥०॥२५॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये द्वितीयप्रपाठकस्य अष्टमो खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके नवमीखण्डिका।
अथातस्तृतीये वर्षे चूड़ाकरणम्॥१॥
अथशब्दःपूर्व्वप्रकृतार्थः।अथ पूर्व्वप्रकृतात् जन्मनस्तृतीये वर्षे वर्त्तमाने उदगयनादीनां समुच्चयोपलब्धौ चूड़ाकरणं कर्त्तव्यमिति सूत्रशेषः। कपुष्णिका-कपुच्छलाख्याःकेशाश्चूड़ा इति कथ्यन्ते। तासांवक्ष्यमाणेन विधिना संस्करणं चूड़ाकरणमिति कर्म्मणोनामधेयम्। अतःशब्दो हेत्वर्थः। यस्माद्वैजिकं गार्भिकञ्च पापमनेन कर्म्मणाऽपमृज्यते, तस्मादिदमवश्यं कर्त्तव्यमित्यर्थः। यथा मनुः।
“गार्भैर्होमैर्जातकर्म्मचौड़मञ्जीनिबन्धनैः।
वैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते”।
इति। अन्ये तु वर्णयन्ति। ‘अतःशब्दो हेत्वर्थे। यस्मात् श्रुत्यन्तरे अन्योऽपि पक्षःश्रूयतेः—“प्रथमेऽब्दे”—इति, सोऽपि द्रष्टव्यः। तथाच मनुः।
“चूड़ाकर्म्म द्विजातीनां सर्व्वेषामेव धर्म्मतः।
प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात्”।
इति॥०॥१॥०॥
** पुरस्ताछालाया उपलिप्तेऽग्निरुपसमाहितो भवति॥२॥**
व्याख्यातार्थमेतत्॥०॥२॥०॥
तत्रैतान्युपक्लृप्तानि भवन्ति॥३॥
तत्र तस्मिन्नुपलिप्ते देशे एतानि वक्ष्यमाणानि उपसमीपे अग्नेः, क्लृप्तानि आसादितानि भवन्ति। कर्त्तुरनियमः॥०॥३॥०॥
कानि पुनस्तानि? कस्यां वा दिशि अग्नेरासादयितव्यानि? उच्यते।
एकवि
एकविंशतिस्त्रिःसप्त। दर्भपिञ्जूल्योव्याख्याताः। सप्त सप्त कृत्वा दर्भपिञ्जूल्यः स्थानत्रये आसादयितव्याः। एवमेकविंशतिस्ता भवन्ति। कुतः पुनर्भेदेनासादनम्? भेदेनैव विनियोगोपदेशात्। उदगग्राणाञ्चामूषामासादनं स्यात्। ‘प्राचीसौम्यापराजिताः’—इति वचनात्। उष्णमुदकं यस्मिन् स उष्णोदकः, स चासौ कंसः—पात्रविशेषश्चेति उष्णोदककंसः। उदुम्बरस्यायमौदुम्बरः क्षुरः। स खल्वयमौदुम्बरःक्षुरस्ताम्रमय एव न दारूमयः। कुतः? ‘प्रोहत्यप्रच्छिन्दन्’—इत्युपरिष्टादनेन छेदनस्याशङ्क्यमानत्वात्। सा खल्वाशङ्कैवमुपपन्ना भवति। न हि दारवेण केशच्छेदनं शक्यं कर्त्तुम्। तदभावे, आसम्यक् दृश्यते मुखमस्मिन्–इत्यादर्शोदर्पणो वा। क्षुरं पाणौ यस्यासौ क्षुरपाणिर्नापितः। इत्येतानि
दक्षिणतोऽग्नेरुपक्लृप्तानि भवन्ति। प्राक्संस्थानाञ्चामीषामासादनं स्यात्। कुतः? प्रादक्षिण्योपपत्तेः। एवमुत्तरत्रापि प्रादक्षिण्येनासादनं बौद्धव्यम्॥०॥४॥०॥
** आनडुहो गोमयः कृसरः स्थालीपाको वृथापक्व-इत्युत्तरतः॥५॥**
अनड्वान वृषभस्तस्यायमानडुहोगोमयः, कृसरः स्थालीपाकः—इति पूर्व्वं व्याख्यातम्। स खल्वयं स्थालीपाको वृथापक्वः, संस्काररहितत्वात्, कर्मण्यव्याप्रियमाणत्वाच्च। इत्येतत् द्वयमुत्तरतोऽग्नेरासादयितव्यम्॥०॥५॥०॥
** ब्रीहियवैस्तिलमाषैरिति पृथक् पात्राणि पूरयित्वा पुरस्तादुपनिदध्युः॥६॥**
ब्रीह्यादयः प्रसिद्धाः। ब्रीहियवैः—इतरेतरयोगनिर्देशात् मिश्रितैः। तिलमाषैर्मिश्रितैरेव। इतिशब्दादेषामलाभे अन्यैरप्येवं विधैः। पृथक्नाना, पात्राणि,—बहुवचनस्यार्थवत्वार्थंत्रीणि, पूरयित्वा, पुरस्तात् पूर्व्वस्यांदिश्यग्नेेः, उपनिदध्युः स्थापयेयुः॥०॥६॥०॥
** कृसरो नापिताय सर्व्वबीजानि चेति॥७॥**
कृसरो नापिताय दातव्यः। सर्वबीजानि च तस्मैदातव्यानि। इतिना अन्यदपि पारितोषिकं देयमित्युपदिशति। सा खल्वियं
प्रतिपत्तिः कृसरस्य बीजपात्राणाञ्च प्रसङ्गादत्रैव सूत्रिता।कर्म्मक्रमएवायं कुतो न स्यात्? एतस्य प्रतिपत्तित्वेनापितस्य कर्म्ममूल्यतया दृष्टार्थत्वसम्भवात्। अन्यथा अदृष्टार्थत्वमस्य कल्पनीयं स्यात्। तच्चानिष्टम्। कृते च कर्म्मणि तन्मूल्यदानप्रसिद्धेः कर्मणोऽवसानएवैतानि नापिताय देयानि॥०॥७॥०॥
** अथ माता शुचिना वसनेन कुमारमाच्छाद्य पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति॥८॥**
अथेत्यानन्तर्य्यार्थम्।आज्यसंस्कारानन्तरमित्यर्थः। अथवा। अथेति द्रव्यासादनानन्तर्य्यमभिधत्ते। तथाच पूर्व्वसूत्रोक्तं कृसरादिदानं प्रतिपत्तिरेवेत्यवधार्य्यते। व्याख्यातमन्यत्॥०॥८॥०॥
अथ यस्तत्करिष्यन् भवति, पश्चात् प्राङवतिष्ठते॥९॥
अथेति किञ्चित् पूर्व्वप्रकृतं स्मारयति। किन्तत्? ‘यथा पाणिग्रहणे तथा चूड़ाकर्मणि’—इत्यतिदेशम्। तेनात्र पुरस्ताच्चोपरिष्टाच्च चतस्रआहुतयो भवन्ति। यः कञ्चित्पित्रादिः तत् कर्म करिष्यन् भवति, स महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्रआहुतीर्हुत्वाअथानन्तरम्, गृहीतकुमारायामातुः पश्चात्, प्राङ् प्राङ्मुखः (क्वचित्तथैव पाठः) अवतिष्ठते ऊर्द्धस्तिष्ठति। ननु अग्नेः पश्चादित्येव कुतो न वर्ण्यते? आनर्थक्यादित्याह। एवं खल्वनर्थकमेव पश्चादितिवचनं स्यात्। पश्चादग्नेरिति खल्वनुवर्त्तत एव। तस्माद् यथोक्त एवार्थः॥०॥९॥०॥
अथ जपत्यायमगात् सविता क्षुरेणेति सवितारं मनसा ध्यायन् नापितं प्रेक्षमाणः॥१०॥
अथ तथाविधावस्थानानन्तरमेव, सवितारं सूर्य्यम्, मनसा श्रद्धादिगुणयुक्तेनेत्यर्थः। अन्यथा ध्यानस्य मानसिकत्वप्रसिद्धेर्मनसेत्यनर्थकं स्यात्। ध्यायन् चिन्तयन्, नापितं क्षुरपाणिं प्रेक्षमाणोऽवलोकयन् आयमगादित्येतं मन्त्रं जपति॥०॥१०॥०॥
उष्णेन वाय उदकेनैधीति वायुं मनसा ध्यायन्नुष्णोदककं
वायुं मनसाचिन्तयन्, उष्णोदकयुक्तंकंसपात्रञ्चावलोकयन् उष्णोन वाय—इति मन्त्रं जपति॥०॥११॥०॥
** दक्षिणेन पाणिनाऽप आदाय दक्षिणां कपुष्णिकामुन्दत्याप उन्दन्तु जीवस इति॥१२॥**
** **दक्षिणेन पाणिना प्रकृतादुष्णोदककंसादप उष्णोदकमादाय गृहीत्वा कुमारस्य दक्षिणां कपुष्णिकामुन्दति क्लेदयति, आर्द्रां करोति—इत्येतत्। आप उन्दन्तु—इति मन्त्रेण। कं शिरः पुष्णाति शीतातपादितो रक्षणेन,—इति कपुष्णिका शिरसः पार्श्वद्वयावस्यिता केशजुटिका भण्यते। तथा चोक्तम्।
“कपुष्णिकाऽभितः केशा मूर्द्धि पश्चात् कपुच्छलम्”।
इति॥०॥१२॥०॥
** विष्णोर्द _(
प्रेक्षते अवलोकयति। प्रेक्षेत इति पाठे अवलोकयेदित्यर्थः। श्लिष्टमन्यत्॥०॥१३॥०॥
ओषधे त्रायस्वैनमिति सप्त दर्भपिञ्जूलीर्दक्षिणायां कपुष्णिकायामभिशिरोग्रा निदधाति॥१४॥
आसादितानामेकविंशतिदर्भपिञ्जूलीनां मध्यात् सप्त दर्भपिञ्जूलीर्गृहीत्वा कुमारस्य दक्षिणायां कपुष्णिकायाम्, ओषधे त्रायस्वेति मन्त्रेण निदधाति स्थापयति। कथम्? उच्यते। अभिशिरोऽग्राः, शिरसोऽभिमुखान्यग्राणि यासां, तथाविधाः॥०॥१४॥०॥
ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनौदुम्बरं क्षुद्रं गृहीत्वाऽऽदर्शं वाऽभिनिदधाति स्वधिते मैन
ताःदर्भपिञ्जूलीर्दक्षिणकपुष्णिकाश्च, वामेन ‘पाणिना’ ‘निगृह्य’ निःशेषेण गृहीत्वा।‘ता वामेनाभिगृह्य’—इति पाठेऽप्येवमेवार्थः। ‘दक्षिणेन पाणिना’ ‘औदुम्बरं क्षुरमादर्शं वा’ पूर्व्वमासादितम्, ‘अभि’ सर्वतोभावेन, ‘निदधाति’ संलग्नं धारयति,—स्वधिते मैनमितिमन्त्रेण।क्षुर आदर्शो वा तथा निधातव्यो यथा सर्व्वाःपिञ्जूल्यः सर्व्वाश्च दक्षिणकपुष्णिकास्तलग्नाः स्युरित्यर्थः॥०॥१५॥०॥
निधाय च,—
** येन पूषा बृहस्पतेरिति त्रिःप्राञ्चंप्रोहत्यप्रच्छिन्दन्सकृद्यजुषा द्विस्तूष्णीम्॥१६॥**
त्रिर्व्वारत्रयं प्राञ्चं प्राग्गतं प्रोहति प्रेरयति—प्रसारयतीत्येतत्। किं कुर्व्वन्? अप्रच्छिन्दन् केशच्छेदनमकुर्व्वन्। क्षुरस्तथा प्रसारयितव्यो यथा केशा न च्छिद्यन्ते,—इत्यर्थः। किं तूष्णीमेव प्रोहति? न। कथन्तर्हि? येन पूषा इति यजुषा सकृदेकवारं प्रोहति, तूष्णीं वारद्वयम्॥०॥१६॥०॥
अथायसेन प्रच्छिद्यानडुहेगोमये निदधाति॥१७॥
अथेति पूर्व्वप्रकृतार्थम्। यः पूर्व्वप्रकृतःक्षुरपाणिर्नापितः, तदीयेन आयसेन लौहमयेन क्षुरेण, प्रच्छिद्य प्रकर्षेण पिञ्जूलीभिः सहैव दक्षिणां कपुष्णिकां छित्वा, आनडुहे गोमये पूर्वमग्नेरुत्तरतः समासादिते, निदधाति स्थापयति। मन्त्रानुपदेशाद्व्याहृतिभिरित्यर्थः॥०॥१७॥०॥
** एतयैवावृता कपुच्छलम्॥१८॥**
एतथा अनन्तरोक्तयैवावृता परिपाट्याकपुच्छलं संस्कुर्य्यादिति वाक्यशेषः। के शिरसिपश्चाद्भागे पुच्छवत् लम्बते यः केशपाशः, सकपुच्छलः—इत्याख्यायते॥०॥१८॥०॥
** एतयोत्तरां कपुष्णिकाम्॥१९॥**
उत्तरशब्दो वामवचनः। वामामपि कपुष्णिकामेतयैवावृता संस्कुर्य्यात्॥०॥१९॥०॥
किमेतया समस्तैवावृता,—अथ जपत्यायमगादित्येवमादिकयासंस्कुर्य्यात्? न। कतमया तर्हि? उच्यते।
उन्दनप्रभृति त्वेवाभिनिवर्त्तयेत्॥२०॥
प्राक्तनं सूत्रद्वयमनेन विशिष्यते। उन्दनप्रभृति क्लेदनप्रभृत्येवआवृतम्, अभि सर्वतोभावेन निवर्त्तयेत् आवर्त्तयेत्, न पुनः सर्वाऽप्यावृदावर्त्तनीया। तस्मात् ‘दक्षिणेन पाणिनाऽप आदाय’—इत्येवमादिकामावृतमावर्त्तयेत्, न ततः पूर्वामपीत्यर्थः। तुशब्दो-विशेषणार्थः। कथन्नाम? कपुच्छले संस्क्रियमाणे कुमारमुदङ्मुखं धारयेत्; यथा प्राञ्चं प्रोक्षणादि कर्त्तुंशक्यते। ‘उन्दनप्रभृति द्वेधा अभिनिर्वर्त्तयेत्’—इति केचित् पठन्ति। तत्र व्यक्त एवार्थः॥०॥२०॥०॥
उभाभ्यां पाणिभ्यां मूर्द्धानंपरिगृह्य जपेत् त्र्यायुषं जमदग्नेरिति॥२१॥
मूर्द्धानं कुमारस्य। ऋज्वन्यत्॥०॥२१॥०॥
एतयैवावृता स्त्रियाः॥२२॥
एतया प्रकृतया आवृता स्त्रियाः सर्वे अधस्तनोक्ताःसंस्काराभवन्ति। न पुनरानन्तर्य्याच्चूड़ाकरणाभिप्रायमेव वचनं वर्णनीयम्। कुतः? एवकारेण व्याप्त्यवगमात्।
“अमन्त्रिका तु कार्य्येयंस्त्रीणामावृदशेषतः”।
इत्यादिवचनाच्च॥०॥२२॥०॥
किमेवम्भूतयैवावृता? न। कथन्तर्हि?
** तूष्णीम्॥२३॥**
मन्त्रवर्ज्जमित्यर्थः॥०॥२३॥०॥
किं सर्वमेव कर्म तूष्णीं भवति? न। कथन्तर्हि? उच्यते।
** मन्त्रेण तु होमः॥२४॥**
यो यो होमःपूर्वमभिहितः, समन्त्रेणैव भवति। तुशब्दश्चशब्दार्थःसमुच्चये। तेनान्वाहार्य्यश्राद्धमपि मन्त्रवदेव स्यात्। तदन्यत्तूष्णीं कर्त्तव्यमित्यर्थः॥०॥२४॥०॥
** उदगग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्रकुलकल्पम्॥२५॥**
अग्नेरुत्तरत उत्सृप्यगत्वा कुमारं कुशलीकारयन्ति नापितेन मुण्डयन्ति। कर्त्तुरनियमः। कथम्? यथागोत्रकुलकल्पम्। कल्पो विधिरित्यनर्थान्तरम्।यथा गोत्रविधिर्यथा च कुलविधिस्तदनतिक्रमेणेत्यर्थः। गोत्रकल्पस्तावत्,—
“वाशिष्ठाः पञ्चचूड़ाःस्युस्त्रिचूड़ाः कुण्डपायिनः”।
इत्याद्युक्तः। तथा गृह्यासंग्रहः।
“दक्षिणाकपर्द्दाःशिष्टा आत्रेयास्त्रिकपर्द्दिनः।
आङ्गिरसः पञ्चचूड़ा मुण्डाभृगोः शिखिनोऽन्ये”।
इति। कुलकल्पोऽपि, यथा।भद्रादित्यानामायतनसन्निधाविति। कौथुमराणायनीयादीनां प्राक् समावर्त्तनात् सशिखमेव वपनम्। कुतः? “केशश्मश्रुरोमनखानि वापयीत शिखावर्ज्जम्”—इति तत्रविशेषोपदेशादर्व्वाक् सशिखवपनावगतेः। उक्तञ्च कर्म्मप्रदीपकृता।
“सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम्।
आ शरीरविमोक्षाय ब्रह्मचर्य्यंन चेद्भवेत्”।
इति॥०॥२५॥०॥
आनडुहे गोमये केशान् कृत्वाऽरण्य
पूर्व्वमासादिते आनडुहे गोमये समस्तान् केशान् निधाय, अरण्यं हृत्वा नीत्वा, निखनन्ति अरण्यएव। बहुवचनादनियतः कर्त्ता। ‘अरण्यं गत्वा’—इति, ‘अरण्ये गत्वा’—इति च पाठान्तरम्। तत्र व्यक एवार्थः॥०॥२६॥०॥
स्तम्बे हैकेनिदधति॥२७॥
ह—इत्यैतिह्यार्थको निपातः। एके किलाचार्य्याःब्रीहियवादिस्तम्बे तान् केशान्निदधति॥०॥२७॥०॥
यथार्थम्
॥२८॥
तन्त्रसमापनं कर्त्तव्यमित्यर्थः। एवमेके। अपरे तु मन्यन्ते,—“यथार्थमिति यस्य येनार्थःप्रयोजनं सतं कुर्य्यात्—इति। कथन्नाम्? त्र्यायुषमित्यादिना मूर्द्धपरिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति, असावपि कर्म्मशेषं समापयेत्”—इति॥०॥२८॥०॥
** गौर्दक्षिणा॥२९॥**
चूड़ाकरणकर्म्मणः॥०॥२९॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रेभाष्ये द्वितीयप्रपाठकस्य नवमी खण्डिका॥०॥
————
गोभिलीयगृह्यसूत्रे
द्वितीयप्रपाठके दशमी खण्डिका।
अत ऊर्द्धमुपनयनलिङ्गाः मन्त्राः, तेषां विनियोगं विवक्षुरिदमाह,—
गर्भाष्टमेषु ब्राह्मणमुपनयेत्॥१॥
गर्भाष्टमेषु, गर्भत आरभ्य गणनया ये अष्टमावर्षास्तेषु। बहुवचनं व्यक्त्यभिप्रायम्। तेषु वर्षेषु वर्त्तमानेषु यदोदगयनादीनां समुच्चयस्तदैव ब्राह्मणमुपनयेत् उपनयनकर्म्मणा योजयेत्। उपनयनं नाम, वेदाध्ययनार्थम् उप समीपे (गुरोः) नीयते येन कर्म्मणा तदुच्यते। तथाचाहुः।
“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः।
बालो वेदाय तद्योगाद् बालस्योपनयं विदुः”।
इति। अपि चाहुः।
“गुरोर्ब्रताय वेदस्य यमस्य मियमस्य च।
देवतानां समीपं वा येनासौ नीयते द्विजः”॥
इति॥०॥१॥०॥
** गर्भैकादशेषु क्षत्रियम्॥२॥**
उपनयेदिति वर्त्तते॥०॥२॥०॥
गर्भैद्वादशेषु वैश्यम्॥३॥
उपनयेत्॥०॥३॥०॥
यदि दैवान्मानुषाद्वाकारणादुक्तकालातिपातः स्यात्, तदा कथम्? उच्यते।
** आषोड़शाद्वर्षाद्ब्राह्मणस्यानतीतः कालोभवत्याद्वावि
ऋजुरक्षरार्थः। अत्र किञ्चिद्वक्तव्यमस्ति। आङ्शब्दोऽत्राभिविधौ न मर्य्यादायाम्। कुतः? अभिविध्यर्थसम्भवे मर्य्यादाऽर्थस्यान्याय्यत्वात्। भट्टभाष्येऽप्युक्तम्। आङ् अभिविधौ।असम्भवे हि मर्य्यादायां कल्प्यते। यथा आ पर्व्वतात् क्षेत्राणि—इति। तथाच स्मृत्यन्तरम्।
“औपनायनिकः कालः परः षोड़शवार्षिकः।
द्वाविंशतिः परोऽन्यस्य स्याच्चतुर्विंशतिः परः”।
इति।
“विप्रस्य षोड़शाद्वर्षात् राज्ञो द्वाविंशतेः परम्।
वैश्यस्याष्टत्रिकादब्दात् सावित्रीपतनं भवेत्”।
इति।
“षोड़शाब्दो हि विप्रस्य राजन्यस्य द्विविंशतिः।
विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता।
सावित्री नातिवर्त्तेत अत ऊर्द्धं निवर्त्तते”।
इति चैवमादि। यच्च यमवचनम्—
“पतिता यस्य सावित्री दशवर्षाणि पञ्च च।
ब्राह्मणस्य विशेषण तथा राजन्यवैश्ययोः।
प्रायश्चित्तं भवेदेषां प्रोवाच वदतांवरः।
विवस्वतः सुतः श्रीमान् यमो धर्म्मार्थतत्त्ववित्।
सशिखं वपनं कृत्वा व्रतं कुर्य्यात् समाहितः।
हविष्यं भक्षयेदन्नंब्राह्मणान् पञ्च सप्त वा।
एकविंशतिरात्रन्तु पिबेत् प्रसृतियावकम्।
अतो यावकशुद्धस्य तस्योपनयनं स्मृतम्”।
इति। तत् पतितसावित्रीकत्वाभावेऽपि पञ्चदशवर्षोपरि प्रायश्चित्तविशेषोपदेशार्थम्। न पुनः पञ्चदशवर्षोपरि पतितसावित्रीकत्वमस्यार्थः। तथाविधवचनव्यक्तेरभावात्। लघुनः प्रायश्चित्तस्योपदेशाच्च। पतितसावित्रीकाणांहि ब्रात्यस्तोमः क्रतुः प्रायश्चित्तम्। राजन्यवैश्ययोश्चाविशषात्। तथा राजन्यवैश्ययोः,—इति ब्राह्मणवत् क्षत्रियवैश्ययोरपि पञ्चदशवर्षोपरि तत् प्रायश्चित्तमविशेषेणोपदिश्यते। तयोश्च पतितसावित्रीकत्वाभावेऽपि वचनबलात् तत्प्रायश्चित्तमित्यकामेनापि वाच्यम्। तत्सामान्यात् ब्राह्मणस्यापि तथैव वर्णयितुं युक्तम्।तस्मात् ‘पतिता यस्य सावित्री’—इत्यस्य यस्य सावित्रीग्रहणं न सम्पन्नमित्ययमर्थः।
न हि दश पञ्च च वर्षाणि सावित्रीपततीति शक्यते वक्तुम्। भवतामपि तदूर्द्धमेव पतनस्यानुमतत्वात् विज्ञानेश्वरेणापि,—यस्योपनयने आपद्भावेन तत्कालातिक्रमस्तस्य यमोक्तप्रायश्चित्तमभिधाय,—अनापद्यतिक्रमे तु मानवं त्रैमासिकम्, तत्रैव पञ्चदशवर्षादूर्द्धमपि कियत्कालातिक्रमे तूद्दालकव्रतं व्रात्यस्तोमोवा,—इति वदता एतदेवमतमङ्गीकृतमित्यवगम्यते।
तस्मात् अस्माद्यमवचनादाङोमर्यादार्थतां ब्रुवन् शूलहस्तः परास्तः। व्रात्यस्तोमे सपादनवधेनूनाम्, अत्र तु सपादधेनुत्रयाणां स्वयमेव सङ्कलितत्वेन वैषम्यापत्तेः। याज्ञवटल्क्यीकायां स्वयमेवाभिविध्यर्थतायावर्णनाच्च। पतितसावित्रीकपरतया वर्णने च क्षत्रियवैश्ययोरपि तावतैव पतितसावित्रीकताऽऽपत्तेः।न चैवमिष्यते।
रघुनन्दनस्तु,—यमवचनस्य प्रथमश्लोकार्द्धत्रयमात्रमुपन्यस्यन् परप्रतीकञ्चापह्नुवानः ‘एभिः षोड़शवर्षोपरि यमेन पञ्चदशवर्षोपरि यत् पतनमभिहितं, तद्गर्भजन्मप्रभृतिगणनयाऽविरुद्धम्’—इत्याह। तदप्यनादरणीयम्। पूर्वोक्तयुक्त्या यमेन पञ्चदशवर्षोपरि पतनस्थानभिहितत्वात्। गर्भप्रभृतिगणनयाऽपि षोड़शवर्षान्तिममासत्रयस्याऽसंग्रहाच्च। किञ्च। पतितसावित्रीकत्वाभावेऽपि “द्वादशषोड़शविंशतीश्चेदतीता अवरुद्धकालाभवन्ति”—इति पैठिनसिवचनात् द्वादशवर्षाद्युपरि प्रत्यवायाल्पत्वज्ञापनं स्वयमेव वर्णितम्। तत् किमत्रापि तथैव न वर्णितमिति स एव जानाति! तस्मात्, तन्मतेऽपि द्वादशवर्षोपरि ब्राह्मणस्य महाव्याहृतिहोमः प्रायश्चित्तम्, पञ्चदशवर्षोपरि यमोक्तमेकविंशतिरात्रव्रतम्, व्रात्यप्रायश्चित्तं पुनरतोऽप्यूर्द्धं भवितुं युक्तम्। ब्राह्मणस्य द्वादशवर्षोपरि महाव्याहृतिहोमः प्रायश्चित्तमपि स्वयमेवोक्तम्। ब्राह्मणस्य विशेषेण प्रायश्चित्तम्—इति वदन् यमोऽपि पुरस्तात् सामान्यप्रायश्चित्तमस्य बोधयति।
वयन्तु पश्यामः। ब्राह्मणस्य द्वादशवर्षोपरि महाव्याहृतिहोमप्रायश्चित्ताभिधानमप्यनुचितमेव। अष्टवर्षोपरि खल्वेतत् स्यात्।
कस्मात् कारणात्? तस्य मुख्यकालत्वात्। कुतस्तस्य मुख्यकालत्वम्? प्रथमोपदिष्टत्वात्। ‘समर्थस्य क्षेपायोगः’—इति न्यायात्। “अष्टवर्षं ब्राह्मणमुपनयीत”—इति च श्रुतेः। तस्माद् ब्राह्मणस्याष्टवर्षोपरि, क्षत्रियस्यैकादशवर्षोपरि, वैश्यस्य द्वादशवर्षोपरि महाव्याहृतिहोमः प्रायश्चित्तम्। तथाच स्मरणम्।
“गौणेषु तेषु कालेषु कर्म्मचोदितमारभेत्।
प्रायश्चित्तप्रकरणप्रोक्तांनिष्कृतिमाचरेत्”।
इति। यत्तु,—
“संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन।
हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः”।
इति कर्म्मप्रदीपे, उपनयनादधः,—इति करणादुपनयनकालातिपाते न महाव्याहृतिहोमः प्रायश्चित्तमिति प्रतीयते। तद् गौणकालस्याप्यतिपाते बोद्धव्यम्। कुतः? अविरोधात्। उपनयनकालातिपाते च तदभावावगतेः। षोड़शवर्षादिपर्य्यन्तं खल्वनतीतकालता उपनयनस्याचार्य्येणोच्यते। एतदेवेत्येवकारकरणाच्चोपनयनात् पूर्व्वं महाव्याहृतिहोम एव प्रायश्चित्तम्, उपनयने तु न तावन्मात्रम्, अपितु व्रात्यस्तमोऽपीति वा वर्णनीयम्। एतच्च भवतोऽप्यनुमतम्।
पैठिनसिवचनेन तु ब्राह्मणस्य द्वादशवर्षोपरि प्रायश्चित्तान्तरम्। यमवचनात् तु सर्व्वेषामेव पञ्चदशवर्षोपर्य्येकविंशतिरात्रव्रतम्। क्षत्रियवैश्ययोः पुनः षोड़शविंशतिवर्षादूर्द्धं प्रायश्चित्तान्तरं पैठिनसिवचनादुन्वेयम्। सर्व्वेषान्त्तूत्तरावधेरुर्द्धं व्रात्यस्तोमः,—इति
बोद्धव्यम्। अस्मिंस्तु पक्षे, पञ्चदशवर्षोपरि यथा ब्राह्मणस्य विशेषेण प्रायश्चित्तं भवेत्, तथा राजन्यवैश्ययोरपि विशेषेण प्रायश्चित्तं भवेदिति यमवचनस्यार्थः। तदनेन सर्व्वेषामेव सामान्यप्रायश्चित्तं पुरस्तादस्ति,—इति दर्शयति।
वस्तुतस्तु पैठिनसिवचनं शाखान्तरविषयमेव नास्मच्छाखाविषयम्। विभिन्नशाखिनः खल्वाचार्य्याभिन्नानि वचनानि रचयाम्बभूवुः। तन्नास्ति सर्व्वेषामेकविषयत्वम्। अतएव, अवरुद्धकाला भवन्ति,—इत्युक्तम्। भिन्नौ खल्लिमावर्यौ,—यश्च कालावरोधोयच्चाल्पप्रायश्चित्तम्—इति। एवमन्यान्यपि वचनानि व्याख्येयानि। केचित् पुनर्निबन्धारः एतदननुसन्धानाद्वा लोकप्रज्ञासंग्रहाद्वा पाण्डित्यातिशयख्यापनाद्वा विभिन्नशाखाविषयाणामपि वचनानां सामञ्जस्याय बह्वायासमकुर्व्वन्त। तदस्माभिरपि कथञ्चित् सामञ्जस्यकरणाय कृतः प्रयत्नः। अन्यथा खल्वर्व्वाचीनाः प्राचीननिबन्धुषु बहुमानात् पक्षपाताच्चास्मत्कृते व्याख्याने न श्रद्दध्युरूपालम्भञ्च कुर्य्युरिति। परमार्थतस्तु विभिन्नविषयाणां वचनानां नास्त्येकविषयत्वम्। अशक्यसम्पादञ्च सर्व्वेषां सामञ्जस्यमिति शक्नुमो वयं प्रदर्शयितुम्। परन्तु ग्रन्थगौरवभयादत्र मूकीभवामः। धीमद्भिरेव तदूहनीयनित्यस्तु किं विस्तरेण?॥०॥४॥०॥
** अत ऊर्द्धं पतितसावित्रीका भवन्ति॥५॥**
अतोऽस्मात् कालादूर्द्धं त्रयोऽप्येते पतितसावित्रीका भवन्ति। स्वकाले सावित्र्याम्—गायत्र्यामनुच्यमानायां ये पतन्ति प्रायश्चित्तविशेषभागिनो भवन्ति, त इमे पतितसावित्रीका व्रात्याश्च भण्यन्ते॥०॥५॥०॥
नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्नैभिर्व्विवहेयुः॥६॥
एनः प्रकृत्यन्तरमेतदर्थः। नैतान् इति केचित् पठन्ति। एतान् पतितसावित्रीकान् त्रयाणां प्रकृतत्वाद्वहुवचनम्। नोपनयेयुर्व्रात्यस्तोमात् क्रतोर्व्विना। तथाच स्मृत्यन्तरम्।
“अत ऊर्द्धंत्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः”॥
इति। उपनयेयुरिति बहुवचनं तत्कर्त्तृसंसर्गिणामपि प्रायश्चित्तप्रज्ञापनार्थम्। तथाच स्मरणम्।
“व्रात्याचार्य्यस्य भुक्त्वाऽन्नं कृच्छ्रपादेन शुध्यति।
यश्चोपनयते व्रात्यान् त्रिभिः कृच्छ्रैःस शुध्यति”।
इति। एवमुत्तरत्रापि बोद्धव्यम्। नैनानध्यापयेयुः। नैनान् याजयेयुः। अविशेषात् पाकयज्ञैरपि। न एभिः सह विवहेयुः—विवाहं कुर्य्युः। विवाहयेयुरिति पाठे, एभिःसह विवाहं न कारयेयुरिति व्याख्येयम्। उपनयनप्रतिषेधादेव सर्व्वत्र प्रतिषेधेसिद्धे यदि केनचिल्लोभादज्ञानाद्वाउपनीताः स्युः, तथापि नैवोत्तराणि कर्म्माणि पतितसावित्रीकाणां कुर्य्यात्—इति सर्व्वेषांपाठः क्रियते॥०॥६॥०॥
यदहरुपैष्यन्माणवकोभवति प्रग एवैनंतदहर्भोजयन्ति कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्व्वन्त्यहतेन वाससाऽऽच्छादयन्ति॥७॥
यदहर्यस्मिन्नहनि। माणवकः—इत्यनधीतवेदो भण्यते। तथा चोक्तम्। “अनृचो माणवको ज्ञेयः”—इति। यदहर्माणवक उपैष्यन् उपनयनं कारयिष्यन् भवति,—यस्मिन्नहन्युपनयनमस्य करिष्यते—इत्यर्थः। तदहस्तस्मिन्नहनि, प्रगे एव प्रातरेव, एनं माणवकं भोजयन्ति। एवकारकरणात् प्रग एवैनं भोजयन्ति, न तु भोजनात् परं कथं कर्म्म,—इत्याशङ्कनीयमित्युपदिशति। किं भोजयन्ति? क्षौरादिकम्। कस्मात्? “पयोयवाग्वामिक्षाहाराः क्रमशो द्विजातीनाम्’—इति तन्त्रान्तरदर्शनात्,—इति तत्त्वकृतः।
कुशलीकारयन्ति मुण्डयन्ति। आप्लावयन्ति स्नपयन्ति। अलङ्कुर्व्वन्ति केयूरकुण्डलादिभिः। अहतेनाक्षुणेनामृदितेन वाससावक्ष्यमाणेन वसनेन आच्छादयन्ति। वाससा,—इत्येकवचननिर्देशात् अधरीयवसनमेवैतत्। उत्तरीयन्तु,—उपरिष्टात् यदजिनं सूत्रयिष्यति, तदेव स्यात्। सर्व्वत्रबहुवचनात् कर्त्तुरनियमः।असमासकरणादुपन्यासमात्रमेवैतत्, न पुनरेष एव क्रमः। ज्योतिःशास्त्रविरोधात्। तत्र हि भुक्तस्य क्षौरप्रतिषेधोऽनुशिष्यते। यथा।
“न स्नातमात्रगमनोन्मुखभूषितानां
नाभ्यक्तभुक्तरणकालनिरासनानाम्।
सन्ध्यानिशाकुजदिने च तिथौ च रिक्ते
क्षौरं हितं न नवमेऽह्निचापि विट्याम्”॥
इति। तस्मादादौ कुशलीकारयन्ति, तत आप्लावयन्ति, ततो भोजयन्ति। एवमके। वयन्तु पश्यामः। असमासकरणमेकैकक्रियापरिसमापनानन्तरमपरापरा क्रिया यथा स्यादित्येवमर्थम्।तेनपाठक्रमादेवामूषां क्रियाणां क्रमः प्रत्येतव्यः। ज्योतिःशास्त्रनिषेधस्तु नात्र निविशते। कुतः? आचार्य्यसूत्रावगतक्रमविरोधात्। सामान्यशास्त्रस्य विशेषेतरपरताया न्याय्यत्वाच्च। अतएव समावर्त्तनेऽप्यमुमेव क्रममसूषां क्रियाणां सूत्रयिष्यति।
‘यज्ञोपवीतमपि इदानीमेव देयम्। कुतः? यज्ञोपवीतिनाऽऽचान्तदेकेन कृत्यम्—इति वचनात्’—इति केचित्। तदसङ्गतम्। प्रमाणाभावात्। यज्ञोपवीतिना कृत्यम्—इति वचनञ्च पुरुषार्थस्यैव सतो यज्ञोपवीतस्य कर्मार्थतामात्रमुपदिशति न तु तदपि विदधाति,—इति खल्ववोचाम। किन्तु द्विराचमनमिदानींकर्त्तव्यम्। “सुप्ता भुक्त्वाक्षुत्वा स्नात्वाविपरिधाय च”—इति वचनात्। यज्ञोपवीतधारणक्रमं परतोवक्ष्यामः॥०॥७॥०॥
वाससाऽऽच्छादयन्ति,—इत्युक्तम्। इदानीं ब्राह्मणादीनां वासांसि विशेषतो विधातुमाह,—
क्षौमशाणकार्पासौर्णान्येषां वसनानि॥८॥
क्षुमा अतसी, तस्या इदं क्षौमं तमरादि। शणस्येदं शाणम्। कार्पासस्येदंकार्पासम्। उर्णा मेषादिलोम, तस्याइदमौर्णम्। पश्चात् द्वन्द्वसमासः। एषां ब्राह्मणदीनामेतानि वसनानि भवन्ति। ब्रह्मचारिणां त्रित्वेऽपि वसनानां चतुष्ट्वमुपरिष्टादुपपादयिष्यति। तदिदमधरीयवसनविषयं सूत्रम्॥०॥८॥०॥
त्रैणैयरौरवाजान्यजिनानि॥९॥
एणः कृष्णमृगः कृष्णसारश्च भण्यते। रुरुर्गौरमृगः। तथा चोक्तम्।
“अनृचो माणवको ज्ञेयः एणःकृष्णमृगः स्मृतः।
रुरुर्गौरमृगः प्रोक्तस्ताम्बलः शण उच्यते”।
इति। अजश्छागः।एण्या इदमैणैयम्, ‘एण्याढक्”—इति पाणिनिस्मरणात्। एणस्येदमित्यर्थे तु ऐणमिति स्यात्। भट्टनारायणस्तु, एणस्येदमित्येवाह।रुरोरिदं रौरवम्, अजस्येदमाजम्। एतान्यजिनानि चर्म्माणि यथाक्रमं ब्राह्मणादीनां भवन्ति। तदिदमुत्तरीयाभिप्रायं सूत्रम्। कुतः? “चर्म्माण्युत्तरीयाणि”—इति गृह्यान्तरसूत्रणात्॥०॥९॥०॥
** मुञ्जकाशताम्बल्यो रशनाः॥१०॥**
** **मुञ्जकाशौ प्रसिद्धौ।ताम्बलःशणः। कुतः? ‘ताम्बलःशणउच्यते’—इति वचनात्। केचित्तु,—‘मुञ्जकाशतासून्यो रशनाः’—इति सूत्रपाठं मन्यन्ते। ताम्बलः शण उच्यते—इत्यत्रापि, तासूनः
शण
उच्यते,—इति पठन्ति। उभयथाऽप्यर्थो न भिद्यते। तदेतन्मय्योरशनाःमेखलाः यथाक्रमं ब्राह्मणादीनां भवन्ति। तथा मनुः।
“मौञ्जीत्रिवृत् समा श्लक्ष्णाकार्य्या विप्रस्य मेखला।
क्षत्रियस्य च मौर्व्वीज्यावैश्यस्य शणतान्तवी।
मुञ्जालाभे तु कर्त्तव्या कुशाश्मान्तकवल्वजैः।
त्रिवृताग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा”।
इति॥०॥१०॥०॥
** पार्णवैल्बाश्वत्थादण्डाः॥११॥**
पर्णःपलाशः। विल्बाश्वत्थौ प्रसिद्धौ। ब्राह्मणादीनां यथाक्रमं पार्णादयोदण्डा भवन्ति। दण्डोदधातेर्धारयतिकर्म्मणः। अत्रापि स्मृत्यन्तरोक्तोविशेषो द्रष्टव्यः। यथा मनुः।
“केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः।
ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः।
अनुद्वेगकरा नॄणां सत्त्वचो नाग्निदूषिताः”।
इति॥०॥११॥०॥
इदानीमुक्तानां वसनानां विषयव्यवस्थामुपदिशति,—
क्षौम
ऋज्वर्थं सूत्रम्॥०॥१२॥०॥
एतेनैवेतराणि द्रव्याणि व्याख्यातानि॥१३॥
एतेनैवानुसारेण इतराण्यपि द्रव्यानि,—अजिन-रशना-दण्ड-रूपाणि, ब्राह्मणादीनां यथाक्रमं व्याख्यातान्युक्तानि। तथाच, त्रैणेयमजिनं मौञ्जीरशना पार्णोदण्डश्च ब्राह्मणस्य, रौरवमजिनं काशी रशना वैल्वोदण्डश्चक्षत्रियस्य, आजमजिनं ताम्बली रशना आश्वत्थोदण्डश्च वैश्यस्य॥०॥१३॥०॥
अलामे वासर्वाणि सर्वेषाम्॥१४॥
स्वस्वजात्युक्तवसनादीनामलाभे सर्वाणि वसनादीनि सर्व्वेषां भवन्ति यथालाभम्॥०॥१४॥०॥
पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति॥१५॥
कृतभाष्यं सूत्रम्॥०॥१५॥०॥
** अग्नेव्रतपत इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्य्योऽवतिष्ठते॥१६॥**
‘यथा पाणिग्रहणे तथा चूड़ाकर्म्मण्युपनयने’—इत्यतिदेशादुपनयनकर्म्मणः पुरस्ताच्चोपरिष्टाच्चमहाव्याहृतिभिश्चतस्र आहुतयोभवन्ति। तदाहुतिचतुष्टयं हुत्वा, अग्ने व्रतपते—इत्यादिपञ्चभिर्मन्त्रैः (अनादेशादाज्येन) पञ्चाहुतीश्च हुत्वा आचार्य्यः पश्चादग्नेरुदगग्रेषुदर्भेषु प्राङ्मुख ऊर्द्धस्तिष्ठति। हुत्वाआचार्य्योऽवतिष्टते—इति श्रवणात् कर्त्रन्तरानुपदेशाच्च आचार्य्य एव जुहोति। मन्त्रन्तु माणवक एव जपति। कस्मात्? व्रतं चरिष्यामि—इत्यादिमन्त्रलिङ्गात्।
तस्मात्,—‘करणत्वादाचार्य्यएव मन्त्रं जपति’—इति व्रुवती सरलाऽनादेयवचनैव। व्रतान्ते व्रतमचार्षमित्यादेर्ब्रह्मचारिपाठस्य स्वयमेव वर्णनादत्रापि तथैव वर्णयितुमुचितत्वाच्च। ‘व्रतं चरिष्यामि’—इति मन्त्रलिङ्गे तु ऋत्विक्स्थानीयत्वादाचार्य्यस्य याज्यस्थानीयत्वाच्चमाणवकस्य मन्त्रैरम्यादिप्रार्थना ब्रह्मचारिणो नाचार्य्यस्य। तथाच, ‘यां वै काञ्चन यज्ञमृत्विज आशिषमाशासते सा यजमानस्यैव’—इत्यप्यस्थान एव तस्याः संरम्भः। आचार्य्यमाणवकयोः ऋत्विग्यजमानस्थानीयत्वेप्राचार्य्यस्य मन्त्रपाठे च प्रमाणस्यैवाभावात्। अधिकञ्च पूर्वमेवोक्तमिति नेह पुनरुच्यते।
अत्रच, व्रतं चरिष्यामि—इति मन्त्रस्य साकाङ्क्षत्वान्निराकाङ्क्षीकरणाय व्रतनामकालपरिणामयोरादेशः कर्त्तव्यः;—एतद्व्रतमियत्कालिकम् इति। कुतः?
“ब्रह्मचारी व्रतादेशे व्रतनाम प्रवाचयेत्।
चरिष्ये यावदन्ताय सावित्रे चान्तकीर्त्तनम्”।
इति गृह्यासंग्रहवचनात्॥०॥१६॥०॥
अन्तरेणाग्न्याचार्य्यौ माणवकोऽञ्चलिकृतोऽभिमुखआचार्य्यमुदगग्रेषु दर्भेषु॥१७॥
अन्तरेणशब्दो मध्यवचनः। तद्योगाच्च ‘अग्न्याचार्य्यौ’—इति षष्ठ्यर्थे द्वितीया। अग्न्याचार्य्ययोर्मध्यदेशे ‘माणवकः’ अञ्जलिकृतः कृताञ्जलिः, अञ्जलिश्चात्र प्रसारितो न मुकुलितः। कथं ज्ञायते? उपरिष्टात् तस्यापां पूरणोपदेशात्। अभिमुख आचार्य्यम्, आचार्य्याभिमुखः–प्रत्यङ्मुखः–इत्येतत्। उदगग्रेषु दर्भेषु ‘अवतिष्ठते’–इत्यनुवर्त्तनीयम्॥०॥१७॥०॥
तस्य दक्षिणतोऽवस्थाय मन्त्रवान् ब्राह्मणोऽपामञ्जलिं पूरयति॥१८॥
तस्य अनन्तरोक्तस्य माणवकस्य, दक्षिणतो दक्षिणस्यां दिशि नदक्षिणपार्श्वे। कस्मात्? माङ्गलिकत्वात्। प्रत्यङ्मुखस्य माणवकस्य दक्षिणपार्श्वेखल्ववस्थाने दक्षिणामुखत्वमवस्थातुः स्यात्। तच्चामङ्गलम्। तस्मात्, प्राचीसौम्याऽपराजिता—इति परिशिष्टानुग्रहाच्च, यथोदङ्मुखत्वं भवति तथाऽवस्थातव्यम्। अवस्थाय ऊर्द्धः
स्थित्वा। कः? मन्त्रवान् अधीतवेदो ब्राह्मणः। किं करोति? अपामद्भिरञ्जलिं माणवकस्य पूरयति। मन्त्रानुपदेशाद् व्याहृतिभिः॥०॥१८॥०॥
** उपरिष्टाच्चाचार्य्यस्य॥१९॥**
उपरिष्टात् माणवकाञ्जलिपूरणात् परस्तात्, आचार्य्यस्याञ्चलिमद्भिः पूरयति। स एव ब्राह्मणः॥०॥१९॥०॥
प्रेक्षमाणोजपत्यागन्त्रा समगन्महीति॥२०॥
माणवकं प्रेक्षमाणः आगन्त्रा—इति त्र्यवसानं मन्त्रंजपति। कोजपति? आचार्य्यः। कस्मात्? स्वस्ति चरतादयम्—इति मन्त्रलिङ्गात्। परस्मात् सिंहावलोकितन्यायेनानुषङ्गाच्च॥०॥२०॥०॥
जपित्वा चाचार्य्यः,—
ब्रह्मचर्य्यमागामिति वाचयति॥२१॥
ब्रह्मचर्य्यमिति मन्त्रं माणवकं पाठयति॥०॥२१॥
कोनामासीति नामधेयं पृच्छति तस्याचार्य्यः॥२२॥
कोनामासि,—इति तस्य माणवकस्य नामधेयमाचार्य्यः पृच्छति॥०॥२२॥०॥
किं कृत्वा?—
अभिवादनीयं नामधेयं कल्पयित्वा॥२३॥
अभिवादनं पादग्रहणमित्यनर्थान्तरम्। तत्र हितमभिवादनीयं नामधेयं तदानीमेवाचार्य्यःकल्पयित्वा। अभिवादनीयमिति करणात् सर्वत्रैवाभिवादनकाले इदमेव नामोच्चारणीयमिति गम्यते॥०॥२३॥०॥
अभिवादनीयं नाम विशिनष्टि,—
** देवताश्रयं वा नक्षत्राश्रयं वा॥२४॥**
देवताश्रयं हरिप्रभृतिकं वा नक्षत्राश्रयं शतपदचक्रोक्तजन्मकालीननक्षत्रपादानुसारि वा॥०॥२४॥०॥
गोत्राश्रयमप्येके॥२५॥
गोत्राश्रयं शाण्डिल्यः—इत्यादिरूपमपि नामैके आचार्य्यामन्यन्ते। ‘गोत्राश्रयमित्येके’—इति पाठेऽपि व्यक्त एवार्थः। एवञ्च, इदानीमेवाभिवादनीयनामकल्पनानन्तरं नाम-पृच्छासूत्रणान्माणवकोऽप्येतदेव नाम कथयेदित्यर्थादवगम्यते॥०॥२५॥०॥
माणवकेन अमुकनामाऽस्मीति नाम्नि कथिते,—
उत्सृज्यापामञ्चलिमाचार्य्योदक्षिणेन पाणिनादक्षिणं पाणि
अपामञ्जलिमुत्सृज्य व्यक्ताआचार्य्यःस्वेन दक्षिणेन पाणिना माणवकस्य दक्षिणं पाणिं साङ्गुष्ठमङ्गुष्ठसहितं गृह्णाति देवस्य ते—इति मन्त्रेण। मन्त्रपाठानन्तरं हस्तग्रहणं बोद्धव्यम्। असाविति सर्वनामस्थाने च सम्बोधनविभक्त्यन्तं माणवकनाम प्रयोज्यम्। हस्तं गृह्णामि अमुकशर्म्मन्,—इति। एवमन्यत्रापि असावित्यत्र संबोधनविभक्त्या नामग्रहणं बोद्धव्यम्। अत्रच, आचार्य्यस्येव माणवकस्यापि जला़ञ्जल्युत्सर्गो बोध्यः। कुतः? अविशेषेणोपदेशात्। अतएवमाणवकस्य साङ्गुष्ठदक्षिणपाणिग्रहणमाञ्जस्येनोपपद्यते। क्त्वाप्रत्ययस्य तु पूर्वापरीभावमात्रमर्थो न पुनरेककर्तृकत्वमपि,—इत्यधस्तादुपपादितम्। आचार्य्यस्यापि जलाञ्जल्युत्सर्गादत्रैककर्तृकत्वमप्यस्त्येव, परमेकमात्रकर्तृकत्वमेव नास्ति,—इति न किञ्चिदनुचितम्।
इदानीं गृहीतमाणवकहस्तस्याचार्य्यस्य, अग्निस्तेहस्तमग्रहीदितिमन्त्रजपो भवदेवभट्टाद्यनुमतः। प्रमाणन्तु मृग्यम्। मन्त्रब्राह्मणेऽप्यस्मिन्नवसरे मन्त्रोऽयं न पठ्यते॥०॥२६॥०॥
अथैनं प्रदक्षिणमावर्त्तयति सूर्य्यस्यावृतमन्वावर्त्तस्वासाविति॥२७॥
अथेति तद्देशनियमार्थम्। अथ तस्मिन्नेव देशे प्रत्यङ्मुखमवस्थितम् एनं माणवकं प्रदक्षिणं यथा भवति तथा आवर्त्तयति—प्रादक्षिण्येन प्राङ्मुखं करोति, आचार्य्यः, सूर्य्यस्येतिमन्त्रेण। तस्मिन्नेव देशेऽवस्थित आचार्य्यः—इति वा वर्णनीयम्। अत्राप्यसावित्यत्र पूर्ववन्नामग्रहणम्॥०॥२७॥
** दक्षिणेन पाणिना दक्षिणमꣳसमन्ववमृश्यानन्तर्हितां नाभिमभिमृशेत् प्राणानां ग्रन्थिरसीति॥२८॥**
आचार्य्यःस्वेन दक्षिणेन पाणिना माणवकस्य दक्षिणमंसम्
अन्ववमृश्य स्पृष्ट्वाव्याहृतिभिरित्यर्थः।अनन्तर्हितामन्तर्धानरहिताम्—वसनाद्यनाच्छादितामित्येतत्। नाभिं अभिमृशेत् आभिमुख्येन स्पृशेत्, प्राणानामितिमन्त्रेण। अत्रामुमितिमन्त्रस्थाने द्वितीयान्तं माणवकनाम ग्रहीतव्यम्। एवमन्यत्रापि अमुमिति मन्त्रस्थाने द्वितीयान्तमाणवकनामग्रहणं कर्तव्यम्॥०॥२८॥०॥
** उत्सृप्यनाभिदेशमहुर इति॥२९॥**
सर्पतिर्गतिकर्म्मा। नाभिदेशमिति द्वितीया समीपार्था। उत्सृप्यकरं नाभिदेशसमोपमूर्द्धंनीत्वा,—माणवकस्योदर एवावस्थाप्येत्येतत्।
एवं वा—
नाभिदेशमिति व्यत्ययात् पञ्चम्यर्थे द्वितीया। नाभिदेशात् करमुत्सृप्य,—ऊर्द्धमुदरं नीत्वा—इत्यर्थः। परतो हृदयदेशोत्सर्पणस्य सूत्रणात् इदानींनाभिदेशादूर्द्धं हृदयदेशाच्चाधस्तात् करस्यावस्थानमवगम्यते। पूर्व्ववन्नाभिमित्यनभिधाय नाभिदेशमित्यभिधानात् उत्सृप्येतिकरणाच्च यस्मिन्प्रदेशे नाभिस्तं प्रदेशमूर्द्धंनीत्वेति तथैवावगम्यते। तदेवं कृत्वा,अहुर इति मन्त्रं जपत्याचार्य्यः। भट्टनारायणोऽप्याह। ‘अहुर इति जाठरोऽग्निरुच्यते। तस्मात् नाभिदेशोपरि जाठराग्निस्थानमुदरमालभ्य जपेत्—इति। तदधिष्ठातृत्त्वात्तस्य’—इति।केचित् ‘अभुर’ इति पठन्ति। अभुर—इति वायुनाम—इति व्याचक्षते च। अत्राप्युमुमित्यत्र द्वितीयान्तं माणवकनामोच्चार्यम्॥०॥२९॥०॥
** उत्सृप्यहृदयदेशं कृशन इति॥३०॥**
उत्सृप्यजठरादूर्द्धंहृदयदेशं करं नीत्वा,—तमालभ्येत्यर्थः। कृशन इति मन्त्रं जपत्याचार्य्यः। कृशनशब्देन हृदयपुरुषो भण्यते। तस्मात् हृदयमालभ्य जपति॥०॥३०॥०॥
** दक्षिणेन पाणिना दक्षिणम
आचार्यो दक्षिणेन पाणिना माणवकस्य दक्षिणमंसं स्पृष्ट्वा प्रजापतये इति मन्त्रं जपति। अत्रासावित्यत्र सम्बोधनविभक्त्या माणवकनामग्रहणम्॥०॥३१॥०॥
** सव्येन सव्यं देवाय त्वा सवित्रे परिददाम्यसाविति॥३२॥**
आचार्य्यःसव्येन वामेन पाणिना माणवकस्य सव्यमंसमन्वालभ्य देवाय त्वा—इति मन्त्रं जपति। अत्रापि पूर्ववन्नामग्रहणम्॥०॥३२॥०॥
**
अथैन
अथेति पूर्वप्रकृतार्थम्। अथ पूर्वप्रकृतमंसयोर्गृहीतमेवैनं माणवकं संप्रेष्यति समादिशति आचार्यः। संप्रेषयति,—इति पाठेऽपि तथैवार्थः। किं समादिशति? ब्रह्मचार्यस्यसाविति। इतः प्रभृति त्वं ब्रह्मचार्यसि, अतो ब्रह्मचर्यनियमं मधुमांसवर्जनादिकं कुरु आब्रह्मचर्यपरिसमाप्तेरित्यर्थः। अत्रापि पूर्ववन्नामग्रहणम्॥३३॥०॥
किमेष एवादेशः? न। किन्तर्हि?—
समिधमाधेह्यपोऽशान कर्म्मकुरु मा दिवा स्वाप्सीरिति॥३४॥
यत्तु वक्ष्यति,—अस्तमिते समिधमादधाति,—इति; तां समिधं सायं प्रातराधेहि। यच्च श्रुतावभिहितम्,– ‘तस्माद्वाएतदन्नमशिष्यन् पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधाति’—इति; तदिदमादिश्यते,—अपोऽशान—इति। अप उदकम् अशान भक्षय भोजनकालात्पुरस्तादुपरिष्टाच्चेत्यर्थः। मन्त्रौ तु शाखान्तरादुपादेयौ,—अमृतस्योपस्तरणमसिस्वाहेति पुरस्तात्, अमृतस्यापिधानमसि स्वाहेति चोपरिष्टात्। अपरआह,—‘अपोऽशान—इत्याचमनमेव समादिश्यते तेषु तेषु निमित्तेषु’—इति। अन्ये तु, ‘आपोशान’–इति पठन्तः ‘कर्म्मकुरु’—इत्युत्तरेणास्यैकवाक्यतां मन्यमानावर्णयन्ति,– ‘भोजनपूर्व्वापरयोर्जलपानरूपं यदापोशानं विहितम्, तत् कर्म्म कुरु’—इति। तदनाकरम्। कर्म्मपदञ्चैवमनर्थकं स्यात्। पठ्यमानमन्त्रकाण्डेऽपि ‘अपोशान’—इत्येवमेवायमादेशः पठ्यते। तस्मात्, अन्यच्च यत् किञ्चिद्विहितं कर्म्म–गुरुशुश्रूषादिलक्षणम्, तत् कुरु,—इत्यपर एवायमादेशः। मा दिवा स्वाप्सीः, दिवा स्वापं मा कार्षीरिति। गुरुणा चैवमादिष्टो ब्रह्मचारी सर्व्वत्रैव वाढम्–इति ॐ–इति वा ब्रूयात्। तञ्चादेशमनुपालयेत्। तदाह कर्म्मप्रदीपः।
“ब्रह्मचारी समादिष्टो गुरुणा ब्रतकर्म्मणि।
वाढ़मोमिति वा ब्रूयात्तत्तथैवानुपालयेत्”।
इति॥०॥३४॥०॥
** उदगग्नेरुत्सृप्यप्राङाचार्य्य उपविशत्युदगग्रेषु दर्भेषु॥३५॥**
उदगुत्तरस्यामग्नेरुत्सृप्यगत्वा। प्राङ् प्राङ्मुखः। ऋज्जन्यत्। उदङग्नेरितिपाठ उदङ्मुखोऽर्थादग्नेरुत्तरतो गत्वाप्राङ्मुख उपविशतीति व्याख्येयम्॥०॥३५॥०॥
** प्रत्यङ्माणवको दक्षिणजान्वक्तोऽभिमुख आचार्य्यमुदगग्रेष्वेव दर्भेषु॥३६॥**
माणवकस्तु दक्षिणजान्वक्तोभूमिगतदक्षिणजानुकःआचार्याभिमुखः प्रत्यङ्मुख उदगग्रेषु दर्भेषु उपविशति। अग्नेरुत्तरत एव॥०॥३६॥०॥
** अथैनं त्रिःप्रदक्षिणं मुञ्जमेखलां परिहरन् वाचयतीयं दुरुक्तात् परिवाधमानेत्यृतस्य गोप्त्रीति च॥३७॥**
** **अथ अनन्तरमेव—उपविष्टमेव, एनं माणवकं वाचयत्याचार्यः। किं वाचयति? द्वयं दुरुक्तादिति ऋतस्य गोप्त्रीतिच मन्त्रद्वयम्। किं कुर्व्वन् वाचयति? मुञ्जमेखलां तस्य कटिदेशे त्रिःप्रदक्षिणं परिहरन् प्रादक्षिण्येन वारत्रयं परिवेष्टयन्। परिहरन्—इति वर्त्तमाननिर्देशात् परिहरणसमकालत्वं मन्त्रवाचनस्य। सत्यामपि परिहरणावृत्तौ सकृदेव मन्त्रपाठःस्यात्। कस्मात्? “एकद्रव्ये कर्म्मावृत्तौ सकृदेव मन्त्रवचनं कृत्वा”—इति वचनात्।
“अस्मिन्नवसरे प्रसिद्ध्यायज्ञोपवीतमिच्छन्ति”—इति कर्कोपाध्यायाः। “गृह्यानुक्तमपि यज्ञोपवीतमस्मिन्नेव समये परिधापयेत्।
मेखलाऽनन्तरम्—‘कार्पासमुपवीतं स्यात्’—इति मनूक्तेः। “पवित्रञ्चास्मैप्रयच्छति’—इति जातूकर्णात्। ‘यज्ञोपवीतिनं कृत्वा’—इति सांख्यायनाच्च”—इति तत्त्वकारः। भवदेवभट्टप्रभृतयोऽप्येवम्। तत्र,—
“मेखलामजिनं दण्डमुपवीतं कमण्डलुम्।
अप्सुप्रास्य विनष्टानि गृहीतान्यानि मन्त्रवत्”।
इति मनुनोपवीतग्रहणस्यापि मन्त्रवत्त्वाभिधानात् गृह्येच तदनुपदेशात् शाखान्तरान्मन्त्रमुपादध्यात्—यज्ञोपवीतमसि—इत्येवमादिम्।अजिनमपि इदानीमेव परिधापयेत्—इति भवदेवरघुनन्दनौ। वस्तुतस्तु अजिनधारणक्रमं वक्ष्यामः॥०॥३७॥०॥
अथोपसीदत्यधीहि भोः सावित्रींमे भवाननुव्रवीत्विति॥३८॥
अथेति पूर्वोक्तविशिष्टानन्तर्यद्योतनार्थम्। अथयज्ञोपवीतधारणानन्तरम्। माणवक आचार्यमुपसीदति—कृताञ्जलिपुट आचार्यगतचक्षुरुपसन्नो भवति। अधीहि—इत्यनेन।अधीहि अध्यापय। भोरिति आचार्यसम्बोधनम्। अध्ययनस्यानेकत्वात् विशेषप्रतिपत्तये पुनरुच्यते,—सावित्रीम्—इति। सावित्रींगायत्रीम्॥०॥२८॥०॥
माणवकेनैवमभिहितः खल्वाचार्यः,—
तस्मा अन्वाह,—पच्छोऽर्द्धर्च्चश ऋक्श इति॥३८॥
तस्मैमाणवकाय, अन्वाह अनुब्रुयात्। अनुरूपसर्गः। कामनुब्रूयात्?—सावित्रीम्। कथम्? प्रथमन्तावत्, पच्छः—ऋचः पादं पादं कृत्वा। ततोऽर्द्धर्च्चशः—ऋचोऽर्द्धमर्द्धं कृत्वा। ततः ऋक्शः—सर्व्वामृचम्। ऋक्शः—इत्यत्र, ‘सर्व्वाम्’—इत्येव केचित् पठन्ति। एवन्तावत् सावित्रीमनुब्रुयात्॥०॥३९॥०॥
महाव्याहृतीश्च विहृताॐङ्कारान्ताः॥४०॥
महाव्याहृतीश्चअन्वाह—इत्यनुषज्यते। कथम्भूताः? विहताः विशेषण हताः प्रथक् कृताःपृथक्पृथगित्येतत्। विहताः,—इति पाठे, विहताः पृथग्भूताःन संहताः—इति स एवार्थः। विकृताः—इति केचित् पठन्ति। तत्रापि तथैव व्याख्येयम्। ॐकारान्ताः। ॐकारः प्रणवोऽन्ते यासांताइमा ॐकारान्ताः। महाव्याहृतीः—इति कृत्वाॐकारान्ताः—इति करणात्तासामन्त एव ॐकारोऽवगम्यते।पठ्यमानमन्त्रकाण्डेऽपि, अस्मिन्नेवावसरे व्याहृतीनां परतएव ॐकारः पठ्यते। तथाच, भूःॐ, भुवःॐ, स्वः ॐ—इत्येव मनुब्रूयादिति भट्टनारायणोपाध्यायाः। ॐ भूः,—इत्यादिरूपमिति भवदेवभट्टाः। उभयमतानुरोधीवीरेश्वरस्तुॐ भूःॐ,—इत्यादिरूपम्—इत्याहस्म। यद्यपि पठ्यमानमन्त्रकाण्डे तिसृणं महाव्याहृतीनां परत एवोङ्कारः पठ्येते, तथापि चतूर्थीहोममन्त्रपाठवत् निदर्शनमात्रेण तथा पाठः। कथंज्ञायते? ‘विहृता ॐकारान्ताः’—इति वचनात् विहृतानामोङ्कारान्तत्वागतेः। अन्यथा विहारोपदेशोऽनर्थक एव स्यात्। शिष्टाश्च प्रतिव्याहृत्येवाङ्कारं कुर्व्वन्ति॥०॥४०॥०॥
** वाक्षैञ्चास्मैदण्डं प्रयच्छन् वाचयति—सुश्रवः सुश्रवसं मा कुविति॥४१॥**
वृक्षस्यायं वार्क्षःतं वार्क्षम्, प्राप्तदण्डानुवादेन प्रदानमात्रविधानात् पार्णादिरूपम्—इत्यर्थः। तमिमं दण्डम् अस्मैब्रह्मचारिणे प्रयच्छन् ददत्सुश्रवः—इत्येतं मन्त्रंवाचयति ब्रह्मचारिणमेव। चशब्दादजिनमपि इदानीमेव प्रयच्छति। कस्मात्? “सुश्रव इति दण्डं प्रदाय अजिनं प्रयच्छति”—इति स्वशाखाभेदे पठितत्वात्। तस्मात्—आचार्येणानुपदेशादिच्छया यस्मिन् कस्मिंश्चित् क्रमे धारणमजिनस्य,—इत्यसङ्गतं वचनम्। अजिनधारणस्यापि मनुना मन्त्रवत्त्वोपदेशात् तन्मन्त्रश्च स्वशाखायामभावात् ‘मित्रस्य चक्षुर्व्वरुणं बलीयः’—इति तैत्तिरीयशाखापरिपठितोद्रष्टव्यः। अपरे पुनरेतदविद्वांसोभाषन्ते,—मन्त्रानुपदेशादमन्त्रकमजिनस्य धारणम्—इति।
“वार्क्षञ्चास्मै दण्डं प्रयच्छन्नादिशति”—इत्युपरिष्टाद्गोदानादिषु दण्डप्रदानादेशयोःसहोपदेशादिहापि इदानीमाचार्यआदिशति—इतिबोद्धव्यम्। निर्देशसामान्यात्। एतदर्थमेवोभयत्र तुल्यवन्निर्देशः। तस्मात्तदपि चकारेण समुच्चीयते अविशेषात्। ते चादेशाःपरतो वक्ष्यन्ते। ब्रह्मचारीच सर्व्वत्र पूर्व्ववत्। वाढ़म्—इति ॐ—इति वा ब्रूयात्। अन्ये तु मन्यन्ते, स्वशाखाभेदे पाठादेव इदानीमजिनप्रदानं सिध्यति, तदर्थंचशब्दोनातीव प्रयोजनवान्, तस्मात् वक्ष्यमाणादेशसमुच्चयार्थ एव चशब्दः—इति॥०॥४१॥०॥
अथ भैक्षंचरति॥४२॥
अथशब्दो विशिष्टमानन्तर्यं द्योतयति। कथन्नाम? दण्डमजिनञ्चप्रतिगृह्यारेशांश्चाङ्गीकृत्य भास्करमुपस्थाय अग्निं प्रदक्षिणीकृत्य अथानन्तरं भैक्षंभिक्षाकदम्बकं चरति आहरति। तथाचमनुः।
“प्रतिगृह्येप्सितंदण्डमुपस्थाय च भास्करम्।
प्रदक्षिणं परीत्याग्निंचरेद्भैक्षंयथाविधि
”।
इति॥०॥४२॥०॥
किं यामेव काञ्चिदग्नेभिक्षेत? न। कान्तर्हि?
** मातरमेवाग्रे, द्वेचान्ये सुहृदौ, यावत्यो वा सन्निहिताः स्युः॥४३॥**
मातरं जननीमेव अग्रेप्रथमं भिक्षेत। द्वेच अन्ये सुहृदौ—स्निग्धहृदये स्वस्राद्येभिक्षेत। यावत्यो वा योषितः सन्निहिताः सन्निधौ स्थिताः स्युःभवेयुः, न चैनं विमानयन्ति, तावतीर्व्वा भिक्षेत। तथाच मनुः।
“मातरं वा स्वसारं वा मातुर्व्वाभगिनींनिजाम्।
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत्”।
इति। सन्निहिताः—इति करणात् तत्रस्थ एव भिक्षेत न पुनः स्थानान्तरं गत्वा—इति बोद्धव्यम्। ‘भवति!भिक्षांमे देहि’—इति ब्राह्मणस्य भैक्षचरणप्रयोगः। ‘भिक्षांभवति! मे देहि’—इति क्षत्रियस्य। ‘भिक्षांमे देहि भवति!—इति वैश्यस्य।
तथाच गृह्यान्तरम्। “भवत्पूर्वांब्राह्मणो भिक्षेत, भवन्मध्यां राजन्यो, भवदन्त्यांवैश्यः”—इति। गौतमोऽप्याह। “आदिमध्यान्तेषु भवच्छब्दः प्रयोज्योवर्णानुपूर्व्येण”—इति।
“आदिमध्यावसानेषु भवच्छब्दोपलक्षिता।
ब्राह्मणक्षत्रियविशां भैक्षचर्य्यायथाक्रमम्”॥
इति च स्मृत्यन्तरम्॥०॥४३॥०॥
आचार्य्याय भैक्षं निवेदयति॥४४॥
ब्रह्मचारी—इत्येव। ऋजुरक्षरार्थः। संस्कारार्थं भैक्षस्य निवेदनमात्रं न पुनराचार्याय दानमेव। कस्मात्? वृत्त्यर्थत्वाद्भैक्षचरणस्य।मनुरपि स्मरति।
“समाहृत्याथ तद्भैक्षंयावदन्नममायया।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः”।
इति। अश्नीयात्—इत्यत्रापि प्रचीनमेव कर्म्मपदमनुषञ्जनीयं निराकाङ्क्षत्वार्थम्। ‘भैक्षं भोः’—इत्ययं भैक्षनिवेदनप्रयोगः। तथाच गृह्यान्तरम्। “भैक्षंभोरित्याचार्याय भैक्षं निवेद्य दत्तं प्रतिगृह्णीयात्”—इति। तस्मात् आचार्यःपुनरस्मै भैक्षंप्रदाय कर्म्मशेषं समापयेदिति बोद्धव्यम्। कुतः? परतो ब्रह्मचारिण एव कर्म्मोपदेशादिदानीमाचार्यकर्म्मणोऽवसानावगतेः॥०॥४४॥०॥
अवसितमुपनयनकर्म्म। प्रासङ्गिकमिदानींब्रह्मचारिणः कर्त्तव्यमनुवर्त्तामहे।सखल्वयं ब्रह्मचारी,—
** तिष्ठत्यहःशेषं वाग्यतः॥४५॥**
वाग्यतः संयतवागह्नःशेषमवशिष्टं तिष्ठति,—वक्ष्यमाणकर्म्मार्थम्॥०॥४४॥०॥
** अस्तमिते समिधमादधात्यग्नये समिधमहार्षमिति॥४६॥**
अस्तमिते सवितरि, (स्मृत्यन्तरप्राप्तसन्ध्योपासनं कृत्वा) अग्नये समिधमितिमन्त्रेण समिधमुक्तलक्षणमादधाति अग्नौप्रक्षिपति। इयमेवात्रप्रधानाहुतिः। ततश्चात्रापि पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवति। तथाच कर्म्मप्रदीपः।
“समिदादिषुहोमेषु मन्त्रदैवतवर्जिता।
पुरस्ताच्चोपरिष्टाच्च इन्धनार्थंसमिद्धवेत्”।
इति। स खल्वयं क्षिप्रहोमः स्यादिति द्रष्टव्यम्। अत्रच अस्तमिते अस्तमिते,—इति वीप्साबोद्धव्या। कस्मात्? समावर्त्तनपर्यन्तमेवाग्नौ समिदाधानस्य स्मृत्यन्तरे उपदेशात्। तथाच मनुः।
“अग्नीन्धनं भैक्षचर्यामधःशय्यांगुरोर्हितम्।
आसमावर्त्तनात् कुर्यात् कृतोपनयनो द्विजः”।
इति।आचार्योऽप्युपरिष्टाद्वक्ष्यति,—“मेखलाधारणभैक्षचर्यदण्डसमिदाधानोदकोपस्पर्शनप्रातरभिवादा इत्येते नित्यधर्म्माः”?—इति।
सायमारम्भत्वात् कर्म्मणः अस्तमिते,—इत्येव सूत्रितंप्रातरित्यपि। प्रातः खल्ववर्गः कर्म्मणः—इत्यारम्भे सूत्रिते असूत्रितोऽपि तदपवर्गोऽवगम्यत एव।अतो लाघवार्थंप्रातरित्यवचनं न प्रातर्होमाननुज्ञानार्थम्। तस्मात् सायं प्रातश्च समिधमादध्यात् तथाच मनुः।
“प्रातराहत्य समिधं सन्निदध्याद्विहायसि।
सायं प्रातश्च जुहुयात्ताभिरग्निमतन्त्रितः”।
इति। “सायं प्रातः समिधमादध्यात्”—इति च गृह्यान्तरम्। तस्मात् प्रातः समिदाधानं नास्ति,—इत्यसङ्गतं वचनम्। समिदाधानानन्तरञ्चाग्निमाचार्यञ्चाभिवादयेत्। तथाच गृह्यान्तरम्। “उभयत्राग्निं समिध्य गोत्रनामनी प्रोच्याग्निमभिवाद्याचार्यमभिवादयेत्”—इति॥०॥४६॥०॥
अथेदानींब्रह्मचारिणो भोजनकालः। कुतः?
“कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया”।
इति स्मरणात्। स खल्वयं ब्रह्मचारी उपनयनकर्म्मण ऊर्द्धम्—
त्रिरात्रमक्षारलवणाशी भवति॥४७॥
व्याख्यातं सूत्रम्॥०॥४७॥०॥
तस्यान्ते सावित्रश्चरुः॥४८॥
तच्छब्देनोपनयनब्रतस्य परामर्शः। तस्योपनयनब्रतस्य न पुनरुपनयनकर्म्मणः, न वा सन्निहिततरस्य त्रिरात्रस्य। कुतः? तस्येत्यानर्थक्यापत्तेः। अन्ते—इत्येतावतैव निर्व्वाहात्। गोदानादिव्रतान्तराणामन्तेहोमान्तरस्य वक्ष्यमाणत्वादुपनयनब्रतान्तेऽपि कस्यचिदभ्युपगन्तुमुचितत्वाच्च। तथाच गृह्यान्तरम्। “सहप्रवचनव्रतान्ते सावित्रश्चरुः गोदानादीन्यनुप्रवचनीयानि व्रतान्यैन्द्रस्थालीपाकान्तानि भवन्ति”—इति। तस्मात्—उपनयनकर्म्मणश्चतुर्थेऽह्निसावित्रीचरुर्होमः—इति भवदेवभट्टमतम्, उपनयनकर्म्मदिनएव आचार्यो माणवकाय भैक्षंप्रदाय सावित्रचरुहोमं कुर्यात्—इति रघुनन्दनमतञ्चासङ्गतमेव। ‘उपनयनरूपब्रतस्यान्तेसावित्रश्चरुः’—इति रघुनन्दनस्य स्वव्याख्याऽप्येवं व्याकुप्येत। किञ्च। स खल्वयं व्रताग्नेसावित्रं चरुं व्याख्याय पुनरूपनयनकर्म्मणोऽनन्तरमेव तं वर्णयन् ब्रतकर्म्मणोर्व्विवेकमविद्वांसभिवात्मानं ख्यापयति। भट्टभाष्येप्युक्तम्—‘तस्य ब्रतस्य न कर्म्मणः न च सन्निधानात् त्रिरात्रस्य। कुतः? अव्यक्तं प्रधानगामि,—इति वचनात्। अन्यथा अस्यान्ते—इति ब्रूयात्’—इति। अलमति प्रसङ्गेन।
सविता देवता अस्येति सावित्रश्चरुःकर्त्तव्यः,—इति प्रसड्गादिहोच्यते। सवित्रे त्वा जुष्टं निर्व्वपामीति निर्व्वापः। सवित्रे स्वाहा—इति प्रधानहोमः॥०॥४८॥०॥
अवसिता प्रासङ्गिकीकथा। प्रकृतमिदानीमनुवर्त्तामहे—
यथार्थम्॥४९॥
उपनयनकर्म्मणः परिसमाप्तिरनेनोच्यते॥०॥४९॥०॥
गौर्दक्षिणा॥५०॥
उपनयनकर्म्मण एव नोपनयनव्रतस्य। कुतः? उपनयनकर्म्मणोऽनन्तरम् “आचार्याय वरोदक्षिणा”—इति गृह्यान्तरसूत्रणात्। अस्माच्च गृह्यान्तरात् दक्षिणेयमाचार्याय दातव्या। तस्मात्ब्रह्मचारिणे भैक्षप्रदानानन्तरमेवाचार्यःकर्म्मशेषं समापयेत्—इति
भट्टनारायणाद्यनुमतं समीचीनमवोचाम।समिदाधानस्य प्रधानकर्म्मान्तरतयोपनयनकर्म्मानङ्गत्वात् अहःशेषस्थितेस्तादर्थ्याच्च॥०॥५०॥०॥
इयमपरा सूत्रद्वययोजना,—
** यथार्थम्॥५१॥**
प्रकृतस्य सावित्रचरोरवसाने यथार्थं यथाप्रयोजनं यथाप्राप्तमित्येतत्। किमनेनोक्तंभवति? एतदनेनोक्तंभवति। उपनयनव्रतान्ते सावित्रहोमं कृत्वा, अग्ने ब्रतपते—इत्यादिमन्त्रैः सूत्रयिष्यमाणविशेषैराज्येन ब्रतसमापकहोमञ्च कृत्वा, तन्त्रं समापयेत्—इति। सखल्वयमाज्यहोमःसर्व्वेष्वेव ब्रतान्तेषु स्यादिति वक्ष्यामः॥०॥५१॥०॥
** गौर्दक्षिणा॥५२॥**
** **इयं दक्षिणाऽप्युपनयनब्रतस्यैव। एतदपि परस्तादुपपादयिष्यामः। अस्यामपि वर्णनायामुपनयनकर्म्मणः प्राचीनैव परिसमाप्तिः, दक्षिणा च गौरेव स्यात्, पूर्वोक्तकारणात्—इति न कश्चिद्विरोधः। परन्तु सावित्रचरोः कर्म्मक्रमस्यासूत्रणात् यथार्थमित्यस्य कर्म्मापवर्गपरत्वावगतेश्चपूर्वैव योजना समीचीनेति प्रतिपद्यामहे। अतिक्रान्तसंबन्धश्चाचार्य्यस्यानुमत इत्यावेदितमधस्तात्॥०॥५२॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मज-
श्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये
द्वितीयप्रपाठकस्य दशमीखण्डिका॥०॥
॥समाप्तश्चायं द्वितीयः प्रपाठकः॥
ॐ
गोभिलीयं
गृह्यसूत्रम्
तृतीयप्रपाठके प्रथमा खण्डिका।
ॐ नमः सामवेदाय।
एवन्तावत् द्वितीये प्रपाठके शिष्यजिज्ञासानुरोधाद्विवाहमेवादितः सूत्रयित्वा गर्भाधानाद्युपनयनान्तः संस्कारकलापः सूत्रितः। अथेदानीमुपनयनान्तसंस्कारसंस्कृतेन ब्रह्मचारिणा गुरौ वसतासाङ्गो वेदोऽधिगन्तव्यः। तथाच मनुः।
“कृतोपनयनस्यास्य व्रतादेशनमिष्यते।
ब्रह्मणो ग्रहणञ्चैव क्रमेण विधिपूर्वकम्”।
इति।
“अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः।
गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकन्तपः”।
इति च। तथा चोक्तम्।“संस्कारस्य तदर्थत्वाद्विद्यायां पुरुषश्रुतिः” इति। अतस्तस्य प्रतिपिपादयिषया तावदिदमुपक्रमते,—
अथातःषोड़शे वर्षे गोदानम्॥ १॥
अथ शब्दःपूर्वप्रकृतजन्मकालानुकर्षणार्थः। अथ —जन्मकालादारभ्य षोड़शे वर्षे गोदानम्, न पुनरानन्तर्य्यादुपनयनकालात् इति। अथवा। “गर्भादिसङ्ख्या वर्षाणाम्” —इति सूत्रान्तराद्गर्भकाल एवाथशब्देन परामृश्यते। तेनोपनयनवदिदमपि गर्भावधि गणनयैव षोड़शे वर्षे स्यात्। क्षत्रियादेःकालविशेषद्योतनार्थो वा अथशब्दो वर्णनीयः। कथन्नाम ? ब्राह्मणस्य षोड़शे वर्षे गोदानम्, क्षत्रियस्य द्वाविंशे, वैश्यस्य चतुर्विंशे —इति।
तथाच मनोः स्मरणम्।
“केशान्तःषोड़शे वर्षे ब्राह्मणस्य विधीयते।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः”।
इति। अतःशब्दो हेत्वर्थः। यस्मात्,—
“योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः”।
इत्येवमादिस्मरणाद् वेदाध्ययनमवश्यं कर्त्तव्यम्। यस्माञ्च—
“तपो विशेषैर्व्विविधैर्व्रतैश्च विधिदेशितैः।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना”।
इत्यादिवचनाद् व्रताचरणपूर्वकत्वं तदध्ययनस्य। अतः एतस्मात् कारणात्, षोड़शे वर्षे गोदानं नाम व्रतं कर्त्तव्यम्। गावःकेशाः दीयन्ते खण्ड्यन्तेऽस्मिन्निति गोदानमिति व्रतस्य नामधेयम्। ततश्च,इतः पूर्वमुपात्तस्योपनयनव्रतस्यायमवधिः—इत्यवगम्यते। एवञ्च,ब्राह्मणस्याष्टवार्षिकमुपनयनव्रतं भवति, क्षत्रियस्यैकादशवार्षिकम्,वैश्यस्य द्वादशवार्षिकम् —इति सद्ध्यप्रति।
“ब्रह्मवर्च्चसकामस्य कायं विप्रस्य पञ्चमे।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे”।
इत्येतस्मिंश्च पक्षे ब्राह्मणस्यैकादशवार्षिकम्, क्षत्रियवैश्ययोश्चषोड़शवार्षिकमुपनयनव्रतम्। उपनयनकालातिपाते तु सर्व्वेषांन्यूनतरमपि, —इत्यवगन्तव्यम्। न्यूनतरपक्षेऽप्यन्ततोऽष्टौदिनानितत् करणीयम्। तथाच गृह्यासङ्ग्रहः।
“समामासा अहोरात्रातुल्या ब्राह्मणचोदिताः।
सावित्रमष्टभिर्वर्षःकार्यंं मासैर्दिनेश्च वा”।
इति। सावित्रमुपनयनव्रतम्। तदानीमेव सावित्रीप्रवचनस्योपदेभात्। तथाच पुरुषशक्तिशीलदेशकालवयोऽवस्था विशेषेण कालव्यवस्था प्रतिपत्तव्या।
अन्ये त्वाहुः। यतः “नाचरिष्यन्तं संवत्सरमुपनयेत्” —इति संवसत्सरमात्रव्रताचरणस्यात्यन्त- मावश्यकत्वं सूत्रयिष्यति, अतः कारणात्संवत्सरव्रताचरणात् परमव्वीगपि षोड़शाद्वर्वात्, षोड़शवर्षोपनीतस्य च संवत्सरव्रताचरणानुरोधात् परतोऽपि षोड़शाद्वर्षात् गोदानं कर्त्तव्यम्। तस्मान्नायमवश्यं कालनियमः, —षोड़शे वर्षे गोदानम् — इति। एवं क्षत्रियवैश्ययोरपिद्रष्टव्यम् —इति।तदमङ्गतम्। पूर्वोदाहृतगृह्यासंग्रहविरोधात्। ‘नाचरिष्यन्तंसंवत्सरमुपनयेत्’ —इति गोदानादिव्रतविषयमिति तत्रैववक्ष्यामः।
तत्र तावदुपनयनव्रतं सावित्र्याअध्ययनार्थंसावित्रं सहप्रवचनचाख्यायते। उपनयनव्रतसमकालमेव सावित्रीप्रवचनोपदेशात्।गोदानादीनि व्रतानि देवपर्व्वादीनां वेदानामध्ययनार्थानि अनुप्रवचनीयानि चोच्यन्ते। अमीषां व्रतानां पश्चादेव तत्तद्वेदभागानांप्रवचनस्योपदेशात्। गुरुश्चैतावता कालेन ब्रह्मचारिणं शौचाचारादिकं शिक्षयेत्। तथाच मनुः।
“उपनीय गुरुःशिष्यं शिक्षयेवेच्छौचमादितः।
आचारमग्निकार्य्यञ्च सन्ध्योपासनमेवच ”।
इति॥ ०॥ १॥ ०॥
चूड़ाकरणेन केशान्तकरणं व्याख्यातम्॥ २॥
गोदानव्रते यत् केशान्तकरणं केशानामन्तकरणं विनाशकरणंछेदनमित्येतत्। तत् चूड़ाकरणेन पूर्वोक्तेन व्याख्यातं कथितम्— इति केशान्तकरणे चूड़ाकरणधर्म्मा अतिदिश्यन्ते। तेनात्रापि शिरोऽभितः पश्चाद्भागकेशानां कपुष्णिकाकपुच्छलाख्यानां चूड़ाकरणोक्तरीत्या छेदनं कर्त्तव्यम्। एवञ्चोपनयनव्रतान्ते ब्रह्मचारिणः कियन्तमपि कालं वपनं न कर्त्तव्यम्। अन्यथापिञ्जूलीभिः सह कपुष्णिकाकपुच्छलग्रहणच्छेदनादि कर्त्तुमशक्यंस्यात्। तथाच कर्म्मप्रदीपः।
“वपनं नास्य कर्त्तव्यमर्व्वाक् गोदानिकाद्ब्रतात्।
व्रतिनो वत्सरं यावत् षण्मासानिति गौतमः”।
इति॥ ०॥ २॥ ०॥
समस्तचूड़ाकरणधर्म्मातिदेशे प्राप्तेविशेषोऽभिधीयते,—
ब्रह्मचारी केशान्तान् कारयते॥ ३॥
ब्रह्मचारी स्वयमेव केशान्तान् कारयते न माता। कथन्नाम ?चूड़ाकरणे तावत् माता कुमारमङ्केकृत्वोपविशति तथागतञ्चतमन्यःसंस्करोति। केशान्तकरणे तु न ब्रह्मचारी मातुरङ्कगतोभवति। अकुमारत्वेनायुक्तत्वात्। गुरुकुले चेदानीमस्यावस्थानात्। स खल्वयं स्वयमेव कारयते न मातेत्ययमर्थः।
एवं वा —
चूड़ाकरणे कुशलीकारयन्ति —इति बहुवचनाद् वापनकर्त्तुरनियम उक्तः। केशान्तकरणे तु ब्रह्मचारिणः स्वयमेव वापनक्रियानियम्यते॥ ०॥ ३॥ ०॥
अयञ्च विशेषः‚—
सर्व्वाण्यङ्गलोमानि स_(
संहारो विनाशोवपनमित्यनर्थान्तरम्। ऋज्वन्यत्॥ ०॥ ४॥ ०॥
अयमपि विशेषः‚—
गोमिथुनं दक्षिणा ब्राह्मणस्य॥ ५॥
मिथुनं स्त्रीपुंसौ॥ ०॥ ५॥ ०॥
अश्वमिथुनं क्षत्रियस्य॥ ६॥
दक्षिणा॥ ०॥ ६॥ ०॥
अविमिथुनं वैश्यस्य॥ ७॥
दक्षिणा —इत्येव। अविर्मेषः॥ ०॥ ७॥ ०॥
गौर्व्वैव सर्व्वेषाम्॥ ८॥
यथोक्तादक्षिणाया अलाभे गौरेव वा सर्वेषां ब्राह्मणदीनांदक्षिणा भवति। दक्षिणा चेयमाचार्य्यस्यैव न ब्रह्मणः। कस्मात् ?तस्यैवोपनयनकेशान्त-करणादिकर्म्मोपदेशात्। कर्म्ममूल्यत्वाच्चास्याः।वक्ष्यति चाचार्य्यः,– “आच्छादयेद्गुरुमित्येके” —इति। “आचार्य्यसकाशे वाचं विसृजेत, —वरं ददामीति, गोमिथुनं दक्षिणा”—इति गृह्यान्तरे चाचार्य्यायैव केशान्तकरणदक्षिणादानावगतेः।ब्रह्मणस्तु पूर्णपात्रादिका दक्षिणा स्यात्। भिक्षोरपि ब्रह्मचारिणःप्रावरणादिवद्गोमिथुनादेर्नासम्भवः —इति द्रष्टव्यम्॥ ०॥ ८॥ ०॥
अयमप्यपरो विशेषः‚—
अजः केशप्रतिग्राहाय॥ ६॥
केशान् यः प्रतिगृह्णाति वपनार्थम्, स खल्वयं केशप्रतिग्राहोवपनकर्त्तानापितो भण्यते। तस्मै कर्म्ममूल्यमजो देयः। एवञ्च अत्र व्रीह्यादिपात्रकृसरासादनं न स्यात्, तेषां मूल्यार्थत्वात्इह च मूल्यान्तरस्योपदेशात्। अत्रगोदानव्रताङ्गस्य केशान्तकरणकर्मणः परिसमाप्तिः॥ ०॥ ६॥ ०॥
लाघवार्थमिदानींगोदानादीनां सर्व्वेषामेव व्रतानां साधारणांपरिभाषां वक्तुमारभते,—
उपनयने नैवोपनयनं व्याख्यातम्॥ १०॥
उपनयनेनैव पूर्वोक्तेन उपनयनं गोदानादिव्रताङ्गंव्याख्यातं कथितम्॥ २॥ १०॥ ०॥
तत्रापि कञ्चिद्विशेषमाह‚—
न त्विहाहतं वासोनियुक्तम्॥ ११॥
इह गोदानादिव्रताङ्गोपनयने पुनरहतं वासो न नियुक्तं न नियमितम् —इति नियमे प्राप्ते अनियमश्चोद्यते। तेन पूर्वस्मिन्नुपनयनेऽहतस्य वाससो नियमोऽवगम्यते॥ ०॥ ११॥ ०॥
नालङ्कारः॥ १२॥
इह नियुक्तः॥ ०॥ १२॥ ०॥
नाचरिष्यन्त
संवत्सरमपि यो न व्रतं चरिष्यति तं नोपनयेदित्याचार्य्यस्यायंनियमश्चोद्यते। ब्रह्मचारिणोऽप्यर्थान्नियमः सिध्यति। स खल्वयंनियमो गोदानिक एवोपनयने स्यात्। कुतः? अत्रैवोपदेशात्।तस्मात् संवत्सरमपि व्रतं यो न चरिष्यति तस्यापि प्राचीनमुपनयनं भवति।
अन्ये त्वाहुः। प्रकरणादेवैतस्मिन्नुपनयने प्राप्ते पुनरुपनयनग्रहणंसामान्यार्थम्।तस्मात् प्राचीनेऽप्युपनयनेऽयं नियमः।तेन यस्यापिषोड़शे वर्षे उपनयनं, तस्यापि संवत्सरव्रतचरणात् परत उपरिष्टादपि षोड़शाद्वर्षाद्गोदानं स्यात्, न तु षोड़श एव वर्षे —इति बोद्धव्यम्। परतो वक्ष्यमाणा अपि धर्म्माःसामान्यगोचरा एव —इति।नैतदेवम्। ‘उपनयेत्’ —इत्यनुक्तौ वाक्यार्थस्यैवाघटनात्। अन्यथाऽभिधाने चाचार्यस्य निषेधस्यालाभात्। अतिक्रम्याभिधानाच्च।‘समा मासा अहोरात्राः’ —इत्युदाहृतगृह्यासङ्ग्रहवचनेन प्राचीनेउपनयने विशेषस्याभिधानाच्चतत्रैतस्याप्रवृत्तेः। सोऽयमुपनयतिःसन्निहितं गौदानिकादिकमेवोपनयनमभिधत्ते न प्राचीनमिति।व्यक्तिवचनःखल्वयम्। व्यक्तिवचनानाञ्च सन्निहितव्यक्तिपरत्वमाग्नेयोन्याये सिद्धान्तितम्। तत् कुत एवानेन सामान्यपरिग्रहःशक्यते वक्तुम्। परतो वक्ष्यमाणानामादेशानां यथा प्राचीनेऽप्युपनयनेऽभिनिवेशः, तथाऽभिहितमस्माभिः, – ‘वार्क्षञ्चास्मैदण्डंप्रयच्छन्वाचयति’— इत्यत्र। परतश्चैतद्वक्ष्यामः॥ ०॥ १३॥ ०॥
वार्क्षञ्चास्मै दण्डं प्रयच्छन्नादिशति॥ १४॥
ऋजुरक्षरार्थः। दण्डं प्रयच्छन्—इत्यनुद्यते क्रमार्थम्। कथंनाम ? दण्डं प्रकर्षेण यच्छन्नेवादिशति, न तु विलम्बेत –इत्यर्थः। दण्डमन्त्रवाचनात् परतः खल्वादेशा बोद्धव्याः। कुतः?प्रशब्दस्वरसात्। दण्डं प्रयच्छन्रित्येतावतैव निर्व्वाहे गुरुकरणंनिर्देशसामान्यात् पूर्वोक्तस्मरणार्थम्। तेन प्राचीनेऽप्युपनयनेदण्डप्रदानात् परममी आदेशा भवन्ति। तस्मात् सामान्यधर्म्मत्वममीषामिति सिद्धम्॥ ०॥ १४॥ ०॥
ते खल्वादेशाःद्वादशभिः सूत्रैरभिधीयन्ते,—
आचार्य्याधीनोभवान्यत्राधर्म्मचरणात्॥ १५॥
अधीनो निघ्न आयत्तः — इत्यनर्थान्तरम्।– इत्यनर्थान्तरम्। अधर्म्मचरणादन्यत्राचार्य्यस्याधीनो भव। अधर्म्मसंयुक्तमाचार्य्यस्यादेशमपि माकार्षोरित्यर्थः॥ ०॥ १५॥ ९॥
क्रोधानृते वर्ज्जय॥ १६॥
ऋज्वर्थं सूत्रम्॥ ०॥ १६॥॥ ०॥
मैथुनम्॥ १७॥
वर्ज्जय —इतीदमितःप्रभृतिसर्व्वत्रानुषञ्जनीयम्। मैथुनं व्यवायःसम्भवइत्यनर्थान्तरम्॥ ०॥ १७॥ ०॥
उपरि शय्याम्॥ १८॥
उपरि शय्याम् आचार्य्यशय्याया उच्चतरां शय्यां वर्ज्जय। तथात्र मनुः।
“नीचं शय्यासनञ्चास्य सर्व्वदा गुरुसन्निधौ “।
इति। एवं वा—
उपरि खट्टादौ शय्यां वर्ज्जय। तदनेनाधोभूमावेव शय्या कर्त्तव्येत्युपदिशति। तदप्याह मनुः
“अग्नीन्धनं भैक्षचर्य्यामधः शय्यां गुरोर्हितम्।
आ समावर्त्तनात् कुर्य्यत् कृतोपनयनो द्विजः”।
इति॥ ०॥ १८॥०॥
कौशीलवगन्धाञ्जनानि॥ १९॥
कौशीलवं नृत्यगीतवादित्रम्। गन्धो घृष्टोमलयजः। अञ्जनमक्ष्णोर्यद्दीयते। एतानि वर्ज्जय।तथाच मनुः।
“अभ्यङ्गमञ्चनञ्चाक्ष्णोरुपानच्छत्रधारणम्।
कामं क्रोधञ्च लोभञ्च नर्त्तनं गोतवादनम्”।
इति॥ ०॥ १९॥ ०॥
स्नानम्॥ २०॥
वर्ज्जय। सुखार्थस्नानस्यायं प्रतिषेधो न वैधस्र। तेन वैधस्नानंकर्त्तव्यमेव। तथाच सूत्रान्तरम्। “नाप्सु श्लाघमानःस्नायात्”—इति। “कालद्वयमभिषेकाग्निकार्य्यकरणम्” इति चैवमादि।वक्ष्यति चाचार्य्योनित्यधर्म्मेषु, – “उदकोपस्पर्शनप्रातरभिवादाः”–इति। अथवा। स्नाने गात्रोत्सादनादिकमेवानेन निषिध्यतेन तु स्नानमिति बोद्धव्यम्। कुतः ?” अप्सुदण्डवन्मज्जनम्” —इति सूत्रान्तरात्। तथाच कर्म्मप्रदीपः।
“न गात्रोत्सादनं कुर्य्यादनापदि कथञ्चन।
जलक्रीड़ामलङ्कारं व्रतीदण्डइवाप्लवेत्”।
इति॥ ०॥ २०॥ ०॥
अवलेखनदन्तप्रक्षालनपादप्रक्षालनानि॥ २१॥
वर्ज्जय।अवलेखनं कङ्कतिकादिना शिरसः, भूमेर्व्वानिष्प्रयोजनम्। दन्तप्रक्षालनं दन्तानां प्रकर्षेण क्षालनं दन्तधावनंपत्रकाष्ठादिना दन्तवर्षपमित्येतत्। पादप्रक्षालनम् –उद्वर्त्तनपूर्व्वकं सुखार्थंयत् क्रियते। पादेन वा पादस्य प्रक्षालनं वर्णनीयम्।“पादेन नाक्रमेत् पादम्” —इति स्मरणात्॥ ०॥ २१॥ ०॥
क्षुरकृत्यम्॥ २२॥
वर्ज्जय।पाक्षिकोऽयं क्षुरकृत्यप्रतिषेधो बोद्धव्यः। कुतः ?
“सशिख वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम्।
आशवीरविमोक्षार्थंब्रह्मचर्य्यंन चेद्भवेत्”।
इति कर्म्मप्रदीपे सशिखवपनस्योपदेशात्।
“वपनं नास्य कर्त्त व्यमर्व्वाक् गोदानिकाद्ब्रतात्।
व्रतिनोवत्सरं यावत् षण्मासानिति गौतमः”।
इति च वपनावगतेः।स खल्वयमाचार्यस्यास्पष्टोऽभिप्रायःपरिशिष्टकृता स्पष्टीकृतः। तथाच गौतमसूत्रम्।“मुण्डजटिलशिखाजटाश्च” इति। मनुरपि स्मरति।
“मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः”।
इति। अथवा। क्षुरकृत्यप्रतिषेधान्मुण्डनविधानाच्च मुण्डनं कर्तव्यमेव, तदन्यत् क्षुरकृत्यम् अङ्गलोमसंहारादिकं न कर्त्तव्यमित्ययं स्वार्थः। अन्ये त्वाहुः। क्षुरकर्म्मप्रतिषेधान्मुण्डनविधानाच्च कर्त्तव्या मुण्डनं युक्तम्, – इति॥ ०॥ २२॥ ०॥
वर्ज्जय॥ ०॥ २३॥ ०॥
गोयुक्तारोहणम्॥ २४॥
गोयुक्तस्य शकटादेरारोहणं वर्जय॥ ०॥ २४॥ ०॥
अन्तर्ग्राम उपानहोर्धारणम्॥ २५॥
अन्तःशब्दो मध्यवचनः। अन्तर्ग्रामे ग्राममध्ये, उपानहौप्रसिद्धे, तयोर्धारणं वर्ज्जय। ग्राममध्ये उपानद्धारणं माकार्षीरित्यर्थः॥ ०॥ २५॥०॥
बहुत्वाद्ब्रह्मचारिधर्म्माणांप्रत्येकमुपदेशे ग्रन्थगौरवं मन्यमानः खल्वाचार्य्योलाघवार्थ-मिदमुपदिशति,—
स्वयमिन्द्रियमोचनमिति॥ २६॥
स्वयमात्मना कामतः—इत्येतत्। इन्द्रियमोचनम्। इन्द्रियाणिश्रोत्रादीन्येकादश प्रसिद्धानि। तेषां मोचनं मोक्षणं —प्रतिषिद्धस्वगोचरकर्म्मस्वनिवारण-बुद्ध्याप्रवर्त्तनम् इति यावत्। तत् वर्ज्जयतदनेनैतदुक्तं भवति। ‘नाचार्य्यनिन्दां शृणुयात्’– इति प्रतिषिद्धो ब्रह्मचारी न केवलं तामेव कामतो न शृणुयात्, अपि तुयत्र तत् श्रवणमेव न स्यात् तत्र निष्ठेत्। तथाच मनुः।
“गुरोर्यत्र परीवादी निन्दा वाऽपि प्रवर्त्तते।
कर्णौ तत्र पिधातव्यौगन्तव्यं वा ततोऽन्यतः”।
इति।एवं चक्षुरादीन्यपि परस्त्री प्रेक्षणाद्यर्थं प्रवृत्तानि निवर्त्तयेत् तदप्याह स एव।
“द्यूतञ्च जनवादच परिवादं तथाऽनृतम्।
स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च “।
इति। एवं वा—
स्वयमिन्द्रियमोचनं कामतो रेतः स्कन्दनं वर्ज्जय। यद्यपि,—
“स्वप्नेसिता ब्रह्मचारी द्विजः शुक्रमकामतः।
स्नात्वाऽर्कमर्च्चयित्वा त्रिः पुनर्न्मामित्यृचं जपेत्”।
इत्यकामतोऽपि रेतः स्कन्दनं मनुना निषिद्धम्। तथाप्येतदधिकदोषकर ब्रतहानिकरं वा वर्णनीयम्। यस्मान्मनुरेवाह।
“एकःशयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित्।
कामाद्धिस्कन्दयन् रेतो हिनस्ति व्रतमामनः”।
इति। इतिकरणमादेशपरिसमाप्त्यर्थम्॥ ०॥ २६॥ ०॥
इदानीमन्यानपि व्रतधर्म्मानुष दिशति,—
** मेखलाधारणभैक्षचर्य्यदण्डधारणसमिदाधानोदकोपस्पर्शनप्रातरभिवादा इत्येते नित्यधर्म्माः॥२७॥**
मेखलायाः– विशेषानुपदेशात् पूर्व्वोक्तलक्षणाया धारणम्। तथाचमनुः।
“यत् यस्य विहितं चर्म्मयत् सूत्रंया च मेखला।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि”।
इति। भैक्षचर्य्यं भैक्षचरणम् – वेदयज्ञादिमतां गृहेषु। भैक्षचर्य्या —इति पाठे व्यक्त एवार्थः। तदाह मनुः।
“वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु।
ब्रह्मचार्य्याहरेद्भेक्षं गृहेभ्यः प्रयतोऽन्वहम्।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्ज्जयेत्।
सर्वं वाऽपि चरेद्ग्रामं पूर्वोक्तानामसम्भवे।
नियम्य प्रयतोवाचमभिशस्तांस्तु वर्ज्जयेत्”।
इति। तस्मात्, – अत्रापि पूर्वोक्तोपनयनवत्तत्रस्थस्यैव ब्रह्मचारिणोभैक्षचर्य्यान स्थानान्तरं गतस्य – इत्यसङ्गतं वचनम्। दण्डधारणंदण्डस्य पूर्वोक्तलक्षणस्य धारणम्। समिदाधानमधस्ताद्व्याख्यातम्। उदकोपस्पर्शनं स्नानम्। तच्च सायंप्रातर्दण्डवदाप्लवनम्।वक्ष्यति चाचार्य्यः “तेषु सायं प्रातरुदकोपस्पर्शनम्” —इति।कात्यायनोऽप्याह। “व्रतौ दण्डइवाप्लवेत्” —इति। प्रातरभिवादःपादग्रहणं गुरोरित्येतत्। तच्च—
“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः”।
इति।
“उत्तानाभ्याञ्च हस्ताभ्यां पादावस्य मृदु स्पृशेत्।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीड़येत्”।
इति चैवमादिस्मृत्यन्तरोक्तप्रकारेण करणीयम्। अभिवादनविधिरपि मनूक्त एवादरणीयः। यथा मनुः।
“अभिवादात् परं विप्रो ज्यायांसमभिवादयन्।
असौनामाहमस्मीति स्वं नाम परिकीर्त्तयेत्”।
इति।
“भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः”।
इति च। ज्येष्ठमभिवादयन् विप्रः अभिवादात्- पादग्रहणात्परम् अमुकनामाहमस्मि —इति स्वं नाम कीर्त्तयेत् अन्ते चभोःशब्दम्-—इति वचनयोरर्थः॥ तेन पादग्रहणानन्तरं अमुकनामाहमस्मि भोः —इति कथयेत्। यच्च, – अभिवादये अमुकशर्म्माहमस्मि भोः —इत्युच्चार्थ अभिवादनं कर्त्तव्यम् —इति रघुनन्दनादीनां मतम्। तदसङ्गतम्। अभिवादये—इत्युल्लेखे प्रमाणाभावात्। ‘अभिवादात् परम्’ —इत्यादिना पादग्रहणादनन्तरमेवनामकीर्त्तनस्योपदेशाच्च। यदपि, – अभिवादात् परम्- इत्यस्यअभिवादये —इति शब्दोच्चारणात् परम् इति व्याख्यानम्।तदप्यसङ्गतम्। प्रमाणाभावात्। लक्षणाप्रसङ्गाच्च। श्रुतिलचणाविषये च श्रुतिं ज्यायसोमवोचाम।सा खल्वियं वर्णना व्याख्यातृणामेव यदृच्छापरिकल्पिता भवेत्, न तु मुनेरनुमता।मुनिवचनञ्चोपरुध्य यदृच्छया परिकल्पनं तेषामप्यनुचितमेव।” असावहम्भोः– इत्यात्मनोनामादिशेत्” – इत्येवमादिस्मॄत्यन्तरेष्वपि अभिवादनवाक्ये, अभिवादये –इति पदप्रयोगो नानुशिष्यते। मिताक्षरादीपकलिकादिष्वपि अभिवादये —इति प्रयोगो न दृश्यते।
अभिवादयन् —इति तु वर्त्तमानसामीप्ये वर्त्तमानवदुपदेशः।एतच्च भवताऽपिवाच्यम्। हेत्वर्थे वा शता वर्णनीयः।ततश्चाभिवादनस्य नामकीर्त्तनहेतुत्ववचनात् हेतोश्च पूर्ववर्त्तित्वनियमात् अभिवादात् परमित्यस्यास्मदुक्तमेव व्याख्यानमादरणीयम्।यच्च गौतमसूत्रम्– “स्वनाम प्रोच्यायमहमित्यभिवादोऽज्ञसमवाये” –इति। तदज्ञाभिवादनविषयत्वादेव न प्राज्ञाभिवादनविषयम्। अतएव मनुनाऽपि,
“नामधेयस्य ये केचिदभिवादं न जानते।
तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैवच ”।
इत्यज्ञाभिवादे भोः शब्दो नाभिहितः। ततश्च अमुकोऽयमहम्—इत्यज्ञाभिवादनप्रयोगः। इदं गौतमसूत्र कैश्चित् कल्पनाकुशलैराकुलीकृत्य पठितम्—‘स्वनाम प्रोच्याहमभिवादये इत्यभिवदेत्’ —इति। तदनाकरम्।
यच्चापरमुक्तम्,– मनुवचने नामशब्दस्य नामविशेषार्थत्वात्अभिवादनवाक्ये नामशब्दोल्ले खोऽप्रमाणः —इति। तदप्ययुक्तम्।स्वं नाम – इति नामशब्दस्य नामविशेषार्थत्वेऽपि, असौनामाहम्—इति नामशब्दस्यानन्यप्रयोजनत्वात्। अन्यथा नामशब्दस्य द्विरुच्चारणानुपपत्तेः। कण्ठतश्चाभिधानात्। असौनामाहमस्मिइति –एवं स्वं नाम कीर्त्तयेत् –इति कण्ठत एव नामशब्दस्याप्युल्लेखोऽनुशिष्यते। तस्मान्न किञ्चिदेतत्। अलमतिप्रसङ्गेन।
सूत्रशेषमिदानींवर्णयामहे। एते मेखलाधारणादयोऽभिवादान्ताःनित्यधर्म्माअहरहरनुष्ठेयाः–इत्यर्थः। धर्म्मपदोपादानाच्चव्रतस्यैवैते नित्यधर्म्माःन पुनर्यावज्जीवमनुष्ठेयाः इत्यवगम्यते। इतिकरणादन्येऽपि,—
“नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम्”।
इत्येवमादयःस्मृत्यन्तरोता धर्माःसंग्रुह्यन्ते॥ ०॥ २७॥ ०॥
कानि पुनस्तानि व्रतानि येषां गोदानप्रसङ्गेनायं साधारणधर्म्मोप्रदेशः? कियन्तञ्च कालं कर्त्तव्यानि ? उच्यते।
** गोदानिकव्रातिकादित्यव्रतौपनिषदज्यैष्ठसामिकाःसंवत्सराः॥ २८॥**
ऋजुरक्षरार्थः। ननु ‘नाचरिष्यन्तं संवत्सरमुपनयेत्’– इत्यनेनगतार्थत्वात् किमर्थमत्र गोदानग्रहणम् ? दृष्टान्तार्थम् – इतिब्रूमः। कथन्नाम ?यथा गोदानिके व्रतादेशादि, तथा एतेष्वपिस्यात् इति। अथवा। नाचरिष्यन्तम्– इत्यनेन सर्वत्रैव संवत्सरव्रते प्राप्ते गोदानादीनां परिगणना क्रियते; सुखावबोधार्थम्,आदरार्थम महानाम्निकव्रतस्य कालविशेषद्योतनार्थञ्च – इति नकिचिदनुचितम्। तत्ल, उपनयनव्रतन्तावत् सावित्र्याअध्ययनार्थमुक्तम्। गोदानव्रतमाग्नेयैन्द्रपावमानानां देवपर्वणाम्,व्रातिकव्रतमारण्यकस्य शक्रियवर्ज्जस्य, आदित्यव्रतं शुक्रियाणाम्,औपनिषदव्रतमुपनिषद्ब्राह्मणस्य ज्यैष्ठसामिकव्रतमाज्य-दोहानामध्ययनार्थम्—इति बोद्धव्यम्। ननु, ‘चत्वारि वेदव्रतानि’ —इतिगौतमेन पुरुषसंस्कारमध्ये पाठात् कथममीषामध्ययनार्थत्वमुच्यते ? नैष दोषः।
“तपोविशेषेर्विविधैर्व्रतैश्चविधिदेशितैः।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजम्मना”।
इति मनुनाऽध्ययनार्थत्वस्याप्यमीषामुपदेशात्। तस्मात्, पुरुषार्थानामेव सतामेषां संयोगपृथक्त्वन्यायेनाध्ययनार्थत्वमध्ययनार्थानामेववा पुरुषार्थत्वमादरणीयम्॥ ०॥ २८॥ ०॥
पुनरपि साधारणधर्म्ममुपदिशति,—
तेषु सायं प्रातरुदकोषस्पर्शनम्॥ २९॥
व्याख्यातोऽक्षरार्थः। सायं प्रातः —इति गुणविधानार्थमुदकोपस्पर्शनमिति विहितमनूद्यते, – इति बोद्धव्यम्। पूर्वमुदको स्पर्शनंकृतमूत्रपुरीषस्यमूत्रपुरीषलिप्ताङ्गस्य वा शौचसम्पत्त्यर्थम्, अयन्तु स्नानविधिः —इति केचित्॥ ०॥ २८॥ ०॥
आदित्यव्रतन्तु न चरन्त्येके॥ ३०॥
एके शाखिन आदित्यव्रतं न चरन्ति। तुशब्दो विशेषद्योतनार्थः।कः पुनरसौ ? उच्यते। येषां किल शाखिनामारण्यकेऽन्तर्भूतानिशुक्रियाणि व्यस्तानि पठ्यन्ते, ते तावदादित्यव्रतं न चरन्ति।कस्मात् ? आरण्यकाध्ययनेनैव तेषामधीतत्वात्। येषान्तु पुनः कौथुमादीनामारण्यकात् पृथगेव शुक्रियाणि पश्यन्ते, ते खलुशुक्रियाणामध्ययनार्थमादित्यव्रतं चरन्ति। स खस्वयं स खल्वयं विनिवेशविकल्पःतुशब्देन द्योत्यते॥ ०॥ ३०॥॥
ये पुनरादित्यव्रतं चरन्ति, तेषां विशेषधर्म्मानुपदिशति,—
ये चरन्त्येकवाससो भवन्ति॥ ३१॥
ये शाखिनश्चरन्त्यादित्यव्रतं ते खल्वेकवाससो भवन्ति। एकमेव वासो येषां त इमे एकवाससः। अधरीयमेकमेव तेषां वासः न पुनरुत्तरीयमजिनमपोत्यर्थः॥ ०॥ ३१॥ ०॥
आदित्यञ्च नान्तर्दधतेऽन्यत्र वृक्षशरणाभ्याम्॥ ३२॥
वृक्षः प्रसिद्धः। शरणं गृहम्। वृक्षशरणाभ्यामन्यत्रादित्यं नान्तर्दधते नापवारयन्ति नाच्छादयन्ति — इत्येतत्। के ? ये चरन्त्यादित्यव्रतम्। एवमुत्तरत्रापि। तथाच, वृक्षशरणयोश्छायां वर्ज्जयित्वा ग्रीष्मघर्म्मतप्तैरप्यादित्यव्रतचारिभिश्छावादिना नादित्योऽन्तर्धातव्यः – इत्यर्थः॥ ०॥ ३२॥ ०॥
नापोऽभ्यवयन्त्यूर्द्ध्वंजानुभ्यामगुरुप्रयुक्ताः॥ ३३॥
जानुभ्यामूर्द्ध्वंअप उदकं नाभ्यवयन्ति नावतरन्ति। किं नित्यवदेव नावतरन्ति ? न। किन्तर्हि ? उच्यते। अगुरुप्रयुक्ताः। गुरुभिः प्रयुक्ताःगुरुप्रयुक्ताःते न भवन्ति, — इत्यगुरुप्रयुक्ताः।
अगुरुप्रयुक्ताः खल्वादित्यव्रतचारिणी जानुभ्यामूईमपो नाभ्यवयन्ति। गुरुप्रयुक्तास्तु तदभ्यवयन्तोऽपि न प्रत्यवायभाजो भवन्ति,इति गुर्व्वाज्ञया दोषाभावं दर्शयति।
ननु ‘आचार्य्याधीनोभवान्यत्राधर्म्मचरणात्’–इतिह्युक्तम्।तत् कथमाचार्य्यप्रयुक्तोऽधर्म्मं चरेत् ? उच्चते। अगुरुप्रयुक्ता जानुभ्यामूर्द्धमपोनाभ्यवयन्ति इत्युक्ते गम्यत एवैतत् यत् गुरुप्रयुक्ताअभ्यवयन्ति —इति। तस्माददोषः। अपिच। नैवात्र किञ्चिद्विधीयते निषिद्ध्यते वा, किन्तर्हि ये खल्वादित्यव्रतं चरन्ति तेकिलैवं कुर्वन्ति न च कुर्व्वन्ति इत्युच्यते। तस्मादधर्म्मचरणशङ्कागन्धोऽपि नास्ति। अन्ये त्वाहुः। ‘यस्याल्पोदोषस्तमाचार्य्यादेशेनकुर्व्वतामधर्म्मसंयोगो नास्तीत्युक्तं भवति’ - इति॥ ०॥ ३३॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य प्रथमा खण्डिका॥ ०॥
गोभिलीयगृह्यसत्रे
आदित्यव्रतात् परमध्ययनक्रमान्माहानाम्निकेन व्रतेन भवितव्यम्।औपनिषदज्यैष्ठसामिकव्रतयोस्तु कालादीनां सामान्यात् लाघवार्थःप्रासङ्गिक एवास्मिन् क्रमे उपन्यासः। महानाम्निकव्रतस्यतु कालक्रियाकलापयोर्व्वैशिष्ट्यात् न तत्रोपन्यासः कृतः। तदिदानींस्वे क्रमे पृथगुपदिशति,—
द्वादश महानाम्निकाःसंवत्सरा नव षट् त्रय इतिविकल्प1॥ १॥
महानात्रीनामध्ययनार्था महानाम्निकाःद्वादश संवत्सरा भवन्ति।महानाम्नीनामध्यायनार्थं द्वादश संवत्सरानभिव्याप्य व्रतं कर्त्तव्यमित्यर्थः। पक्षान्तरमाह। नव षट् त्रयो वा महानाम्निकाःसंवत्सरा भवन्ति। इत्येतेषां चतुर्णां पक्षाणां विकल्पो बोद्धव्यः। सखल्वयं बिकल्पोनैच्छिकः, दोषाष्टकग्रासात्। किन्तु व्यवस्थितः।कथन्नाम ? पुरुषशक्तिशीलकालवयोऽवस्थाविशेषापेक्षया एतेविकल्पा भवन्ति। अथवा। पूर्वपूर्वकल्पेषु कृच्छ्रभूयस्त्वात् फलभूयस्त्वं कल्पनीयम्। तथाच कर्म्मप्रदीपः।
“यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः।
भूयस्त्वं ब्रुवते तत्र कृच्छ्रात् श्रेयो ह्यवाप्यते”।
इति। एवञ्च सर्वान् पुरुषान् प्रत्यविशेषेणामी विकल्पा भवन्तिन तु पुरुषशक्त्याद्यपेक्षया —इति सिध्यति। अस्मिंस्तु पक्षे पूर्वत्रप्रत्येकं वाशब्दा लुप्तवत् द्रष्टव्याः। कथन्नाम ? द्वादश वा नव वाषट् वा त्रयो वा महानाम्निणःसंवत्सरा भवन्ति —इति॥०॥ १॥०॥
संवत्सरमप्येके॥ २॥
संवत्सरमात्रमपि महानाम्निकव्रतमेके आचार्या मन्यन्ते। तदिदमेकीयं मतमाचार्य्यस्याप्यनुमतमिति प्रतिपद्यामहे। कस्मात्कारणात् ? संवत्सरपक्षस्य धर्म्मविशेषोपदेशात्। गृह्यासंग्रहेऽप्युक्तम्।
“आचार्य्यानुमतं वाक्यमेकीयं गृह्यते क्वचित्।
शेषाणि चैव वाक्यानि आचार्यों न प्रशंसति”।
इति॥ ०॥ २॥ ०॥
व्रतन्तु भूयः॥ ३॥
तुशब्दःपूर्वेषां पक्षाणां व्यवच्छेदार्थः। कथन्नाम ? संवत्सरमात्रपक्षेव्रतं भूयो बहुतरं भवति न पूर्वेषु पक्षेषु। किमनेनोक्तं भवति ?एतदनेनोक्तं भवति। येऽप्यत्रानियता धर्म्मावक्ष्यन्ते, – “अनियमो वा कृष्णस्थानासनपन्थभक्षेषु”—इति‚ तेऽपि वार्षिकव्रतचर्य्यापक्षेनियमेनानुष्ठेयाः, पूर्वेषु तु पक्षेष्वनियम एव —इति। तुशब्दोविशेषार्थो वा। संवत्सरव्रतचर्य्यापक्षे विशेषेण नियमेन बहुतरंब्रतं भवति — इत्यत्रापि पूर्ववदेवार्थः। अन्येतु तुशब्दं हेत्वर्थं मन्यमाना वर्णयन्ति, यस्मात् “तिष्ठेद्दिवा, आसीत नक्तम्”–इत्येवमादिविषमधर्म्मवत्त्वात् दुरनुष्ठेयं बहुकालमेतद्ब्रतं, तस्मात् संवत्सरमात्रमनुष्ठेयम्—इत्येकेषां मतम् – इति॥ ०॥ ३॥ ०॥
किं य एव कश्चित् संवत्सर पक्षेऽप्यधिक्रियते ? न। कस्तर्हि ?उच्यते।
पूवैश्चैच्छुतामहानाम्न्यः॥ ४॥
पूर्वेः–बहुवचनात् पित्रादिभिः त्रिभिः पुरुषैः,यथोक्तव्रतचर्य्यापूर्वकमाचार्य्यस्यानुगमनं कुर्वद्भिर्महानाम्न्योऽध्ययनविशेषाः श्रुताश्चेदभूवन, तदा खल्वसौसंवत्सरपक्षेऽप्यधिक्रियते न य एवकश्चित्॥ ०॥ ४॥ ०॥
अथापि रौरुकिब्राह्मणं भवति॥ ५॥
अथ एतस्मिन् महानाम्निकव्रतविषये रौरुकिब्राह्मणमपि भवति, –व्रतचर्य्याप्ररोचनार्थम्। (आभामान्तं सूत्रम्)॥ ०॥ ५॥ ०॥
कुमारान् ह स्म वै मातरः पाययमाना आहुः॥ ६॥
ह वै–इत्यनर्थकावैतिर्थकौवा निपातौ। कुमारान् उत्सङ्गगतान् स्तनन्धयान्, स्तन्यं पाययमाना मातरः आहुःस्म ब्रुवन्ति स्मकिल। स्म –इत्ययमपि वाऽनर्थक एव निपातः॥ ०॥ ६॥ ०॥
शक्करीणां पुत्रका व्रतं पारयिष्णावी भवतेति॥ ७॥
हे पुत्रकाः, शक्करीणां महानाम्नीनामध्ययनार्थं यदेतद्ब्रतम्, तस्यपारयिष्णवःसमापयितारो भवत यूयम्। अनया अस्मदाशिषामहानाम्निककव्रतस्य पारं गन्तुं समर्था भवत,–इत्यर्थः। इतिःब्राह्मणवाक्यपरिसमाप्त्यर्थः॥ ०॥ ७॥ ०॥
अथेदानींमहानाम्निकव्रतधर्म्मानाह,—
तास्वनुसवनमुदकोपस्पर्शनम्॥ ८॥
तासुशक्करीषु विषये –महानाम्निकव्रते–इत्येतत्। तासु शक्करीषुअधीयमानासु –इति केचित्। अनुसवनम् –सवनमनु लक्ष्मीकृत्यानुसवनम्–त्रिसन्ध्यमित्यर्थः। उदकोपस्पर्शनं स्नानं कर्त्तव्यम्॥०॥८॥ ०॥
नानुपस्पृश्य भोजनं प्रातः॥ ९॥
अनुपस्पृश्य अस्नात्वा प्रातर्भोजनं न कर्त्तव्यं। प्रातःशब्दो दिवावचनः। उक्तमप्युपस्पर्शनं पुनरुच्यते, –अनुपस्पृश्य प्रातर्भोजने दोषातिशयप्रज्ञापनार्थमुपस्पर्शस्यावश्यकत्वोपदेशार्थञ्च॥ ०॥ ९॥ ०॥
सायमुपस्पृश्याभोजनमासमिदाधानात्॥ १०॥
उपस्पृश्य स्नात्वा आसमिदाधानात्समिदाधानपर्य्यन्तं सायमभोजनं कर्त्तव्यम्। सायंशब्दो रात्रिपरः॥ ०॥ १०॥ ०॥
कृष्णा वस्त्रः॥ ११॥
कृष्ण मेचकं वस्त्रं यस्य सोऽयं कृष्णवस्त्रः, भवेत् –इति सूत्रशेषः॥ ०॥ ११॥ ०॥
कृष्णभक्षः॥ १२॥
भवेत्। केनाप्युपायेन॥ १२
आचार्य्याधीनः॥ १३॥
भवेत्। उक्तमपि पुनरुच्यते, अतिशयेनाचार्याधीनत्वप्रज्ञापनार्थम्। कथन्नाम ? व्रतकर्म्मप्याचार्य्याविरोधेनैव कर्त्तव्यम्, मातृपितृशुश्रूषाऽप्याचार्य्यानिसृष्टेन न कर्त्तव्या– इति। तथाच मनुः।
“न चानिसृष्टो गुरुणा स्वान् गुरुनभिवादयेत्”।
इति। अथवा।अधर्म्मचरणादन्यत्राचार्य्याधीनत्वं पूर्वमुक्तम्, इहपुनरधर्म्मसंयुक्तस्याप्याचार्यादेशस्य परिपालनमनुशिष्यते–इति नकिञ्चिदनुचितम्। आचार्य्योनानिसृष्टो ब्रह्मचारी स्वान् गुरून्नाभिवादयेत्–इत्यपि पूर्वेणैव गतार्थमितिबोद्धव्यम्। अतएवमनुना गुरौ वसतो ब्रह्मचारिणः सामान्यत एव तदभिहितम्,॥ ०॥ १३॥ ०॥
अपन्थदायी॥ १४॥
पन्यानं दातुं शीलमस्येति पन्यदायी स न भवतीत्यपन्यदायीभवेत्। येषामपि,–
“चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः।
स्नातकस्य च राजश्चपन्थादेयो वरस्य च”।
इत्येवमादिस्मृत्यन्तरेषु पथोदानमुपदिष्टं तेषामपि पन्थानदेयः–इत्यर्थः॥ ०॥ १४॥ ०॥
तपस्वी॥ १५॥
भवेत्। व्रतस्यापि तपस्त्वात् पुनरुपादानं व्रतव्यतिरिक्तमन्यदप्युपवासादिकन्तपः कुर्य्यादित्येवमर्थम्। अथवा।
“तपोविशेषैर्व्विविधैव्रतैश्च विधिदेशितैः”।
इति मनुना व्रततपसोर्भेदेनोपन्यासात् अन्यथा व्याख्यास्यामः।तपस्वी—चान्द्रायणादितपोविशेषवान्, इन्द्रियसंयमादिरूपतपोविशेषवान् वा भवेत्—इति। यद्यप्येतदपि,—
“सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः”।
इति मनुना, “स्वयमिन्द्रियमोचनम्”–इत्याचार्य्येण च गुरौवसतो ब्रह्मचारिणःसामान्यतोऽभिहितम्, तथाप्यत्र पुनरुपादानंव्यतिरेके दोषातिशयार्थं व्रतवैगुण्यार्थं वा॥ ०॥ १५॥ ०॥
तिष्ठेद्दिवा॥ १६॥
दिवा अहनि, तिष्ठेत् स्थाणुवदूर्द्धोभवेत् नोपविशेत् न च पर्य्यटेत् —अन्यत्र सन्ध्योपासनादेर्भिक्षर्य्यातश्च॥ ०॥ १६॥ ०॥
आसीत नक्तम्॥ १७॥
नक्तं रात्रौ, आसीत उपविशेत् न शयीतन वा तिष्ठेत्॥०॥१७॥०॥
वर्षति च नोपसर्पेच्छन्नम्॥ १८॥
वर्षति पर्ज्जन्ये, छन्नं मनुष्यैराच्छादितं गृहादिकमित्येतत्। नोपसर्पेत् न गच्छेत् न प्रविशेदिति यावत्। कियन्तं कालम् ?यावन्न वर्षोपशमः। कुतः ? वर्षति,—इति वर्त्तमानवदुपदेशात्।सप्तमीनिर्देशाच्च। गृहाद्युपसर्पणप्रतिषेधात् वृक्षमूलमुपसर्पतोऽपि न दोषः—इति वर्णयन्ति। चशब्दाद्वर्षणसम्भावनायामपिगृहोपसर्पणं निषिध्यते। अथवा। चशब्दाद्वाति च वायौनोपसर्पेच्छन्नमिति बोद्धव्यम्। गृहावस्थितस्तु वर्षत्यपि ननिष्क्रामेत्। कस्मात् ? नोपसर्पेदितिकरणात्। वहिरवस्थितस्यखल्वेतत् सम्भवति। न च गृहान्निष्क्रमे प्रमाणं पश्यामः। अन्येपुनरध्याहाररसिका व्याचक्षते,–वर्षति निष्क्रामेत्, न पुनःप्रविशेत् —इति॥ ०॥ १८॥ ०॥
वर्षन्तं ब्रूयादापः शक्कर्य्यइति॥ १६॥
ऋतावनृतौ वा अहनि रात्रौ वा यस्मिन् कस्मिंश्चित् काले वर्षन्तंपर्ज्जन्यं ब्रूयात्—आपःशक्कर्य्यइति मन्त्रम्। सोऽयं वर्षस्यप्रारम्भे सकृदेव मन्त्रपाठः स्यात्। तावतैव शास्त्रार्थस्य कृतत्वात्।न तु सन्ततवर्षे पौनःपुन्येन मन्त्रावृत्तिः।तुमन्त्रावृत्तिः। प्रमाणाभावात्।उत्तरमन्त्रद्वयपाठोऽप्यनेनैव व्याख्यातः।
आह। वर्षन्तमिति वर्त्तमानवदुपदेशात् यावद्वर्षं पानःपुन्येनमन्त्रपाठोऽवगम्यते। अन्यथा ‘वर्षति च नोपसर्पेन्नच्छम्’—इत्ययमपि निषेधोवर्षप्रारम्भ एव स्यात् परतस्तु च्छन्नोपसर्पणेऽपि नदोषःस्यात्–इति। उच्यते। नैतदेवम्। वर्त्तमानवदुपदेशेऽपि “तिष्ठन्तं पशुं प्रयजति”—इत्यादिवदत्रापि सक्रुदेवानुष्ठानं वर्णयितुमुचितम्। ‘सकृत् कृते कृतः शास्त्रार्थः’-इतिन्यायात्। अन्यथा तिष्ठन्तमिति वर्त्तमानोपदेशात् प्रयाजस्यावृत्तिः स्यात्। ‘वर्षति च नोपसर्पेच्छन्नम्’—इत्यत्र सप्तमीनिदेशात्तस्य निषेधरूपत्वाच्चयावत्कालभावित्वम्। कलञ्जाधिकरणन्यायात्।तस्माद् यथोक्तएवार्थः॥ ०॥१८॥०॥
विद्योतमानं ब्रूयादेव
ऋज्वर्थम्॥ ०॥ २०॥ ०॥
स्तनयन्तं ब्रूयान्मह्यामहान् घोष इति॥ २१॥
स्तनयन्तं गर्ज्जन्तम्॥ ०॥ २१॥ ०॥
न स्रवन्तीमतिक्रामेदनुपस्पृशन्॥ २२॥
स्रवन्तींनिम्नगामनुपस्पृशन् स्नानमकुर्व्वन्। वर्त्तमानसामीप्ये वर्त्तमानवदुपदेशः। नातिक्रामेत्। स्रवन्तीमतिक्रमिष्यन् स्नात्वाऽतिक्रामेदित्यर्थः। तथाच स्मरणम्
“असन्तर्प्य पितॄन् देवान् नदीपारन्तु न व्रजेत्”।
इति। तदनेन स्नानमप्यर्थात् सिद्ध्यति। यच्च, “स्नात्वा न चनदीं तरेत्”-इति वचनान्तरम्, तदस्मच्छाखिव्यतिरिक्त विषयम्।अथवा।प्रमाणस्योभयथा दर्शनात् वर्त्तमानसामीप्यमप्युभयथैव व्याख्येयम्। सोऽयं विकल्पः, — स्नात्वा वा स्रवन्तीमतिक्रामेत्,अतिक्रम्य वैनां तत्रैव स्नायात् – इति॥ ०॥ २२॥ ०॥
न नावमारोहेत्॥ २३॥
ऋज्वर्थंसूत्रम्॥ ०॥ २७॥ ०॥
प्राणस
नावारोहणमकुर्व्वतश्चौरव्याघ्रादिभिः प्राणसंशये, —नावारोहणमन्तरेण स्रवन्त्यतिक्रमे प्राणसंशये सम्भाव्यमाने वा, —उपस्पृश्य स्नात्वा नावमारोहेत्।तु – इत्यनर्थको निपातः॥ ०॥ २४॥ ०॥
तथा प्रत्यवरुह्य॥ २५॥
प्रत्यवरुह्य नावोऽवतीर्य्य, तथैव उपस्पृशेत् स्नायादित्यर्थः॥ ०॥ २५॥ ०॥
कस्मात् पुनः कारणात् त्रिषवणोपस्पर्शादयो बाहुल्येनोदकाश्रयाएव धर्म्मामहानाम्निकव्रते विधीयन्ते ? उच्यते।
उदकसाधवोहि महानाम्न्याइति॥ २६॥
हिशब्दो यस्मादर्थे। इतिः प्राकाश्ये। उदकं साधु अधीनंयासाम्, उदकेषु विषये साधवः कुशला हिता वा यास्ताः खल्विमाउदकसाधव उदकदात्र्यःकथ्यन्ते। यस्मान्महानाम्न्याउदकसाधवइति प्रसिद्धं, तस्मात्तदीयव्रते बाहुल्ये नोदकाश्रयाणां धर्म्माणांविधानं युक्तमित्यभिप्रायः॥ ०॥ २६॥ ०॥
यस्मादुदकसाधवो महानाम्न्यस्तस्मात्तदीयव्रतमाचरतः फलमपितदनुरूपमेव भवति, —इत्याह,—
एवं खलु चरतः कामवर्षी पर्ज्जन्यो भवति॥ २७॥
खस्वित्यनर्थको निपातः। एवमुक्तप्रकारेण व्रतं चरतः, पर्ज्जन्यःइन्द्रः, कामवर्षी भवति। काम्यन्ते —इति कामाः, तान् वर्षितुंशीलं यस्य स खल्वयं कामवर्षी भण्यते। यत् किञ्चिदसौ कामयतेतत्तत् सर्व्वमिन्द्रो वर्षति सम्पादयतीत्यर्थः। अथवा।पर्जन्यशब्दोमेघवचनः। यत्र यत्र यदा यदा वा असौ वर्षं कामयते, तत्र तत्रतदा तदा मेघोवर्षति —इति वाक्यार्थः॥ ०॥ २७॥ ०॥
अथेदानीं नियमबाहुल्यात् दुरनुष्ठेयत्वं व्रतस्य मन्यमानः परमदयालुः खल्वाचार्य्यःकेषुचिद्धर्म्मोष्वनियममुपदिशति,—
अनियमों वा कृष्णस्थानासनपन्थभक्षेषु॥ २८॥
कृष्ण वस्त्रं, दिवा ऊर्द्धावस्थानं, रात्रौआसनमुपवेशनम्, पथोऽप्रदानं, कृष्णभक्षम् - इत्येतेषु अनियमो नियमाभावो वा।विकल्पेनामीषामनुष्ठानमित्यर्थः॥॥ २८॥ ०॥
अधुना महानाम्नीनां श्रावणकालमुपदिदिक्षुरिदमाह,—
तृतीये चरिते स्तोत्रीयामनुगापयेत्॥ २९॥
तृतीये व्रतभागे चरिते, —व्रतस्य तृतीये भागे चीर्णे सतीत्यर्थः।स्तोत्रीयामेकामनुगापयेत् ब्रह्मचारिणे श्रावयेदाचार्यः॥ ०॥ २९॥ ०॥
एवमितरे स्तोत्रीये॥ ३०॥
एवमनेन प्रकारेण इतरे अपरे अपि द्वे स्तोत्रीये अनुगापयेदित्यनुवर्त्तते। तथाच व्रतस्य एकस्मिन् तृतीयभागे चीर्णे एकाम्,अपरस्मिन् तृतीयभागे चीर्णे अपराम्, अन्यस्मिन् तृतीयभागेचीर्णे चान्यां स्तोत्रीयामनुगापयेदित्यर्थः॥ ०॥ ३०॥०॥
सर्व्वावाऽन्तेसर्व्वस्य॥ ३१॥
सर्व्वस्य व्रतस्यान्ते वा सर्वाः स्तोत्रीयाः युगपदेवानुगापयेत्॥ ०॥ ३१॥ ०॥
अनुगापनस्य कालमभिधाय प्रकारमाह -
उपोषिताय संमीलितायानुगापयेत्॥ ३२॥
‘वाग्यतो न भुञ्जीत त्रिरात्रमहोरात्री वा ’ - इति वक्ष्यमाणेनविधिना उपोषिताय कृतोपवासाय, संमीलिताय परिणद्धाक्षायब्रह्मचारिणे अनुगापयेत्॥ ०॥ ३२॥ ०॥
कथं पुनर्ब्रह्मचारिणोऽक्ष्णोःपरिणहनं कर्त्तव्यम् ? तदुच्यते।
क
कंसं कांस्यभाजनं अपां पूरयित्वाअद्भिर्बर्द्धयित्वा,सर्व्वौषधीःकृत्वा सर्व्वाश्च ता ओषधयश्च ताःसर्व्वौषधीः,—
“व्रीहयःशालयो मुद्गागोधूमाःसर्षपास्तिलाः।
यवाश्चौषधयः सप्त विपदोघ्नन्ति धारिताः”।
इति कर्म्मप्रदीपोक्तलक्षणाःव्रीह्यादीःसप्त,कृत्वा—उपस्थितत्वात् कंसस्थितास्वेवाप्सु स्थापयित्वा, तास्वेव सर्व्वौषधिमिश्रावप्सु हस्ताववधाय ब्रह्मचारिणो हस्तौ निमज्य, प्रदक्षिणं यथा भवति तथा अहतेन वसनेन ब्रह्मचारिणोऽक्षिणीआचार्य्यःपरिणह्येत् परिवष्टयेत्। एवन्तावत् निमग्नहस्तःपरिणद्धाक्षोवाग्यतो ब्रह्मचारी अरण्ये त्रिरात्रमहोरात्रं वा उपवसेत्। तत उपोषिताय वाग्यताय तथैव निमग्नहस्ताय परिणद्धाक्षाय ब्रह्मचारिणेअरण्य एवाचार्य्योऽनुगापयेत्। अयन्तावदेकःपक्षः॥ ०॥ ३३॥ ०॥
अयञ्चापरः पक्षः,—
परिणाहनान्ते वाऽनुगापयेत्॥ ३४॥
परिणहनस्यान्ते अवसाने तदनन्तरमित्येतत्। पूर्वत्राप्येतदविशेषात्परिगहनान्त एवेति व्याख्येयम्। तदानीमेव वा अनुगापयेत्। एतस्मिन्नपि पक्षे वाग्यताय निमग्नहस्ताय परिषद्धाक्षाय अरण्य एवानुगापनं भवति, किन्तु अनुपोषिताय,— इत्येतावानेव विशेषः। ततश्चात्र पक्षे अनुगापनात् पश्चादुपोषणं प्रत्येतव्यम्।इस्तोन्मज्जनोत्थानचंक्रमणानि तु स्नानसन्ध्योपासनमूत्रपुरीषकरणमन्तरेण न कर्त्तव्यानि। परिणहनस्रंसतु तत्रापि न कर्त्तव्यएव। तथा चोक्तम्।
“न हस्तोन्मज्जनोत्थाने कार्य्येस्नानादिकं विना।
अक्षिसन्नहनत्यागस्तत्रापि न भवेत् क्वचित्”।
इति॥ ०॥ ३४॥ ०॥
यदि उपोषितायानुगापनं यदि वा अनुषोषिताय, उभयथाऽप्युपवासोऽस्त्येव। अतस्तद्विधिमाह,—
परिणद्धो वाग्यतो न भुञ्जीत त्रिरात्रमहोरात्रौवा॥ ३५॥
तथैव निमग्नहस्तः परिणद्धाक्षोवाग्यतो ब्रह्मचारी अरण्ये निवसन् त्रिरात्रं —त्रीण्यहोरात्राणि न भुञ्जीत। त्रिरात्राशक्तौअहोरात्रौवा न भुञ्जीत। अहश्च रात्रिश्च अहोरात्रौ —अहोरात्रमित्यर्थः। अथवा।उपोषितायानुगापनपक्षेअनुगापनात्पूर्वमुपवासः, – ‘उपोषिताय संमीलितायानुगापयेत्’ – इत्यनेनैवप्राप्तः। तस्मादनुपोषितायानुगापनपक्षएवानुगापनात् परमुपवासविधायकमेतत् सूत्रं वर्णनीयम्। अस्यामपि वर्णनायांप्राक्तनोऽप्युपवासःत्रिरात्रमहोरात्रं वा बोद्धव्यः। कस्मात् ? अस्मादेव दर्शनात्। अरण्ये निवसन्- इति कुतो व्याख्यायते ?उत्तरस्वानुसारात्॥ ०॥ ३५॥ ०॥
यदि व्याघ्रादिभयादरण्य त्रिरात्रमहोरात्रं वा निवस्तुं न शक्यते,तदा किं कर्त्तव्यम् ? उच्यते।
अपिवाऽरण्ये तिष्ठेदाऽस्तमयात्॥ ३६॥
अपिवा अथवा, आस्तमयात् आ अस्तमयात् — अस्तमयपर्य्यन्तमित्येतत्। तावन्तंकालमरण्ये तिष्ठेत् रात्रौ तु ग्राम एव॥ ०॥ २६॥ ०॥
श्वोभूतेऽरण्येऽग्निमुपसमाधाय व्याहृतिभिर्हुत्वाऽथैनमवेक्षयेत्॥ ३७॥
श्वःअनागतदिने भूते, प्रभाते जाते, इत्यर्थः। अरण्ये अग्निमुपसमाधाय, इत्युक्तार्थम्। प्रकृतत्वादरण्ये प्राप्ते पुनररण्यग्रहणं ग्रामनिवासपक्षेऽप्यरण्यं गत्वैवैतत् कर्म्म कर्त्तव्यमित्येवमर्थम्। व्याहृतिभिर्हुत्वा द्रव्यानादेशादाज्येन – इत्यर्थः। हुत्वा, इत्यवचने अनादेशात् पुरस्ताच्चोपरिष्टाच्चहोमः प्राप्नोति, अतो हुत्वा —इत्युक्तम्।व्याहृतिभिरितिवचनं क्रमार्थम्।कथन्नाम ?व्याहृतिभिर्हुत्वैवएनमवेक्षयेत्, न तु तन्त्रसमापनमपि क्रुत्वा, – इति। एवमेके।व्याहृतिभिरितिवचनं परिसंख्यानार्थम्। तेन क्षिप्रहोमःस्यात्।एवमपरे। अथ शब्दः पूर्वप्रकृतार्थः। होमानन्तरमथ पूर्वप्रकृतमेनंब्रह्मचारिणं अवेक्षयेदाचार्य्यः। अथशब्द आनन्तर्वार्य्यावा। तदयमर्थः। व्याहृतिभिर्हुत्वा अथ अक्षिपरिणहनमोचनानन्तरमेनमवेचयेत् — इति॥ ०॥ ३७॥ ०॥
किमवेक्षयेत् ? तदाह—
अग्निमाज्यमादित्यं ब्रह्माणमनड्वाहमन्नमपोदधीति॥ ३८॥
इत्येतान्यवेक्षयेत्। अग्न्यादयः प्रसिद्धाः। ब्रह्माणं विप्रम्। ब्राह्मयमितिपाठे व्यक्त एवार्थः। असमासकरणात् पृथक् पृथगवेक्षणम्॥ ०॥ ३८॥ ०॥
किन्तूष्णीमवेक्षयेत् ? न। कथन्तर्हि ?—
स्वरभिव्यख्यं ज्योतिरभिव्यख्यमिति॥ ३९॥
स्वरभिव्यख्यमित्यनेन मन्त्रेण।मनसैव मन्त्रपाठो बोद्धव्यः। कुतः ?परतोऽस्य वाग्विसर्गसूत्रणादिदानीमपि वाग्यतत्वावगतेः। प्रतिदर्शनं मन्त्रावृत्तिर्व्याख्याता॥ ०॥ ३९॥ ०॥
किं सकृदवेक्षयेत् ? न। किन्तर्हि ?—
एवं त्रिः सर्व्वाणि॥ ४०॥
एवमनेन प्रकारेण प्रत्येकेनेत्यर्थः। सर्वानि अग्न्यादीनि त्रिरवेक्षयेत्। प्रथमेन सहैव त्रित्वं बोद्धव्यम्। सर्वाणि —इत्येतावति कृतेमिलितानामग्न्यादीनामवेक्षणमप्याशङ्गीत कश्चिदित्येवं शब्दनिर्देशःक्रियते। अथैवं, सर्वाणि —इति शक्यमवक्तुम्, एवमित्येतावतैवगतार्थत्वात्। उच्यते। एवं त्रिः —इत्येतावति कृते सन्निहिततरस्य मन्त्रस्यैवैवमा परामर्शान्मन्त्रस्यैव त्रिःपाठोऽवेक्षणन्तु सकृदेव, —इत्यपि भवत्याङ्काकदाचित् कस्यचिदिति तां निरसितुं सर्वाणीत्याह। सर्वाणीत्यनेनाग्न्यादीनामवगमात् प्रत्यासत्त्यातदन्विताया एवावेक्षणक्रियाया वाराभिधानं त्रिरित्यनेन स्यात्,न मन्त्रपाठक्रियायाः॥ ०॥ ४०॥ ०॥
शान्तिंकृत्वा गुरुमभिवादयते॥ ४२॥
शान्तिं कृत्वा —इति सिद्धमपि पुनरुच्यते क्रमार्थम्। तेन वामदेव्यगानान्तमिदानीमाचार्य्यःकुर्य्यात्। तदनन्तरं ब्रह्मचारी गुरुमभिवादयते। व्याख्यातः क्त्वाप्रत्ययार्थः पूर्वापरीभावमात्रम्।अथवा।ब्रह्मचारी स्वयमेव शान्तिं कृत्वा गुरुमभिवादयते।सेयं शान्तिर्व्रतापवर्गविहिता। अतएवानन्तरं दक्षिणासूत्रणमुपपद्यते। स्थालीपाकादयश्च व्रतान्तकर्त्तव्या एव। अन्यैव वाशान्तिरिह विधीयते, – इति न किञ्चिदनुचितम्॥ ०॥ ४१॥०॥
योऽयं गुरोरभिवादः,—
सोऽस्य वाग्विसर्गः॥ ४२॥
अस्य ब्रह्मवारिणः परिणहनात् प्रभृति वाग्यतस्यासीनस्य॥ ०॥४२॥०॥
अनड्वान् क
अनड्वान् बलोबर्द्धः। कंसः कांस्यभाजनम्। एतच्चानडुत्सन्निधावुक्तत्तन्मूल्यरूपमिच्छन्ति। वासो वसनम्। इदमपि पूर्ववत्।वरो गौः। तथा चोक्तम्।
“गौर्व्विशिष्टतमा विप्रैर्व्वेदेष्वपि निगद्यते।
नततोऽन्यद्वरंयस्मात्तास्मौर्व्वरउच्यते”।
इति। इत्येता महानाम्निकव्रते आचार्य्यस्य दक्षिणा भवन्ति॥ ०॥ ४३॥ ०॥
तिस्र एव स्तोत्रीयाः, दक्षिणाश्चेमाश्चतस्रउपदिश्यन्ते। का पुनरत्रगतिः? उच्यते।
प्रथमे विकल्पः॥ ४४॥
प्रथमे द्रव्यद्वये विकल्पो बोद्धव्यः।तस्मात् प्रथमायां स्तोत्रीवायांश्रुतायामनड्वान् कंसो वा दक्षिणा, द्वितीयायां वासः, तृतीयायांवरः –इति। सेयं गतिः॥ ०॥ ४४॥ ०॥
आच्छादयेद्गुरुमित्येके॥ ४५॥
महानाम्निकव्रतदक्षिणाप्रस्तावात् प्रासङ्गिकमिदमुच्यते। येषां व्रतानां व्रातिकौपनिषदिकादित्यानामन्ते दक्षिणा न सूत्रिता, तेषु गुरुमाच्छादयेत् प्रीणयेत्। यावता वस्तुनागुरुः प्रीयते, तावदल्पमपि किञ्चित् दक्षिणा भवति —इत्येके आचार्या मन्यन्ते। एकग्रहणम्, ‘तत् प्रमाणं वादरायणस्य’ इति वत् एकानाचार्यान्पूजयितुं नात्मीयं मतं पर्य्युदसितुम्। तदिदमेकीयं मतमाचार्यस्थाप्यनुमतं बोद्धव्यम्। तथा चोक्तम्।
“येषां व्रतामानन्तेषु दक्षिणा नाभिधीयते।
वरस्तत्रभवेद्दानमपिवाऽऽच्छादयेद्गुरुम्”।
इति। अस्मादपि कारणात् उपनयनव्रतान्तेऽपि गौरेव दक्षिणावाच्या। अन्ये तु, — महानाम्निकव्रत एव यथोक्तदक्षिणाया अलाभे सूत्रमिदं योजयन्ति॥ ०॥ ४५॥ ●॥
प्रासङ्गिकमभिधाय महानाम्निकव्रतशेषमेवानुसरति, —
** ऐन्द्रः स्थालीपाकस्तस्य जुहुयादृच
इन्द्रो देवता यस्य सोऽयमैन्द्रःस्थालीपाकः।तस्य जुहुयादेकामाहुतिमित्यर्थः। तस्येत्यवयवलक्षणा षष्ठी। तेन सर्वहुतत्वं न कर्त्तव्यम्। केन मन्त्रेण जुहुयात् ? ऋचं साम यजामहे — इत्येतया ऋचा। सदसस्पतिम् — इत्येतया वा। उभाभ्यां वा आभ्यामृग्भ्यां मिलिताभ्यामित्यर्थः॥ ●॥ ४६॥ ०॥
तदिदमन्यत्राप्यतिदिशति, —
अनुप्रवचनीयेष्वेवम्॥ ४७॥
अनु पश्चात् व्रतान्ते – इत्येतत्। प्रवचनं प्रकृतग्रन्थश्रावणं येषु व्रतेषु क्रियते, तानि खल्विमान्यनुप्रवचनीयानि गोदानादीनि व्रतानि भण्यन्ते। तेषु अनुप्रवचनीयेषु सर्व्वेष्वेव व्रतेषु, एवम् – अन्ते ऐन्द्रःस्थालीपाकस्तस्य जुहुयादित्यतिदिश्यते। सर्व्वत्रेति पराचीनमत्रापि संबध्यते। मध्यपठितस्य विशेषाभावात्। अनुप्रवचनीयेष्वितिकरणाच्च उपनयनव्रतान्ते न भवति ऐन्द्र स्थालीपाकः। कुतः? तस्य सहप्रवचनीयत्वात्। किन्तु तदन्ते सावित्रश्चरुर्भवतीत्यवोचाम॥ ०॥ ४७॥ ०॥
इदानीं सकतव्रतान्तमेवाधिकृत्य किञ्चिदुपदिशति,—
** सर्व्वत्राचारिषं तदशकं तेनारात्समुपागामितिमन्त्रविशेषः॥ ४८॥**
सर्वत्र सर्वेषु व्रतान्तेषु। इति, – अयं, मन्त्रविशेषः कर्त्तव्यः। कःपुनरसौ ? उच्यते। यत्र ‘चरिष्यामि’ – इति पदं, तत्र ‘अचारिषम्’ – इति पदं कर्त्तव्यम्। ‘अचार्षम्’ – इति पाठान्तरम्।एवं यत्र ‘तच्छकेयम्’ – इतिपदं, तत्र ‘तदशकम्’ —इति, यत्र’तेनर्द्ध्यासम्’ —इतिपदं, तत्र ‘तेनारात्सम्’ – इति, यत्र ‘उपैमि’– इति पदं, तत्र ‘उपामाम्’ – इति। सर्वत्र, —इति करणादुपनयनव्रतान्तेऽप्ययं विशेषःस्यात्।कुतः ? सर्वत्र ग्रहणस्यैवमथत्वात्। अन्यथा तदनर्थकं स्यात्। अनुप्रवचनीयेषु – इति खल्वनुवर्त्तत एव। तस्मात् सह्यवचनीयस्यापि संग्रहार्थं सर्वत्र ग्रहणम्।
स खल्वयं होमश्चरुहोमात् परतः स्विष्टकद्धोमाच्च पूर्वं स्यात्।कस्मात् ? चरुहोमात् परतःसूत्रणात्। प्राक् स्विष्टकृत आवापः – इति वचनाच्च। द्रव्यानुपदेशादाज्यद्रव्यकञ्च स्यात्। यच्च,—ब्रह्मचारिणां जपमात्रं न होमो वचनाभावात् स्वाहान्तानामपिहोमदैवत — इत्यादीनां होमादर्शनात् –इति सरलावर्णनम्।तदसङ्गतम्। जपेऽपि वचनाभावस्थाविशेषात्। ‘अग्नेव्रतपते इतिहुत्वा’ –इति पूर्वत्र होमकरणतया सूत्रितानां मन्त्राणां अचारिषमित्यादिपदोहमात्रसूत्रणेनहोमस्यावगतेश्च। व्रतारम्भे होमवत्व्रतसमाप्तावपि होमस्य वर्णयितुमुचितत्वाच्च। एवञ्च, समावर्त्तनमध्ये एतद्धोमाभिधानं भवदेवस्यासङ्गतम्। कुतः ? व्रतान्तविहितत्वादस्य।कर्म्मान्तरत्वाच्च समावर्त्तनस्य।व्रतवरिष्यामीत्यादेर्व्रतारम्भकत्ववत् व्रतमचारिषमित्यादेरपि व्रतसमाषकतयातस्यै वान्तताया वक्तुमुचितत्वाच्च॥ ०॥ ४८॥ ०॥
आग्नेयेऽज ऐन्द्रे मेषो गौः पात्रमाने पर्वदक्षिणा॥ ४९॥
आग्नेये देवगर्वणि श्राविते अजो दक्षिणा आचार्य्यस्य। ऐन्द्रे देवपर्वणि विते मेषः। पावमाने देवपर्वणि श्राविते गौः। एवमेताः पर्वदक्षिणाः – पर्वणामध्ययनार्थं दक्षिणाःपर्वदक्षिणाःज्ञेयाः। सामर्थ्यद्गोदानव्रतान्ते एतादक्षिणा भवन्ति। अथसुखावबोधार्थं कमक्रमःप्रदर्श्यते। उपनयनव्रतान्ते सावित्रश्चरुः। चरुहोमात् परतःस्विष्टकृतश्च प्राक् अग्ने व्रतपते व्रतमचारिर्षामत्यादिविशेषमुक्त्वापञ्चभिर्मन्त्रैराज्येन होमः। कर्म्मसमाप्तौगौर्दचिणा।नान्दीमुखश्राद्धम्। केशान्तकरणम्। गोदानार्थं पुनरूपनयनम्। व्रतान्ते आग्नेयैन्द्रपावमानानां देवपर्वणां समस्तानांसाम्नाञ्चाश्रावणम्। ऐन्द्रञ्चरुः। तस्य च यथोक्तरीत्या होमः। अत्रापिप्राक् स्विष्टकृतः, अग्ने व्रतयते व्रतमचारिषमित्यादि पूर्ववद्धोमः।कर्म्मान्ते अजगोमेषदक्षिणादानम्। पुनर्नान्दीमुखश्राद्धम्। व्रातिकार्थं पुनरुपनयनम्। उत्तरोत्तरव्रतचर्य्याकाले पूर्वपूर्वव्रतान्तश्रावितस्याध्ययनम्। एवं सर्वेषु व्रतेषु द्रष्टव्यम्॥ ०॥ ४८॥ ०॥
अवसिता प्रासङ्गिकीकथा।प्रासङ्गिकीकथा।महानाम्निकव्रतशेषमेवेदानीमनुवर्त्तामहे,—
प्रत्येत्याचार्य्य
प्रत्येत्य अरण्यात् प्रत्यागत्य, आचार्य्यं भोजयेत्। मिमेकाकिनमेव? न। सपरिषत्कम्। सह परिषदा वर्त्तते —इति सपरिषत्कस्तम्–शिष्यवर्गसहितमित्यर्थः। सपर्षत्कमिति पाठेऽपि तथैवार्थः॥५०॥
सब्रह्मचारिणश्चोपसमेतान्॥ ५१॥
समानं तुल्यं ब्रह्मचर्य्यंब्रह्मणो वेदस्याध्ययनार्थं व्रताचरणं येषां तइमे सब्रह्मचारिणः स्वशाखिनो भण्यन्ते। अथवा। समानं तुल्यकालं ब्रह्मचर्य्यंयेषां ते खल्विमे सब्रह्मचारिणो भिन्नशाखिनोऽप्युच्यन्ते। तांश्च उप समीपे समेतान् भोजयेत्। यत्र स्वयं ब्रह्मचर्य्यमाचरति तत्समीपे भिनगुरवोऽपि ये ब्रह्मचारिणः समेताः स्युः,तानपि भोजयेदित्यर्थः। उपसमेतानितिकरणात् भिन्नगुरवोऽपिलभ्यन्ते॥ ०॥ ५१॥ ०॥
ज्येष्ठसाम्नोमहानाम्निकेनैवानुगापनकल्पो व्याख्यातः॥ ५२॥
ज्येष्ठसाम्नोऽनुगापनकल्पोऽनुगापनविधिर्महानाम्निकेनैवनुगापनविधिना व्याख्यातः, —इति पूर्वोक्तां सर्व्वमतिदिश्यते। ननु त्रीणितावत् ज्येष्ठसामानि पठ्यन्ते, तत् कथमत्र ज्येष्ठसाम्नः—इत्येकवचनम् ? उच्यते। जात्याश्रयणात् त्रयाणामपि ज्येष्ठसाम्नामेकस्यामृचि गीतत्वाभिप्रायाद्वाएकवचनम् —इति न दोषः॥ ०॥ ५२॥०॥
तत्रैतानि नित्यव्रतानि भवन्ति॥ ५३॥
तत्र ज्येष्ठसाम्नि विषये एतानि वक्ष्यमाणानि नित्यव्रतानि यावज्जीवनमनुपालनीयामि व्रतानि भवन्ति। न तु याबद्व्रतमेव।कुतः ? नित्यशब्दस्यैवमर्य्यात्। अन्यथा, व्रतानि भवन्ति —इत्येतावति कृतेऽपि व्रतान्तरसूत्रितानामिवामीषामपि यावद्व्रतमनुपालनं स्यादेवेति नित्यपदमनर्थकंस्यात्। समावर्तनोत्तरभाविनः शूद्रोपयमस्य निषेधाच्च। नित्यधर्म्माः —इत्यकृत्वा नित्यव्रतानि, – इतिकरणाच्चैवमवगन्तव्यम्। यत्र हि यावद्व्रतमनुष्ठेयत्वमभिप्रेयते तत्र नित्यधर्म्माः—इति क्रियते। यथा गोदानादौ॥ ०॥ ५३॥०॥
न शूद्रामुपेयात्॥ ५४॥
शूद्रां नोद्वहेत्। ‘चतस्रो ब्राह्मणस्य भार्य्याभवन्ति तिस्रो हेचैका चेतरेषाम्’ —इति शूद्रोपयमस्यापि प्राप्तत्वात् प्रतिषिध्यते॥ ०॥ ५४॥ ०॥
ऋज्वर्थंसूत्रम्॥ ०॥ ५५॥ ०॥
एकधान्यमेकदेशमेकवस्त्वञ्च वर्ज्जयेत्॥ ५६॥
एकञ्च तत् धान्यञ्चेति एकधान्यं वर्ज्जयेत्। यस्रिन् देशे यानिधान्यानि भवन्ति तत्र तेषां मध्यादेकं वर्ज्जयेत् —कदाचिदपिन भुञ्जीत। एकदेशं वर्ज्जयेत्। गन्तव्यदेशानां मध्यादेकदेशं वर्ज्जयेत् –कार्य्यार्थमपि न गच्छेत्। एकवस्त्रञ्च वर्ज्जयेत्।कार्पासशाणकौशेयादीनां मध्यादेकं वस्त्रं वर्ज्जयेत्, –न जातुचिदपि परिदध्यात्।
एवं वा –
एकधान्यं वर्ज्जयेत्, –एकमेव धान्यं सर्व्वदा न भक्षयेत्। एकदेशं वर्ज्जयेत्,– न यावज्जीवमेकस्मिन्नेव देशे निवसेत्। एकवस्त्रमेकवस्त्रत्वनित्यर्थः। धर्म्मप्रधानो निर्देशः। तदपि वर्ज्जयेत्।कथन्नाम ? येष्वपि प्रेतस्नानप्रेतोदकदानादिषु एकवस्त्रत्वं स्मृत्यन्तरेषूपदिष्टं, तेष्वप्येकवस्त्रत्वं – वर्ज्जयेत्, —एकवासा न भवेदित्येतत्। अन्ये तु वर्णयन्ति, –‘अधरीयोत्तरीयभेदात् प्राप्तयोर्द्वयोर्वाससोरेकं वासःप्रेतोदकदानादिकालेषु वर्ज्जयेत्,तदानीमेकवासा भवेदित्यर्थः’ – इति। तदसङ्गतम्। कस्मात् ?यस्मादेवं खल्वन्येषां प्रेतोदकदानादिष्वेकवस्त्रत्वं न स्यात्। इष्यतेच। न च प्रेतोदकदानादिकालेषु – इत्यस्यां वर्णनायां प्रमाणमस्ति। तस्मादस्मदुक्तैव व्याख्या॥ ०॥ ५६॥ ०॥
उद्धृताभिरभिरुपस्पृशेत्॥ ५७॥
जलाशयादुद्धृताभिरद्भिरुपस्पृशेदाचामेत्। यद्वा। कृतमूत्रपुरीषस्य मलदिग्धाङ्गस्य वा यच्छौचंतदिहोपस्पर्शः। तदुद्धृताभिरद्भिःकुर्य्यान्नाशयस्थाभिः।स्नानमेव कस्मान्न व्याख्यायते। उच्यते।एवं किल वर्णनायां पुण्यसलिलावगाहनमपि यावज्जीवनमस्यनिषिद्धं स्यात्। तथाऽन्यत्रापि नित्यनैमित्तिकवहिःस्नानमस्यन स्यात्। तच्चानिष्टम्। तस्माद् यथोक्त एवार्थः। सेयं पूर्व्वाचार्य्याणां वर्णना न ज्यैठसामिकव्रतचारिष्वेवावतिष्ठते। सर्व्वत्राप्येतदविशेषात्। तस्मात् महानाम्निकव्रतचारिणां, येषामपिपन्थादेवतयाऽनुशिष्यते तेषामपि पथोऽदानवत्, अग्निहोत्रिणांतीर्थानभिगमनवच्चज्यैष्ठसामिकव्रतचारिणामुद्धृताभिरेवाद्भिः स्नानंन त्ववगाहनमिति-युक्तमुत्पश्यामः॥ ०॥ ५७॥ ०॥
आदेशनात् प्रभृति न मृन्मयेऽश्नीयात्॥ ५८॥
प्राथमिकोपनयने यदिदमादेशनम्, – ‘समिधमाधेह्यपोशान’–इत्यादिरूपं, तस्मादादेशनात् प्रभृति मृन्मये शरावादौनाश्नीयात् ; —ज्यैष्ठसामिकव्रतं करिष्यमाणः।अथवा। ज्येष्ठसामिकव्रतार्थं यदुपनयनं क्रियते, तत्र यदादेशनं ‘समिधमाधेहि’इत्यादिकं तस्मात् प्रभृति, – इत्यर्थः॥ ०॥ ५८॥ ०॥
न पिबेत्॥ ५९॥
आदेशनात् प्रभृति भृन्मये न पिबेत्। चशब्दो लुभवत् द्रष्टव्यः।न च पिबेदिति॥ ०॥ ५९॥ ०॥
श्रवणादित्येके॥६०॥
ज्येष्ठसामिकव्रततृतीयभागे चीर्णे, व्रतान्ते वा ब्रह्मचारिणे ज्येष्ठसाम्नांयत् श्रावणमाचार्येण क्रियते, तस्मात् श्रवणात् प्रभृतिन मृन्मयेऽश्नीयात्न च पिबेदित्येके प्राचार्य्यामन्यन्ते॥ ०॥६०॥॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयग्रुहसोत्रभाष्ये तृतीयप्रपाठकस्यद्वितीया खण्डिका॥ ०॥
———————
गोभिलीयगृह्यसूत्रे
तृतीयापाठके तृतीया खण्डिका।
गोदानव्रतान्ते देवपर्व्वणां श्रावणविधानात् श्रवणादूर्ध्वमेवाध्ययनेप्राप्ते वेदारम्भस्य कालो विधातव्यः। उपाकरणञ्च छन्दसांवक्तव्यम्। कस्मात् ? एवं हि स्मरन्ति। ‘छन्दांस्युपाकृत्याधीयीत’–इति। अतस्त द्विधानार्थमिदमाह,–
प्रौष्ठपदोभाद्रपदः।तस्येयं पौर्णमासी प्रौष्ठपदी। तां प्रौष्ठपदींप्रति। इस्तेन –इति, “नक्षत्रेण युक्तः कालः”–इत्यण्।“लुबविशेषे”–इति तस्य लुप्। “नक्षत्रे च लुपि”— इति सप्तम्यर्थेतृतीया। तेन हस्तयुक्ते काले–इत्यर्थः। स खल्वयं विकल्पः,—प्रौष्ठपदींवा हस्तेन वा–इति। कस्मात् ? प्रौष्ठपद्यां इस्तस्यासम्भवात् समुच्चयानुपपत्तः। कथमसम्भवः ? पौर्णमास्यां सूर्य्याचन्द्रमसोःपरमविप्रकर्ष-नियमात्। तथा चोक्तम्। “यः परमोविकर्षःसूर्य्याचन्द्रमसोःसा पौर्णमासी”–इति। हस्तयुक्तकालोऽपि भाद्रपदशक्लपक्ष एव ग्राह्यः। कुतः ? उपस्थितत्वात्।अथवा। प्रौष्ठपदस्येयं तिथिःप्रौष्ठपदी तिथिसामान्यं भण्यते।न पुनर्भाद्रपदपूर्णिमैव। कस्मात् ? " प्रोष्ठपदशुक्लपक्षे हस्तेणाचार्य्यः सशिष्यः प्राङ्मुखः उदङ्मुखो वा”-इत्यादिग्रुह्यपरिशिष्टवचनात्। सोऽयमेकः कालो न कालद्वयम्। तदेतस्मिन् कालेउपाकरणम्। उपाक्रियते प्रारभ्यते वेदस्याध्ययनं येन कर्म्मणा तदुपाकरणं नाम कर्म्मविशेषो वेदाध्ययनार्थं कर्त्तव्यम्—इतिसूत्रशेषः। उपाकरणं प्रकष्टग्रन्थाध्ययनम्—इति केचित्।
अत्र च प्रोष्ठपद्याम् इति सप्तम्यां प्राप्तायां द्वितीयाकरणंप्रतिशब्दाध्याहारार्थम्। तेन प्रति प्रौष्ठपदींहस्तेनोपाकरणम् —इति सिध्यति। यद्येवं किमतः? उत्सृष्टस्योत्सृष्टस्य छन्दसःभाद्रपदशुक्लपक्षे प्रतिवर्षमुपाकरणं कर्त्तव्यम्। एतदतः। कथंपुनरेतदवगम्यते,—यत् प्रतिशब्दमध्याहृत्य प्रतिवर्षमुपाकरणम्— इति ? लिङ्गादित्याह। “अतः आपुनरुपाकरणाद्वेदं न व्याहरेयुः " इति कर्म्मप्रदीपवचने खल्वापुनरुपाकरणादिति वचनादवगम्यते;—पुनः पुनरिदमुपाकरणं कर्त्तव्यम्—इति। अध्यापयितुराचार्य्यस्याध्ययनं कुर्व्वताञ्च शिष्याणां खस्वस्थानोच्छासविच्छेदादिभिः प्रमादकृतैश्छन्दसां यातयामत्वं भवति। यातयामैश्च छन्दोभिः कृतमपि कर्म्मन यथोक्तं फलं जनयति।तत् खल्वेतत् यातयामत्वमुपाकरणोत्सर्गलक्षणेन कर्मणाऽपनुद्यते। अस्मादपि कारणात् प्रतिवर्षमेवैतत् कर्त्तव्यम्। तथा चोक्तम्।
‘अस्थानोच्छासविच्छेदघोषणाध्यापनादिकम्।
यमादिकं श्रुतौयत् स्यात् यातयामत्वकारि तत्।
प्रत्यब्दं यदुपाकर्म्मसोत्सर्मं विधिवत् द्विजैः।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत्।
अयातयामैश्छन्दोभिर्यत् कर्म्मक्रियते द्विजैः।
क्रीड़मानैरपि सदा तत्तेषां सिद्धिकारकम्”।
इति॥ ०॥ १
उपाकरणविधिविवक्षया इदमाह,-
व्याहृतिभिर्हुत्वा शिष्याणा
व्याहृतिभिर्हत्वा सर्ब्बेषामेव शिष्याणां सावित्र्यनुवचनमाचार्य्येणकर्त्तव्यम्। यथोपनयने पछोऽर्द्धर्च्चंश ऋक्शस्तथैवानुवचनमत्रापिकर्त्तव्यमित्यर्थः। अत्र किञ्चिद्वक्तव्यमस्ति। हुत्वा—इत्येतावतिकृतेऽपि विशेषानुपदेशात् व्याहृतिभिरेव होमो भविष्यति।तस्माद्वाहृतिभिरिति वचनं कर्म्मक्रमार्थम्। कथन्नाम ? व्याहृतिभिर्हुत्वा अनन्तरं सावित्र्यनुवचनं कर्त्तव्यमिति। किमतोभवति ? एतदतो भवति,-व्याहृतिहोमादनुपदलेवानुवचनमुपदिशन् अन्योऽपि होमो व्याहृतिहोमात् पुरतः स्यात्—इति दर्शयति। व्याहृतिभिरित्यवचने हि व्याहृतिभिरेव होमःस्यात् न पुनरन्योऽपि। तस्माद्व्याहृतिभिरिति वचनमादितो होमान्तरद्योतनार्थम्।न चेदानीं तन्त्रसमापनाभावद्योतनार्थमेवकुतो न स्यादिति वाच्यम्। आचार्य्येणैव परतःकर्म्मापवर्गस्यसूत्रितत्वादिदानींतन्त्रसमापनस्याप्रसक्तेः। कस्मात् पुनः कारणात्सूचितोऽयमन्यो होमो वेदारम्भात् परत एव न भवति ?उच्यते। वेदारम्भात्परमेव कर्म्मापवर्गस्य सूत्रणात्तदानी-मन्यस्यहोमस्याभिनिवेशस्यासम्भवात्। किञ्चित् पुरस्तात्किञ्चिच्च परस्ताद्धोतव्यमित्यर्द्धजरतीयस्थानु-चितत्वाच्च। अत एव नियमार्थताऽपिवचनस्य नोच्यते। वाक्यभेदश्चैवमापद्येत।कुतः ? शिष्याणांसावित्र्यनुवचनं, तच्च व्याहृतिभिरेव हुत्वा—इत्यर्थभेदात्। अगत्यानहि क्वचित्तथा। न चात्रागतिरस्ति।चावागतिरस्ति। नियमे च गौरवमपिस्यात्। तस्माद् व्याहृतिहोमात् पुरस्तादेवान्यो होमः—इतिसिद्धम्। कर्म्मप्रदीपवचनाच्चैवमेवाचार्य्यस्याभिप्रायोऽवधार्य्यते। तच्चोदाहरिष्यामः।
आह।कःपुनरयमन्यो होमो नाम ? छन्दःप्रभृत्याहुतिषष्टिरूपः —इति ब्रूमः। कथम् ?—इति चेत्। उच्यते। संहितायां गायत्रीछन्दस्का या ऋचःपठ्यन्ते,तासामाद्यया ऋचातावदेकामाहुतिं जुहुयात्। एवमुष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दस्कानामपि ऋचामादिभूताभिरेकैकाभिः ऋग्भिरेकैकामाहुतिं जुहुयात्। एवन्तावत् सप्त छन्दआहुतयो भवन्ति।अनयैव रीत्या प्रतिच्छन्द आहुतयोऽपि सप्तैव भवन्ति। सप्तैवच विच्छन्दआहुतयः। तत्रातिच्छन्दोविच्छन्दसामपि च्छन्दोभेदत्वात् मिलित्वा एकविंशतिरेव छन्दआहुतयः सम्पद्यन्ते। एवंगानादीन् पञ्च, पर्व्वादीन् सप्तदश,संहितादीन् त्रीन्, ब्राह्मगादीनष्टौ, षड़ङ्गादीन् षट्, जुहुयात्। स खल्वयमाहुतिषष्टिरूपोऽन्यो होमः। ततो व्याहृतिभिर्हुत्वा सावित्र्यनुवचनम्।तदाह कर्म्मप्रदीपः। “पुरस्ताच्छालाया उपलिप्तेऽग्नेःपश्चादाचम्योपविश्य छन्दांसि विच्छन्दांसि सर्पिषा हुत्वा गानेषु पर्व्वादीन्वेदे षड़ङ्गे च ग्रन्थादीन्, ये वाऽधीताः येषां वा ज्ञायतेतान् जुहोति व्याहृतीश्च”—इति। अत्र’छन्दांसि’-इत्यतिच्छन्दसामप्युपलक्षणम्—इति नारायणोपाध्यायाः। अत्र खल्वादितश्छन्दोहोमादिकमभिधाय व्याहृतीश्च—इति करणात् व्याहृतिहोमात् प्राक्तनत्वमेव इन्दोहोमादीनां सुव्यक्तमवगम्यते। सखल्वयमाचार्य्यस्यास्पष्टोऽभिप्रायःकात्यायनेन स्पष्टीकृतः। स खल्वाचार्य्यस्यास्पष्टस्याभिप्रायस्य प्रदीप इव स्पष्टमुपदेष्टा, इत्यवोचाम।
न च “व्याहतीश्चेति सर्व्वाप्रायश्चित्तहोमपरम्”—इति नारायणोपाध्यायमतं युक्तमिति वाच्यम्। अवचनेऽपि तस्य प्रप्तत्वादानर्थक्यापत्तेः। एकस्य जुहोतिशब्दस्यैकत्र प्रधानहोमपरत्वमन्यत्र चप्रायश्चित्तहोमपरत्वमिति तात्पर्य्यभेदस्यान्याय्यत्वात्। तन्त्रसमापनस्यान्यत्राचार्य्येणोपदेशाच्च। तस्मात् कर्म्मक्रमार्थमेव तदुपादानम्।उपविश्य-इति करणमपि कर्म्मक्रमप्रदर्शनार्थमेव। कथन्नाम ?उपवेशनानन्तरमेव छन्दोहोमादयो भवन्ति न तु परस्तादपिइति। अन्यथोपवशनस्यापि परिभाषाप्राप्तत्वात्तदप्यनर्थकं स्यात्।
यच्च,—‘व्याहृतीश्च’—इत्यनन्तरम्, ‘ततः प्रतिसरान्’—इत्यादिना प्रतिसरबन्धनादिकमुक्तम्। तत्र, ‘उत्सर्गेणैवोपाकरणंव्याख्यातम्’—इति व्यवहितसप्युपाकरणं ततः—शब्देन परामृश्यते।तेन, उपाकरणकर्म्मणःपरं प्रतिसरबन्धनादिकमिति तस्यार्थः।कस्मात् ? ‘अव्यक्तं प्रधानगामि’—इति वचनात्। व्याहृतिहोमात्परमेवाचार्य्येण सावित्र्यनुवचनादेःसूत्रणाच्च।अपि च। व्याह्रतिहोमान्तस्यास्पष्टत्वात् तत् स्पष्टीकृत्य, व्याहृतिहोमात् पराचीनस्य कर्म्मकलापस्याचार्य्येणैव स्पष्टमुपदेशात् न पुनः स्पष्टीकरणमपेक्षितमिति तदनुक्त्वावक्ष्यमाणदध्यक्षतधानाभक्षयात्प्राक् प्रतिसरबन्धनमुपदिष्टं कात्यायनेन। तस्याचार्य्येणानुपदिष्टत्वात्। एवञ्च व्याहृतिहोमात् पराचीनस्याचार्य्योपदिष्टस्य कर्म्मकलापस्य बुद्धिस्थत्वात् तस्यैव ‘ततः प्रतिसरान्’—इति ततःशब्दात्परामर्थः,—इति न किञ्चिदनुचितम्।
यदपि केचिदाहुः,—छन्दांसीत्यादिद्वितीयानिर्देशात् छन्दःप्रभृतीनामेवात्र देवतात्वम्। ततश्च छन्दोभ्यः स्वाहा—इति वा, गायत्र्यैस्वाहा—इति वा जुहुयात्, —इति। तदप्यसङ्गतमेव। कुतः? षष्टिसङ्ख्यावचनात्। ऋगादिभिरेव होमस्याभिधानाच्च।तथा चोक्तम्।
“छन्दसामेकविंशानां संहितायां यथाक्रमम्।
तच्छन्दकाभिरेवर्ग्भिराद्याभिर्होम इष्यते।
पर्व्वभिश्चैव गानेषु ब्राह्मणेषूत्तरादिभिः।
अङ्गेषु च तथा मन्त्रैरितिषष्टिर्जुहोतयः”।
इत्ति॥ ०॥ २॥
सामसावित्रीञ्च॥ ३॥
अनुब्रूयादित्यनुवर्त्तनीयम्। सावित्रींऋचमाश्रित्य यत् साम मीयते, तदिह सामसावित्रीमित्युच्यते। गायत्रं सामेत्यर्थः। सामसावित्र्याप्राश्चेति वक्तव्ये सामसावित्रीञ्चेति विभक्तिव्यत्ययः क्रियते—द्वितीयानिर्देशबलात् समस्तस्यैव साम्नोऽनुवचनं यथा स्यादित्येवमर्थम्। इतरथा खल्वत्रापि यथोपनयने—पच्छोऽर्द्धर्च्चशःऋक्शः, तथैवानुवचनं स्यात्॥ ०॥ ३॥ ०॥
‘चशब्दो लुप्तवद्द्रष्टव्यः सोम**
“गायत्रीं च सगायत्रां बार्हस्पत्यमिति त्रिकम्।
शिष्येभ्योऽनूच्यविधिवदुपाकुर्य्यात्ततः श्रुतम् ”।
इति वचनात्। तस्मादस्मदुक्त एवार्थः॥ ०॥ ४॥ ०॥
आदितश्र्छन्दसोऽधीत्य यथार्थम्॥ ५॥
छन्दसःप्रकृतस्य ग्रन्थस्य आदितः किञ्चित् अधीत्य आरभ्य यथार्थमिति कर्म्मणःपरिसमाप्तिरुच्यते। तन्त्रसमापनमिदानींकर्त्तव्यमित्यर्थः। यच्च, यथार्थमिति वचनादिदानींछन्दोहोमादिकमितिवर्णयन्ति। तदसङ्गतम्। यथार्थशब्दस्य कर्म्मापवर्गसूचनार्थतायाएव सर्व्वत्रावगतेः। व्याहृतिहोमात् पूर्व्वमेव कर्म्मप्रदीपे तदुपदेशाच्च। तत् खल्वधस्तान्निवेदितमस्माभिः। एतस्मिन्नवसरेबाहौ प्रतिसरबन्धनम्। तदाह कर्म्मप्रदीपः। “ततः प्रतिसरान्दक्षिणे बाहावाबध्नीरन् स्वस्त्वयनार्थम्। अथ दध्यक्षतधाना भक्षयन्ति”—इति॥ ०॥ ५॥ ०॥
अक्षतधाना भक्षयन्ति धानावन्तं करम्भियमिति॥ ६॥
अक्षता यवाः, त एव भृष्टा धाना भवन्ति। तथा चोक्तम्।
“अक्षतास्तु यवाः प्रोक्ताः भृष्टा धाना भवन्ति ते”।
इति। अक्षतधानाग्रहणं गोधूमादिधानाप्रतिषेधार्थम्।धानावन्तमिति ऋचा न साम्ना। कुतः ? ऋगधिकारात्। भक्षयन्तिसर्व्वेप्राश्नन्ति॥ ०॥ ६॥ ०॥
दध्नः प्राश्नन्ति दधिक्राव्णोऽकारिषमिति॥ ७॥
दध्नः–इत्यवयवार्था षष्ठी। दध्नोऽवयवं सर्व्वेप्राश्नन्ति, दधिक्राब्रइति मन्त्रेण। तदत्रधानानां दध्नश्च पृथगेव प्राशनम्।कस्मात् ?सूत्रभेदेनैवोपदेशात्। भक्षयन्ति—इति ; प्राश्नन्ति—इतिच;क्रिययोःपृथगेव निर्देशाच्च। दधिप्राशनमन्त्रञ्चोच्छिष्टा एव पठेयुःप्राणाग्निहोत्रमन्त्रवत्। ननु कृताचमना एव दधि प्राशिष्यन्ति ?न। आचान्तोदकाः—इति परतःकरणादिदानीमाचमनाभावस्यावगमात्। अथवा। इदानीमाचमनस्यानुपदेशादिहोच्छिष्टतैव नास्ति—इत्यवगम्यते। यत्र खल्वाचमनं नोपदिशति, तत्रोच्छिष्टत्वमेव शिष्टा नेच्छन्ति। यथा प्राणाग्निहोत्रे सोमभक्षणादौच। धाना दधि चाखादयन्तो निगिरन्ति। तथाच कर्म्मप्रदीपः।“अथ दध्यक्षतधाना भक्षयन्ति, दधिक्राब्रेन दधि धानावन्तेतिधानाः, अखादयन्तो लेलिहन्ति, निगीयाचम्योपविश्यानुवचनमनुगानम्”-इति। अपरे तु—धानादघ्नोर्म्मिलितयोः प्राशनमिच्छन्ति ;-शुष्कानां धानानामभक्षयित्वा निगिरणशक्यंमन्यमानाः। तदसङ्गतम्। पृथक् प्राशनस्योक्तत्वात्। ग्रन्थान्तरेऽपि ‘दधिक्राव्रेनदधि धानावन्तेति धानाः’—इति भेदेनैवोपन्यासाच्च॥ ०॥ ७॥०॥
आचान्तोदकाः खाण्डिकेभ्योऽनुवाक्या अनुगेयाःकारयेत्॥ ८॥
यदा सर्व्वेशिष्या आचान्तोदकाःसन्त उपविशन्ति, तदाखाण्डिकेभ्यः शिष्यसमूहेभ्यःअनुवाक्या अनुगेयाश्चकारयेत्। आचार्य्यःस्वयमुक्ता अनु पश्चात् शिष्यान् वाचयेत्‚ स्वयञ्चगीत्वाशिष्यान् गापयेदित्यर्थः। सेयं खाण्डिकेभ्यः —इतिचतुर्थी व्यत्ययात् द्वितीयार्थे वर्णनीया।खाण्डिकः समूहोघटेत्यनर्थान्तरम्। तथा चोक्तम्। “घटा खाण्डिक उच्यते” —इति। काःपुनरनुवाक्या अनुगेयाश्चाभिप्रेयन्ते ? उच्यते। आचार्य्यवचनादनु पश्चात्- शिष्यैरुच्यन्ते—इत्यनुवाक्याःबहुवचनस्थार्थवत्त्वात् याः काश्चन तिस्र ऋचो भण्यन्ते। ता एव ऋचःआचार्य्यगानात् परतः शिष्यैर्गीयन्ते इत्यदुगेयाः,—तास्वेवर्क्षुगीयमानानि त्रीणि सामानि कथ्यन्ते। अन्ये तु, अनुगेयाः—इति व्यत्ययात् स्त्रीत्वमभ्युपगच्छन्तो यानि कानिचित् त्रीणिसामानि वर्णयन्ति, न तास्वेवर्क्षु गौयमानानि—इति।
एवं वा -
आचान्तोदका इति व्यत्ययात् द्वितीयार्थे प्रथमा। खाण्डिकेभ्यइत्यत्रापि तथैव द्वितीयार्थे चतुर्थी। तथाच आचान्तोदकान्खाण्डिकान् अनुवाक्या अनुगेयाःकारयेदिति पूर्व्ववदर्थः॥ ०॥८॥॥०॥
एवमुपाकरणात् परं किं तस्मादेवाह्नआरभ्याधीयते ? न। किन्तर्हि?
सावित्रमहः काङ्ङ्क्षन्ते॥ ९॥
सविता देवता यस्य, तत् सावित्रं हस्तनक्षत्रम्। तदयुक्तमहोऽपिसावित्रमित्याख्यायते। तद्योगात्तच्छन्दः। तदहःतदहःकाङ्क्षन्ते प्रतिपालयन्ति—तस्मिन्नह्नि नाधीयते — इत्यर्थः॥ ०॥ ९॥ ०॥
उदगयने च पक्षिणी
उदगयने उदञ्चं मार्गं प्रवृत्ते सवितरि। चशब्दात् पूर्ववदेवोपाकृत्य पक्षिणींरात्रि काङ्क्षन्ते। पक्षाविव दिवसावभितो यस्यारात्रेः सेयं दिनद्वयसहिता रात्रिः पक्षिणी—इत्युच्यते।
“द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते”।
इति वचनात्। इदञ्चोदगयनोपाकरणं येषामुत्तरारण्यकादीनांदक्षिणायनेऽध्ययनं प्रतिषिधं, तेषामध्ययनार्थं बोद्धव्यम्। तथाचोक्तम्।
“नाधीयीत रहस्यानि सोत्तराणि विचक्षणः।
न चोपनिषदश्चैव षण्मासान् दक्षिणायनान्।
उपाकृत्योदगयने ततोऽधीयीत धर्म्मवित्।
उत्सर्गश्चैक एवैषां तैष्यां प्रोष्ठपदेऽपिच”।
इति॥ ०॥ १०॥०॥
उभयत एके त्रिरात्रम्॥ ११॥
उभयत उभयस्मिन्नप्युपाकरणेत्रिरात्रमनध्यायमेके आचार्य्यामन्यन्ते। त्रिरात्रं खल्वेतदुपाकरणदिनेन सहैव बोद्धव्यम्॥०॥ ११॥ ०॥
आचार्य्याणाञ्चोदकोत्सेचनमुभयत्र॥ १२॥
उभयत्रउभयोरप्युपाकरणयोराचार्य्याणामुदकोत्सेचनंउदकाञ्जलिप्रक्षेपेण तर्पणं कर्त्तव्यम्। आचार्य्याणाम्—इति पूजायांबहुवचनम्। चशब्दादन्येषामपि ऋष्यादीनाम्। वक्ष्यति च,“च्छन्दा
एवं वा—
आचर्य्याणां बहुवचनादन्येषाञ्च ऋष्यादीनांतर्पणं कर्त्तव्यम्।चशब्दात् ऋष्यादिपूजनमपि कर्त्तव्यम्। अन्ये तु वर्णयन्ति, आचार्य्याणामित्यादिशब्दो लुप्तवद्द्रष्टव्यः–इति। तदिदं तर्पणादिकंहोमात् पूर्व्वंकर्त्तव्यम्। तदाह कर्म्मप्रदीपः। “उत्सर्गेणैवोपाकरणंव्याख्यातम्। ऋषिसामान्याप्लावयन्तस्तथैव निमज्याचम्य ऋषिसामानि गायन्त ऋषींश्च निगमादिभिः सम्पूज्य पुरस्ताच्छालायाउपलिप्तेऽग्नेःपश्चादाचम्योपविश्य छन्दांसि विछन्दांसि हुत्वा”—इत्यादि। अत्र यद्यपि ऋषिपूजा निमज्जनानन्तरपठिता, तथाप्युत्सर्गवन्निमज्जनतर्पणयोः पूर्व्वं प्रत्येतव्याः।निमज्य—इति पूर्व्वकालता जुहोत्यपेक्षया—इति नारायणोपाध्यायाः। युक्तञ्चैतत्।“उत्सर्गेणैवोपाकरणं व्याख्यातम्”–इत्यतिदेशस्यार्थवत्त्वात्। किमन्यत् कुर्य्यादतिदेशः क्रमं विना। ऋष्याद्याप्लावनादीनि हि स्वपदेनैव निर्दिश्यन्ते।
अन्ये तु व्याचक्षते,—आचार्य्याणां गुरूणां बहुबचनात् तत्पुत्रादीनामपि उदकोत्सेचनं गन्धोदकोद्वर्त्तनेनाङ्सोत्सादनं कर्त्तव्यम् - इति। तदसङ्गतम्। कस्मात् ? अशब्दत्वात्। तर्पणस्य चस्फुटमुपदेशात्।
“उत्पादनञ्च गात्राणां स्नपनोच्छिष्टभोजने।
न कुर्य्याद्गुरुपुत्रस्यपादयोश्चावनेजनम्”।
इति मनुना गुरुपुत्रस्य गात्रोत्सादननिषेधाच्च॥ १२॥ ०॥
श्रवणामेक उपाकृत्यैतमासावित्रात् कालं काङक्षन्ते॥ १३॥
श्रवणां श्रवणयुक्तां श्रावणस्य पौर्णमासीम्-—इति केचित्। कस्मात् ?“श्रवणेन श्रावण्यां पौर्णमास्याम्”—इति गृह्यान्तरात्। “श्रवणांश्रवणनक्षत्रम्”—इत्यपरे। कस्मात् ? “श्रवणेन श्रावणस्य “—इति गृह्यान्तरात्। तदत्र भगवन्तो भूमिदेवाः प्रमाणम्।द्वितीया व्याख्याता। श्रवणां प्रत्युपाकृत्य, आसावित्रात् हस्तनक्षत्रपर्य्यन्तम्, एतं कालम् एके काङ्क्षन्ते। श्रवणामुपाकृत्यतावन्नपठन्ति, यावद्भाद्रपदे हस्तः–इति॥ ०॥ १३॥ ०॥
तैषीमुत्सृजन्ति॥ १४॥
तैषः पौषः। तस्येयं तिथिः तैषी। तां प्रत्युत्सृजन्ति,—एके—इत्यनुषज्यते। तथा च गृह्यान्तरकारः। “श्रवणेन श्रावण्यांपौर्णमास्याम्”—इत्युपाकरणं सूत्रयित्वा, “पौषस्य रोहिण्यांमध्यमायां वाऽष्टकायामध्यायानुत्सृजन्ति”—इति पौषे मास्युत्सर्गं सूत्रयाञ्चकार—इति। अथवा तिष्यः पुष्यनक्षत्रम्, तदुयुक्ता याकाचित्तिथिः सा तेषी। तां प्रत्युत्सृजन्ति उत्सर्गाख्यं कर्म्मकुर्व्वन्ति। तैषीं पौर्णमासीमिति कुतोन वर्ण्यते ? सर्व्वत्राविगानेनानुष्ठानात्।
“पुष्ये तु छन्दसां कुर्य्याद्वहिरुत्सर्ज्जनं द्विजः”।
इति ममुवचनाच्च। सा खल्वियं तैषी द्वयीबोद्धव्या। कथन्नाम?प्रौष्ठपदोपाकरणपक्षे उदगयनशुक्लतैषीम्, उदगयनोपाकरणपक्षेतु प्रौष्ठपदतैषी प्रत्युत्सर्गः। एवञ्च “प्रौष्ठपदे तिष्येण वहिः”–इत्यादिकर्म्मप्रदीपवचनमपि उदगयनोपाकरणपक्ष एव प्रौष्ठपदे उत्सर्गविधायकं मन्तव्यम्। आरण्यकादीनां खल्वध्ययनार्थमुदगयनोपाकरणम्। तस्यैव च प्रौष्ठपदे उत्सर्गः।
“उप्राकृत्योदगयने ततोऽधोयीत धर्मवित्।
उत्सर्गश्चैक एवैषां तैष्यां प्रौष्ठपदेऽपि च”।
इति वचनात्। प्रौष्ठपदोपाकरणे तु न प्रौष्ठपद एवोत्सर्मः।तत्रहस्तेनोपाकरणकर्त्तस्तत्रैव पुनस्तिष्येणोत्सर्गस्यासम्भवात्। अतएव मनुनाऽपि,—
“तिष्ये तु छन्दसां कुर्य्याद्वहिरुत्सर्ज्जनं द्विजः।
माघमासस्य वा शुक्लेपूर्व्वाह्नेप्रथमेऽहनि”।
इति वचनोत्तरार्द्धेन प्रौष्ठपदोपाकरणपक्षाभिप्रायेणैवोदगयनेउत्सर्गोऽभिहितः।
प्रौष्ठपदोत्सर्गात् परतस्तु यावदन्यदुपाकरणं न क्रियते, तावदारण्यकादीनामध्ययनं न कर्त्तव्यम्। कस्मात् ? “प्रौष्ठपदेतिष्येण वहिः”—इत्यादिना उत्सर्गमभिधाय, “अत आपुनरुपाकरणाद्वेदं न व्याहरेयुरन्यत्रब्रह्मयज्ञात्”—इति कर्म्मप्रदीपवचने अतः शब्देन प्रकृतस्यैवोत्सर्गस्यावगतेः।
“नाधीयीत रहस्यानि सोत्तरावि विचक्षणः।
न चोपनिषदश्चैव षण्मासान् दक्षिणायनान्”।
इति वचनेन दक्षिणायने सर्व्वदेवारण्यकादीनामध्ययननिषेधाच्च।अन्यानि तु छन्दांसि उत्सर्गात् परमपि शुक्लपक्षेऽध्येतव्यानि।तदाह मनुः।
“यथाशास्त्रन्तु कृत्वैवमुत्सर्गं छन्दसां वहिः।
विरमेत् पक्षिणीं रात्रिंतदेवैकमर्हनिशम्।
अत ऊर्द्धन्तु छन्दांसि शुक्लेक्षु नियतः पठेत्।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु सम्पठेत्”।
इति। तदिदं वचनं परिशेषादारण्यकाद्दिव्यतिरिक्तविषयमेवावधार्य्यते। तस्मादारण्यकादीनामेवा- पुनरुपाकरणादनध्यायो नान्येषाम्। केचिदेतदबुड्डा बहु विरुद्धं ब्रुवन्ति स्म। अलं ग्रन्थगौरवजनकेन तदीयदूषणोपन्यासेन ?
वस्तुतस्तु अस्माकमुपाकरणद्वैविध्येऽप्युत्सर्गस्य न द्वैविध्यम्।उत्सर्गः खल्वेकएवोभयोरप्युपाकरणयोः प्रौष्ठपदे तैष्यां स्यात्।कुतः? उभयमुपाकरणं सूत्रयित्वा परतस्तैष्यामुत्सर्गस्य सूत्रणात्तथाऽवमतेः। अतएव कात्यायनेनापि ‘प्रौष्ठपदे तिष्येण वहिः’इत्यादिना तथैवाह। न चेदमुदगयनोपाकरणाभिप्रायं वचनमित्यत्रप्रमाणमस्ति। तथात्वेचोत्सर्गान्तरं न स्वादेव। अनुपदेशात्।तस्मादेक एवोत्सर्गः प्रौष्ठपदे तिष्येनेत्यवधार्य्यते। अतएवोभयमुपाकरणमुपदिश्य-
“उत्सर्गश्चैक एवैषां तैयां प्रौष्ठपदेपिच”।
इत्येकमेवोत्सर्गमभिधत्ते। न च, प्रौष्ठपदे हस्तेनोपाकरणकर्त्तुस्तत्रैव पुनस्तिष्येणोत्सर्गों न सम्भवतीति वाच्यम्। वर्षान्तरे प्रौष्ठपदे हस्तेनोपाकर्त्तुर्वर्षान्तरे तत्रैव तिष्येणोत्सर्गस्य सम्भवात्। तथा गार्ग्यः—
" सिंहे रवौ तु पुष्यर्क्षेपूर्व्वाह्नेऽविवरे वहिः।
छन्दोगा मिलिताः कुर्य्युरुत्सर्गं स्वस्वच्छन्दसाम्॥
शुक्लपक्षेतु हस्तेन उपाकर्म्मापराह्निकम्”।
इति सिंहे रवौ पुष्यर्क्षेउत्सर्गमभिधाय हस्तेनोपाकरणमभिदधानएतदेवाह। अस्माद्वचनादस्माक-मुपाकरणे अपराह्नः कालः स्यात्।
“अध्यायानामुपाकर्म्म कुर्य्यात् कालेऽपराह्णिके।
पूर्व्वाह्णे तु विसर्गःस्यादिति वेदविदो विदुः”॥
इति परिशिष्टवचनाच्चैतदेवं प्रतिपत्तव्यम्। ग्रोभिलस्यैतदितिहेमाद्रिः। तथा तस्यैव,–
“छन्दोगा मिलिताः कुर्य्यःप्रातरौत्सर्गिकींक्रियाम्।
अपराह्णेह्युपाकर्म्मपुष्यहस्तक्षयोर्द्विजाः”।
इति। यदा पुनःसिंहस्थे सूर्ये शुक्लपक्षे योहस्तः तस्मात् प्राचीनःपुष्यःकर्कटस्थे रवौ भवति, तदा तत्रैव पुष्ये उत्सर्गःकरणीयः।कुतः ?
“मासे प्रौष्ठपदे हस्तात् पुष्षः पूर्वोभवेद् यदा।
तदा तु श्रावणे कुर्य्यादुत्सर्गं छन्दमां द्विजः”॥
इति परिशिष्टोक्तेः। तथा प्रौष्ठपदे हस्तस्य दुष्टत्वेतत्रोपाकरणंनिषेधति चतुर्व्वर्गचिन्तामणौ स्मृतिः।
“उपाकर्म्म न कुर्व्वन्ति क्रमात् सामर्ग्यजुर्व्विदः।
ग्रहसंक्रान्तियुक्तेषु हस्त-श्रवण-पर्व्वसु”॥
इति। तदेवम्भूतस्थले श्रावस एव हस्ते उपाकरणं कर्त्तव्यंभवति।
“बह्व्रुचाः श्रवणे चैव हस्तर्क्षेसामवेदिनः”।
इति परिशिष्टवचनात्। श्रावणे हि बह्व्रुचाःश्रवणेनोपाकुर्व्वन्ति।गोभिलस्यैतदिति निर्णयामृतकारः।
“धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रऋक्षसमन्वितम्।
श्रावणं कर्म्मकुर्वीरन् ऋग्यजुः सामपाठकाः॥
इति परिशिष्टवचनान्तरेऽपि श्रावणंकर्म्मेतिसमाख्यया तथाऽवगम्यते। विशेषमाहतुव्वृर्द्धमनुकात्यायनौ—
“अर्द्धरात्रादधस्ताच्चेत् संक्रान्तिग्रहणं तदा।
उपाकर्म्मन कुर्वीत परतश्चेन्न दोषकृत्”॥
इति। तस्मादियमेवावधारणा,–प्रौष्ठपदीं इस्तेनोपकृत्य देवपर्व्वाणि गेयगानादीनि तावदधीयीत यावदब्दान्तरे प्रौष्ठपदे तिष्यःभवति। उदगयने चोपाकृत्योत्तरारण्यकादिकं यावत् षण्मासानधोयीत, ततः प्रौष्ठपदे तिष्येण द्वयोरुत्सर्गं कुर्य्यात्। उत्सर्गात्परतस्तु यावदन्यदुपाकरणं न क्रियते, तावद्वोदंन व्याहरेदन्यत्रब्रह्मयज्ञात्। अस्मच्छास्त्रे तथैवोपदेशात्।
एवं च उत्सर्गात् परमपि शुक्लपक्षेषु छन्दसामध्ययनबोधकानियानि मन्वादिवचनान्युदाहृतानि, तानि अस्मद्व्यतिरिक्तविषयाणिबोद्धव्यानि। अस्मच्छास्त्रे प्रौष्ठपदशुक्लपक्षे तिष्येणोत्सर्गात् परतः पुनस्तत्रैव हस्तेनोपाकरणविधानात् तेषां वचनानां न खल्वत्रावकाशोभवतीति॥ उत्सर्गविधिश्च कर्म्मप्रदीपादवगन्तव्यः॥ ०॥ १४॥ ०॥
अथेदानीमाचार्य्यादीनामुदकोत्सेचनविधिरभिधीयते—
** प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य या आपोऽनवमेहनीयास्ता अभ्येत्योपस्पृश्य छन्दा_(
प्राङ्मुखो वा उदङ्मुखो वा ग्रामानिष्क्रम्य। सोऽयं ग्रामान्निष्क्रमण एव प्राङ्मुखत्वादिनियमः। न पुनरपामपि प्रागादिदिगवस्थितत्वम्। या आपोऽनवमेहनीयाः। मेहनं मेठ्र, तस्मादवाचीनाःअवमेहनीयाः ताः न भवन्ति—इत्यनवमेहनीयाः,नाभिदघ्नाः — इत्येतत्। तथा चोक्तम्। “नाभिदघ्न उदकेऽनुपविष्टाः”— इति। ता एवम्भूता अपोऽभ्येत्य प्राप्य, उपस्पृश्य स्नात्वा,च्छन्दः प्रभृतींस्तर्पयेयुः सर्वे। चशब्दाह्ब्रह्मादींश्च तर्पयेयुः।
तर्पणञ्चेदं कुशमयान् ऋषीन् स्थलस्थान् गन्धादिभिः सम्पूज्यकर्त्तव्यम्। तर्पणानन्तरञ्च स्थलस्थानामृषीणां जलाञ्जलिप्रक्षेपेणाभिषेकःकर्त्तव्यः। तथाच कर्म्मप्रदीपः। “कौशानृषीन् स्थलस्थान्गन्धमाल्यदिभिः सत्कृत्य नाभिदघ्नउदकेऽनुपविष्टा ब्रह्माणं वेदान्देवानृषींश्छन्दांस्याचार्य्यांश्च तर्पयेयुः, उच्चैर्ऋषीनभिषिञ्चन्ति”— इत्यादि। “ऋषीणां सिच्यमानानाम्”— इति च। अत्र च श्रुतयैव विभक्त्या तर्पणं बोद्धव्यम्। तेन ॐ ब्रह्माणं तर्पयामि— इत्यादिकःप्रयोगः। तथाच नित्यतर्पये कर्म्मप्रदीपः।
“यवाद्भिस्तर्पयेद्देवान् सतिलाद्भिः पितृृनपि।
नामाऽन्ते तर्पयामीति आदावोमिति च ब्रुवन्”।
इति। तदिदमुपाकरणादुत्सर्गाच्च परं सूत्रयन्नाचार्य्यउत्सर्गेऽपितर्पणं दर्शयति। एतच्च कर्म्मप्रदीपकृता स्पष्टीकृतम्। तदिदमुपाकरणमुत्सर्गश्चगृहस्थवानप्रस्थाभ्यामपि कर्त्तव्यम्। अन्यथाखल्वयातयामता च्छन्दसां न भवेत्। तथाच स्मरणम्।
“उपाकर्म्मोत्सर्ज्जनञ्च वनस्थानामपीष्यते।
धारणाध्ययनाङ्गत्वात् गृहिणां ब्रह्मचारिणाम्”।
इति॥ ०॥ १५॥ ०॥
अथेदानीमनध्यायविवक्षयेदमाह—
** तस्मिन् प्रत्युपाकरणेऽभ्रानाध्याय आपुनरुपाकरणाच्छन्दसः॥ १६॥**
उदगयमोपाकरणं प्रत्युषाकरणमुच्यते। तस्मिन् प्रत्युपाकरणे कृतेसति। अभ्रानाध्यायः। अभ्रदर्शनीऽनाध्यायोऽभ्रानाध्यायः। सदैवाभ्राणां सद्भावादभ्रदर्शनातिशयिकं गृह्यते —इति कर्कोपाध्यायाः। अभ्रदर्शनञ्चेदं सर्वरूपोपपन्नम्इति भट्टनारायणोपाध्यायाः। किं पुनरत्र तत्वम् ? उत्तरं तत्त्वमिति ब्रूमःकस्मात् ? “प्रभ्रादर्शने च सर्वरूपे”—इति गृह्यान्तरात्। कतमानि पुनस्तानि रूपाणि कियन्ति च ? उच्चते। अभ्रावायुस्तनितविद्युदवर्षाणि पञ्चैव।
अध्ययनमध्यायः आ अध्यायःआध्यायः, न आध्यायः, अनाध्यायः। एवञ्च सम्यगध्ययननिषेधात् गुरुमुखाद् यदध्ययनं क्रियते,तत्रैवानध्यायो न तु व्याख्यानचिन्तनादावपि,—इति बोद्धव्यम्।गौतमोऽप्याह।
“नित्ये जपे च काम्ये क्रतौ पारायणेऽपिच।
नानध्ययोऽस्ति वेदानां ग्रहणे ग्राहणे स्मृतः”।
इति। कियन्तं कालं यावदनाध्यायः ? आ पुनरुपाकरणात्। पुनरुपाकरणपर्य्यन्तम्। कस्य अनाध्यायः ? च्छन्दसःवेदस्य। तेनवेदाङ्गादीनामध्ययनेऽप्यदोष एव। तथाच स्मरन्ति।
“वेदोपकरणे चैव स्वाध्याये चैव नैत्यिके।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि”।
इति।
“तस्मादहरहर्वेदमनध्यायमृते पठेत्।
यदङ्गं तदनध्याये गुरोर्वचनमाचरन्”।
इति चैवमादि॥ ०॥ १६॥ ०॥
विद्युत्स्तनयित्नुप्रुषितेष्वाकालम्॥ १७॥
विद्युत् प्रसिद्धा।स्तनयित्नुःसशब्दो मेघः। पृषन्ति विन्दवःसंजातान्यस्येति पृषितं वर्षणमित्येतत्। पृषोदरादित्वात् तत् पदंसिद्धम्। एतेषु समासकरणान्मिलितेषु जातेषु, आकालं —निमित्तकालादारभ्य अपरेद्युर्यावत् स एव कालस्तावन्तं कालम्।छन्दसोऽनाध्यायः—इत्यनुवर्त्तते। तानि खल्वेतान्यनृतौ यदैवजायन्ते तस्मादेव कालादारभ्य आकालमनध्यायं कुर्व्वन्ति, ऋतौ तु प्रादुष्कृताग्निसमय एव।तथा च मनुः।
“विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे।
आकालिकमनध्यायमेतेषु मनुरव्रवीत्।
एतांस्त्वभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने”।
इति। अत्र खलु, ‘अनृतौ चाभ्रदर्शने’,—इति परतःकुर्व्वन् प्रादुष्कृताग्निष्वमीषामभ्युदये ऋतावप्याकालिकमनध्यायं बोधयति।सन्ध्यासु विद्युत्स्तनितयोः सन्निपाते पुनःसज्योतिरनध्यायः,वर्षणे त्वहोरात्रम्।कस्मात् ?
“प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने।
सज्योतिः स्यादनध्यायःशेषे रात्रौ यथा दिवा”।
इति मनुवचनात्। तदत्र, ‘विद्युत्स्तनितनिस्वने’,—इति समासकरणात् द्वयोः सन्निपातं दर्शयति। शेषे, विद्युत्स्तनितवर्षेषु,—इति त्रयाणां पूर्व्वक्तानां शेषे–वर्षे सति, यथा दिवाऽनध्याय-स्तथारात्रावपीत्यहोरात्रमित्यर्थः। रघुनन्दनस्त्वेतद्विशेषमनालोचयन् ;महोल्कासहचरितत्वेन महागर्ज्जनमाकालिकम्, अल्पगर्जने तुसज्योतिरनध्यायः—इत्येकत्र वर्षासु सज्योतिरिति चान्यत्र,वर्णयाञ्चकार। यत् पुनर्हारीतवचनम् – ‘सायंसन्ध्यास्तनिते रात्रिंप्रातःसन्ध्यायामहोरात्रम्”—इति केवलस्तनितेऽप्यनध्यायं विदधाति, तदपि वाचनिकत्वादविरुद्धम्। यदि पुनर्विद्युत्स्तनितयोःसन्निपाते सज्योतिः, केवलस्तनिते अहोरात्रमिति वैषम्यादयुक्तमिति विभाव्यते, तदा तद्वचनं धर्म्मनैपुण्यकामं प्रति बोद्धव्यम्।कुतः ?
“नित्यानध्याय एव स्याद्गामेषु नगरेषु च।
धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा”।
इति मनुवचने धम्मनैपुण्यकामनयाऽप्यनध्याये विशेषदर्शनात्।विद्यानैपुण्यकामस्य तु नैषोऽनध्यायः—इति द्रष्टव्यम्। अनयैवदिशा,,—
“सन्ध्यायां गर्ज्जिते मेघे शास्त्रचिन्तां करोति यः।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम्”।
इत्येवमाद्याः स्मृतयोऽपि व्याख्याताः। सोऽयं मनोःस्वरसलभ्यःशास्त्रार्थः। अथात्रापरितोषोऽनध्यावरुचीनाम् ; — प्रत्येकमेवामीषामनध्यायनिमित्तत्वमस्तु। तथापि वचनान्तराणि धर्म्मनैपुण्यविद्यानैपुण्यकामविषयतयैव व्याख्येयानि। तत्राप्यतिशयविशेषाद्विशेषःविवेचनीयः। अथवा। अस्मदाचार्य्यस्यैतावदेव मतं,मतान्तराणि चान्येषामिति न किञ्चिदनुचितम्। मतभेदाःखल्वेते उच्चावचानध्यायकल्पाः। न त्वेषां विरोधपरिहारार्थमतीवयतितव्यमिति। सा चेयं रीतिरन्यत्रापि यथासम्भवमनुसरपीया॥ ०॥ १७॥०॥
उल्कापातभूमिचलनज्योतिषोरुपसर्गेषु॥ १८॥
उल्का‚—
“वृहच्छिखा च सूक्ष्माग्रा रक्तनील शिखोज्ज्वला।
षौरुषी च प्रमाणेन उल्का नानाविधा मता”।
इत्युक्तलक्षणा। तासां पाते इतस्ततोऽनेकमहोल्कानां सम्पाते।कुतः ? “महोल्कानाञ्च संप्लवे”—इति वचनात्। एतेनोल्कापातेऽहोरात्रानध्यायविधायिकाः स्मृतयोऽपि व्याख्याताः। भूमिचलने पृथिव्यायां चलितायाम्। तत्राहोरात्रामध्यायपरं स्मृत्यन्तरं विद्यानैपुण्यकामविषयं वर्णनीयम्। ज्योतिषोश्च सूर्य्याचन्द्रमसोरुपसर्गे ग्रहणे। एतेषु निमित्तेषु आकालं छन्दसोऽनाध्यायः— इति वर्त्तत एव। समासकरणमत्र लाघवार्थम्। एकेकशःखल्वमीषामनध्यायनिमित्तत्वम्। तच्च ऋतावप्यविशिष्टम्।तथाच मनुः।
“निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्ज्जने।
एतानाकालिकान् विद्यादनध्यायानृतावपि”।
इति। अत्र खल्वसमासकरणात् बहुवचननिर्देशाच्च प्रत्येकमेषामनध्यायनिमित्तत्वमवगम्यते। यत्तु,—
" त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके”।
इति मनुवचनम्।तद्धर्म्मनैपुण्यकामविषयम्। यदपि,–
“समाप्य वेदं द्यु निशमारण्यकमधीत्य च।
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके”।
इति याज्ञवल्क्यवचनम्। तद्विद्यानैपुण्यकामपरमित्यविरोधः।अपरे त्वाहुः। द्युनिशमिति प्रकृतेऽपि “कृतेऽन्तरे त्वहोरात्रम्”–इति तस्यैव परतोऽपि अहोरात्रग्रहणं राहुसूतकादीनामाकालिकत्वप्रज्ञापनार्थम् इति। यच्च, त्रिरात्रानध्ययनं ग्रस्तास्तोदयमात्रविषयम् –इति तत्त्वकारादिभिर्वर्णितम्। तदप्रमाणम्।अनिष्टाधिक्यमिति चेन्नाविशेषात्। इति चेत् पश्यसि, –ग्रस्तास्तोदयपक्षे अनिष्टाधिक्यादनध्यायाधिक्यम् –इति। तन्न। कस्मात् ? अविशेषात्। न खल्वनिष्टाधिक्यस्यानध्यायाधिक्यहेतुत्वेवचनमस्ति, –इति तत्राप्यविशिष्टःतत्राप्यविशिष्टः प्रमाणभावः। तदभावेऽप्युपदेशाच्चायुक्तम्। वसन्तादिषु खल्वृतुषु निर्घातादयः किल नदोषमावहन्ति। परमेषामनिष्टजनकत्वाभावेऽप्यनध्ययनमुपदिश्यते।तथा चोक्तम्। “अनध्यायानृतावपि”—इति। अनिष्टाधिक्यस्यानध्यायाधिक्यहेतुत्वे त्वनिष्टाभावेऽनध्याय एव न स्यात्।तस्मादनिष्टजनकत्वा-भावेऽप्यनध्यायोपदेशात् अनिष्टाधिक्यादनध्यायाधिक्यमित्येतदयुक्तम्।
यच्चापरमुक्तम्,—चैत्रश्रावणमार्गशौर्षाणामादिप्रतिपदां नित्यानध्यायत्वात् राहुसूतके, इत्यपि नित्यत्वार्थम्।अन्यथातदहोरात्रस्य पञ्चदशीप्रतिपद्घटितत्वादनध्यायप्राप्तौ राहुसूतकइत्यनेन पुनरनध्यायाभिधानेऽनुवादापत्तेः, – इति। तदप्यसङ्गतम्। कस्मात् ? प्रमाणविशेषस्याभावात्। अपि च।
“इमान् नित्याननध्यायानधीयानो विवर्ज्जयेत्”।
इत्युपक्रम्य मनुना पञ्चदश्यादीनामप्युपदेशात्पञ्चदश्यादीनामपिनित्यानध्यायत्वमेवेति तत्रापि पञ्चदश्यंशे अनुवादोऽवर्ज्जनीयःस्यात्। तद्वरंराहुसूतके –इत्याकालिकाभिप्रायमित्येव मतमाद्रियताम्। पञ्चदशीप्रतिपदोः सन्धावुपरागस्य सम्भवेन चैत्राद्यतिरिक्तप्रतिपदां काम्यानध्यायत्वाभ्युपगमेन च पुनरुक्तेरनवकाशादिति धीमद्भिरवधेयम्। ब्राह्मणपरिव्राजकन्यायेन समाधानन्तुपक्षान्तरेऽपि समानम्। एवमपरापराण्यपि वचनानि व्याख्येयानि। प्रकृतमनुसरामः॥ ०॥ १८॥ ०॥
निर्घाते च॥ १९॥
आकालं छन्दसोऽनाध्यायः - इत्यनुवर्त्तते। निर्घातश्च,–
“यदाऽन्तरीक्षे बलवान्मारुतो मरुताऽऽहतः।
पतत्यधः स निर्घातो जायते वायुसम्भवः”।
इत्युक्तलक्षणः। यच्च,—निर्घातःसशब्द उल्कापातः,—इति वर्णितम्। तदुक्तवचनानवलोकनेन॥ ०॥ १९॥ ०॥
अष्टकामावण्यासु नाधीयौरन्॥ २०॥
अष्टकाश्चश्रमावस्याश्चअष्टकामावस्याः,तासु नाधीयीरन्।बहुवचनं व्यक्तिमेदाभिप्रायम्। अमावस्यासाहचर्य्यादष्टकापदमष्टमीमात्रपरम्।न पुनरपूपाष्टकादीनामष्टकापदेन ग्रहणम्।
“चतुर्दश्यां पञ्चदश्यामष्टम्यां राहुस्तके”।
इति।
“पक्षद्वये चतुर्दश्योरष्टमीद्वितये तथा।
पक्षादावपि पक्षान्ते ब्रह्म नाधीयते नरैः”।
इति चैवमादिवचनान्तरेषु अष्टम्या एव बहुलमुपलम्भाच्च। अपूपाष्टकादिषु किल त्रिरात्रमनध्यायमिच्छन्ति। कस्मात् ? “त्रिस्रोऽष्टकास्त्रिरात्रम्”—इति गौतमसूत्रात्। अत्र खल्वेकरात्रमनध्ययनं वक्ष्यामः।
आह। अनाध्यायःअनाध्यायः, —इत्यनुवर्त्तत एव, किमर्थं पुनरिह’नाधीयीरन्’—इति सूत्रितम् ? उच्यते। अनाध्यायः—इतिप्रकृते यत् पुनर्व्वचनं तदित आरभ्याहोरात्रिकाअनध्यायाः अधस्तादाकालिकाः,—इति प्रज्ञापनार्थम्।अपिच। अनाध्यायः—इत्यमुवर्त्तने छन्दसः—इत्यप्यनुवर्त्तेत। अतस्तन्निरासार्थं नाधीयोरन्—इति वचनम्। एवञ्च, इह छन्दसः,—इति विशेषाभावादङ्गादीनामप्येवमादयोऽनध्याया भवन्ति। तथा च गृह्यान्तरम्। “वातेऽमावस्यायामिति सर्वानध्यायाः “–इति। सर्व्वशब्दादङ्गानामपि न च्छन्दसामेव,–इति कर्कभाष्यम्। सर्व्वग्रहणेन शिल्पाद्यपि गृह्यते, शिल्पिनामपि ह्यनध्यायप्रसिद्धिरस्ति,–इति चाहुः। तथा च पुराणस्मरणम्।
“अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः।
न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्जयेत्”।
इति। यत् पुनर्व्वचनान्तरम्, —“उल्कायामग्न्युत्पाते सर्व्वासांविद्यानामाकालिकम्”–इति सर्व्वग्रहणादङ्गादीनामप्यनध्यायमुपदिशति। तद्धर्म्मनैपुण्यकामविषयम्। अष्टम्यादिष्वपि विष स्मृत्यन्तरेऽभिहितः। तथा चापस्तम्बः।
“उदयेऽस्तमये वापि मुहूर्त्तत्रयगामि यत्।
तद्दिनं तदहोरात्रमनध्यायविधौविदुः।
केचिदाहुःक्वचिद्देशे यावत्तद्दिननाड़िकाः।
तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे”।
इति।‘तत्र पूर्व्ववचनमुत्तरमीमांसाध्यायिभिः परिगृहीतं परवचनन्त्वन्यग्रन्थपरम्। यत्तु निर्णयामृतष्टतम्,—
“प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी।
दिनं दूषयते सर्व्वं सुरा गव्यघटं यथा”।
इति। तद्दूषयते,—इत्यभिधानात् पूर्व्ववर्त्तितामात्रेण सर्व्वदिनदूषणाय’—इति तत्त्वकारः॥ ०॥ २०॥ ०॥
पौर्णमासीषु च॥ २१॥
नाधीयोरन्—इत्यनुवर्त्तते। चशब्दाच्चतुर्दशीषु च। तथाच मनुः।
“अमावस्या गुरु हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताःपरिवर्ज्जयेत्”।
इति। अमावस्थापौर्णमासीग्रहणात् प्रतिपदोऽपि ग्रहणमिच्छन्ति।कस्मात् ? “द्वे ह वै पौर्णमास्यौद्वेअमावस्ये”—इति श्रुतेः।गौतमोऽपि। “अमावस्यायाञ्च द्व्यहं वा’—इति सूत्रयन्नेतदेवदर्शयति। यत् पुनर्हारीतस्मरणम्। “चैत्रश्रावणमार्गशीर्षाणामादिप्रतिपदो नित्याः”—इति। तत्तासां नित्यत्वमात्रार्थं नपुनरन्यासामध्यायत्वप्रज्ञापनार्थम्। विद्यानैपुण्यकामविषयं वा ॥ ०॥ २१॥ ०॥
तिसृषु कार्त्तिक्यां फाल्गुन्यामाषाढाञ्च॥ २२॥
तिसृषु च पौर्णमासेषु कार्त्तिक्यादिषु नाधीयीरन्। स खस्वयंविद्यानैपुण्यकामं प्रत्युपदेशो बोद्धव्यः। एवञ्च तस्यान्यासुपौर्णमासीष्वध्ययनमनिषिद्धम्।
एवं वा —
सर्व्वासामेव पौर्णमासीनामनध्यायत्वस्य पूर्व्वमुक्तत्वादेतासु कश्चिद्विशेषो वाच्यः।कः पुनरसौ ? आसामुत्तरासु द्वितीयास्वप्यनध्यायः। सोऽयम्। कस्मात् पुनरिदमवगम्यते,—यदासामुत्तरासु द्वितीया स्वप्यनध्यायः ? –इति। यस्मात् पौर्णमासीग्रहणेनैवतदुत्तराः प्रतिपदोऽपि गृह्यन्ते। तदिदं विशेषोपादानमतोऽप्युत्तरस्यास्तिथेर्ग्रहणार्थमित्यवगच्छामः। –गौतमोऽपि। “कार्त्तिकीफाल्गुन्याषाढ़ी-पौर्णमासी तिस्रोऽष्टकास्त्रिरात्रम्” –इतिसूत्रयन्नेतदेवाह।
“कृष्णपक्षे द्वितीयायां फाल्गुनाषाढ़कार्त्तिके।
शुक्लाश्वयुक्द्वितीयायां नैवाध्ययनमाचरेत्”।
इति च वचनान्तरम्। अन्ये त्वाहुः। कार्त्तिक्यादीनामनध्यायत्वस्यसिद्धत्वात् तासु गतासु अनध्ययनमिहोपदिश्यते। तत्र च कार्त्तिक्यादीनां शुक्लपक्षीयत्वात् तदुत्तरा शुक्लपक्षीयैव काचित्तिथिरिहाभिप्रेतेत्यवगम्यते। उपस्थितस्य शुक्लपक्षस्य परित्यक्तमनुचितत्वात्। तेन, मार्गशीर्षचैत्रश्रावणशुक्लप्रतिपदामनध्यायत्वमनेनोच्यते। तदिदं सूत्रम्, – “चैत्रश्रावणमार्गशीर्षाणामादि-प्रतिपदो नित्याः”—इति हारीतसमानार्थम्, —इति॥ ०॥॥ २२॥ ०॥
कियन्तं कालं पुनरष्टम्यादिष्वनध्ययनम् ? उच्यते।
अहोरात्रम्॥ २३॥
ऋज्वर्थंसूत्रम्॥ ०॥ २३॥ ०॥
सब्रह्मचारिणि च प्रेते॥ २४॥
सब्रह्मचारिणि, चकारादसब्रह्मचारिण्यपि समानग्रामीये श्रोत्रियेप्रेते वृते सत्यहोरात्रं नाधीयीरन्। तथाच गृह्यान्तरम्।“एकाहं सब्रह्मचारिणि समानग्रामीये च श्रीत्रिये”—इति॥ ०॥॥ २४॥ ०॥
स्वे च भूमिपतौ॥ २५॥
स्वेस्वकीये भूमिपतौ राज्ञि प्रेते अहोरात्रं नाधीयीरन्। यस्यविषये निवसति सोऽयं स्वो भूमिपतिः। चकारादस्वकीये चपृथिवीश्वरेप्रेतेऽहोरात्रम्॥ ०॥ २५॥ ०॥
त्रिरात्रमाचार्य्ये॥ २६॥
आचार्य्ये,—
“उपनीय स्वयं शिष्यं वेदमध्यापयेन्तु यः।
सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते”।
इत्युक्तलक्षणे, प्रेते, त्रिरात्रं नाधीयीरन्॥ ०॥ २६॥ ०॥
उपसन्ने त्वहोरात्रम्॥ २७॥
उपसन्नः शिष्यो भण्यते। तस्मिन् प्रेतेऽहोरात्रंनाधीयीरन्। तुशब्दाद्विधेये शिष्ये न तु प्रतिकूले गुरुत्यागिनि वा॥०॥ २७॥ ०॥
गोतवादित*रुदितातिवातेषु तत्कालम्॥ २८॥
नाधीयीरन्। यावन्तं कालमेतानि तिष्ठन्ति तावन्तं कालमित्यर्थः। गीतादीनि प्रसिद्धानि। अतिवातस्तु स्मृत्यन्तरादुन्नेयः।
तथाच मनुः॥
“कर्णश्रावेऽनिले रात्रौदिवापांशुसमूहने।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते”।
इति। “वायौ दिवा पांशुहरै कर्णश्राविणि नक्तम्”—इति चगौतमसूत्रम्॥ ०॥ २८॥ ०॥
शिष्टाचारोऽतोऽन्यत्र॥ २९॥
अतोऽन्यत्र उक्तादतिरिक्तेषु शिष्टाचारः,—उक्तादतिरिक्तेष्वपियेषु शिष्टा अनध्यायमाचरन्ति, तेष्वप्यनध्यायं कुर्य्यरित्यर्थः।
शिष्टाच,—
“धर्म्मेणाधिगतो यैस्तु वेदः सपरिष्वृंहणः।
ते शिष्टाब्राह्मणा ज्ञेयाःश्रुतिप्रत्यक्षहेतवः”।
इत्युक्तलक्षणाः।तेन वीणस्वनादावपि तत्कालमनध्यायो बोद्धव्यः।तानि च “वेणुवीणाभेरीमृदङ्ग-गन्त्र्यार्त्तशब्देषु” – इत्येवमादीनिस्मृत्यन्तरेभ्यो बहुलमुपलभ्यानि।
एवं वा-
अतः उक्तात् अन्यत्र शिष्टाचारः। तेनानुक्तेष्वपि यत्र शिष्टा अनध्यायमाचरन्ति तत्राप्यध्ययनं न कुर्युः। यथा, आरण्यकादीनांभोजनादूर्द्धमनध्यायः॥ ०॥ २९॥ ०॥
अथेदानींप्रकरणान्तरमारभते,—
अद्भुते कुलपत्योः प्रायश्चित्तम्॥ ३०॥
अद्भुतं प्रकृतेर्व्विपर्य्यासः उत्पातः,—इत्यनर्थान्तरम्। तथा चाथर्व्वषाद्भुते। “प्रकृतिविरुद्धमद्भुतमापदःप्राक् प्रबोधाय देवाःसृजन्ति”—इति। तदिदमद्भुतं पूर्व्वकृतासत्कर्म्मजन्यं सञ्चितपापस्य सूचकमेव, न पापजनकम्। अतएव प्रायश्चित्तविधानमुपपद्यते। पापजनकत्वे तु तन्न स्यात्। उक्तञ्च।
“अतिलोभादसत्याद्वानास्तिक्याद्वाप्यधर्म्मतः।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते।
ततोऽपचारान्नियतमपवर्ज्जन्ति देवताः।
ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान्।
त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः।
विचरन्ति विनाशाय रूपैः संबोधयन्ति च”।
इति। तथाऽन्यत्र।
“अपचारेण नराणामुपसर्गःपापसञ्चयाद्भवति।
संसूचयन्ति दिव्यान्तरिक्षभौमास्तमुत्पाताः”।
इति। तत्र, दिव्यं ग्रहर्क्षवैकृतम्, प्रान्तरिक्षमुल्कापातादि, भौमंचरस्थिरभवमित्यन्यत्रानुसन्धेयम्। तदेतस्मिन्नद्भुते जाते सति, तत्सूचितपापक्षयार्थं कुलपत्योः प्रायश्चित्तं भवति। प्रायश्चित्तन्तु,— “अथातो रजस्वलाऽभिगमने”— इत्यादिना परिशिष्टकारेणोक्तमादरणीयम्। कुतः ? आचार्य्येण विशेषानुपदेशात्। तच्चतत एवोपलब्धव्यम्। यच्चात्र, ‘प्रायश्चित्तं’ व्याहृत्याहृतिचतुष्टयम्,अन्यदपि वहिः स्नानतीर्थाभिषेकपुण्यसूक्तजपदेवगुरुदर्शनहिरण्यतिलदानभारतकीर्त्तनादि यथासम्भवम्—इति वर्णितम्। तदस्मात्परिशिष्टानवलोकनेन॥ ०॥ ३०॥ ०॥
व_(
वंशो वेश्मनि भवः—यः स्थूणायाउपर्य्याधीयते। मध्यमञ्च स्तम्भोऽभिप्रेतः। तयोरकस्मादनिमित्ततो भिन्नयोः। मणिको व्याख्यातः। वाशब्दः चशब्दार्थः। मणिके चानिमित्तत एव भिन्नेव्याहृतिभिः प्रायश्चित्तरूपत्वाच्चतसृभिः, जुहुयात् आज्यम्। इहव्याहृतिभिर्जुहुयात्—इति कुर्व्वन् पूर्व्वत्र प्रायश्चित्तान्तरं दर्शयति। अतएव, भौमत्वेऽप्यमीषां पृथक् सूत्रणं दोषाल्पत्वेन अल्पप्रायश्चित्तोपदेशार्थम्। पूर्व्वेषु पुनः परिशिष्टोक्तं गुरुप्रायश्चित्तमेवदोषगुरुत्वादित्यभिप्रायः॥ ०॥ ३१॥ ०॥
दुःखप्तेष्वद्य नो देव सवितरित्येतामृचं जपेत्॥ ३२॥
दुःस्वप्नेषु स्वप्नेष्वनिष्टदर्शनेषु, अद्य नो देव—इति ऋचं जपेत्।ऋचम्—इति सामप्रतिषेधार्थम्। एताम्– इति स्वरवर्णसम्पादनार्थम्। इदमपि पूर्व्वकृतपापसूचकमेव। तथाच शारीरकसूत्रम्।“सूचकश्च हि श्रुतेराचक्षते च तद्विदः”—इति॥ ०॥ ०॥ ३२॥ ०॥
अथापरम्॥ ३३॥
अथेति पूर्व्वप्रकृतार्थम्। कथं नाम ? अद्भुतप्रायश्चित्तवदत्रापिकल्पदृष्टेन विधिना अग्नेरुपसमाधानम्—इति। तथा चाद्भुतप्रायश्चित्ते परिशिष्टकारेणोक्तम्।“कल्पदृष्टेन विधिनाऽग्निमुपसमाधाय”—इति। अपरं निमित्तं वर्त्तिष्यते, —इति सूत्रशेषः॥ ०॥ ३३॥ ०॥
** चित्ययूपोपस्पर्शनकर्णक्रोशाक्षिवेपनेषु सूर्य्याभ्युदितः सूर्य्याभिनिम्लुप्त इन्द्रियैश्च पापस्पर्शे पुनर्म्मामैत्विन्द्रियमित्येताभ्यामाज्याहुतौ जुहुयात्॥ ३४॥**
चित्ययूपःश्मशाने यो निखन्यते, स उच्चते। अथवा। चित्यं चषकंसोमे क्रियते। यूपःपशौक्रियते। तयोरुपस्पर्शनं स्पर्शनम्।तच्च चित्यस्यावदशनीयायाःपरतः,यूपस्यापि वहिःकर्म्मण ऊर्द्ध्वमिति बोद्धव्यम्। कर्णयोः क्रोशःशब्दःकर्णक्रोशः। अक्ष्णोवेपनंस्फुरणम् – अक्षिवेपनम्। वामस्य खल्वक्ष्णो वेपनमवाभिप्रेतं नतु दक्षिणस्यापि। कथं ज्ञायते ? तस्य शुभसूचकत्वात्। तथाच स्मरन्ति।
“दक्षिणं स्पन्दते नेत्रं बाहुः स्फुरति दक्षिणः।
नराणां धनलाभाय वन्धुसन्दर्शनाय च”।
इति। ततेषामेकैकेषु निमित्तेषु पुनर्म्मामैत्विन्द्रियमित्येताभ्यांऋग्भ्यां द्वेआज्याहुती जुहुयात्, – इति सम्बन्धः। यस्य शयानस्यसूर्योऽभ्युदेति सोऽयं सूर्य्यभ्युदेतः। सोऽपि पूर्वोक्ताभ्यामृग्भ्यामाज्याहुतिद्वयं जुहुयात्। यस्य शयानस्य सूर्य्योऽभिनिम्लोचति— अस्तमेति, सोऽयं सूर्य्याभिनिम्लुप्तः। सोऽप्याज्याहुतिद्वयं पूर्व्ववज्जुहुयात्। इन्द्रियैश्च चक्षुःश्रवणादिभिः पापस्पर्शे परस्त्रीप्रेक्षणश्रवणीयश्रवणदौपूर्व्ववदाज्याहुतिद्वयं जुहुयात्॥ ०॥ ३४॥ ०॥
आज्यलिप्ते वा समिधौ॥ ३५॥
आज्येन लिप्ते द्वे समिधौ वा प्रकृताभ्यामृग्भ्यां जुहुयात् — चित्ययूपोपस्पर्मनादिषु प्रत्येकम्। स खल्वयमान्याहुतिद्वयस्यासम्भवेविधिर्बोद्धव्यः॥ ०॥ ३५॥ ०॥
जपेद्वालघुषु॥ ३६॥
इतोऽपि लघुषु निमित्तेषु अमेध्यदर्शनादिषु मानसापचारादिषु वा,प्रकृतमृग्द्वयं जपेद्वा। सोऽयं वाशब्दो व्यवस्थार्थः॥ ०॥ ३६॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्ये तृतीयप्रपाठकस्य तृतीया खण्डिका॥ ०॥
_______________
गोभिलीयगृह्यसूत्रे
तृतीयप्रपाठके चतुर्थी खण्डिका।
ब्रह्मचारी वेदमधीत्य॥ १॥
ऋजुरक्षरार्थः। उक्तं सत् पुनरुच्यते। किमर्थम् ? विशेषव्रताशक्तौब्रह्मचर्य्यमात्रेणापि वेदाध्ययनार्थम्। आदरार्थम्। वक्ष्यमाणविधानार्थं वा।
एवं वा—
देवपर्व्वादीनां तत्तद्व्रताचरणपूर्व्वकमध्ययनमुपदिष्टं स्तोभग्रन्थादीनां तर्ह्यनियमेनाध्ययनं प्राप्नोति, तन्निरासार्थमिदमुच्यते,—ब्रह्मचारी वेदमधीत्य, — इति। वेदग्रहणात् वेदाध्ययनएवब्रह्मचर्य्यनियमः। एवञ्च ब्रह्मचर्य्यादूर्द्धमप्यङ्गादीनामध्ययने नदोषः।
अन्ये त्याहुः। वेदाध्ययनएव तत्तद्व्रतोपदेशादितरग्रन्थानांयथेष्टमध्ययनं माभूदिति कृत्वा खल्वेतत् सूत्रितम्, — इति।अस्याञ्च वर्णनायां वेदशब्दोऽयं साङ्गस्य वेदस्याभिधायको ऽङ्गानामेव वा॥ ०॥ १॥ ० ०
उपन्याहृत्य गुरवे॥ २॥
उप नि आहृत्य। निशब्दात् नीचैः क्षितितलविलग्नशिराःगुरवेउपाहत्य निवेद्य दक्षिणामित्यर्थात् लभ्यते॥ ०॥ २॥ ०॥
ततश्च गुरुणा गृहाश्रमाय, —
अनुज्ञातो दारान् कुर्व्वात॥ ३॥
ऋजुरक्षरार्थः। उक्तमपि दारकरणं पुनरुच्यतेअनुज्ञातत्त्वादिगुणविधानार्थम्। आदरार्थं वा। अथवा।दारान् कुर्वीत ;—दारान् कर्त्तुं प्रयतेत इत्यर्थः। तदनेन दारकरणाय प्रयत्नोविधीयते, न तु दारकरणम्। कस्मात् ? स्नानोत्तरभावित्वात्तस्य। तथाच मनुः।
“गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि।
उद्वहेत द्विजो भार्य्यां सवर्णांलक्षणान्विताम्”।
इति। ननु, विप्रतिषिद्धमिदमुच्यते ;— दारकरणाय प्रयत्नो विधोयते, न दारकरणम् — इति। कथम् ? यदि नाम दारकरणाय प्रयतेत, नूनमयं दारानपि कुर्व्वीत — दारकरणमस्यनिष्पद्येत। अथ तु न निष्पद्यते, नासौ दारकरणाय प्रयतते। नैषदोषः। यतो यथा दारकरणं निष्पद्यते, तथा यतितव्यम् — दारकरणाय काचित् कन्या प्रार्थयितव्या, — इत्ययमर्थोऽत्र विवक्षितः।एतदनेनोक्तं भवति। दारकरणाय गुरुणाऽनुज्ञातो दारान् करिष्यन्खल्वसौ ब्रह्मचारी व्रतस्थ एव तावत् काञ्चित् कन्यां प्रार्थयेत,तस्याञ्च वाग्दत्तायां सत्यां विवाहसन्निधौ यत् पुण्यमहस्तत्र खात्वाऽथ दारान् कुर्व्वीत, — इति। तथाच कर्म्मप्रदीपः।
“यस्य दत्ता भवेत् कन्या वाचा सत्येन केनचित्।
सोऽन्त्यां समिधमाधास्यन्नवाददीतैव नान्यथा”।
इति।अन्यथा खल्वनुपलभ्यैव कन्यां स्नानं कुर्व्वन् परस्तात्कञ्चित् कालं कन्याया अलाभे अनाश्रमी स्यात्। तच्चानिष्टम्।कुतः ?
“अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विजः”।
इति स्मरणात्। तस्माद् व्रतस्थस्यैव कन्याप्रार्थनं दाराकरणार्थमिहोपदिश्यते,—इत्यादरणीयम्॥ ०॥ ३॥ ०॥
कोदृशान् दारान् कुर्वीत ? उच्यते,
असगोत्रान्॥ ४॥
गोत्रं प्रसिंद्धम्। समानं गोत्रं येषां ते सगोत्राःनसंगोवाःअसगोत्राः, तान् दारान् कुर्वीत॥ ०॥ ४॥ ०॥
मातुरसपिण्डान्॥ ५॥
मातुः सपिण्डा ये न भवन्ति, तान् दारान् कुर्वीत। सापिण्ड्यामन्यत्रानुसन्धेयम्। सोऽयं सङ्क्षेपतः सूत्रार्थः। विस्तरस्त्वत्माभिर्ग्रन्थगौरवभयादिहोपेक्षितः॥ ०॥ ५॥ ०॥
नग्निका तु श्रेष्ठा॥ ६॥
नग्निकेत्यनागतार्त्तवोच्यते। सा तु श्रेष्ठा। अतस्तमुद्वहेत्। नैतत्सुन्दरम्। कस्मात् ? यस्मात् दारान् कुर्वीत— इत्यस्य विशषणत्वविवक्षया, असगोत्रान् — इति असपिण्डान्—इति च सूत्रयित्वा, नग्निका तु श्रेष्ठा—इति विभक्तिवचनातिक्रमः क्रियते।तस्मादवगच्छामः, — दारकरणेन सममस्य सम्बन्धो नास्ति –इति।एवन्तर्हि अन्यथा व्याख्यास्यामः।
“एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत्।
गौरीं वाप्युद्वहेद्भार्य्यांनीलं वा वृषमुत्सृजेत्”।
इति वचनात् दारान् करिष्यता तावद्गौरीप्राप्तावेव यतनीयम्।दातुस्तु, नग्निका श्रेष्ठा,—इति। तथाच वशिष्ठः। “तस्मान्नग्निकादातव्या” – इति। नग्निका त्वत्र,-
“यावन्नलज्जयाऽङ्गानि कन्या पुरुषसन्निधौ।
योन्यादीन्यवगूहेत तावद्भवति नग्निका”।
इत्युक्तलक्षणा वा ग्राह्या।यच्च वचनान्तरम् –
“सप्तसंवत्सरादूर्द्धंविवाहःसार्व्ववर्णिकः।
कन्यायाः शस्यते राजन्नन्यथा धर्म्मगर्हितः”।
इति। तद्विवाहयितुः कन्यायाःसप्तसंवत्सरादूर्द्धं विवाहःशस्यते–इत्येतत्परं न पुनर्दावत्रभिप्रायम्।“अष्टवर्षा भवेद्गौरी”—इतिवचनात्। मनुरप्याह।
“त्रिंशद्वर्षो वहेद्भार्य्यां हृद्यां द्वादशवार्षिकीम्।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्म्मो सीदति सत्वरः”।
इति। यत् पुनः स्मरणम् —
“सर्वेषामेव दानानामेकजन्मानुगं फलम्।
हाटकगृहगौरीणां सप्तजन्मानुगं फलम्”।
इति। नैतेन गौरीदानं विधीयते। किन्तर्हि ? यदृच्छया कृतंगौरीप्रदानमनेन स्तूयते। तस्माददोषः। विधीयतां वा गौरीप्रदानं, तथापि नानुपपत्तिः। कथम् ? गौरीप्रदाने तावत् सप्तजन्मानुगं फलं भवति, नग्निका पुनरतोऽपि विशिष्टफलदात्री,— इति वचनव्यक्तेःसम्भवात्। स खल्वयमर्थः सूत्रे तुशब्दं प्रयुञ्जताआचार्य्येण सूचितः। सेयं पूर्व्वेषां भाष्यकाराणां मतानुसारिणीवर्णना।अस्मच्छास्त्रे पुनरन्यविधैव नग्निका पठ्यते। तथाचगृह्यासंग्रहः।
“नग्निकान्तु वदेत् कन्यां यावन्नर्त्तुमती भवेत्।
ऋतुमती त्वनग्निका तां प्रयच्छेत्तु नग्निकाम्।
अप्राप्ता रजसो गौरी प्राप्ते रजसि रोहिणी।
अव्यञ्जिता भवेत् कन्या कुचहीना च नग्निका।
व्यञ्जनैस्तु समुत्पन्नैःसोमो भुञ्जीत कन्यकाम्।
पयोधरैस्तुगन्धर्व्वा रजसाऽग्निः प्रकीर्त्तितः।
तस्मादव्यञ्जनोपेतामरजामपयोधराम्।
अभुक्ताञ्चैव सोमाद्यैः कन्यकां तु प्रशस्यते”।
इति। तदनेन, अव्यञ्जना अरजस्कपयोधरा सोमाद्यैरभुक्ता कन्याआचार्य्येण प्रशस्यते,—इति सुव्यक्तमुक्तवता आचार्य्यपुत्रेणेदमेवसूत्रंव्याख्यातमित्यवगच्छामः। तस्मात् नात्र स्मृत्यन्तरविरोधःशङ्गनीयःगौर्य्याअपि निरुक्तनग्निकात्वानपायात्,— इत्ययमस्मदीयः पन्थाः।
अथापि स्यात् ;—दरिकरणैनैव सममस्य सम्बन्धः,तथापि नानुपपत्तिः। कस्मात् ? अनियतत्वाद्विभक्तिवचनातिक्रमोपपत्तेः।नियता खल्वसगोत्रा मातुरसपिण्डा च दारकरणे, नग्निका पुनरनियता श्रेष्ठत्वात्। एतस्मात् कारणादत्रविभक्तिवचनातिक्रमःक्रियते,—इति न किञ्चिदनुचितम्। अस्याञ्च वर्णनायां आपातविरुद्धानि स्मृत्यन्तरवचनानि बुद्धिमद्भिर्व्याख्येयानि। ग्रन्थगौरवभयादुपारभ्यतेऽस्माभिः॥ ०॥ ६॥ ०॥
अथाप्लवनम्॥ ७॥
अथेत्यानन्तर्य्यार्थम्। कथन्नाम ? कन्याप्रार्थनानन्तरं कन्यायांवाचा दत्तायां सत्यामथानन्तरमाप्लवनं स्नानं कुर्य्याद्ब्रह्मचारी।अथ व्रतान्तविहितैन्द्र स्थलीपाकादिकर्म्मानन्तरम् —इति केचित्॥॥ ०॥ ८॥ ०॥
तद्विधिविवक्षया इदमाइ, —
उत्तरतः पुरस्तादाऽऽचार्य्यकुलस्य परिवृतं भवति॥ ८॥
आचार्य्यकुलस्याचार्य्यगृहस्य, उत्तरतःउत्तरस्यां पुरस्तात् पूर्व्वस्यांवा दिशि परिवृतं परि सर्व्वतोभावेन मण्डपादिना वृतमाच्छादितं भवति किञ्चित् स्थानम्॥ ०॥ ८॥ ०॥
तत्र प्रागग्रेषु दर्भेषूदङङाचार्य्य उपविशति॥ ९॥
तत्र परिवृते स्थाने पूर्व्वाग्रेषु कुशेषु उदङ्मुख आचार्य्यउपविशति॥ २॥ ९॥ ०॥
तस्मिन्नेव परिव्रुते स्थाने, आचार्यसन्निधौ,—
प्राग्ब्रह्मचार्य्युदगग्रेषु दर्भेषु॥ १०॥
उपविशति। प्राक् प्राङ्मुखः॥ ०॥ १०॥ ०॥
** सर्वौषधिविफण्टाभिरद्भिर्गन्धवतीभिः शीतोष्णाभिराचार्य्योऽभिषिञ्चेत्॥ ११॥**
सव्वौषधयो व्याख्याताः। ताभिः सह विफाण्टाभिर्विपक्वाभिः—
“क्षुणे द्रव्यपले सम्यक् जलमुष्णं विनिः क्षिपेत्।
मृत्पात्रे कुड़वोन्मानं ततस्तु स्रावयेत् पटात्।
स स्याच्चूर्णद्रवः फाण्टः ——————–"।
इत्युक्तलक्षणाभिर्वा, गन्धवतीभिः प्रशस्तगन्धयुक्ताभिः, शीतोष्याभिःशीतोदक मिश्राभिरुष्णाभिः। अथवा।शीताश्च ता उष्णाश्च,—इति शीतोष्णाभिः, नातिशीताभिर्नाप्यत्युष्णाभिरद्भिराचार्यो ब्रह्मचारिणमभिषिञ्चेत्। सोऽयं परमतोपन्यासः॥ ०॥ ११॥ ०॥
स्वमतमिदानीमभिधीयते,—
स्वयमिव तु॥ १२॥
तुशब्दात् पक्षो विपरिवर्त्तते। इवशब्द एवकारार्थः। स्वयमेवब्रह्मचार्य्यात्मानमभिषिञ्चेत् न पुनराचार्य्योऽभिषिञ्चेत्। अतएववक्ष्यति। ‘आत्मानमभिषिञ्चति–इति। तस्मात् आचार्य्योऽभिषिञ्चेदित्येतत् परमतम् —इतितत्त्वकारोक्तमादरणीयम्॥ ०॥॥ १२॥ ०॥
कस्मात् पुनः कारणात् स्वयमेव ब्रह्मचार्यात्मानमभिषिञ्चेत्, नपुनराचार्य्यः? उच्यते,—
मन्त्रवर्णो भवति॥ १३॥
यस्मात् स्वयमेवाभिषेके मन्तवर्णो भवति, तस्मात् स्वयमेवाभिषिञ्चेदित्यर्थः। कः पुनरसौ मन्त्रवर्णः? ‘तेनासौ मामभिषिञ्चामि’—इति, ‘तेन मामभिषिञ्चतम्’ –इति च। तस्मात् स्वयमेवाभिषिञ्चेत् नाचार्य्यः-—इति सिद्धम्। अपरे तु, आचार्य्योऽभिषिञ्चेदित्यस्य परमतत्वमसहमानाः आचार्य्यः –इति प्रथमांविभक्तिं तृतीयारूपेण विपरिणमयन्तोऽध्याहारञ्च कुर्व्वन्तोवर्णयन्ति,—आचार्य्येणानुज्ञातो ब्रह्मचारी अभिषिञ्चेत्—इति।
अपरे त्वाहुः। ‘आचार्योऽभिषिञ्चति’ ‘स्वयमिव तु’ इत्युभयथावचनदर्शनात् विकल्पोऽयम्। आचार्यो वा ब्रह्मचारिणमभिषिञ्चतिब्रह्मचारी स्वयमेव वाऽऽत्मानमभिषिञ्चति, —इति। पठन्ति च,—
“ब्रह्मचारी अनुज्ञातोगुरुणा गुरुरेव वा।
सर्वौषधिविमिश्राभिः शीतोष्णाभिः सुगन्धिभिः”।
इति॥ ०॥ १३॥ ०॥
अभिषेकप्रकार इदानीमभिधीयते,—
ये अप्स्वन्तरग्नयः प्रविष्टाः इत्यपामञ्चलिमवसिति॥ १४॥
ये अप्सु —इति मन्त्रेण, अपां प्रकृतानाम्, अञ्जलिम् अवसिञ्चतिअवाचीनं सिञ्चति त्यजति ब्रह्मचारी। भूमावित्यर्थः। एवञ्चसति, ‘अभि तान् सृजामि’ — इति मन्त्रलिङ्गमप्यनुगृह्यते। एवमुत्तरत्नापि॥ ०॥ १४॥ ०॥
यदपां घोरं यदपां क्रूरं यदपामशान्तमिति च॥१५॥
अपामञ्जलिमवसिञ्चति। तस्मादत्रापि पूर्व्ववत् भूमावेवाञ्जलिपरित्यागः॥ ०॥ १५॥ ०॥
यो रोचनस्तमिह गृह्णामौत्यात्मानमभिषिञ्चति॥ १६॥
यो रोचनः –इति मन्त्रेणात्मानमभिषिञ्चति अभि सर्व्वतोभावेनसिञ्चति, प्रकृतानामेवापामञ्जलिना।स खल्वयमभिषेकः शिरसिकर्त्तव्यः। कथं ज्ञायते ? ‘अभिषिञ्चति’ — इति वचनात्।‘अथाप्लवनम्’ — इति चोपक्रमात्। एवं खल्वाप्लाव्यते। ‘शिरःप्रधानमङ्गानाम्’ — इति वचनाच्च। सन्देहे हि प्रधानानुसरणंकर्त्तुमुचितम्। एवमग्रेऽपि॥ ०॥ १६॥ ०॥
यशसे तेजसे इति च॥ १७॥
यशसे —इत्यादिना मन्त्रेण च पूर्व्ववदात्मानमभिषिञ्चति ब्रह्मचारी,प्रकृतानामपामञ्जलिना॥ ०॥ १७॥ ०॥
येन स्त्रियमकृणुतमिति च॥ १८॥
येन स्त्रियमिति मन्त्रेण च पूर्व्ववदात्मानमभिषिञ्चति॥०॥ १८॥०॥
तूष्णींचतुर्थम्॥ १९॥
पूर्व्ववदात्मानमभिषिञ्चति॥ ०॥ १९॥ ०॥
** उपोत्थायायादित्यमुपतिष्ठेतोद्यन्भ्राजभृष्टिभिरित्येतत्प्रभृतिना मन्त्रेण॥ २०॥**
उपेति सामीप्ये। आचार्य्यस्य समीपादुत्थाय, ( आदित्याभिमुखः सन् ) आदित्यमुपतिष्ठेत आराधयेत्। केन ? उद्यन् भ्राजभृष्टिभिरित्येवमादिना मन्त्रेण, मा मा हि
यथालिङ्गं वा विहरन्॥ २१॥
तस्मिन्नेव स्नानदिने यथालिङ्ग वा मन्त्रं विहरन् विहृतं कुर्व्वन्आदित्यमुपतिष्ठेत। कथन्नाम ? प्रातर्लिङ्गेन प्रातरुपतिष्ठेत, सान्तपनलिङ्गेन मध्यन्दिने, सायंलिङ्गेन सायमुपतिष्ठेत, — इति।विहारो विकर्षणं पृथक्करणमित्येतत्॥ ०॥ २१॥ ०॥
विहारपक्षे तावत् त्रयाणां मन्त्राणामेकैकस्य मन्त्रस्य खल्वेवमेकैकस्मिन्नुपस्थाने विनियोगः सम्पन्नः, चतुर्थस्य तु मन्त्रस्य सन्ध्याक्षत्रयेऽपि विनियोगमाह,—
चक्षुरसौत्यनुबध्नीयात्॥ २२॥
चक्षुरसीति चरमं मन्त्रम्, अनु प्रातरादिलिङ्गानां मन्त्राणांपश्चात्, बन्नीयात् ग्रथयेदित्यर्थः। तथाच, यथालिङ्गं मन्त्रमुच्चार्यचक्षुरसीति च पश्चादुक्त्वा सर्व्वत्रोपतिष्ठेत॥ ०॥ २२॥ ०॥
मेखलामवमुञ्चत उदत्तमं वरुणपाशमिति॥ २३॥
मेखलामवमुञ्चते अवाचीनं मुञ्चति उदुत्तममिति मन्त्रेण।मुञ्चते —इति च्छेदप्रतिषेधार्थम्। अव —इत्यधस्तामोचनार्थम्॥०॥ २३॥ ०॥
** ब्राह्मणान् मोजयित्वा स्वयं भुक्त्वाकेशश्मश्रुरोमनखानि वापयीत शिखावर्जम्॥ २४॥**
ब्राह्मणान् भोजयित्वा –इत्यनेनान्वाहार्य्यश्राद्धमुक्तम्। एवमेके।कर्म्मापवर्गविहितं ब्राह्मणभोजनमने नोच्यते। एवमपरे। न चपरस्तादपि कर्म्मोपदेशादेतदयुक्तमिति केनचिदुक्तं युक्तमितिवाच्चम्। पुरस्तादपि कर्म्मोपदेशादन्वाहर्य्यश्राद्धस्याप्येतर्हि विधानस्यानुचितत्वात्। तत् खल्वादितः कर्मणो विहितम्। तस्माद्वचनबलाददोषः, —इत्युभयत्रापि समानः परिहारः।
तथापि, कतरः पुनरत्र पक्षो युक्तः? अन्वाहार्य्यश्राद्धमनेनोच्यते,—इत्ययम् —इत्याह। कस्मात् ? यस्मात् समानेऽपि क्रमभेदेप्रधानकर्म्मणःस्नानस्यादितः वरमन्वाहार्य्यश्राद्धमभ्युपगन्तुं युक्तम्,न पुनः कर्म्मापवर्गविहितं ब्राह्मणभोजनं जातुचिदपि प्रधानकर्म्मणःपूर्व्वंवर्णयितुमुचितम्। स्नानं खल्वत्र प्रधानं कर्म्म। कुतः?‘अथाप्लवनम्’ – इत्युपक्रमात्। ‘स्नानं सहधर्म्मचारिणीसंयोगः’—इति च गौतमेन पुरुषसंस्कारमध्ये तस्य गणनात्। तस्मादन्वाहार्य्यश्राद्धमिदानीमुच्यते, – इत्यादरणीयम्। उभयस्मादपि ब्राह्मणभोजनादन्यदेव वा ब्राह्मणभोजनमनेन वाच्यम्। इदानीमेव कर्म्मापवर्गं मन्यमानो भवदेवभट्टस्त्वनादेयवचन एव।
इदन्त्विह विवेचनीयम्। ‘अथालवनम्’ – इत्युपक्रमात् स्नानंतावदिह प्रधानं कर्म्मेति नात्र विप्रतिपद्यामहे।परन्तु ‘स्वयमिवतु’ ‘मन्त्रवर्षो भवति’ – इति वचनात् मन्त्रेण योऽयमद्भिरभिषेकःतदेवाप्लवनापरपर्य्यायं स्नानंप्रधानं कर्म्मेति प्रतिपद्यामहे।अभिषेकः स्नानमिति खल्वनर्थान्तरम्। अग्रिमसूत्रे’स्नात्वा’—इति तु वापनोत्थाप्रायत्यापनयनार्थं स्नानमुच्यते, न त्वेतत् प्रधानंकर्म्म। किं कारणम् ? न हि भुक्त्वा प्रधानं कर्म्म क्रियते। नवा प्रधानं स्नानाममन्त्रकं तदङ्गन्त्वभिषेकोमन्त्रवानिति साध्वीकल्पना भवति। तस्मात् प्रधानस्य कर्म्मणःपरस्तादन्वाहार्य्यं श्राद्धमिति न साम्प्रतं वर्णयितुम्। तत् खलु पुरस्तादेव कर्म्मणो यथाप्राप्तं कर्त्तुमुचितम्। तद्वरं प्रधानस्य कर्म्मणोवृत्तत्वादपवर्गविहितं ब्राह्मणभोजनमस्मिन् क्रमे कर्त्तव्यमिति स्थानेवक्तम्।आश्वयुजीकर्म्मण्यपि ‘ब्राह्मणान् भोजयित्वा स्वयञ्च भुक्त्वा’इति सूत्रयिष्यति। तत्राप्येवमेव वर्णयिष्यामः। अन्यदेव वैतद्ब्राह्मणभोजनमित्यस्याञ्च वर्णनायामनुष्ठानबाहुल्यमात्रमिति। तदत्र भगवन्तो भूमिदेवाःप्रमाणम्।
तदेवं ब्राह्मणान् भोजयित्वा स्वयञ्च भुक्त्वाशिखावर्ज्जंकेशादीनि वापयीत। अत्र शिखावर्ज्जमिति करणात् पुरस्तात् सशिखमेव वपनं कार्य्यमित्यवगम्यते। अभिहितञ्चैतदस्माभिरधस्तात्॥ ०॥ २४॥ ०॥
** स्नात्वाऽलङ्कृत्याहते वाससी परिधाय स्रजमाबध्नीत,— श्रीरसिमयि रमस्वेति॥ २५॥**
स्नात्वा कुण्डलादिभिरात्मानमलङ्कृत्य, अहते वाससी परिधाय,स्रजं पुष्पमालाम्, शिरः प्रधानत्वादङ्गानां शिरस्याबध्नीत, श्रीरसोतिमन्त्रेण॥ ०॥ २५॥ ०॥
नेत्र्यौस्थो नयतं मामित्युपानहौ॥ २६॥
नेत्र्यौ— इति मन्त्रेणोपानहौआबध्नीत। योग्यत्वात् प्रसिद्धेश्च यादयोः॥ ०॥ २६॥ ०॥
गन्धर्व्वोऽसीति वैणवं दण्डं गृह्णाति॥ २७॥
वेणुर्वंशः। तत्प्रभवं वैणवं दण्डं गृह्णाति गन्धर्वोऽसीति मन्त्रेण।\।॥०॥ २७॥०॥
**
आचार्य्य
परिषत् सभा — इत्यनर्थान्तरम्। सपरिषत्कं शिष्यादिसभासहितमाचार्य्यम् अभ्येत्य आभिमुख्येनागत्य आचार्य्यपरिषदमीक्षतेयक्षमिवेति मन्त्रेण। पुनराचार्य्यग्रहणमाचार्य्यसहितायाःपरिषद ईक्षणार्थम्।इतरथा पविषद एवेक्षणं स्यान्नाचार्य्यस्य॥ ०॥ २८॥ ०॥
उपोपविश्य मुख्यान् प्राणान् संमृशन्नोष्ठापिधानानकुलीति॥ २९॥
उप आचार्य्यस्य समीपे उपविश्य, मुख्यान् मुखभवान् प्राणान्वायून्– तेषाममूर्त्तत्वात् तदायतनानि — मुखनासिकाऽक्षिकर्णच्छिद्राणीत्यर्थः। संसृशन् स्पृशन् औष्ठापिधानेति मन्त्रंजपेत्॥ ०॥ २९॥ ०॥
अचैनमाचार्य्योऽर्हयेत्॥ ३०॥
अवैतस्मिन्नवसरे एनं स्नातकमाचार्योऽर्हयेत् वक्ष्यमाणेन विधिना।तत्र ‘स्नातकः’ — इति यो वक्ष्यते, सोऽयम्॥ ०॥ ३०॥ ०॥
**
गोयुक्त
गोभिर्युक्तं अथमुपसङ्ग्रम्य, — उप समीपे सम्यक् गत्वा। पक्षसीचक्रे।कूबरबाहूवा। कूबरो युगन्धरः – इत्यनर्थान्तरम्। तस्यबाहूइव बाहू, कूबरबाहू कूबरपार्श्वे—इत्येतत्। तौ वा।कूबरोरथिकस्थानं तस्य बाहू कूबरबाहू रथस्येषे इति केचित्।अभिमृशेत् स्मृशेत् वनस्पते — इति मन्त्रेण॥ ०॥ ३१॥ ०॥
ततो रथमारुह्य,—
आस्थाता ते जयतु जेत्वानीत्यातिष्ठति॥ ३२॥
वनस्पते इति मन्त्रस्य चतुर्थपादेन आस्थाता–इत्यनेन, आतिष्ठति तस्मिन् रथे सम्यक् तिष्ठति॥ ०॥ ३२॥ ०॥
ततश्च तेनैव रथेन,—
प्राङ् बोदङ्वाऽभिप्रयाय प्रदक्षिणमावृत्त्योपयाति॥ ३३॥
प्राङ्मुखो वा उदङ्मुखो वा, अभिप्रयाय सर्व्वतोभावेन प्रकर्षेणगत्वा, प्रदक्षिणं यथा भवति तथा आवृत्त्य आवर्त्तनं कृत्वा उपयाति आचार्य्यसमीपं गच्छति॥ ०॥ ३३॥०॥
उपयातायार्ध्यमिति कौहलीयाः॥ ३४॥
रथादवरुद्धोह्योपयातायाचार्य्यसमीपं गताय स्नातकाय अर्घ्यमर्हणमाचार्य्येणकर्त्तव्यम्, न तु पूर्व्वमिति कोहलीयाःकौहलीयशाखाविशेषाध्यायिन आचार्य्या मन्यन्ते॥ ०॥ ३४॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृते गोभिलीयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य चतुर्थी खण्डिका॥ ०॥
गोभिलीयगृह्यसूत्रे
तृतीयप्रपाठके पञ्चमी खण्डिका।
स्रानविधिमभिधाय, अथेदानींस्नातकव्रतविवक्षया इदमाह, —
अत ऊर्द्धंवृद्धशीली स्यादिति समस्तोद्देशः॥ १॥
अतोऽस्मात् स्नानादूर्द्ध्वंपरतः, वृद्धशीली स्यात्। वृद्धाः, —
“न तेन वृद्धो भवति येनास्य पलितं शिरः।
यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः”।
इत्युक्तलक्षणाः। वृद्धानां शीलं वृद्धशीलम्, तदस्य अस्ति, — इतिवृद्धशीली, तथाविधो भवेत्। वृद्धाःखल्वधिगतवेदाः साक्षात्कृतधर्म्माणोऽनिष्टफलकं कर्म्मजातं परिहृत्य श्रेयः साधनान्येव कर्म्माणि यत्नतः परिशीलयन्ति, अतोऽयमपि स्नातको वृद्धशीलोभवेत्। अन्ये त्वाहुः, — ‘वृद्धाःस्थविराः, ते हि चिरजीवितयाविदितबहुधर्म्ममार्गा भवन्ति, अतो युक्तं तच्छीलित्वम्’ — इति।‘इति’ अयम्, समस्तोद्देशः समस्तानां स्नानकव्रतानाम् उद्देशःसंक्षेपेणोपदेशः। शिष्यहितार्थस्तु उत्तरः प्रपञ्चः। श्लोकमपिउदाहरन्ति।
“विस्तीर्य्यहि महज्जालमृषिःसंक्षिप्य चाब्रवीत्।
इष्टं हि विदुषां लोके समासव्यासधारणम्”।
इति॥ ०॥ १॥ ०॥
तत्रैतान्याचार्य्याः परिसञ्चक्षते॥ २॥
तत्र तस्मिन् वृद्धशीलविषये स्नातकव्रतविषये वा एतानि वक्ष्यमाणानि व्रतानि आचार्य्याःपरिसञ्चक्षते सर्व्वतोभावेन सम्यग्वदन्ति॥ ०॥ २॥ ०॥
कानि पुनस्तानि ? उच्यते, —
नाजातलोम्न्योपहासमिच्छेत्॥ ३॥
यस्यायौवनोद्भेदव्यञ्जिका नाभिमण्डलपार्श्वपूर्ववर्त्तिनीश्यामा रोमराजिरल्पाऽपि न जाता, सेयमजातलोम्नीअजातव्यञ्जना चोच्यते।तया सह उपहासं मनसाऽपि नेच्छेत्। उपहासः संवेशो भोगोमैथुनमित्येकोऽर्थः। तथा चोक्तम्।
“अजातव्यञ्जनाऽलोम्नी, न तया सह संविशेत्”।
इति॥ ०॥ ३
नायुग्वा॥ ४॥
काकबन्ध्यायां या जायते, मेघमथुगूः।तथा सह नोपहासमिच्छेत्। अर्थादुपयमनमेवास्था निषिध्यते। तथा चोत्तम्।
“अयुगूःकाकबन्व्याया जाता, तां न विवाहयेत्”।
इति॥ ०॥ ४॥ ०॥
न रजखलया॥ ५॥
रजस्खलया उदक्यया सह नोपहासमिच्छेत्॥ ०॥ ५॥ ०॥
न समानर्ष्या॥ ६॥
समाना ऋषयःप्रवराः यस्याः, सेयं समानर्षी। तया सहनोपहासमिच्छेत्। अयमप्यर्थादुपयमनस्यैव प्रतिषेधः। तथा चस्मरणम्।“असमानप्रवरां विवाहयेत्” – इति। “न सगोत्रांन समानप्रवरां भार्य्यांविन्देत” – इति चैवमादि॥ ०॥\। ६॥ ०॥
नापरया द्वारा प्रपन्नमन्नं भुञ्जीत॥ ७॥
द्वारशब्दो द्वारशब्दपर्यायः। अपरया द्वारा गवाक्षादिद्वारेणप्रपन्नमाहृतमनं न भुञ्जीत नाश्नीयात्। अन्नमितिकरणात्धान्यादीनामप्रतिषेधः, — इति वदन्ति॥ ०॥ ७॥ ०॥
न दिःपक्कम्॥ ८॥
द्विक्रुत्वो यत् पच्यते, तदिदं द्विःपक्वं, द्विः स्विन्नञ्चाख्यायते।तथाविधमन्नं न भुञ्जीत। द्विःस्विन्नञ्च तदेव ; — यत् सूपकारशास्त्रापेक्षितपाकनिष्पत्त्यनन्तरं शैत्यादिनिवर्त्तये पुनः पच्यते।न पुनरर्द्धपाकानन्तरं तत्शास्त्रोक्तसम्भारणरूप-पाकान्तरसिद्धं व्यञ्जनादि। अतीतार्थ-निष्ठानिर्देशात्। न खल्वन्तरेण सम्भारणं पाकोनिष्पद्यते। पक्वमितिवचनादुष्पणीकरणमात्रे न दोषः,, — इतिवदन्ति॥ ०॥ ८॥ ०॥
न पर्य्युषितम्॥ ९॥
पर्युषितमन्नं न भुञ्जीत॥ ०॥ ९॥ ०॥
किं सर्व्वमेव पर्य्युषितं न भोक्तव्यम् ? न। किन्तर्हि? —
अन्यत्र शाकमा
यवविकाराः सक्तप्रभृतयः। पिष्टविकाराः पिष्टकादयः। प्रसिद्धमन्यत्। यवग्रहणं गोधूमस्याप्युपलक्षणार्थम्। एभ्योऽन्यत्र पर्य्युषितं न भुञ्जीत। एतानि तु पर्य्युषितान्यपि भुजीत। अत्र द्वन्द्वेकवद्भावादेव सिद्धे बहुवचनमन्यस्यापि संग्रहार्थम्। तथाचमनुः।
“यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम्।
तत्पर्युषितमप्याद्यं हविःशेषञ्च यद्भवेत्।
चिरस्थितममि त्वाद्यमस्रेहाक्तं द्विजातिभिः।
यवगोधूमजं सर्व्वंपयसश्चैव विक्रिया”।
इति। तथा यमः।
“मसूरमाषसंयुक्तं तथा पर्युषितञ्च यत्।
तत्तु प्रक्षालितं कृत्वा भुञ्जीत ह्यभिघारितम्”।
इति। तस्मात् पर्य्युषितमप्येवमादि भोक्तव्यम्। विकारान्तरप्राप्तन्तु सव्वथैव वर्ज्जनीयम्। कुतः ?
“अपूपाश्च करम्भाश्चधाना वटकसक्तवः।
शाकं मांसञ्च पूपञ्च सूपं कृषर एवच।
यवागूं पायसञ्चैव यच्चान्यत् स्नेहसम्भवम्।
सर्व्वं पर्य्युषितं भक्ष्यं सूक्तञ्च परिवर्ज्जयेत्”।
इति वचनात्। सूक्तं यन्मधुरं कालवशादम्लतां गतम्—इतिशूलपाणिः। तत्रापि विशेषो मनुनोक्तः।
“दधि भक्ष्यञ्च सूक्तेषु सर्व्वञ्च दधिसम्भवम्”।
इति। खण्डादिपक्वस्य तु पर्य्युषितत्वमेव नास्ति। तथा चस्मरणम्।
“खण्डाज्यादिक्कतं पक्वं’ नैव पर्य्युषितं भवेत्”।
इति। सोऽयं संक्षेपतः शास्त्रार्थः। विस्तरस्तु तन्त्रान्तरादुपलब्धव्यः॥ ०॥ १०॥०॥
न वर्षति धावेत्॥ ११॥
वर्षति पर्ज्जन्ये न धावेत् न त्वरितं गच्छेत्॥ ०॥ ११॥ ०॥
स्वयमुपानहौन हरेत् ; — पादव्यतिरेकेण हस्तादिना देशान्तरंन प्रापयेत्। स्वयमितिकरणात् आत्मीयावेवोपानहौन हरेत्,आचार्य्यादीनामुपानहौहरन्नपि नापराध्यते, – इत्यभिप्रायः॥॥ ०॥ १२॥२॥
नोदपानमबेक्षेत्॥ १३॥
उदकं पीयते अस्मादित्युदपानं कूपः, तं नावेक्षेत् अवाचीनं नपश्येत्॥ ०॥ १३॥ ०॥
न फलानि स्वयं प्रचिन्वीति॥ १४॥
स्वयमात्मना फलानि न प्रचिन्वीत, प्रकर्षेण — वृक्षमारुह्य नाहरेत्॥ ०॥ १४॥ ०॥.
गन्धः शोभनोऽभिप्रेतः। स नास्ति यस्याः सेयमगन्धा।सांस्रजं न धारयेत् ०॥ १५॥०॥
किं सर्व्वाममेव ? न।कतमां तर्हि ? —
हिरण्यत्रजः सुवर्णमालायाः अन्यामगन्थांस्रजं न धारयेत्।हिरण्यस्त्रजन्वगन्धामपि धारयेदित्यर्थः॥ ०॥ १६॥ ०॥
न मालोक्ताम्॥ १७॥
मालाशब्देनोक्तां कामपि स्रजं न धारयेत्॥ ०॥ १७॥ ०॥
मालोक्तान्तर्हि स्रजं त्यजेदेव ? न। किन्तर्हि कुर्य्यात् ?—
स्रगिति वाचयेत्॥ १८॥
यां स्रजं मालाशब्देन वक्ति स्म, तां स्रगिति वाचयेत्,— ततो धारयेदित्यर्थः॥ ०॥ १८॥ ०॥
भद्रमित्येतां वृथावाचं परिहरेत्॥ १९॥
भद्रं कल्याणमित्यनर्थान्तरम्। भद्रमित्येतामेवम्भूतां वृथावाचम्असत्यां वाणीं परिहरेत्। तां न वदेदित्यर्थः। किमनेनोक्तं भवति ? एतदनेनोक्तं भवति। “नाभद्रमभद्रं ब्रूयात् पुण्यं प्रशस्तमिति ब्रूयात् " — इति, “अभद्रं भद्रमिति” — इति चैवमादिवचनादभद्रे भद्रवदनं केषाञ्चिदाचार्य्याणामनुमतम्। तदेतन्मनागपिमिथ्यावचनाद्बिभ्यता आचार्य्येण प्रतिषिध्यते, — ‘भद्रमित्येतां वृथावाचं परिहरेत्’ – इति। भद्रेखलु भद्रशब्दो यथार्थवचनःस्यात्।अभद्रेतु भद्रशब्दो वृथैव भवत्ययथार्थोऽनृतं मिथ्येत्येकोऽर्थः।तस्मादेतत् परिहरेत्, – इत्याचार्य्यस्यमतम्। कस्मात् कारणात् ? अनृतवदनदोषप्रसङ्गात्। यथार्थे वाङ्मनसे हि सत्यमाचक्षते। तदेव वक्तव्यम्। अभद्रं भद्रमिति वदतस्त्वन्यद्वाचिमनसि चान्यत् स्यात्। प्रसंशानिन्दावचनपक्षनिक्षिप्तत्वाच्चैवमादेः।तथाच स्मरणम्।
“सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्।
प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः”।
इति।
“चक्षुष्मानिति लुप्ताक्षं चण्डालं ब्राह्मणेति च।
प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते”।
इति चैवमादि॥ ०॥ १९॥ ०॥
अतो यद्भद्रं तदेव
भद्रमिति ब्रूयात्॥ २०॥
भद्रमित्येवमादिना पर्य्यायशब्देन ब्रूयात्, भद्रमित्येव वा ब्रूयात्।तदाह मनुः।
“भद्र भद्रमिति ब्रूयाह्नद्रमित्येव वा वदेत्”।
इति। भद्रे भद्रवदनस्यार्थत एव सिद्धत्वात् यत् पुनर्भद्रमितिकरोति, तद्बोधयति; — भद्रमेव भद्रमिति ब्रूयान्नाभद्रम्— इति। तस्मात् समीचीनमुक्तमाचार्य्येण, – ‘भद्रमित्येतां वृथावाचंपरिहरेत्’—इति। अन्ये त्वेवं वर्णयन्ति। ‘भद्र’ कल्याणम्। भद्रमिति ब्रूयात्, न तु परुषवचनेन। अनेनैतद्दर्शयति। सत्यमप्यप्रियं न वक्तव्यमिति’॥ ०॥ २०॥ ०॥
इदानीं स्नातकान् विभजते,—
तत्रैते त्रयः स्नातका भवन्ति॥ २१॥
तत्र तस्मिन् प्रकृतव्रते एते वक्ष्यमाणाः त्रयःस्नातका भवन्त्यधिकारिणः॥ ०॥ २१॥ ०॥
के पुनस्ते ? उच्यते,—
विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति॥ २२॥
इत्येते त्रयःस्नातका नामतो निर्दिष्टाः। यः खल्वापत्कल्पत्वात्यथोक्तकालानां व्रतानां सम्यगनुष्ठानमकृत्वा’ग्रहणान्तिकमेववा’— इति वचनाद्ग्रहणान्तिकेनैव ब्रह्मचर्य्येण वेदमधीत्य स्नाति,सोऽयं विद्यास्नातकः। यश्च, यथोक्तकालिकानि व्रतान्यनुष्ठायवेदन्तु समग्रमनधीत्यैव स्नाति, स खल्वयं व्रतस्नातकः। यः पुनर्यथोक्तकालिकानि व्रतान्यनुष्ठाय वेदमपि समग्रमधीत्य स्नाति,असौ विद्याव्रतस्नातकः। तथाच हारीतः। “यःसमाप्य वेदमसमाप्य व्रतानि समावर्त्तते स विद्यास्नातकः। यः समाप्य व्रतान्यसमाप्य वेदं समावर्त्तते स व्रतस्नातकः। उभयं समाप्य समावर्त्ततेयः स विद्याव्रतस्नातकः”– इति। याज्ञवल्क्योऽप्याह।
“वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा”।
इति। अन्ये तु, – ‘नियमेनाधीतं वीर्य्यवत्तरं भवति, – इतिब्राह्मणवाक्यम् —
“आ हैव स नखाग्रेभ्यः परमं तप्यते तपः।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्”।
इति मनुवचनञ्च, — आलोचयन्तः, विनाऽपि ब्रह्मचर्य्यमधीत्य वेदंयः स्नाति, सोऽपि विद्यास्त्नातको भवति’ — इति मन्यन्ते ॥ ०॥ २२॥ ०॥
तेषामुत्तमः श्रेष्ठस्तुल्यौ पूर्वौ॥ २३॥
तेषां त्रयाणां स्नातकानां मध्यात् उत्तमः प्रथममध्यमभिन्नः विद्याव्रतस्नातकः — इत्येतत्। उत्तरः—इति पाठेऽपि तथैवार्थः। सश्रेष्ठः प्रशस्यतमः। पूर्वौद्वौविद्यास्नातकव्रतस्नातकौतुल्यौसमानौ।
आह। कस्मात् पुनः कारणात् स्नातकविवेकात् पुरस्ताच्चोपरिष्टाच्च व्रतान्युपदिश्यन्ते ? ;— ननु प्रागेव स्नातकव्रतोपदेशात्पश्चादेव वा, तेषां विवेकः कर्त्तुमुचितः। उच्चते। स्नातकविवेकात्पुरस्ताच्चोपरिष्टाच्च स्नातकव्रतोपदेशः, — तेषामिव स्नातकप्रकरणात्पुरस्ताच्चोपरिष्टाच्चोपदिष्टानामविरोधिनामन्येषामपि धर्म्माणां प्राप्तिप्रज्ञापनार्थः। किमनेनोक्तं भवति ? एतदनेनोक्तं भवति।ये खल्वस्य पूर्व्वाश्रमिणोब्रह्मचारिणःये चोत्तराश्रमिणो वैखानसभिक्षवः,— तेषामपि ये धर्म्माःसत्यवचनक्रोधपरिहारेन्त्रियसंयमादयः दयाप्रभृतयः,—
“दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्”।
इत्येवमादयश्च स्नातकस्य न विरुध्यन्ते, तेष्वप्ययमधिकरीति –इति।ये तु विरुध्यन्ते योषिद्गमनप्रतिषेधादयः, तेषु पुनर्नाधिकरोत्येव। तथा गौतमेनापि ब्रह्मचारिधर्मोपदेशावसाने “उत्तरेषाञ्चैतदविरोधि” — इति सूत्रयता एतदेवोक्तम्। अस्य खल्वयमर्थः।एतदविरोधि ब्रह्मचारिधर्म्मजातम् उत्तरेषां गृहस्थादीनामपि,चशब्दात् अविरोधि यदुत्तरेषां धर्मजातं तत् पूर्व्वेषामपि,—इति। अलमतिप्रसङ्गेन॥ ०॥ २३॥ ०॥
प्रकृतं स्नातकव्रतमेव पुनरनुवर्त्तामहे,—
नार्द्रंपरिदधीत॥ २४॥
आर्द्रंजलक्लिन्नंवासो न परिदधीत॥ ०॥ २४॥ ०॥
नैकं परिदघीत॥ २५॥
एकं वासो न परिदधीत। एकवासाः न स्वादित्यर्थः। तदनेनो—त्तरीयमप्यस्य वासः — इत्यवगम्यते। एवमेके। अन्ये तु, – अन्तर्वाससोविधानम्– इच्छन्ति। कस्मात् ? परिदधीत – इनि पुनर्व्यचनात्।परिदधीत – इति खल्वनुवर्त्तत एव, यदत्र पुनः करोतितदधःपरिधान- मेवैकस्य वाससोनिषिध्यते — इति द्योतयति।प्रायेण हि परिदधातिरधः परिधानमेव बोधयति।तस्मात्वासोद्वयमेव अधःपरिदधीत। उत्तरीयन्तु अतोऽपि पृथक्।तथाच स्मृत्यन्तरम्।
“जलतीरं समासाद्य तत्र शुक्लेच वाससी।
परिधायोत्तरीयञ्च कुर्य्यात् केशान्न धूनयेत्”।
इति।
“स्नातकानान्तु नित्यं स्यादन्तर्वासस्तथोत्तरम्”
इति चैवमादि। न चैवमपि बहुवासस्त्वदोषशङ्गा कर्त्तव्या।कुतः ?
“नाभेरधः कृते सम्यङ् न दोषो बहुवाससाम्”।
इति स्मरणात्॥ ०॥ २५॥ ०॥
न मनुष्यस्य स्तुतिं प्रयुञ्जीत॥ २६॥
प्रकर्षेण गद्यपद्यादिना कस्यापि मनुष्यस्य स्तुतिं न कुर्य्यात्॥ ०॥ २६॥०॥
नादृष्टं दृष्टतोब्रुवीत2॥ २७॥
द्गष्टतः — इति सार्व्वविभक्तिकस्तसिल्। अदृष्टं यत्, तत् दृष्टमिति न कथयेत्॥ ०॥ २७॥ ०॥
पूर्वसूत्रव्याख्यानेनैव व्याख्यातमेतत्॥ ०॥ २८॥ ०॥
स्वाध्यायविरोधिनोऽर्थानुत्सृजेत्॥ २९॥
स्वाध्यायोवेदाभ्यासः। स च स्वीकारविचाराऽभ्यसनजपदानभेदात् पञ्चविधः। स्वाध्यायं विरुन्धन्ति इति स्वाध्यायविरोधिनः। तान् स्वाध्यायविरोधिनःअर्थान् व्यापारान् उत्सृजेत्त्यजेत्॥ ०॥ २९॥ ०॥
तैलपात्रमिवात्मानं दिधारयिषेत्॥ ३०॥
तैलपूर्णं पात्रं यथा स्फुटनचलनविपर्य्यासखकाकादिदृषणादिभ्यो यत्नातिशयेन रक्ष्यते, तथैवात्मानं स्वशरीरमपि दिधारयिषेत् सर्वापद्भ्योरक्षितुमिच्छेत्। स्वर्गापवर्गसाधनःखल्वयमात्मा,— इति यत्नातिशयेन तद्रक्षणं कर्त्तमुपदिदिक्षुराचार्यो लौकिकानांसुखावबोधार्थं लौकिकमेव दृष्टान्तमुरीचकार ; — तैलपात्रमिव—इति।अतएव, धारयेत् — इति वक्तव्ये दिधारयिषेत्— इत्युक्तम् ; – मनसाऽपि शरीरापकारं कर्त्तुं नेच्छेदित्येवमर्थम्। तेखल्वनेके शरीरापकारहेतवो न शक्याः प्रतिपदं परिकीर्त्तयितुमिति संक्षेपत एतत् सूत्रितम्॥ ०॥ ३०॥ ०॥
न वृक्षमारोहेत्॥ ३१॥
ऋज्वर्थं सूत्रम्॥ ०॥ ३१॥ ०॥
न प्रतिसायं ग्रामान्तरं व्रजेत्॥ ३२॥
प्रतिसायं सायं प्रति सन्धिवेलायाम् – इत्येतत्। तथाच मनुः।“नाश्नीयात् सन्धिवेलायां न गच्छेन्नापि संविशेत्”।इति। स्पष्टमन्यत्॥ ०॥ ३२॥ ०॥
नैकः॥ ३३॥
ग्रामान्तरं व्रजेत् — इत्यनुवर्त्तते॥ ०॥ ३३॥ ०॥
न वृषलैः सह॥ ३४॥
वृषलैः,—
“न शूद्रो वृषलो नाम वेदो हि वृष उच्यते।
यस्य विप्रस्य तेनालं स वै वृषल उच्यते”।
इत्युक्तलवणैः शूद्रैर्व्वा, सह न ग्रामान्तरं व्रजेत्। तैश्च केवलैरेव सह, न संमिश्रैरपि — इति बोद्धव्यम्। कुतः ? निरपेक्षश्रवणात्॥ ०॥ ३४॥ ७॥
न कासृत्या ग्रामं प्रविशेत्॥ ३५॥
सृतिःपन्थाः। ईषत् सृतिः कासृतिः, अल्पः पन्थाभण्यते। तयाग्रामं न प्रविशेत्। महति पथि विद्यमानेऽपि खल्वपेन पथागच्छन्तं समुपजातशङ्का लोकाःकदाचिदपहन्युरपि — इत्यभिप्रायः। अपरे त्वेवं व्याकुर्व्वते। ‘कुत्सिता सृतिः कासृतिः। तया ग्रामं न प्रविशेत्। ग्रामशब्दो गृहस्याप्युपलक्षणार्थः। तथाच मनुः।
“अपद्वारेण नातीयाद्ग्रामं वा वेश्म वा वृतम्”।
इति॥ ०॥ ३५॥ ०॥
न चाननुचरश्चरेत्॥ ३६॥
अनुचरति, — इत्यनुचरःपरिचारको भण्यते। नास्त्यनुचरो यस्यसोऽयमननुचरो न चरेत् न गच्छेत्। चशब्दादविनीतानुचरश्चन चरेत्। ननु ‘नैकः ’ —इत्यनेनैव गतार्थत्वादेतदवाच्यम्। मैवम्।पादसंवाहनादिकमप्यनुचरणम् — परिचर्य्यां यो न करोति, तंविना न चोदित्यस्यात्रविशेषत्वात्। अथवा।तत्र, ग्रामान्तरमेकोन गच्छेदिव्युक्तम्। अत्रतु स्वग्रामेऽप्यल्पमपि पन्थानमनमुचरोन चरेदित्ययमर्थः॥ ०॥ ३६॥ ०॥
एतानि समावृत्तव्रतानि॥ ३०॥
समाव्रुत्तस्य व्रतानि समावृत्तव्रतानि।समाव्रुत्तः— इति कर्त्तरिनिष्ठा। कः पुनरसौ?विधिवत् स्नात्वा गुरुणा लब्धानुज्ञःतद्गृहात् स्वगृहं प्रति सम्यगावृत्तः — स्वगृहमागतोयः, सोऽयंसमाव्रुत्तःस्नातकश्चाख्यायते। तस्यैतानि अनन्तरोक्तानि व्रतानिभवन्ति। व्रतशब्दोपादानात्, – अजातलोम्न्यासह अनुपहासःकर्त्तव्यः, — इत्येवमादिकोनियमः कर्त्तव्यतया चोद्यते।चोद्यते। व्रतंनियमः— इति ह्यनर्थान्तरम्। अनुपहासश्चोपहासाभावः। नच तस्य कर्त्तव्यता अस्ति। तस्मात् यस्तत्रमानसो व्यापारः अजातलोम्न्या सह उपहासो मया न कर्त्तव्यः — इत्येवमादिरूपः,स इह उपदिश्यते। तस्य च परिपालनम्।
सोऽयं नियमः प्रजापतिव्रतवत् कर्त्तव्यतया चोद्यते, — इति कल्याणोदयो भवति। कर्त्तव्यो हि कल्याणोदयः,—इत्याचार्या मन्यन्ते। व्रतस्य खल्वस्याकरणे व्रतफलादेव परं पुरुषोहीयते, न पुनर्निषेधातिक्रमवत् प्रत्यवायमप्यधिगच्छति। यथाखल्वादित्यव्रते सत्यपि “नोद्यन्तमादित्यमीक्षेत” — इति वचने,“आदित्यं पश्यन्नातिक्रामति विधिम्। न हि तस्य दर्शनं प्रतिषिद्धम्, नियमस्तत्रोपदिष्टः। यस्तं नियमं करोति स फलेनसम्बध्यते” – इति भगवता भाष्यकारेण शवरस्वामिना षष्ठाध्याये सिद्धान्तितम्। तद्वदत्राप्यवगन्तव्यम्।
यः पुनर्नियमं कुर्वाणोऽपि न तं परिपालयति, स तु प्रत्यवैति। सत्यसङ्कल्पः खल्वेवमसौ न स्यात्। आरब्धकाम्यकर्म्माइव पुरुषस्तस्य परिसमाप्तिमकुर्वन्। तस्मात् नियमं कुर्वाणेनतस्य परिपालनमप्यवश्यं कर्त्तव्यम्। अपरिपालयन् व्रतमयंलोपयति,—इति तत्कृतमस्य प्रायश्चित्तं भवति। न पुनः कलतञ्जभक्षणादिवन्निषेधातिक्रमात्। तथाच मनोः स्मरणम्।
“वेदोदितानां नित्यानां कर्म्मणां समतिक्रमे।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्”॥
इति। स्नातकव्रतलोपे च,—इति पुनः कुर्व्वन् नित्यत्वमीषां नानुजानाति। अनित्यानाञ्चोपक्रान्तानामेव परमतिक्रमे प्रायश्चित्तमिष्यते। अतएव स्नातकव्रतोपक्रमे तेनैवोक्तम्।
“स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत्”।
इति। तथोपसंहारेऽपि।
“एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती।
स्नातकव्रतकल्पश्चसत्ववृद्धिकरः शुभः।
अनेन विप्रो वृत्तेन वर्त्तयन् वेदशास्त्रवित्।
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते”।
इति। अत्र, वृत्तिः शाश्वती – नित्या, स्नातकव्रतकल्पश्च सत्ववृद्धिकरः—इति व्यक्तममीषामनित्यत्वम्। गौतमोऽपि स्नातकव्रतान्यभिधाय, “एवमाचारो मातापितरौ पूर्व्वापरान् संबन्धान्दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान्नच्यवते”—इत्युपसंहरन्नेतदेवाह।तत्र च, कस्यचित् स्नातकव्रतमध्यपठितस्यापि पृथक् प्रतिषेधसम्भवात् व्रताकरणेऽपि नित्यवत् परिपालनं बोद्धव्यम्। यथा वृथावचनपरिहारो यद्यपि स्नातकव्रतेषु पठ्यते, तथापि मिथ्यावदनस्य पृथक् प्रतिषिद्धत्वात्स्नातकव्रतान्यननुतिष्ठताऽपि नैव मिथ्या वदितव्यम्।वदितव्यम्। एवमन्यत्रापि यथासम्भवमूहनीयम्।
यदि पुनरनित्यत्वेऽप्यमीषामकरणे वाचनिकं प्रायश्चित्तमित्युच्यते। तदा, ‘अजातलोम्न्या सह उपहासो मया न कर्त्तव्यः’—इत्येवमादिकस्य सङ्घल्पस्याकरण एव प्रायश्चित्तम्, न पुनरजातलोम्न्या महोपहास एव,—इति स्यात्। परमकरणेऽपिप्रायश्चित्ताभ्युपगमे कोदृशममीषामनित्यत्वम् ?—इत्ययं पर्य्यनुयोगः समाधेयः॥ ०॥ ३७॥ ०॥
यानि च शिष्टा विदध्युः॥ ३८॥
यानि शिष्टा विदध्युः – वेदशास्त्राविरोधेन तर्कबलेन कुर्य्युः, तानिच समावृत्तव्रतानि। चशब्दात् यानि तन्त्रन्तरसिद्धानि तानिच॥०॥ ३८॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यामजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलोयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य पञ्चमी खण्डिका॥ ०॥
__________
गोभिलीयगृह्यसूत्रे
तृतीयप्रपाठके षष्ठीखण्डिका।
केचित् यज्ञाः पूर्व्वमुक्ताः, केचिच्च वक्ष्यन्ते। ते खल्वाज्यादिहविःसाध्याः तानि च गवामायत्तानि, गावश्च परिपुष्टा एवहवींषि दातुं प्रभवन्ति। अतः सर्व्वयज्ञसाधनभूतानां गवांपुष्टिकर्म्मवक्तव्यम्। तत्र तावद्गवाश्रयं किञ्चित् कर्मोपदिशत्युत्तरार्थम् —
गाःप्रकाल्यमाना अनुमन्त्रयतेमा मे विश्वतोवीर्य्यइति॥ १॥
प्रकाल्यमानाः तृणचरणाय गृहान्नीयमानाः गाःअनुमन्त्रयेत,इमा मे—इति मन्त्रेण। तदिदमनुमन्त्रणं गवां गृहाविष्क्रमणकाले कर्त्तव्यम्॥ ०॥ १॥ ०॥
प्रत्यागतव इमा मधुमतीर्मह्यमिति॥ २॥
प्रत्यागताः सायं गृहमागताः गाः, इमा मधुमतीरिति मन्त्रेणानुमन्त्रयेत॥ ०॥ २॥ ०॥
अथेदानीं गवां पुष्टिकर्म्माह,—
** पुष्टिकामः प्रथमजातस्य वत्सस्य प्राङ्मातुः प्रलेहनाज्जिह्वया ललाटमुल्लिाह्यनिगिरेद्गवा
पुष्टिःपोषःउपचयः,**—इत्यनर्थान्तरम्। तां कामयते इतिपुष्टिकामः। अधिकाराद्भवामेव। सा खल्वियं पुष्टिरविशषात्शरीरस्य संख्यायाश्च बोद्धव्या। वर्षासु प्रायेण गावःप्रसूयन्ते,तदानींजातानां वत्सानां मध्ये यः प्रथमं पूर्व्वं,—**प्रथमः पूर्वोवा जायतेस्म, सोऽयं प्रथमजातः,तस्य वत्सस्य, प्राक् पूर्व्वं मातुःप्रलेहनात्,–(प्रलेहनमास्वादनम्) यावन्नमाता वत्संप्रलेढ़ि, तावत्तस्य ललाटं जिह्वया रसनया तूष्णीमुल्लिह्य आस्वाद्य गवां श्लेष्मासीतिमन्त्रेण निगिरेत्। सामर्थ्यान्मनसैव मन्त्रःपठनीयः। केचित् पुनरेतदादीनां त्रयाणामपि पुष्टिकर्म्मणांवसन्तादारभ्य मासत्रयं करणमिच्छन्ति। तदसङ्गतम्। कुतः?वर्षास्वेव बाहुल्येन गवां प्रसवोपलम्भात् तत्रैव कर्त्तुमुचितत्वात्।तथा चोक्तम्।
“ललाटलेहनादीनि गवां कर्म्माणि पुष्टये।
वर्षासुत्रीणि कार्य्याणि भूयस्तत्प्रसवा हि ताः”।
इति॥ ०॥ ३॥॥
** पुष्टिकाम एव संप्रजातासु निशायां गोष्ठेऽग्निमुपसमाधाय विलयनं जुहुयात् संग्रहणसंगृहाणेति॥४॥**
पुष्टिकाम एव गवामित्यर्थः। सम्प्रजातासु,**—**सर्व्वासु गोषु प्रसूतासु, निशायां रात्रौ, गोष्ठे गवां स्थाने, अग्निमुपसमाधायसंग्रहणेतिमन्त्रेण जुहुयात्। ननु, अग्निमुपसमाधाय, —इत्येतदवाच्यम् ? जुहोतिचोदनाबलादेव खल्वग्निरवगम्यते। नैष दोषः।कस्मात् ? यस्मात् एतदवचने जलहोमादिवत् गोष्ठएवायंहोमःस्यात् न पुनरग्नौ। तथोप्युपसमाधाय— इत्यनर्थकम् ?न। अग्निमुपसमाधायैव जुहुयात् नान्यामावृतं कुर्य्यादियेषमर्थत्वात्तस्य। तेन क्षिप्रहोमःस्यात्। किं जुहुयात् ? विलयनम्। विलयनशब्देन घृतनिस्यन्दनमर्द्धमथितं दधि चोच्यते।तथा चोक्तम्।
“दध्यर्द्धमथितं सर्व्वं तद्वै विलयनं स्मृतम्।
घृतनिस्यन्दनञ्चात्र क्षिप्रमेका तथाऽऽहुतिः”।
इति। द्रवद्रव्यकत्वात् स्रुवेणायं होमःस्यात्। एका चाहुतिः॥ ०॥ ४॥ ०॥
** पुष्टिकाम एव संप्रजातास्वौदुम्बरेणासिना वत्समिथुनयोर्लक्षणं करोति पु
पुष्टिकाम एव सम्प्रजातास्वित्युक्तार्थम्। औदुम्बरेण ताम्रमयेन,न काष्ठमयेन। कस्मात् ? ‘लोहितेन स्वधितिना’ —इति मन्त्रलिङ्गात्। न हि काष्ठमयोऽसिर्लोहितो भवति। सामर्थ्याच्च।ताम्रमयः खस्वसिर्लक्षणकरणे समर्थो न काष्ठमयः। असिना क्षुरेण।कुतः? ‘लोहितेन स्वधितिना’— इति मन्त्रलिङ्गादेव।चूड़ाकरणे किल स्वधितिशब्दःक्षुरे प्रयुक्तः। ‘स्वधितेमैन**
वत्समिथुनयोः।मिथुनं स्त्रीपुंसौ। वत्सयोर्मिथुनं वत्समिथुनं तयोः वत्समिथुनयोः। यावन्ति वत्समिथुनानि सन्तितावतामेव। द्विवचनकरणात् द्वयोर्द्वयोर्लक्षणं कर्त्तव्यम्। कथंनाम ?एकस्य वत्समिथुनस्य लक्षणं कृत्वा पुनरन्यस्य करणीयम्।एवमपरापरस्यापि। लक्षणं करोति। लक्ष्यतेऽनेनेति लक्षणंचिह्नं करोति। कुत्र प्रदेशे करोति ? कर्णयोः। कस्मात् ?‘मिथुनं कर्णयोः कृतम्’—इति मन्त्रलिङ्गात्।
केन क्रमेण करोति ? उच्यते। पुंस एवाग्रेऽथ स्त्रियाः।अग्रे आदितः पुंस एव वत्सस्य लक्षणं करोति, अथानन्तरं स्त्रियावत्साया लक्षणं करोति। एतदनेनोक्तं भवति। एकस्य वत्सस्य द्वयोरपि कर्णयोर्लक्षणं कृत्वा, अथ एकस्या वत्साया द्वयोरधिकर्णयोः कर्त्तव्यम्। ततोऽपरस्य वत्सस्य अपरस्याश्च वत्सायाः।एवमन्येषामपि। कस्मात् पुनः कारणादेवमवगम्यते, सर्व्वेषामेववत्सानां लक्षणमादितः कृत्वा परतः सर्व्वासां वत्सिकानामेव कुतोन क्रियते ? उच्यते। वत्समिथुनयोरिति द्विवचनोपन्यासस्यार्थ-वत्त्वार्थमेवमवगच्छामः। द्विवचनकरणात् खल्वेकस्य वत्सस्यैकस्याश्चवत्साया लक्षणकरणमवगम्यते। अन्यथा वत्समिथुनानाम्—इत्येवकुर्य्यात्। तदिदं द्विवचनं मिथुनस्यैकत्वात् मिथुनावयवौस्त्रीपुंसावपेक्ष्यद्रष्टव्यम्। एवकाराथशब्दयोश्चोपादानात्। अग्रे पुंस एवेतिकरणात् खलु स्त्रियमेवापेक्ष्यपुंसोऽग्रत्वमवगम्यते। तत्र यदिसर्वेषां वत्सानामादितो लक्षणं क्रियते, तदा पुंसोऽप्यग्रे पुंसोलक्षणं स्यात् न स्त्रिया एव। एवमथ स्त्रियाः —इति करणात्पुंस एव लक्षणकरणात् परतःस्त्रियालक्षणकरणं प्रतीयते। सर्व्वासां वत्सिकानां परतो लक्षणकरणे च स्त्रिया अपि परतःस्त्रियालचणकरणं स्यात् न पुंस एव परतः। तदिदमेकैकमिथुनाभिप्रायं वचनम्। अपि च।पुंस एवाग्रेऽथ स्त्रियाः—इतिवचनात् एकवचनसंयोगाच्चएकस्य पुंसो लक्षणकरणानन्तरमेवैकस्याः स्त्रियाःलक्षणकरणमवगम्यते। अवगम्यते चेत्, न युज्यतेविना कारणमुत्स्रष्टुम्। तस्मात् यथोक्त एवार्थः। अन्ये तु, पुट्सएवाग्रेऽधः स्त्रियाः’—इति पठन्ति। कर्णस्याग्रप्रदेशे पुंसोऽधःप्रदेशेच स्त्रिया लक्षणं करोति-—इति व्याचक्षते च। केन मन्त्रेणलक्षणं करोति ? भुवनमसि—इति मन्त्रेण। प्रतिकर्णं मन्त्रावृत्तिर्बोद्धव्या।कम्मात् ? “भेदे मन्त्रावृत्तिः”—इति सूत्रान्तरात्॥ ०॥ ५॥ ०॥
कृत्वा चानुमन्त्रयेत लोहितेन स्वधितिनेति॥ ६॥
लक्षणंकृत्वा लोहितेनेति मन्त्रेण अनुमन्त्रयेत।कृत्वा—इतिकरणात् सर्व्वेषां लक्षणकरणात् परतोऽनुमन्त्रणम्।धशब्दःक्रमविशेषस्मरणार्थः। कथं नाम ? येनैव क्रमेण लक्षणकरणं तेनैवक्रमेणानुमन्त्रणम्—इति। प्राजापत्यपशूनां येनैव क्रमेणाञ्जनंतेनैव क्रमेणाभ्यञ्जनमितिवत्। तस्मात् प्रतिकर्णमेवानुमन्त्रणंस्यात्। मन्त्रावृत्तिरुक्ता॥ ०॥ ६॥ ०॥
तन्त्र प्रसार्य्यमाणां बद्धवत्साञ्चानुमन्त्रयेतेयंतन्तीगवां मातेति॥ ७॥
तन्ती वत्सबन्धनदाम। तन्त्रीं—इति केचित् पठन्ति। तामपराह्णेवत्सबन्धनाय प्रसार्य्यामाणामनुमन्त्रयेत—इयं तन्तीति मन्त्रेण।बद्धवत्साञ्च। बद्धोवत्सो यया, तां बद्धवत्सामपि तन्तीमनुमन्त्रयेततेनैव मन्त्रेण। तदिदमनुमन्त्रणद्वयं बोद्धव्यम्॥ ०॥ ७॥ ०॥
तत्रैतान्यहरहः कृत्यानि भवन्ति॥ ८॥
तत्र तस्मिन् काम्ये कर्म्मणि एतानि वक्ष्यमाणसूत्रोद्दिष्टानि अहरहः कृत्यानि प्रतिदिनं कर्त्तव्यानि भवन्ति॥ ०॥ ८॥ ०॥
कानि पुनस्तानि ? उच्यते,—
निष्कालनप्रवेशने तन्तीविहरणमिति॥ ९॥
निष्कालनं पूर्वोक्तं गाः प्रकाल्यमाना इति, प्रवेशनमपि पूर्वोक्तं प्रत्यागता इति, तन्तीविहरणमनन्तरोक्तमित्येतानि॥ ०॥ ९॥ ०॥
गोयज्ञे पायसश्चरुः॥ १०॥
गवां पुष्टिकामस्याग्न्यादीनां यजनं गोयज्ञः। तस्मिन् गोयज्ञेपायसः पयसि भवः चरुः स्थालीपाकः कर्त्तव्यः—इति सूत्रशेषः॥ ०॥ ६॥ १०॥
तेन च चरुणा,—
अग्निं यजेस पूषणमिन्द्रमीश्वरम्॥ ११॥
यजेत इत्यस्य प्रत्येकमन्वयः।असमासकरणं निर्व्वापहोमयोःपृथक्त्वप्रज्ञापनार्थम्। पूष्णोऽप्यत्र तण्डुलचरुरेव भवति। कस्मात् ?अग्नीन्द्रेश्वरसामान्यात्। तथाचोक्तम् –
“यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्।
अग्नीन्द्रेश्वरसामान्यात् तण्डुलोऽत्र विधीयते”।
इति॥ ०॥ ११॥ ०॥
ऋषभपूजा॥ १२॥
ऋषभोऽनङ्वान्। तस्य पूजा—गलशृङ्गादावाभरणप्रदानेन यवसदानादिना च सत्कारो गोयज्ञे कर्त्तव्यः॥ ०॥ १२॥ ०॥
प्रसङ्गात् भूयसा साधर्म्म्याच्च गोयज्ञविध्यतिदशेनैवाश्वयज्ञमप्युपदिशति,—
गोयज्ञेनैवाश्वयज्ञो व्याख्यातः॥ १३॥
ऋजुरक्षरार्थः। स खल्वयमश्वयज्ञो विद्यमानाश्वेनाश्वपुष्टिकामेनकर्त्तव्यः, न येन केनचित्, नाप्यश्वमुत्पाद्य,—इतिबोद्धव्यम्।पायसचरुणा पूर्व्ववदत्राग्न्यादयो यष्टव्याः॥०॥ १३॥०॥
अयं पुनरत्र विशेषः, —
यमवरुणौदेवतानामत्राधिकौ॥ १४॥
देवतानामिति सम्बन्धलक्षणा षष्ठी।अवाश्वयज्ञेगोयज्ञनिर्दिष्टानां देवतानां यमवरुणौअधिकौ। यमः पञ्चमो वरुणः षष्ठः।अत्रापि पूर्व्ववत् पृथगेव निर्व्वापो होमश्च।ऋषभपूजास्थानेचाखपूजा बोद्धव्या॥ ०॥ १४॥ ०॥
प्रासङ्गिकमभिधायेदानीं पुनर्गोज्ञशेषमेवाह,—
गधैरभ्युक्षणं गवांगन्धैरभ्युक्षणं गवाम्॥ १५॥
सायमागतानां गवां गन्धोदकैरभ्युक्षणमाभिमुख्येनोक्षणं सेचनंकर्त्तव्यम्। द्विर्व्वचनमादरार्थम्। अथवा।दिर्व्वचनादुगोयज्ञएवगवामभ्युक्षणम्—इत्यवगम्यते।तस्मादश्वयज्ञेऽयं विशेषो नास्ति।अपि च। गोयज्ञस्य कियतीमावृतं सूत्रयित्वा, अश्वयज्ञमभिधाय,पश्चादपि गोयज्ञस्यावृतं सूत्रयन्नाचार्य्यः,—पूर्व्वसूत्रितामेव गोयज्ञस्यावृतमश्वयजेऽतिदिशति न सूत्रयिष्यमाणामपि— इत्यवधार्य्यते।अन्यथा सर्व्वामेव गोयज्ञस्यावृतं सूत्रयित्वा परस्तादेवाश्वयज्ञेतामतिदिशेत्। तस्मात् क्रमभेदकरणादवगच्छामः,— अश्वयज्ञेऽश्वानामभ्युक्षणं नास्ति —इति। अन्ये तु,—अश्वयज्ञेऽप्यश्वानां गन्धैरभ्युक्षणमिच्छन्ति।
ननु प्रकरणशेषेऽप्यत्र गोयज्ञाश्वयज्ञयोः कालो न श्रूयते‚अतस्तयोः कः कालः ?—इति वक्तव्यम्।उच्यते। कालान्तरानुपदेशात् परिभाषासिद्ध एवोदगयनादिः कालोऽनयोर्भविष्यति।अथवा।तन्त्रान्तरविधानानुसारात् मार्गपालीदिने गोयज्ञो नीराजनदिने चाश्वयज्ञःस्यात्। तथाच कर्म्मप्रदीपः।
“पारिभाषिक एव स्यात् कालो गोवाजियज्ञयोः।
अन्यस्यानुपदेशात्तुस्वस्तरारोहणस्य च।
अथवा मार्गपाल्यह्निकालो गोयज्ञकर्म्मणः।
नीराजनेऽह्निचाश्वानामिति तन्त्रान्तरे विधिः”।
इति। मार्गपालीदिनञ्च सुखरात्र्यनन्तरा प्रतिपत्। कुतः?तदधिकारे, —
“ततोऽपराह्नसमये पूर्व्वस्यां दिशि भारत !
मार्गपालींप्रबध्नीयात् तुङ्गे स्तम्बेऽथ पादपे”।
इति पुराणवचनात्। नीराजने च कालविकल्पाःश्रूयन्ते। तथाच वराहमिहिरः।
“द्वादश्यामष्टम्यां
कार्त्तिक शुक्लपचस्य पञ्चदश्यां वा।
आश्वयुजे वा कुर्य्या-
न्नीराजनसंज्ञितां शान्तिम्”।
इति॥ ०॥ १५॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यत्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य षष्ठी खण्डिका॥ ०॥
__________
गोभिलीयगृह्यसूत्रे
तृतीयप्रपाठके सप्तमी खण्डिका।
अथातः श्रवण्णाकर्म्म॥ १॥
अथशब्दः प्रकरणान्तरोपन्यासार्थः। श्रवणाकर्म्म,—इति कर्म्मणोनामधेयम्। वर्त्तिष्यते,—इति सूत्रशेषः। अतःशब्दो हेत्वर्थः।यस्मादाहिताग्निरेभिः श्रवणाकर्म्मादिभिर्देवादीनयजमानः अमरादीन् निराकुरुते निराकृतिरिति चाख्यायते, अतः—एतस्मात्कारणात् श्रवणकर्म्मादिकमिदानींवक्तव्यमित्यभिप्रायः। तथाचोक्तम्।
“यस्त्वाधायाग्निमालस्याद्देवादीन्नैभिरिष्टवान्।
निराकर्त्ताऽमरादीनां स विज्ञेयो निराकृतिः”।
इति॥ ०॥ १॥॥
तदिदं श्रवणाकर्म्म, —
पौर्णमास्यां कृत्यम्॥ २॥
पौर्णमास्यां श्रावण्यां, कृत्यं करणीयम्। श्रावण्याम्—इति कुतोलभ्यते। समाख्यासामर्थ्यादित्याह। श्रवणाकर्म्म — इति समाख्यानेश्रूयमाणे श्रावणोमासःखल्वागच्छति हृदयम्। आगच्छतिचेत्, न युज्यते विना कारणमुत्स्रष्टुम्। एतस्मात् कारणात्श्रावण्यांपौर्णमास्यामेतत्करणीयम्।गृह्यान्तरवचनाञ्च। तथाच गृह्यान्तरम्। “अथातः श्रवणाकर्म्म” “श्रावण्यां पीर्णमास्याम्”—इति॥ ०॥ २॥ ०॥
कथं कर्त्तव्यम् ?तदभिधीयते,—
पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्ति॥ ३॥
पुरस्तादग्रतो न पूर्व्वस्यां दिशि।शालाया अग्न्यागारस्य,( गोमयादिना ) उपलिप्य, तत्र शालाग्नेरग्निं प्रणयन्ति लक्षणादिभिःस्थापयन्ति।बहुवचनादनियतः कर्त्ता। शालाग्नेरित्यषयवलक्षणाषष्ठी। तेन, शालाग्नेरेकदेशं प्रणयन्ति न सर्व्वम्॥०॥ ३॥०॥
अभितश्चत्वार्य्युपलिम्पन्ति॥ ४॥
प्रकृतत्वात् प्रणीतस्थाग्नेरभितः — इतश्चेतश्च चत्वारि स्थानानि उपलिम्पन्ति।कर्त्तुरनियमः॥ ०॥ ४॥ ०॥
किं विदिक्षु? न। किन्तर्हि ? उच्यते,—
प्रतिदिशम्॥ ५॥
दिशं दिशं प्रति उपलिम्पन्ति॥ ०॥ ५॥०॥
कियन्तं देशमुपलिम्पन्ति ? तदभिधीयते,—
साधिके प्रक्रमे॥ ६॥
अधिकेन सह वर्त्तमाने साधिके—स्तोकाधिके इत्येतत्। प्रक्रमे—
“संसक्तपदविन्यासस्त्रिपदः प्रक्रमः स्मृतः।
स्मार्त्तेकर्म्मणि सर्व्वत्र श्रौते त्वध्वर्य्यचोदितः”।
इत्युक्तलक्षणे, उपलिम्पन्ति। उपलेपनक्रियाऽऽधारत्वविवक्षया सप्तमीनिर्देशः॥ ०॥ ६॥ ०॥
** अग्नौ कपालमाधाय सकृत्संगृहीतं यवमुष्टिं भृज्जत्यनुपदहन्॥ ७॥**
प्रकृतेऽनौकपालमाधाय।अथ, अग्नाविति शक्यमवक्तुम् ?प्रकृतः खल्वग्निरित्यसौ गम्येत। नैष दोषः। यतोऽभित उपलिप्तस्थानानां सन्निहिततरत्वात् तत्रैव कपालाधानमप्याशङ्कीतकश्चिदिति तन्निरासार्थमग्नावित्याह। कपालम्—
“कपालं मृन्मयं पात्रं चक्राघटितमुच्यते।
आसुरं चक्रघटितं दैवे पैत्रे च वर्ज्जयेत्”।
इत्युक्तलक्षणम्, अग्नौआधाय अग्नेरुपरि कृत्वा, सकृत्संगृहीतं यवानां मुष्टिं भृज्जति। किं कुर्व्वन्?अनुपदहन्। प्रदहन्नित्यर्थः। उपेत्ययमुपसर्गः॥ ०॥ ७॥ ०॥
पश्चादग्नेरुलूखलं दृ
प्रकृतस्याग्नेःपश्चादुलूखलं दृंहयित्वा दृढ़ीकृत्य—निश्चलीकृत्येत्येतत्। प्रकृतान् भृष्टान् यवान् तत्र स्थापयित्वा मुसलेन पूर्व्वपदवहन्ति, सक्त्तुनिष्पत्यर्थम्। कर्तुरनियमः। किं कृत्वा?उद्वेचम्।कृत्वा—इति शेषः।क्रियाविशेषणं वा। उद्वेचः पृथग्भावः। “विचिर पृथग्भावे”—इति स्मरणात्। तथाच, भृष्टानांयवानां स्थूलान् सूक्ष्मांश्चपृथक् कृत्वा अवहन्ति॥ ०॥ ८॥ ०॥
** सुकृतान् सक्तून् कृत्वा चमस ओप्य सूर्पेणापिधायनिदधाति॥९॥**
सुकृतान् शुभान् सुविहितान् वा, सक्तून् कृत्वा, चमसे वानस्पत्यपात्रविशेषे, ओप्य—आउप्य सम्यक् स्थापयित्वा, सूर्पेणयथोक्तलक्षणेन अपिधाय आच्छाद्य, निदधाति स्थापयति।कस्मिन् ? अन्तर्गृहे। कस्मात् ? “अस्तमिते चमसदर्व्यावादाय”—इत्यादिवक्ष्यमाणसूत्रार्थपर्य्यालोचनात्॥ ०॥ ९॥ ०॥
दक्षिणपश्चिमे अन्तरेण सञ्चरः॥ १०॥
अन्तरेण—शब्दो मध्यवचनः। तद्योगात् दक्षिणपश्चिमे — इतिद्वितीया। दचिषपश्चिमे ये द्वे स्थाने उपलिप्ते, ते अन्तरेण तयोर्मध्यप्रदेशः, —इत्येतत्। सोऽयं सञ्चरः ;—सञ्चरत्यनेनेति सञ्चरोगमनागमनमार्ग इत्यर्थः। स खल्वयं वक्ष्यमाणोपयोगी विधिरिहैवप्रसङ्गादुक्तः। एतावदह्नि कर्त्तव्यम्॥ ०॥ १०॥ ०॥
अस्तमिते चमसदर्व्याषादाय सूर्पञ्चातिप्रणीतस्यार्द्धंव्रजति॥ ११॥
अस्तमिते सविसरि, चमसदर्व्यौसूर्पञ्च आदाय ग्रुहीत्वा, अति—प्रणीतस्य,–अतिरुपसर्गः स खल्वयं प्रणीत एवाग्निरतिप्रणीतोभण्यते। तन्त्रान्तरप्रसिद्धो वा। एवं हि तन्त्रान्तरकाराः स्मरन्ति।“अग्निमुपसमाधाय तस्यैकमुल्मुकं प्राक् दक्षिणा प्रणयेत्,—येरूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति पुरापुरोनिपुरो ये भवन्त्यग्निष्टाल्लोकात् प्रणुदात्वस्मादिति, सोऽग्निरतिप्रणीतो भवति”—इति। तदस्य अतिप्रणीतस्य अग्नेः, अर्द्धं समीपंव्रजति सञ्चरेण गच्छति। अर्द्धशब्दःसमीपवचनः॥ ०॥ ११॥ ०॥
गत्वा च,
सूर्पे सक्तूनावपति चमसे चोदकमादत्ते॥ १२॥
पूर्व्वंचमसे स्थापितान् सक्तून् इदानीं सूपें आवपति निःक्षिपति,चमसे च उदकं आदते गृह्णाति॥ ०॥ १२॥ ०॥
ततश्च,–
** सकृत् संगृहीतान् दर्व्यासक्तून् कृत्वा पूर्व्व उपलिप्त उदकं निनीय बलिं निवपति; यः प्राच्यां दिशिसर्पराज एष ते बलिरिति॥ १३॥**
कतिपयान् सक्तून् दर्व्याबलिहरण्या सकृदेकवारं संगृहीतान्कृत्वा, सञ्चरेण प्रदक्षिणं गत्वा उपविश्य पूर्व्वेउपलिप्ते,—पूर्व्वस्यां यत् स्थानमुपलिप्तं तस्मिन्, उदकं चमसस्थंनिनीय निषिच्य, बलिं निवपति हरति,–यः प्राच्यां दिशि,—इति मन्त्रेण॥ ०॥ १३॥ ०॥
उपनिनयत्यपा
उपशब्दः समीपवचनः। उप समीपे बलेः, निनयति निषिञ्चतिनिक्षिपति, —इत्येतत्। किं निनयति ? अपां चमसस्थानांशेषमवशिष्टम्। कथं निनयति ? यथा बलिं न प्रवक्ष्यतीति।यथा येन प्रकारेण निक्षिप्तमुदकं बलिं न प्रवक्ष्यति न स्थानान्तरंप्रापयिष्यति, इति तथा निनयतीत्यर्थः॥ ०॥ १४॥ ०॥
** सव्यं बाहुमन्वावृत्त्यचमसदर्व्यावभ्युत्य प्रताप्यैवंदक्षिणैवं प्रतीच्येवमुदीची यथालिङ्गमव्यावर्त्तमानः॥ १५॥**
‘सव्यं बाहुमनु’ लक्ष्मीकृत्य—वामपार्श्वेनेत्यर्थः। ‘आवृत्त्य’,—तत्रैवस्थितः परिवृत्त्य। यत्र खल्वावर्त्तनमुपदिश्यते, तत्र प्रायेण तत्स्थानस्थितस्यैव परिवर्त्तनमभिप्रेयते ;—“अथैनं प्रदक्षिणमावर्त्तयति”—इत्येवमादौ। अन्ये तु वर्णयन्ति,—‘सव्यं बाहुमन्वावृत्त्य,—अप्रादक्षिण्येनाग्निं गत्वा’—इति। ‘चमसदयर्व्यौअभ्युक्ष्य’,—समासकरणात् तन्त्रेणैवोदकेनाभिषिच्य, तन्त्रेणैव प्रकृतेऽग्नौ’प्रताप्य’एवम्’ उक्त्तेन प्रकारेण,—सकृत् संगृहीतान्—इत्यादिप्रकारेणेत्येतत्। ‘दक्षिणा’ दक्षिणस्यां दिशि बलिं निवपति। एवंप्रतीच्यामेवमुदीच्याम्। ‘दक्षिणा’—इत्यादौसर्व्वत्र पूर्व्वसवर्णः।‘यथा लिङ्गम्’ यो मन्त्रो यल्लिङ्गः, तेनैव मन्त्रेण तस्यां दिशिबलिं निवपति। ‘यो दक्षिणस्यां दिशि सर्परोज एष ते बलिः’,‘यःप्रतीच्यां दिशि’, ‘य उदीच्यांदिशि’,—इति मन्त्रविशेषःइत्यर्थः। यस्याञ्चदिशि बलिं निवपति तदभिमुख एव स्वात्।तथा चोक्तम्।
“यस्यां दिशि बलिंदद्यात् तामेवाभिमुखो दिशम्।
श्रवणकर्म्मणि भवेत् न्यञ्चकर्म्मन सर्व्वदा”।
इति। ‘अव्यावर्त्तमानः’। विशेषेणावर्त्तनमकुर्व्वन्—सव्यं बाहुमन्वावृत्त्य—इति यदुक्तं, तद्विशेषेणाकुर्व्वन्— इत्यर्थः। कियन्मात्रमप्यावर्त्तनं न शक्यते प्रतिषेद्धुम्। किं कारणम् ? तासु तामुबलिनिवपने तत्तन्मुखत्वविधानम्। अतो विशेषेणावर्त्तनं प्रतिषिषेधयिषुराचार्य्यः’अव्यावर्त्तमानः’—इत्याह। तस्मात् प्रतीच्युदीचीबल्योर्व्यावर्त्तनं न कर्त्तव्यम् तथैव खल्ववस्थितस्तत्तद्दिङ्मुखो भूत्वा बलिनिवपनं कुर्य्यात्। व्यावर्त्तनप्रतिषेधादेव तदुत्तरभाविनोरभ्युक्षणप्रतापनयोरपि प्रतिषेधोऽवगम्यते। अतएव,‘एवं दक्षिणा’—इति सूत्रितम्। दक्षिणाबलौ खल्वावर्त्तनाभ्युक्षणप्रतापनानि सूत्रितत्वादेव प्राप्नुवन्ति, तदर्थं पुनः’एवं दक्षिणा’—इत्येवं शब्दोऽनतिप्रयोजन एव स्यात्। तस्मात्, ‘एवं दक्षिणा—इत्यत्र आवर्त्तनाभ्युक्षणप्रतापनातिरिक्तं पूर्वोक्तम् ‘एवं’ शब्दस्यार्थः—इत्यकामेनापि वाच्यम्। तत्सामान्यात् ‘एवं प्रतीची एवमुदीची’–इत्यनयोरप्येवंशब्दयोः स एवार्थो वर्णनीयः।
तस्मात्, आवर्त्तनाभ्य, क्षणप्रतापनातिरिक्तस्यैव ‘एवं’ शब्देनातिदेशात् प्रतीच्युदीचीबल्योरावर्त्तनाभ्युक्षणप्रतापनानि न कर्त्तव्यानि भवन्ति। अथैवं ‘अव्यावर्त्तमानः’—इत्यनर्थकं, तदतिरितस्यैव ‘एवं’ शब्देनातिदेशाद्व्यावर्त्तनस्याप्रसक्तेः। उच्यते। अव्यावर्त्तमानः,—इति विशेषेणावर्त्तनं प्रतिषेधन्नाचार्य्यस्तत्तद्दिङ्मुखत्वानुगुणं कियन्मात्रमावर्त्तनमनयोरपि बल्योरनुजानाति। सोऽयम्’अव्यावर्त्तमानः’–इत्यस्यार्थःपूर्व्वमुपपादितोऽस्माभिः। अन्ये तु,‘अव्यावर्त्त मानः’,–इति करणाद् व्यावर्त्तनस्यैव प्रतिषेधादभ्युक्षणप्रतापनयोः सर्व्वत्रैव करणम् इच्छन्ति॥ ०॥ १५॥ ०॥
सूर्पेण शेषमग्नावोप्यानतिप्रणीतस्यार्द्धंव्रजति॥ १६॥
शेषं बलिशेषं सूर्पेण अग्नौओप्य, —आ उप्य प्रक्षिप्य। मन्त्रानुपदेशात् व्याहृतित्रयप्रयोगेन,–इत्यर्थः। कुत एतत्?
“यत्र मन्त्रा न विद्यन्ते व्याहतीस्तत्र योजयेत्।
मन्त्राणामेवचादेशे मन्त्रात् कर्म्मसमाचरेत्”।
इति गृह्यासंग्रहवचनात्। एवमेके।अपरे तु मन्यन्ते, –“मन्त्रानुपदेशादमन्त्रकम्”–इति। बलिशेषस्य प्रतिपत्तिः खल्बसौ।प्रतिपत्तौ च मन्त्रान्वयो न प्रयोजनवान्–इति तेषामाशयः।दृश्यते तु वैश्वदेवादिशेषस्य प्रतिपादने बलिहरणादौ मन्त्रान्वयः।अर्थकर्म्मणि तत्र शेषः प्रतिपाद्यते इति चेत्। कएवमाह नेदमर्थकर्म्मेति। निःसन्देहायामपि प्रतिपत्तौ स्विष्टक्रुदादौ तत्रभवन्तोमन्त्रं प्रयुञ्जते। सन्देहे च व्याहृतिप्रयोगे न किञ्चिद्धीयते।
तदेवं कृत्वा, अनतिप्रणीतस्यार्द्धंव्रजति। प्रणीतम्—इतिभावे निष्ठा। प्रणीतं प्रणयनमतिक्रान्तोऽतिप्रणीतः, तथाविधो नभवतीत्यनतिप्रणीतः प्रकृतोऽग्निर्भण्यते। प्रकृतस्य खल्वग्नेःपरिग्रहार्थम् अनतिप्रणीतस्य—इत्याह। अग्न्यागारे खल्खन्योऽप्यग्निरस्ति। अथ वा। अतिप्रणीतस्तन्त्रान्तरप्रसिद्धोव्याख्यातः, सन भवतीत्यनतिप्रणीतः। तदस्याग्नेरर्द्धं समीपं व्रजति सञ्चरमार्गेवेत्यर्थः॥ ०॥ १६॥ ०॥
गत्वा च,–
** पश्चादग्नेर्भूमौ न्यञ्चौपाणी प्रतिष्ठाप्य नमःपृथिव्या इत्येतं मन्त्रं जपति॥ १७॥**
प्रकृतस्याग्नेःपश्चात् न्यञ्चौ अधोमुखौ पाणी हस्तौ, भूमौ प्रतिष्ठाप्य, —
“दक्षिणं वामतो वाह्यमात्माभिमुखमेवच।
करं करस्य कुर्व्वीत करणे न्यञ्चकर्म्मणः”।
इति कर्म्मप्रदीपोक्तप्रकारेण संस्थाप्य, नमः पृथिव्यै,— इत्येतं मन्त्रंजपति। ‘एतम्’–इति स्वरवर्णसम्पादनार्थम्। ‘मन्त्रम्’—इतिमन्त्रे दुष्टे यत् प्रायश्चित्तं तस्य प्राप्त्यर्थम्। अन्याप्रतिषेधार्थं वाएतं मन्त्रमिति वचनम्।कथं नाम ? अन्योऽप्येतत्कर्म्मकुर्व्वन्नेतं मन्त्रमेवम्भूतमेव जपति न पुनरूहेत,–इत्यभिप्रायः। कथंपुनरन्यस्य कर्म्मकरणपक्षे ऊहस्थाशङ्का ? उच्यते। “नमः पृथिव्यैदंष्टाय विश्वभृन्मा ते अन्ते रिषाम”–इत्यस्मद्गता विभक्तिर्मन्त्रेपठ्यते। तस्मात्, अन्यस्य कर्म्मकरणपक्षे ऊहमप्याशङ्गीत कश्चिन्मन्दमतिरिति तन्निरासार्थोऽयं प्रयत्नः॥ ०॥ १७॥ ०॥
प्रदोषे पायसश्चरुः॥ १८॥
रात्रेःप्रथमो यामः प्रदोषः। कस्मात् ? “प्रदोषपश्चिमौ यामौ”— इति, तत्रापि प्रदोषशव्दप्रयोगात्। तस्मिन् प्रदोषे, पयसिभवः पायसः, चरुः स्थालीपाकः, कर्त्तव्यः—इति वाक्यशेषः।एवञ्च, सन्ध्योपासनसायंहोमबलिकर्माणि कृत्वा चरुरयं कर्त्तव्यः।कुतः? तत्तत्कालातिपाते प्रायश्चित्तोपदेशात्। एवमर्थःप्रदोषशब्दः॥ ०॥ १८॥ ०॥
** तस्य जुहुयात् ; श्रवणाय विष्णवेऽग्नये प्रजापतयेविश्वेभ्यो देवेभ्यःस्वाहेति॥ १९॥**
तस्य,—इत्यवयवलक्षणा षष्ठी। तस्य पायमस्य चरोर्जुहुयात्,श्रवणाय स्वाहा,—इत्यादिना मन्त्रेण प्रत्येकम्। सोऽयं स्वाहाशब्दःप्रत्येकमभिसम्बन्यते। तथा चोक्तम्। “मन्त्रान्ते स्वाहाकारः”—इति। किमर्थं तर्हि पुनरिह स्वाहाकारपाठः? उच्यते।मन्त्रब्राह्मणोक्तानां मन्त्राणां विनियोगस्य वक्तुमारब्धत्वात् अस्तितेषां बुद्ध्यारूढत्वम्।अतस्तेषामेव मन्त्रशब्दार्थत्वात्तएव मन्त्राःस्वाहाकारान्ताः स्युः—इत्यपि स्यादाशङ्का कदाचित् कस्यचिमन्दमतेरिति तन्निरासार्थमिह स्वाहाशब्दमपठदाचार्य्यः।मन्त्राः खल्वेते मन्त्रब्राह्मणे न पव्यन्ते। अथवा।श्रवणाय,–इत्यादिचतुर्थीविभक्तीनामुद्देश्यतामात्रपरत्वमभ्युपेत्य तन्त्रेणापिहोमं कश्चिदाशङ्गीत। अतः स्वाहाशब्दयोगेनैवैताश्चतुर्थीविभक्तयः,—इति प्रज्ञापनार्थमिह स्वाहाकारःपठितः।श्रवणोनक्षत्रविशेषः। विष्ण्वादयः प्रसिद्धाः। असमासकरणमपि निर्व्वापहोमयोः पृथक्त्वप्रज्ञापनार्थमेव। केचित् पुनर्,—एकामाहुतिमेकञ्च निर्व्वापमिच्छन्ति। तदसङ्गतम्। पूर्वोक्तयुक्तेः। समस्याभिधानञ्चैवं स्यात्। कर्म्मप्रदीपोऽपि—
“श्रावण्यां वा प्रदोषे यः कृष्यारम्भेतथैवच।
कथमेतेषु निर्वापाः? कथञ्चैव जुहोतयः ?
देवतासङ्ख्या गृह्य निर्वापांश्चपृथक् पृथक्।
तूष्णींद्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक् ”।
इति श्रावण्यां प्रदोषेऽपि पृथक् पृथक् निर्व्वापं होमञ्चाह॥॥ ०॥ १९॥ ०॥
स्थालीपाकावृताऽन्यत्॥ २०॥
अन्यत् सर्व्वंस्थालीपाकाव्रुता स्थालीपाकरीत्या कुर्य्यात्। अथ,“एषोऽत ऊर्ध्वंहविराहुतिषु न्यायः”—इति परिभाषाप्राप्तत्वादेतदवाच्यम् ? नैष दोषः। परिसङ्ख्यामार्थत्वात्। कथं नाम ?होमादन्यदेव स्थालीपाकावृता कुर्य्यात्, होमे तु “सकृद्वात्रिर्व्वा”–इति योऽयं विकल्प उक्तः, सोऽत्र न भवति। तस्मात्सक्रुदेव जुहुयात्। कर्म्मक्रमप्रज्ञापनार्थं वा वचनं वर्णनीयम्।कथं नाम ? स्थालीपाकावृता अन्यत् कर्म्मशेषं समाप्य वक्ष्यमाणसूत्रोक्तं कर्म्मकृत्वा परस्तात् परिभाषासिद्धं वामदेव्यगानंकुर्य्यात्— इति। एतस्य खल्वसूत्रणे वक्ष्यमाणसूत्रोक्तं कर्म्मप्रधानहोमानन्तरमेव वा स्यात् वामदेव्यगानात् परतो वा स्यात्।
परमार्थतस्तु, अत्र चरोर्बहुदैवतत्वादवघात एव होमः प्राप्नोति।तत्र चाज्यभागौ अवदानधर्म्मश्च न भवति। अस्माच्च वचनादाज्यभागौअवदानधर्म्मश्च इह ज्ञाप्यते। कथं ज्ञायते ? आचार्य्यपुत्रस्मरणात्। तथाच गृह्मासंग्रहः।
“स्थालीपाकाव्रुताऽन्यत्तु यत्र संज्ञा निपात्यते।
तत्राज्यभागौहुत्वैव स्रुचमास्तीर्य्यावद्यति”।
इति। सोऽयमस्वार्थः। एवमुत्तरत्रापि वर्णनीयम्॥ ०॥ २०॥०॥
**
उत्तरतोऽग्नेर्दर्भस्तम्ब
समूलं मूलसहितं दर्भस्तम्बं कुशगुच्छंप्रकृतस्याग्नेरुत्तरतःप्रतिष्ठाप्य,–“प्राङ्मुखकरणञ्चानादेशे”—इत्यस्मत्सूत्रकारवचनात्प्रागग्रं स्थापयित्वा, सोमोराजेति यां सन्धामिति च मन्त्रद्वयंजपति। “एतं मन्त्रम्”—इति व्याख्यातम्। इदानीं वामदेव्यगानम्। केचित् अत्र दर्भस्तम्बे कुशसंख्यामिच्छन्ति। तदसङ्गतम्। कस्मात्?
“यज्ञवास्तुनि मुष्ट्याञ्चस्तम्बे दर्भवटौतथा।
दर्भसङ्ख्यान विहिता विष्टरास्तरणेष्वपि “।
इति कम प्रदीपवचनात्॥ ०॥ २१॥ ०॥
** श्वस्ततोऽक्षतसक्तून् कारयित्वा नवे पात्रेऽपिधाय निदधाति॥ २२॥**
श्वःआगामिनि दिने,–तस्यां पौर्णमासीशर्व्वर्य्यां प्रभातायां सत्यामित्येतत्। ततः, प्रातर्होमानन्तरम्। अथवा।अथवा।ततः,—इतिसार्व्व विभक्तिकस्तसिः। तयैवावृता, भक्षतसक्तून् पक्षता यवाःतेषां सक्तून् कारयित्वा, नवे पात्रे कृत्वा पात्रान्तरेण अपिधायस्थगयित्वा, निदधाति गृहे स्थापयति। कारयित्वा,—इति वचनात् कर्त्तुरनियमः॥ ०॥ २२॥ ०॥
तैश्च सक्तुभिः,—
** अहरहस्तूष्णींबलीन् हरेत् सायं प्राग्घोमादाग्रहायण्याः॥ २३॥**
अहरहः प्रत्यहं, पूर्व्वोक्तान् बलीन् हरेत्। तूष्णीमिति वाग्व्यापारप्रतिषेधान्मनसा मन्त्रमुच्चार्य्येत्यर्थः। अथवा। तूष्णीमितिकरणादमन्त्रकमेवैतान् बलीन् हरेत्। तूष्णीमिति वाग्यमननियमार्थं न मन्त्रोच्चारणप्रतिषेधार्थम्— इति केचित्। कस्मिन्काले बलीन् हरेत् ? सायम्,– अस्तमयादूर्द्ध्वम्।प्राक्पूर्व्वं होमात्। ननु होमात् पूर्व्वमेव बलिहरणं पुरस्तात्सूत्रितं तत् किमिति प्राग्घोमादिति क्रियते ? उच्यते। अनया भङ्ग्याहोममप्यहरहर्दर्शयति। इतरथा, बलीन् हरेदिति करणात् होमो न स्यात्—इति कश्चिदाशङ्कीत। कियन्तं कालंबलीन् हरेत् ? आग्रहायस्याः,—आआग्रहायण्याः आग्रहायणीपौर्णमासीपर्य्यन्तम्।
अत्र बलिहरणहोमयोरभिधानात् अहरहः प्रयोगे बलिशेषस्यहवनं लक्षणपूर्व्वकमग्निस्थापनञ्च न स्यात्, चमसदर्व्योःप्रतापनार्थमुल्मुकन्तु प्रत्यहमप्यासादयेत्। नमः पृथिव्यै—इत्येतदपिन्यञ्चकरणं प्रत्यहं नैव भवति। तथा चोक्तम्।
“बलिशेषस्य हवनमग्निप्रणयनन्तथा।
प्रत्यहं न भवेयातामुल्मुकञ्च भवेत् सदा “।
इति। “न्यञ्चकर्म्मन सर्व्वदा” — इति च॥ ०॥ २३॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्यकृतौ गोभिलीयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य सप्तमी खण्डिका॥०॥
गोभिलीय-गृह्यसूत्रे
तृतीयप्रपाठके अष्टमी खण्डिका।
उक्तं श्रवणकर्म्म। अथेदानीमाश्वयुजीकर्म्मप्रस्तूयते,—
** आश्वयुज्यांपौर्णमास्यां पृषातके पायसश्चरूरौद्रः॥ १॥**
अश्वयुक् अश्विनीनक्षत्रं, तद्युक्ता पौर्णमासी आश्वयुजी। तस्यांपौर्णमास्याम्। आश्वयुजीग्रहणम् अश्विनीनक्षत्रसम्बन्धद्वारेण आश्विनपौर्णमासीप्रज्ञापनार्थम्। पौर्णमासीग्रहणं पौर्णमास्याःप्राधान्यख्यापनार्थम्। तेन, नक्षत्रालाभेऽपि आश्विनपौर्णमास्यामेवकर्त्तव्यम्। आज्यसंयुक्तं पयो दधि वा पृषातकभित्युच्यते। तस्मिन् पृषातके, — सप्तमीनिर्देशात वक्ष्यमाणावेक्षणाद्यर्थं समासादितेसतीत्यर्थो बोद्धव्यः। रुद्रो देवताऽस्येति रौद्रः, पायसः—पयसिभवञ्चरुः कर्त्तव्यः। तच्चैतत् पयः पृषातकादन्यदेव स्यात्। तथाचकर्म्मप्रदीपः।
“पयो यदाज्यसंयुक्तं तत् पृषातकमुच्यते।
दध्येके, तदुपासाद्य कर्त्तव्यःपायसश्चरुः।
इति।रुद्राय त्वा, — इति निर्व्वापः। समासादितञ्च पृषातकंहोमकाले अग्नेरुत्तरपूर्व्वतः स्थापनीयम्। तथाच गृह्यसंग्रहः।
“दधि सर्पिश्च संयुक्तं प्रोक्तोद्वेष पृषातकः।
होमकाले तु तस्याग्नेः स्थानमुत्तरपूर्व्वतः”।
इति॥ ०॥ १॥ ०॥
** तस्य जुहुयादा नो मित्रावरुणेति3प्रथमां मानस्तोक इति द्वितीयाम्॥ २॥**
तस्येत्यवयवलक्षणा षष्ठी। तस्य पायसस्य चरोरेकदेशं जुहुयात्।आ नो मित्रावरुषेति मैत्रावारुण्यर्च्चाप्रथमामाहुतिं जुहुयात्।मा न स्तोके इति रौद्र्यर्च्चाद्वितीयामाहुतिं जुहुयात्। ननुमैत्रावारुण्यर्च्चाकथं होमःसूत्र्यते ? पायसश्चरुः खल्वयं रौद्रःसूत्रितः। न चैकस्मै हविर्निरूप्य अन्यस्मै हूयते,—इति युक्तम्। उक्तञ्च,—
“निरूप्य हविरन्यस्मा अन्यस्मै न हि हूयते”।
इति।आद्यस्य किल मन्त्रस्य मित्रावरुणयोर्देवतात्वं लिङ्गादवगम्यते। नैष दोषः। श्रुतेर्बलवत्त्वात्। रौद्रः— इति श्रुत्वातावत्रुद्रस्य देवतात्वमवगम्यते, लिङ्गाच्च मित्रावरुणयोः, दुर्ब्बलञ्च श्रुतेर्लिङ्गम्। तस्मात् “ऐन्द्र्यागार्हपत्यमुपतिष्ठेत”—इति वदिहापि श्रुत्या लिङ्गं बाधितव्यं भवति। श्लोकमपि उदाहरन्ति।
“तद्धितेन चतुर्थ्यावा मन्त्रलिङ्गेन चेष्यते।
देवतासङ्गतिस्तत्रदुर्ब्बलन्तु परं परम्”।
इति। पाठक्रमादेवाहुत्योःप्रथमद्वितीयत्वसिद्धेःपुनःप्रथमादिग्रहणम्,—अनयोरेवाहुत्योश्चरोरभिसम्बन्धप्रज्ञापनार्थम्। तेन,प्रथमद्वितीये एव चर्व्वाहती। याश्चान्या आहुतयो वक्ष्यन्ते, ताःसर्व्वा एवाज्याहुतयः। तथा च कर्म्मप्रदीपः।
“आश्वयुज्यां तथा कृष्णां वास्तुकर्म्मणि याज्ञिकाः।
यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते।
द्वे पञ्चद्वे क्रमेणैता हविराहुतयः स्मृताः।
शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत्”।
इति॥ ०॥ २॥॥
गोनामभिश्चपृथक् काम्यासीत्येतत्प्रभृतिभिः॥ ३॥
गवां नामानि गोनामानि। तैर्गोनामभिश्च काम्यासि, –इत्येतत्प्रभृतिभिरष्टाभिः पृथक् नाना, अष्टावाज्याहुतीर्जुहुयात्।गोनामानि च, —
काम्या प्रिया च हव्या च इड़ा रन्तासरस्वती।
मही विश्रुता चाघ्न्याच गोनामानि विदुर्ब्बुधाः”।
इति गृह्यासंग्रहोलानि। “चकारा असिशब्दस्याध्याहारार्थाः”—
इति गृह्यासंग्रहभाष्ये दीक्षितः। यद्यपि नवैव गोनामानिपठ्यन्ते, तथापि अघ्न्यानाम्ना होमो नास्तीत्यष्टा-वेवाहुतयो भवन्ति।एतदिति करणाच्चैवम्भूतैरेव होमः, न चतुर्थी प्रयोक्तव्या। तथाचकर्म्मप्रदीपः।
“धृतिहोमे न प्रयुञ्ज्याद्गोनामसु तथाऽष्टसु।
चतुर्थीमघ्न्याइत्येतद्गोनाम्नि न हि हूयते”।
इति। एवञ्च, काम्यासि स्वाहा —इत्येवमादिकःप्रयोगःसिद्धोभवति। अत्र किञ्चिद्वक्तव्यमस्ति। काम्या प्रिया हव्या इतिनामत्रयान्ते असिशब्दोऽध्याहार्य्यः। अन्यानि च नामानिसंबोधनान्तानि प्रयोक्तव्यानि। कथमर्द्धजरतीयं वर्ण्यते, कचित्असि—शब्दस्याध्याहारःकचिच्च संबोधनविभक्त्यन्तता,—इति। ननुसर्व्वत्रैव ‘असि’ शब्दस्याध्याहारो वा स्यात् संबोधनविभक्त्त्यन्तता वेति युक्तं वर्णयितुम्।
नैष दोषः। कस्मात् ? ताण्ड्यब्राह्मणे तथैव पठितत्वात्।तथाच तत्र समामनन्ति। “काम्यासि प्रियासि हव्यासीड़े रन्तेसरस्वति महि विश्रुते एतानि तेऽघ्न्योनामानि”–इति।अत्र विश्रुते इत्यनन्तरं एतानि तव नामानीत्यभिधानादष्टावेवपरिभाषिकानि गोनामानि भवन्ति। अघ्न्यशब्दस्तु योगेन तत्रप्रयुक्तः। अहननीया खल्वसौ। अतएव कात्यायनेन गोनामहोमेअघ्न्याशब्देन होमोनास्ति इत्युक्तम्। आचार्य्यपुत्रेण तु अघ्न्याशब्दस्यापि गवि प्रयोगदर्शनात् तस्यापि गोनामत्वमभिहितम्।तस्माद् यथापठितैरेव स्वाहाकारान्तैर्गोनामभिरष्टावाहुतयो होतव्याः। भट्टभाष्येऽपि तथैव लिखितम्॥ ०॥ ३॥ ०॥
स्थालीपाकावृताऽन्यत्॥ ४॥
कृतभाष्यं स्वम्॥ ०॥४॥ ०॥
** पृषातकं प्रदक्षिणमग्निं पर्य्याणीय ब्राह्मणानवेक्षयित्वा स्वयमवेक्षेत; —तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतं जीवेम शरदः शतमिति॥५॥**
अग्निप्रादक्षिण्येन पृषासकमानीय ब्राह्मणानवेक्षयित्वा स्वयमवेक्षेत,—तच्चक्षुरिति मन्त्रेण। सामान्येनाभिधानात् ब्राह्मणानामपि मन्त्रो भवति, न पुनरानन्तर्य्यातिरेकात् यजमानस्यैव।तथा चोक्तम्।
“पृषातकप्रेक्षणयोर्नवस्य हविषस्तथा।
शिष्टस्य प्राशने मन्त्रस्तत्रसर्व्वऽधिकारिणः”।
इति। यदि पुनः कस्माच्चित् कारणात् केऽपि ब्राह्मणास्तदानींसन्निहिता न स्युः, तदा स्वयमेव पृषातकमवेक्षेत। तथा चोक्तम्।
“ब्राह्मणानामसान्निध्ये स्वयमेव पृषातकम्।
अवेक्षेहविषःशेषं नवयज्ञेऽपि भक्षयेत्”।
इति॥ ०॥ ५॥ ०॥
** ब्राह्मणान् भोजयित्वा स्वयं भुक्त्वाजातुषान्मणीन्सर्वौषधिमिश्रानावबध्नीरन् स्वस्त्ययनार्थम्॥ ६॥**
ब्राह्मणान्,— बहुवचनात् त्रिप्रसृतीम्, भोजयित्वा, स्वयञ्च मुक्त्वा।अथ, “अपवर्गेऽभिरूपभोजनं यथाशक्ति”—इति सिद्धत्वादेतदवाच्यम् ? उच्यते। अत्यन्ताशक्तावप्यस्मिन्, कर्म्मणि त्रयाणामावश्यकत्वार्थमिदमुक्तम्। अशक्तौखल्वेकस्यापि ब्राह्मणस्य भोजनंप्राप्नोति, यथाशक्त्युपदेशात्। तन्निरासार्थंब्राह्मणान् भोजवित्वा,—इत्याह। नैतत् युक्तम्। कस्मात् ? अशक्योपदेशात्। योहि त्रीन्भोजयितुं न शक्नोति, कथं तस्य तदुपदिश्येत !अशक्योपदेशः खल्वप्रमाणमेव स्यात्। न च प्रमाणं शास्त्रमप्रमायं कल्पयितुमुचितम्।अपर आह। भोजयित्वा, — इति कर्म्माकाङ्क्षायां पृषातकमिति प्रकृतमन्वीयते। अन्यथा, प्रकृतहानाप्रकृत-प्रक्रिये प्रसज्येयाताम्, —इति। एतदपि न सुन्दरम्।कस्मात् ? यस्मात्ब्राह्मणान् भोजयित्वा,—इत्युक्तौ निर्व्विशेषितमेव भोजनं तावदवगम्यते, न किञ्चिदत्रापेक्षणीयमस्ति। येन तृप्तिःसम्पद्यते,तेन केनापि भोजयति,—इत्यवगम्यत एव। “ब्राह्मणान् भोजय"“कौण्डिन्यान् भोजय” “शयाना भुञ्जते यवनाः”—इत्येवमादिप्रत्ययव्यपदेशानां लोके बहुलमुपलम्भात्। “लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि ( सति सम्भवे ) तदर्थान्येव सूत्रेषु”—इतिहि नः प्रतिज्ञातम्। पृषातकं भोजयित्वा,—इति खल्वानुमानिकंपरिचिकल्प- यिषितम्। न चैतत् शब्दस्य श्रवणमात्रात् योऽर्थोऽवगम्यते तं बाधित्वा शक्नोत्यात्मानं लब्धुम्। नापिपृषातकेनहृप्तिःसम्पद्यते। भुजिचोदनायाञ्चैवमेवार्थोऽन्यत्रापि दृश्यते,—“अपवर्गेऽभिरूपभोजनम्” —इत्येवमादौ।
अपि च। उत्तरत्र पृषातकमिति कुर्व्वन्नाचार्य्योऽत्र पृषातकव्यतिक्तस्यैव भोजनं दर्शयति। तस्मात्, अस्मिन्कर्म्मणि अपवर्गविहितव्यतिरिक्तस्यापि ब्राह्मणभोजनस्याभ्यनुज्ञानार्थंब्राह्मणान् भोजयित्वा, —इति वचनम्। कर्म क्रमप्रज्ञापनार्थं वा।कथं नाम ? अपवर्गविहितं ब्राह्मणभोजनमिदान कारयित्वास्वयञ्च भुक्त्वा वक्ष्यमाणं कर्म्म कर्त्तव्यम्। अवचने खल्विदानीमेतन्न प्राप्नोति। कस्मात् ? इतः परमपि कर्म्मोपदेशात्। तस्यात्,अपवर्णविहितं ब्राह्मणभोजनं सायं माभूदिति तदेव ब्राह्मणभोजनमिदानी मुच्यते, —इत्यादरणीयम्।
तदेवं ब्राह्मणान् भोजयित्वा स्वयञ्च भुक्त्वा, जातुषान्लाक्षाकृतान् मणीन्, सर्वौषधिमिश्रान्, सर्व्वौषधयो व्याख्याताः। तन्मिश्रान्, सर्व्वौषधिगर्भान्—इत्यर्थः। आबध्नीरन्, स्वस्त्ययनार्थम्। स्वस्ति,–मङ्गलं, तस्य अयनं प्राप्तिः, तदर्थम्। बहुवचनोपादानात् न परं गृहपतिरेवाबध्नीत, किन्तुअन्येऽपि स्वस्त्ययनेप्सवो ग्रुह्याआबध्नीरन्?कुत्रआबध्नीरन् ? स्वावाहौ, बालानाञ्च ग्रीवासु। कुतः ? तथा प्रसिद्धेः। स्वस्त्ययनार्थम्,–इति मणिबन्धनं स्तौति, न फलविधिः। वाक्यभेदापत्तेः। कथं नाम ? मणीन् आबध्नीरन्, तच्चस्वस्त्ययनार्थं भवति, —इति यदि द्वावप्यर्थौविधित्सितौ, भिद्येतवाक्यम्। अन्धे तु वर्णयन्ति,–‘स्वस्त्ययनार्थमिति वचनात् मणिबन्धनस्य काम्यत्वं गम्यते। ततश्चैतस्मिन्त्रक्रियमाणेऽपि न दोषः।यद्यपि, “एतस्यैव बलिहरणस्यान्ते कामं प्रब्रुवीत” –इत्यादौनित्येऽपि कामसम्बन्धो दृश्यते, तथापि रक्षामणिप्रतिसरादिबन्धनस्य लोके भूयसा काम्यतैव दृश्यते। अतो न दोषः।‘इति॥ ०॥ ६॥ ०॥
सायं गाः पृषातकं प्राशयित्वा सहवत्सावासयेत॥ ७॥
सायं रात्रौ, गाः पृषातकं प्रकृतं, प्राशयित्वा, सहवत्साःवासयेत,–वत्सैःसहावियुक्ताः कृत्वा वासयेत तां रात्रिम्।‘वासयेरम्’ इति केचित् पठन्ति। पृषातकम्, —इति द्वितीयानिर्देशात्सर्व्वमेव पृषातकं प्राथयितव्यं, न किञ्चिदप्यवशेषणीयम्, —इतिदर्शयति॥ ०॥ ७॥ ०॥
अनेन खलु पृषातकप्राशनादिना,–
स्वस्ति हासां भवति॥ ८॥
स्वस्ति मङ्गलं, ह किल, आसां गवां भवति॥ ०॥ ८॥ ०॥
आश्वयुजे किल मासि कालवशान्नवशस्यानि भवन्ति। व्रीहयःखल्वत्रपच्यन्ते। नवयज्ञञ्चाकृत्वा तदश्नन् अग्निमान् प्रत्यवैति,प्रायश्चित्तञ्च प्राप्नोति। तदाह कर्म्मप्रदीपः।
“अनिष्ट्वानवयज्ञेन नवान्नं योऽत्त्यकामतः।
वैश्वानरश्चरुस्तस्य प्रायश्चित्तं विधीयते”।
इति। अतो नवयज्ञस्तावदिदानीं प्रस्तूयते,—
नवयज्ञे पायसश्चरुरैन्द्राग्नः॥ ९॥
नवेन शस्येन यज्ञो नवयज्ञः। तस्मिन् ऐन्द्राग्नःपायसश्चरुःकर्त्तव्यः, –इति सूत्रशेषः। इन्द्रश्च अग्निश्चइन्द्राग्नी, तौदेवताअस्येति ऐन्द्राग्नः। सेयं द्वन्द्वदेवता।इन्द्राग्निभ्यां त्वा,—इतिनिर्व्वापः।इन्द्राग्निभ्यां स्वाहा, –इति होमः॥ ०॥ ९॥ ०॥
** तस्य मुख्या
तस्य चरोरेकदेशेन मुख्यां हविराहुतिं हुत्वा चतसृभिः आज्याहुतिभिः अभिजुहोति,—अभि सर्व्वतोभावेन;—समाहितमनाश्छन्दोदैवतार्षादीन्यनुसारन् जुहोति, शतायुधाय,– इत्येतत्प्रभृतिभिश्चतुर्भिर्मन्त्रैः॥ ०॥ १०॥ ०॥
स्थालीपाकावृताऽन्यत्॥ ११॥
व्याख्यातमेतत्॥ ०॥ ११॥ ०॥
हविरुच्छिष्टशेषं प्राशयेद् यावन्त उपेताः स्युः॥ १२॥
यावन्तो ब्राह्मणा उप समीपं इता गता स्युर्भवेयुः, तावतोब्राह्मणान् हविरुच्छिष्टशेषं प्राशयेत्,–प्रकर्षेण वक्ष्यमाणविधिनाआशयेत् भोजयेत्। ननु, हविरुच्छिष्ठंप्राशयेत्, —इति वक्तव्येशेषग्रहणं किमर्थम् ? उच्यते। हविरुच्छिष्टंब्राह्मणान् प्राशयित्वा शेषं स्वयं प्राश्नीयात्,–इत्येतत्प्रज्ञापनार्थं शेषग्रहणम्।कथं नाम ? शिष्यते अस्मादिति शेषः, हविरुच्छिष्टञ्च तत्शेषञ्चेति हविरुच्छिष्टशेषं प्राशयेत्,–इति वचनव्यक्त्या तावत्ब्राह्मणप्राशनादप्यवशेषोऽवगम्यते, तस्य च यजमानप्राशनं कल्प्यते।कस्मात् ? वक्ष्यमाणप्राशनविधौ विशेषानुपदेशात्। तदर्थत्वाच्चनवयज्ञस्य। नवयज्ञमकुर्व्वतो नवान्नप्राशनप्रतिषेधात् नवयज्ञात्परतो यजमानस्य तत्प्राशनावगतेः। अतएव, शिष्टस्य नवहविषःप्राशनमन्त्रे सर्व्वषामधिकारं स्मरता कात्यायनेन सर्व्वशब्दात्यजमानस्यापि शेषप्राशनमनुशिष्टम्। तच्चोपदर्शितमुपदर्शयिष्यतेच। इविरुच्छिष्टशेषम्,—इति द्वितीयाकरणात् सर्व्वस्यैव शेषस्यप्राशनं यजमानः कुर्य्यात् न तु यत्किञ्चिदेव प्राश्य शेषमन्यस्मैदद्यात्,—इति बोद्धव्यम्। स खल्वयं कृतकार्य्योयजमानःस्वभोजनकाले सर्व्वंप्राश्लीयात्। यदि पुनः केऽपि ब्राह्मणा नोपेताःस्युः, तदा स्वयमेव प्राश्नीयात्। कस्मात् ?
“ब्राह्मणानामसान्निध्ये स्वयमेव पृषातकम्।
अवेक्षेद्धविषः शेषं नवयज्ञेऽपि भक्षयेत्”।
इति वचनात्॥ ०॥ १२॥ ०॥
अथ प्राशनविधिरभिधीयते,—
सकृदपामुपस्तीर्य्यद्विश्चरोरवद्यति॥ १३॥
सक्रुदेकवारम् अपामुदकस्य उपस्तीर्य्यस्रुवेणोपस्तरणं कृत्वा, द्विः,—द्विःकृत्वः—मध्यात्पूर्वार्द्धाच्च, चरोरवद्यति मेक्षणेनावदानं करोति। कुत्र अवद्यति?दक्षिषे पाणौ। कस्मात् ?“यत्रोपदिश्यते कर्म्म”–इति परिशिष्टकारवचनात्, इति भट्टनारायणोपाध्यायाः। एवञ्च, उपस्तरणादिकं वामेनैव पाणिनाकर्त्तव्यं भवति। कस्मात्? दक्षिणस्यान्यत्र व्यापतत्वात्॥ ०॥ १३॥०॥
त्रिर्भृगूणाम्॥ १४॥
भृगूणांचरोस्त्रिः कृत्योऽवद्यति। पश्चार्द्धादिति तेषामधिकम्॥॥ ०॥ १४॥ ०॥
अपाञ्चैवोपरिष्ठात्॥ १५॥
अवदानानामुपरिष्टादमभिघारयति स्रुवेणैव। चशब्दोऽभिघारणव्यापारस्मारणार्थः। एवशब्दो यासामपामुपस्तरणं कृतं,तासामेवापामभिघारणकरणार्थः॥ ०॥ १५॥ ०॥
एवं चरुशेषं पाणौ कृत्वा,
अस
असंस्वादंसम्यगास्वादनं यथा न भवति, तथा निगिरेत् भक्षयेत्, भद्रान्नः श्रेय इति मन्त्रेण। असंस्वादमिति कुर्व्वन्दन्तैरचर्व्वयित्वा निगरणमुपदिशति। कियन्मात्रमप्यास्वादनं न शक्यतेप्रतिषेद्धुम् इति खल्वसंवादमित्याह। किं कारणम् ? निगरणपक्षेऽपि तस्यावर्ज्जनीयत्वम्॥ ०॥ १६॥ ०॥
एवं त्रिः॥ १७॥
एवमनन्तरीक्तया रीत्या त्रिर्व्वारत्रयं निगिरेत्। प्रथमेन सहैव त्रित्वं बोद्धव्यम्॥ ०॥ १७॥ ०॥
तूष्णींचतुर्थम्॥ १८॥
चतुर्थं निगरणं तूष्णीं कुर्य्यादमन्त्रकमित्यर्थः। अयमेव विशेषः।उपस्तरणादिकं सर्व्वमत्रापि पूर्व्ववदेव भवति॥ ०॥ १८॥ ०॥
भूय एवावदाय॥ १९॥
भूय एव पुनरपि चरोरवदाय निगिरेत्। भूयः पुनरपि चरोरवदायैव–इति वा वर्णनीयम्। तस्मादुपस्तरणमभिघारणश्चात्रन भवति। इतरथा खल्ववदायेति पुनर्व्वचनमनर्थकमेव स्यात्।सोऽयमेवशब्दोऽस्यार्थस्योपोहलको भवति॥ ०॥ १९॥ ०॥
तत्रतस्मिन्निगरणे काममिच्छया संस्वादयेरन्। सेयं प्राशनेतिकर्त्तव्यता सर्व्वेषामेव स्यात्।कस्मात् ?
“पृषातकप्रेक्षणयोर्नवस्य हविषस्तथा।
शिष्टस्य प्राशने मन्त्रस्तव सर्व्वेऽधिकारिणः”।
इति वचनात्॥ ०॥ २०॥ ०॥
**
आचान्तोदकाःप्रत्यभिमृशेरन्मुख
आचान्तोदकाःमुखं शिरोऽङ्गानि,—बाहुजठरादीनि च अभिमृशेरन् स्पृशेरन्। बहुवचनात् सर्व्वे। इतिशब्दःचशब्दार्थःसमुच्चये। कथमभिमृशेरन् ? अनुलोमम्। लोम्नामनुकूलं यथाभवति तथा अभिमृशेरन्। केन मन्त्रेण ? अमोऽसि,—इतिमन्त्रेण। अत्राह।आचान्तोदकाः —इति किमर्थमुच्यते, ननुनिगरणादुच्छिष्टा एव सर्व्वेकथमनाचान्तोदकाःकर्म्मवाकरिष्यन्ति, मन्त्रं वा पठिष्यन्ति ? उच्यते। अत्राचान्तोदकाः —इति कुर्व्वन् बोधयति; यत्राचमनं न चोद्यते, —तत्रोच्छिष्टत्वमेवन भवति, यथा प्राणाग्निहोत्रसोमभक्षणादौ। तथाचोक्तं गृह्यासंग्रहे।
“मधुपर्के तथा सोमे अप्सु प्राणाहुतीषु च।
अनुच्छिष्टो भवेद्विप्रो यथा वेदविदो विदुः।
प्राणाहुतिषु सोमेषु मधुपर्केतथैव च।
आस्यहोमेषु सर्व्वेषु नोच्छिष्टो भवति द्विजः”।
इति।इदमिदानींसन्दिह्यते। किमभिमर्शनमन्त्रः प्रत्यवयवमावर्त्तते आहोस्वित् सकृदेव भवति ? इति। प्रत्यवयवमावर्त्तते,—इति ब्रूमः।कस्मात् ? अवयवभेदात्। ‘भेदे मन्त्रावृत्तिः”—इति च सूत्रकारवचनात्। प्रतिशब्दकरणाच्च। प्रत्यभिमृशेरन्—इति प्रतिशब्दं कुर्व्वन्नाचार्य्यःप्रत्यवयवं समन्त्रकमभिमर्शनं दर्शयति। अन्यथा खल्वनर्थक एव प्रतिशब्दो भवेत्॥ ०॥ २१॥॥
आश्वयुजीप्रस्तावात् व्रीहीनधिकृत्य नवयज्ञः सूत्रितः। व्रीहयोहि शरदि पच्यन्ते। तस्मात् व्रीहियज्ञ एवायम्। इदानीमन्यत्राप्येतस्यातिदेषः क्रियते, —
एतयैषावृता श्यामाकयवानाम्॥ २२॥
एतया व्रीहियज्ञोक्तयैवावृता रीत्या श्यामाकयवानामपि हवनप्राशनादिकं कुर्य्यात्। एवशब्दःकृत्स्नकर्मणोऽतिदेशार्थः। श्यामाका यवाश्च शस्यभेदाः। एवञ्च शालियज्ञोऽस्माकं नावश्यकः।कस्मात् ? अस्मदाचार्य्येणानुपदेशात्। श्यामाकयज्ञश्च गृहमेधिनो न भवति, किन्तु वैखानसस्यैव। कस्मात् ? तस्व ग्राम्यप्रतिषेधात्। तथा चोक्तम्
“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते।
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः”।
इति। एतस्माच्च लिङ्गात् शरदि व्रीहियज्ञः, वसन्ते च यवयज्ञःकर्त्तव्यः। “गृहमेधी व्रीहियवाभ्यां शरद्वसन्तयोर्यजेत, श्यामाकैर्वनी वर्षासु, आपत्कालेऽन्येन पुरातनैर्व्वा”—इति च ब्राह्मणंभवति। इक्षुप्रभृतयस्तु विनैव नवयज्ञं भक्षणीयाः। तत्रतदनुपदेशात्। तथाच गृह्यामंग्रहः।
“इक्षबःसर्व्वखल्वाश्चकोद्रवावरटैः सह।
अकृताग्रयणा भक्ष्या येषां नोक्ता हविर्गुणाः”।
इति। गोधूमादिष्वपि नास्त्येव नियमः।कस्मात् ? अनुपदेशादेव। तदप्याह स एव।
“नवयज्ञेऽधिकारस्थाःश्यामाका व्रीहयो यवाः।
नाश्नीया न च हुत्वैवमन्येष्वनियमः स्मृतः “।
इति। अत एव श्यामाकयवयोरेव भक्षणमन्त्रः सूत्रयिष्यते॥ ०॥ २२॥ ०॥
अयमत्र विशेषः, —
अग्निः प्राश्नातु प्रथम इति श्यामाकानाम्॥ २३॥
अग्निः प्राश्नातु,–इति श्यामाकानां हविरुच्छिष्टशेषप्राशनमन्त्रः।सर्व्वमन्यत् पूर्व्ववदेव बोद्धव्यम्॥ ०॥ २३॥ ०॥
एतमुत्वं मधुना संयुतं यवमिति यवानाम्॥ २४॥
एतमुत्यमिति यवानां हविरुच्छिष्टशेषप्राशनमन्त्रः। समानमन्यत्।‘तत्रापि पौर्णमासेमेष्ट्वादर्शमकृत्वा अन्तरा नवयज्ञो न कर्त्तव्यः।कुतः?
“नैकस्मिन् कर्म्मणि तत कर्म्मान्यत्तायते यतः”।
इति वचनात्’ —इति शिष्टाः। पौर्णमासाद्यं दर्शान्तं खल्विदमेकं कर्म्म॥ ०॥ २४॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्यकृतौ गोभिलीयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य अष्टमी खण्डिका॥ ०॥
___________
गोभिलीय-गृह्यसूत्रे
तृतीयप्रपाठके नवमी खण्डिका।
आग्रहायण्यां बलिहरणम्॥ १॥
अग्रे हायनमस्येत्यग्रहायणो मार्गशीर्षः, तस्येयं पौर्णमासी आग्रहायणी, तस्यां बलिहरणं कर्त्तव्यमिति सूत्रशेषः॥ ०॥ १॥ ०॥
तत् श्रावणेनैव व्याख्यातम्॥ २॥
तत् आग्रहायणीबलिहणं श्रावणेनैव बलिहरणेन व्याख्यातम् —इति कृत्स्नकर्मातिदेशः। तस्मादत्रापि, पुरस्ताच्छालाया उपलेपनम् — इत्येवमादि—सक्तुविधानान्तमह्निकृत्वा, अस्तमिते सवितरि तयैव रीत्या बलिहरणं कर्त्तव्यम्। ननु एतस्योपरितनैः सूत्रैःपूर्व्वाह्नेकर्मोपदेशात् इदमपि पूर्वाह्न एव तस्मादादितः क्रियताम् ? न, —इत्युच्यते। उपन्यासमात्रत्वादस्य। कालोऽपि हितदीय एव चोदकात् प्राप्नोति। आनुमानिकं खखस्य पूर्वाह्नकालत्वं चिकल्पयिषितम्। तच्च चोदकं बाधित्वा सेद्धुंनार्हतीति। तस्मात् श्रावणीबलिहरणवत् इदमपि बलिहरणमस्तमयात् परत एव करणीयम्। श्रावणेनैव, —इत्ययमेवकारोऽपिअस्यार्थस्योपोद्वलको भवति॥ ०॥ २॥ ०॥
अयमत्र विशेषः,—
नमः पृथिव्या इत्येतं मन्त्रं म जपति॥ ३॥
ऋज्वर्थंसूत्रम्॥ ०॥ ३॥ ०॥
** अथ पूर्व्वाह्णएव प्रातराहुति
प्रातराहुतिं हुत्वा अथानन्तरं पूर्व्वाह्न एव दर्भाहरणादिकं कुर्य्यादिति व्यत्यासेन योजनीयम्। सिद्धाऽपि प्रातराहुतिः पुनरुच्यते कर्म्मक्रमार्थम्। कथं नाम ? प्रातराहुतिं हुत्वैव दर्भाहरणादि, न पुनरौपवसथिकस्थ- ण्डिलोपलेपनादिकमपि कृत्वा,इति। कथं पुनरेवं ज्ञायते, ननु प्रातराहुतिं हुत्वा अथ स्थण्डिलोपलेपनादिकमपि कृत्वा,—इत्येवमपि शक्यं वर्णयितुम् ? सत्यंशक्यं, तथापि नैवं वर्ण्यते। कस्मात् कारणात् ? यस्मादस्यांवर्णनायामादौ कृतमपि स्थण्डिलोपलेपनमासादितमप्याज्यादिकंपश्चात् धूमशातनवेलायामुपमृद्येत दुष्येत च। तच्चानिष्टम्।तस्मात् पूर्व्वामेव वर्णनामाद्रियामहे।
दर्भादयःप्रसिद्धाः। वीरणा,—वीरण इति यः कथ्यते।फलवती,—वदर्य्याःफलयुक्ता शाखा। तथा चोक्तम्।
“सफला बदरीशाखा फलवत्यभिधीयते”।
इति। तान्येतानिदर्भादीनि षट् केनचिदाहारयित्वा। अन्यस्याहर्त्तुरभावे च स्वयमप्याहृत्य ‘तूष्णीं’ प्रजापतिं मनसाध्यायन्नित्यर्थः। एवमेके।तूष्णीममन्त्रकम्। एवमपरे। तदत्रभगवन्तो भूमिदेवाः प्रमाणम्। ‘अक्षतसक्तूनाम्’ अवयवलक्षणेयंषष्ठी। यवसक्तूनामेकदेशं दक्षिणहस्तेनादाय ‘अग्नौ’ ‘कत्वा’प्रक्षिप्य, ‘ब्राह्मणान्’ बहुवचनात् त्रिप्रभृतीन् ‘स्वस्तिवाच्य’स्वस्ति वाचयित्वा ( तेभ्यःस्वस्तिवाचनिकं किञ्चित् दत्वा ) ‘एतैः’प्रकृतैः, ‘सम्भारैः’ —सम्भ्रियन्ते इति सम्भारास्तैः,—एकत्रीक्रुतैर्दर्भादिभिरित्येतत्। ‘प्रदक्षिणं’ यथा भवति तथा, ‘अग्न्यागारात् प्रभृति अग्भिगृहादारभ्य, गृहपटलादिसंलग्नं ‘धूमं’‘शातयन्’ सर्व्वान् ‘गृहान्’ ‘अनु’ लक्षीकृत्य, ‘परि’ सर्व्वतोभावेन, ‘इयात्’ गच्छेत्।
अक्षतसक्तूनाम्, —इति करणात् दर्भादीनामाहरणानन्तरंयक्षतसक्तव उत्पादयितव्याः, ततस्तेषामेकदेशमग्नौ करोति,—इति बोद्धव्यम्। न खल्वनुत्पादितानामक्षतसक्तूनां शक्नोत्यग्नौकर्त्तुम्। तस्मादुत्पादयितव्या अक्षतसक्तवः।ननु वर्षास्वहरहर्बलिहरणार्थं ये अक्षतसक्तवः स्थापिताः तच्छेषाणां प्रतिपत्तिरियं स्यात् ? न स्यात्। कुतः ? यतो न खल्वप्रकृतानामसंशब्दितानां प्रतिपत्तिःशक्या वर्णयितुम्।असन्निधानात्। नित्यानित्यसंयोगविरोधाच्च। नित्यं खल्वेतदग्नौ करणम्।अनित्यश्चबलिशेषः। न चानयोः संयोगः सम्भवति। तस्मादुत्पादयितव्याएवाक्षतसक्तवः। एवमेके
अपरआह। वर्षास्वहरहर्बलिहरणार्थंये अक्षतसक्तवःस्थापिताः, तच्छेषाणां प्रतिपत्तिरेवेयम्,—इति। न च नित्यानित्यसंयोगविरोधः शङ्कनीयः। अस्यापि नित्यत्वे प्रमाणाभावात्। न खलु शेषाणां प्रतिपत्तिरियमित्यस्यां वर्णनायाम्अस्य नित्यत्वं शक्यते वक्तुम्।न चात्रान्यत् किमपि प्रमाणंपश्यामः।
स्यादेतत्। अप्रकृतानामसंशब्दितानामसन्निहितानां कथंप्रतिपत्तिर्व्वर्ण्यते ? उच्यते। नात्यन्तमप्रकृता असन्निहितावाश्चाक्षसक्तवः। कथम् ? इत्थम्।ये खल्वक्षतसक्तवो वर्षास्वहरहर्ब्बलिहरणार्थं स्थापितास्तैरेव आग्रहायणीपर्य्यन्तं बलयो हर्त्तव्याः, — इति स्थितम्। एवञ्चास्त्येव तेषां कियन्मात्रमपिप्रकृतत्वं सन्निहितत्वञ्चाग्रहायण्या।तथाच सत्यकिञ्चित्करमसंशब्दितत्वम्। अपि च। अस्मिन् शास्त्रे “पानव्यापच्चतद्वत्” –इत्यादिवत् व्यवहितस्याप्यभिसम्बन्धःआचार्य्यस्वानुमतः। कथंज्ञायते ? आचार्य्यपुत्रवचनात्। तथा च गृह्यासंग्रह।
“पुनरुक्तमतिक्रान्तं यच्च सिंहावलोकितम्।
गौभिले ये न गृह्णन्ति न ते ज्ञास्यन्ति गौभिलम्”।
इति। तस्मादसन्निहितानामप्यस्तु सम्बन्धः। तत्र ब्रूमः। नित्यप्रकरणाम्नात् गौतमेनाग्रहायणी कर्म्मणः पुरुषसंस्कारमध्येपठितत्वाच्चास्य नित्यत्वावगतेरेतदक्षतसक्तूनामग्नौकरणमनित्यमित्यसमीचीनं वचनम्। तस्मात् पूर्वोक्त एवार्थ आदरणीयः॥ ०॥ ४॥ ०॥
उत्सृजेत् कृतार्थान् सम्भारान्॥ ५॥
अर्थः प्रयोजनम्। तच्चधूमशातनलक्षणम्। कृतोऽर्थो यैः, तान्सम्भारान् दर्भादीन् उत्सृजेत्। अर्थात् प्राप्तस्याप्युत्सर्गस्य वचनमानन्तर्य्यार्थम्। कथं नाम ? धूमशातनानन्तक्षण एवोत्सृजेत्न क्षणमपि गृहे धारयेत्— इति॥ ०॥ ५॥ ०॥
एतस्मिन् क्रमे औपवसथिकं स्थण्डिलोपलेपनादि कृत्वा,—
** जातशिलासु मणिकं प्रतिष्ठापयति वास्तोष्पतइत्येतेन द्विकेन सर्च्चेन॥ ६॥**
जातशिलाः,—
“घना विसिकताशङ्काःस्मृता जातशिलास्तु ताः”।
इत्युक्तलक्षणाः। तासु, बहुवचनात् त्रिप्रभृतिषु, मणिकमलिञ्जरंमहदुदकभाण्डमित्येतत्। प्रतिष्ठापयति स्थापयति। वास्तोष्पते,—इत्येतस्यां ॠचि गीयमानेन द्विकेन साम्ना—सर्च्चैन प्रकृतयैवऋचा सह वर्त्तमानेन,—इथ्यर्थः। द्विकेन साम्नाऋचा चेतियावत्। ननु, एतेन —इति शक्यमवक्तुम्, अथोच्यते, —कारणंवक्तव्यम् ? क्रमार्थमित्याह। द्विकेन सर्च्चेन—इत्येतावत्युच्यमानेन ज्ञायते,—किं द्विकात् पुरस्तादृक् स्यात् ?आहोस्विदुपरिष्टात् ? उताहीमध्ये ? अथ वा प्रतिसाम ? यद्वासूत्रन्यायादुभयतः? –इति। तदेतन्निरासार्थमाचार्य्यःएतेन —इत्याह।एतेन एवम्भूतेन यथाक्रमोपन्यस्तेनेत्यर्थः। तेन, पूर्व्वंद्विकमुच्चार्य्यपश्चादृचमुच्चारयेत्॥ ०॥ ६॥ ०॥
द्वावुदकुम्भौ मणिक आसिञ्चेत् समन्यायन्तीत्येतयर्च्चा॥ ७॥
द्वौउदकपूर्णौकुम्भौप्रतिष्ठापिते मणिके आसिञ्चेत् समन्यायन्ति,—इत्येतया ऋचा। ऋक्ग्रहणं सामप्रतिषेधार्थम्। अत्रप्रतिकुम्भम् ऋगावृत्तिर्बोद्धव्या। कस्मात् ? “भेदे मन्त्रावृत्तिः”—इति सूत्रणात्। तथा चोक्तम्। “प्रतिकुम्भमृचं पठेत्”—इति।सोऽयं मणिकसंस्कारः। एवञ्च, “मणिकाद्वागृह्णीयात् “—इति यदुक्तं तदेतस्मात् संस्कृतान्मणिकाद्ग्रहणीयम्। यच्च, उदधानस्य बलिहरणमुक्तं, तदप्येतस्यैवेति बोद्धव्यम्।
अत्रेदं सन्दिह्यते।आग्रहायण्याऊर्द्ध्वंयदि मणिको नष्टोविनष्टो वा भवति, तदा किमेतावन्तं कालमपेक्ष्य पुनराग्रहायण्यामागतायामेव मणिकान्तरं संस्करणीयम्, उत यदैवविपद्यते तदैवान्यदाहृत्य ? —इति। तदैव, —इति ब्रूमः। कस्मात् ?अस्य कर्म्मार्थत्वात्। तावन्तं कालं मणिकाभावे हि कर्मणोनाभिनिष्पत्तिःस्यात्, स्याद्वान सुकरा भवेत्। तथा चोक्तम्।
“नष्टो विमष्टो मणिकःशिलानाशे तथैव च।
तदैवाहृत्य संस्कार्य्योनापेक्षेदाग्रहायणीम्”।
इति। यदि पुनरन्यस्यामाग्रहायण्यामागतायामपि पूर्व्वसंस्कृतएव मणिको दृढ़ो वर्त्तते, तदोदकुम्भासेचनमात्रं कर्त्तव्यम्।कुतः ?
“दृढ़श्चेदाग्रहायण्यामावृत्तावपि कर्म्मणः।
कुम्भौ मन्त्रवदासिञ्चेत् प्रतिकुम्भमृचं पठेत्”।
इति वचनात्॥ ०॥ ७॥ ०॥
प्रदोषे पायसश्चरुः॥ ८॥
आग्रहायण्यामित्येव। आग्रहायण्यै त्वा जुष्टं निर्व्वपामि, —इतिनिर्व्वापः। कुतः ? देवतान्तरस्यानुपदेशात् मन्त्रस्य चाव्यतालिङ्गत्वात् श्रुताया एवाग्रहायण्यादेवतात्वस्यकल्पयितुमुचितत्वात्।“अनाज्ञातेषु तथादेशम्”—इत्यग्रे सूत्रणाच्च॥ ०॥ ८॥ ०॥
तस्य जुहुयात् प्रथमा हव्युवाससेति॥ ९॥
व्याख्यातप्रायमेतत्॥ ०॥ ९॥ ०॥
स्थालीपाकावृताऽन्यत्॥ १०॥
कुतभाष्यं सूत्रम्॥०॥ १०॥ ०॥
** पश्चादग्नेर्वर्हिषि न्यञ्चौ पाणी प्रतिष्ठाप्य प्रतिक्षत्रइत्येता व्याहृतीर्जपति॥ ११॥**
अग्नेःपश्चिमतः वर्हिषि कुशोपरि न्यञ्चौ अधोमुखौपाणी पूर्व्वोक्तप्रकारेण प्रतिष्ठाप्य, प्रतिक्षत्र इत्येताः प्रतिशब्दा व्याहृतीर्जपति।व्याहृतिग्रहणं स्तुत्यर्थम्। अत्राग्रहायणीकर्म्मणः परिसमाप्तिः।वामदेव्यमिदानीं गातव्यम्। यदि कैश्चित् कथञ्चित् श्रवणाकर्म्मन कृतं, तदा तैराग्रहायस्यां बलयो न हर्त्तव्याः, सर्व्वमन्यतःपूर्व्ववदेव करणीयम्। तथा चोक्तम्।
“श्रवणाकर्म्म लुप्तञ्चेत् कथञ्चित् सूतकादिना।
आग्रहायणिकं कुर्य्याद्वलिवर्ज्जमशेषतः”।
इति॥ ०॥ ११॥ ०॥
अथेदानीं स्वस्तरारोहणं प्रस्तूयते,—
पश्चादग्नेः स्वस्तरमास्तारयेत्॥ १२॥
ऋजुरचरार्थः। अत्र किञ्चिवक्तव्यमस्ति। पश्चादग्नेरिति करणमग्न्यागारनियमार्थम्। तेन, अग्न्यागार एव स्वस्तरास्तरणंकर्त्तव्यम्। एवञ्च, अग्न्युपदेशस्यान्यार्थत्वादहोमकोऽयम्—इतिकेचित्। पुंसवनादिवत्तु अयमपि सहोमक एव स्यात्—इतिअपरे। प्राग्वसन्तादुदगयने यत् पुण्यमहस्तत्र पूर्वमन्वाहार्य्यश्राद्धं कृत्वा सायं बलिहरणान्ते नित्यकर्म्मणि क्रुते, स्वस्तरास्तरणं करणीयम्। तथा च गृह्यान्तरम्। “प्राग्वसन्तादुदगयने पुण्येऽह्निसायं स्वस्तरमुदगग्रमास्तीर्य्य”—इत्यादि। अस्मद्गृह्य- कारपरिभाषासिद्धमुदगयनादिमात्रं वा स्वस्तरारोहणस्य कालःस्यात्। केचित्तु,—“ऊर्द्ध्वं स्वस्तरशायी स्यात्”—इति वचनमालोचनमात्रेणपश्यन्तः, आग्रहायण्यङ्गत्वं स्वस्तरारोहणस्य मन्यमानाः, तत्रैवावसरे स्वस्तरास्तरणम् —इच्छन्ति। तदसङ्गतम्। ऊर्द्ध्वमित्येनेनाग्रहायण्या ऊर्द्ध्वत्वमात्रस्यावगमात्।
“पारिभाषिक एव स्यात् कालो गोवाजियज्ञयोः।
अन्यस्यानुपदेशात्तुस्वस्तरारोहणस्य च”।
इति परिशिष्टवचनविरोधाच्च॥ ०॥ १२॥ ०॥
उदगग्रैस्तृणैः॥ १३॥
स्वस्तरमास्तारयेदिति वर्त्तते॥ ०॥ १३॥ ०॥
उदक्प्रवणम्॥ १४॥
उत्तरस्यां दिशि क्रमनिम्नं स्वस्तरमास्तारयेत्॥ ०॥ १४॥ ०॥
तस्मिन्नहतान्यास्तरणान्यास्तीर्य्यदक्षिणतो गृहपतिरुपविशति॥ १५॥
तस्मिन् स्वस्तरे अहतान्यखण्डितानि आस्तरणानि कम्बलादीनिआस्तीर्य्य, दक्षिणतः – स्वस्तरस्य दक्षिणे भागे, गृहपतिरुपविशति॥ ०॥ १५॥०॥
तस्य चोत्तरतः, —
अनन्तरा अवरेयथाज्येष्ठम्॥ १६॥
अवरे कनिष्ठाः, अनन्तराःअव्यवहिताः सन्तो यथाज्येष्ठं ज्येष्ठानुक्रमेणोपविशन्ति। यो यो ज्येष्ठः स स गृहपतेरनन्तरो यथास्यादित्यर्थः।
एवं वा, —
अनन्तरा अव्यवहिताः —एकपाकोपजीविनः तद्गृह्याइत्येतत्। तदेवम्भूता अवरे यथाज्येष्ठमुपविशन्ति॥ ०॥ १६॥ ०॥
तेषामप्युत्तरतः,—
अनन्तराश्चभार्य्याःसजाताः॥ १७॥
अनन्तराः, —इत्युक्तार्थम्। भार्य्याःगृहपतिप्रभृतीनां पत्न्यःसजाताःसापत्या उपविशन्ति। जातमपत्यम्। चशब्दः उपवेशन क्रमविशेषद्योतनार्थः। कथं नाम ? येन क्रमेण गृहपतिप्रभृतयउपविष्टाः, तेनैव क्रमेण तेषां भार्य्याअप्युपविशेयुः। अपत्यान्यपि स्वस्याःस्वस्या मातुरुत्सङ्गे उत्तरतो वा उपविशेयुः, —इति।
अथैवम्, अत्र यथाज्येष्ठमुपवेशनं न स्यात् ? मा भवतु, का नोहानिः। अथवा। पत्युरेव वयसा स्त्रीणां वृद्धत्वस्मरणात् पतीनाञ्चयथाज्येष्ठमुपवेशनात् भार्य्यणां स्वस्वपतिक्रमेणोपवेशने यथाज्येष्ठत्वमपि कथञ्चिदनुगृह्यत एव। परमार्थतस्तु, सजातानांभार्य्यणमुपवेशनं सूत्रयन्नाचार्य्योनात्र यथाज्येष्ठमुपवेशनमनुजानातीत्यवगम्यते। एतदर्थं चशब्दं प्रयुक्तवान्। भार्य्याःपुनःसापत्या उपविशन्ति, न पुनरत्रापि यथाज्येष्ठत्वनियमः,—इत्यभिप्रायः। न खल्वेवमपत्यानां यथाज्येष्ठमुपवेशनं सम्भवति। अन्येपुनरत्रापि यथाज्येष्ठमुपवेशनमिच्छन्ति॥ ०॥ १७॥ ०॥
** समुपविष्टेषु गृहपतिः स्वस्तरे न्यञ्चौ पाणी प्रतिष्ठाप्य स्योना पृथिवि नो भवेत्येतामृचं जपति॥ १८॥**
समुपविष्टेषु, –सम्यक् –प्राङ्मुखेषु उपविष्टेषु सत्स्वित्यर्थः। कस्मात् ? “प्राङ्मुखकरणञ्चानादेशे” — इति सूत्रकारवचनात्।स्पष्टमन्यत्। एतामिति स्वरवर्णसम्पादनार्थं छन्दोविज्ञानार्थमविलोपार्थञ्च। कथं नाम ? एतामेवम्भूतां सेतिकरणामेवजपतीति। अन्यथा खल्वितिकरणविलोपमपि कश्चिदाङ्कीत॥॥ ०॥ १८॥ ०॥
समाप्ताया
समाप्तायामेव ऋचि दक्षिणःः पार्श्वेःसंविशन्ति स्वपन्ति। तस्मिन्नेव स्वस्तरे॥ ०॥ १९॥ ०॥
एवं त्रिरभ्यात्ममावृत्य॥ २०॥
एवमनेन प्रकारेण—दक्षिणपार्श्वेत्यर्थः। अनन्तरोक्तं संवेशनमेव न तु स्वस्तरास्तरणमपीति द्रष्टव्यम्। त्रिरावृत्त्य त्रिःकत्वोऽभ्यस्य। किमविशेषेणैव ? न। कथन्तर्हि ? अभ्यात्मम्। आत्मनो गृहपतेराभिमुख्येन,—आत्मन आरभ्येत्यर्थः। कथं नाम ? येनैव क्रमेणोपविष्टाःतेनैव क्रमेण संवेशनं त्रिरावर्त्तयेयुः,—इति।
प्रथमेन सहैव त्रित्वम्॥ ०॥ २०॥ ०॥
स्वस्त्ययनानि प्रयुज्य यथाज्ञानम्॥ २१॥
स्वस्त्ययनानि अप्रतिरथादीनि यथाज्ञानं प्रयुज्य –यो यत् जानाति स तदुच्चार्य्य॥ ०॥ २१॥ ०॥
अरिष्टं अरिष्टवर्गाख्यं सामसंयोगं–सामसमुदायं “अबोध्यग्निर्महित्रीणामिति द्वे”–इत्यादिकं प्रयुज्य इत्येके आचार्य्यामन्यन्ते॥ ०॥ २२॥ ०॥
अप उपस्पृश्य यथार्थम्॥ २३॥
अप उदकमुपस्पृश्य दक्षिणेन पाणिना स्पृष्ट्वा, यथार्थमिति कर्म्मणःपरिसमाप्तिं दर्शयति। तेन वामदेव्यगानमिदानींस्यात्। अन्येतु, –स्वस्त्ययनात् परत एव वामदेव्यगानमिच्छन्ति। यथार्थमिति, —इदानींकर्म्मणः परिसमाप्तत्वात् यस्य यदभिप्रेतं स तत्कुर्य्यात्, न तु तत्रैवावस्थाननियमः, — इति व्याकुर्व्वते च। गृहपतेःकिल बहवः पक्षाःस्वस्तरशयने ग्रन्थान्तरे पठ्यन्ते। सयदि सद्यःपक्षमाश्रयेत्, तदा स्वस्तरादुत्थाय अभिप्रेते शयनान्तरेशयीत। अथान्यपक्षमाश्रयेत्तर्हि तत्रैव स्वपेत्। तथा चोक्तम्।
“ऊर्द्धं’ स्वस्तरशायी स्यान्मासमर्द्धमथापि वा।
सप्तरात्रं त्रिरात्रं वा एकां वा सद्य एव वा।
नोर्द्धंमन्त्रप्रयोगः स्यान्नाग्न्यगारं नियम्यते।
नाहतास्तरणञ्चैव न पार्श्वञ्चापि दक्षिणम्”।
इति।प्रथमाया राजेरुर्द्धमन्यासु रात्रिषु स्वस्तरशयने खल्वयमुत्तरश्लोकोक्तोविशेषोद्रष्टव्यः॥ ०॥ २३॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येतृतीयप्रपाठकस्य नवमी खण्डिका॥ ०॥
________________
गोभिलीय-गृह्यसूत्रे
तृतीयप्रपाठके दशमी खण्डिका।
अथेदानीमष्टकाकर्म्मप्रस्तूयते,—
अष्टका रात्रिदेवता॥ १॥
अष्टका, — इत्येकवचनमधिकारार्थम्। उपरिष्टादष्टकाबहुत्वस्योपदेशात्। तथाच, या काचिदष्टका वक्ष्यमाण सा सर्व्वारात्रिदेवता प्रत्येतव्या, न पुनरानन्तर्य्यादपूपाष्टकैव। रात्रिदेवता यस्याःसेयं रात्रिदेवता अष्टका, कर्त्तव्या,—इति सूत्रशेषः॥ ९॥ १॥ ७॥
सा खल्वियमष्टका, —
पुष्टिकर्म्मा॥ २॥
पुष्टिः कर्म्मफलमस्या इति पुष्टिकर्म्मा। पुष्टिकर्म्म,—इति पाठेपुष्टये कर्म्मपुष्टिकर्म्म। तदिदमष्टकाकर्म्मपुष्टये भवतीति तथैवार्थः। आह। ननु, परस्तादम्यष्टकादेवताः सूत्रयिष्यन्ते, तत्किमिति पुष्टिकर्म्मा,—इति मध्ये सूत्रयित्वा रात्रिदेवतायाः सूत्रयिष्यमाणानाञ्च देवतानां व्यवायः क्रियते ? उच्यते। अष्टकारात्रिदेवता,—इति निर्व्विशेषितमष्टकाकर्म्मोपदिश्य, पुष्टिकर्म्मा,—इति परतः कुर्व्वन् नित्यत्वमस्यादर्शयति। कथं नाम ?रात्रिदेवता तावदष्टका कर्त्तव्या, पुष्टिः फलमप्यस्या एव भवति, नपुनः पुष्टिकामएवाष्टकास्वधिक्रियते,—इति।कथं ज्ञायते ? कर्त्तव्यचोदनायांफलाश्रवणात्। अधिकारवेलायां तदनुपदेशाच्च।यदि पुनरष्टका पुष्टिकर्म्मा, —इति कुर्य्यात्, तर्हिरात्रिसत्रन्यायेन सन्निहिततरं पुष्टिफलमेव कामयमानस्तामधिकरोति,—इत्यपि कस्यचिदाशङ्का स्यात्। सा माभूदिति खल्वाचार्य्यःअष्टका रात्रिदेवता पुष्टिकर्म्मा,—इकि व्यत्यासेन प्रयुङ्क्ते। काम्यतैवाष्टकानां कुतो न स्यात् ? व्यत्यासेन फलवादाम्नानान्नित्यत्वावगतेरिति ब्रूमः। नित्यप्रकरणे चोपदेशात्। नित्यानां हि श्रवणाकर्म्मादीनां प्रकरणे अष्टका उपदिश्यते। तस्मात् साऽपिनित्या भवितुमर्हति। तथा गौतमेनापि नित्यानामेव पुरुषसंस्काराणां मध्ये,—“अष्टकापार्व्वणश्राद्धश्रावण्याग्रहायणीचैत्र्याश्वयुजी”—इत्यष्टका सूत्रिता। कर्म्मप्रदीपोऽप्याह।
“संस्काराः पुरुषस्यैते स्मर्य्यन्ते गौतमादिभिः।
अतोऽष्टकादयःकार्य्याःसर्व्वे कालक्रमोदिताः”।
इति। उपदेशादेव सर्व्वेषामविशेषेण करणे सिद्धे पुनः करणोपदेशोऽवश्यंकरणमेव बोधयति। अष्टकादिप्रक्रमे तदकरणे दोषश्रवणाच्च। तथा चोक्तम्।
श्रवणाच्च। तथा चोक्तम्।
“यस्त्वाधायाग्निमालस्याद्देवादीन्नैभिरिष्टवान्।
निराकर्त्ताऽमरादीनां स विज्ञेयो निराकृतिः
इति।तस्मादष्टका नित्येति सिद्धम्। अत्राह। यदि नामाष्टकानित्या, तर्हि पुष्टिकर्म्मापि कथं भवति ? उच्यते। अस्तु नामनित्या, काम्याऽपि भविष्यति। कस्मात् ? फलोपदेशस्यार्थवत्त्वोपपत्तेः। यद्वा। फलवाद एवायमष्टकां स्तौति, न पुनः फलमप्यनेनोपदिश्यते। किंकारणम् ? उभयविधाने वाक्यभेदः। पाठान्तरेऽपि “ऊर्ज्जोऽवरुचैद्ध्यै”—इत्यादिवत् फलवादत्वं बोद्धव्यम्।अथवा।नित्यत्वेऽप्यानुषङ्गिकमेव पुष्टिफलं भविष्यति।
“नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिम्”।
इति स्मरणात्। अथैवं समस्ता एव देवता उपदिश्य परत एवपुष्टिकर्म्मा, — इति कुतो न सूत्रितम् ? परत एव वक्ष्यामः।अन्ये त्वाहुः,–“तथात्वे पुष्टिकर्म्मचतुरष्टको हेमन्तः,–इत्युत्तरसूत्रेकसूत्रताशङ्कास्यात्, अतस्तथा न कृतम्”–इति॥ ०॥ २॥ ०॥
आग्नेयीपित्र्यावा प्राजापत्यर्तुदेवता वैश्वदेवीतिदेवताविचाराः॥ ३॥
अग्नेरियमाग्नेयी। प्रकृतत्वादष्टकेति सम्बध्यते। पितृणामियंपित्र्या। प्रजापतेरियं प्राजापत्या। ऋतवो वसन्तादयः, तेदेवता यस्याः सेयमृतदेवता। विश्वेदेवाः सर्व्वेदेवाः, तेषामियंवैश्वदेवी। वाशब्दःप्रत्येक मभिसम्बध्यते। आग्नेयी वा पित्र्यावाप्राजापत्या वा ऋतुदेवता वा वैश्वदेवी वा। इति एते देवताविचारा भवन्ति।
इदमिदानींसन्दिह्यते। किं पशुप्रोक्षणनिर्व्वापहोमेष्वेतद्विकल्पोक्तानां देवतानां मध्यादिच्छया अन्यतमस्या अभिसन्धानं कर्त्तव्यम् ? आहोस्वित्सर्व्वासाम् ? उताहो नैकस्याअपि ? इति। नैकस्या अपि,–इति ब्रूमः। किंदेवताकातर्ह्यष्टका ? न खल्वदेवताकाभवितुमर्हति।उच्यते। नवयमदेवताकामष्टकामाचक्ष्महे, रात्रिदेवताकान्तु ब्रूमहे। कस्मात्पुनःकारणात्सतीष्वेतहिकल्पोक्ता-स्वन्यास्वपि देवतासु रात्रिदेवतैवाष्टकाऽभ्युपगम्यते ? सूत्रप्रमाण्यादित्याह। अष्टका रात्रिदेवता,–इति खल्वाचार्य्येण सूत्रितम्। तत्प्रामाण्यात् रात्रिदेवताअष्टका अभ्युपगम्यते। ननु, आग्नेयीपित्र्यावा,– इत्येतदप्याचार्य्यस्यैव सूत्रम् ? सत्यमाचार्य्यस्यैव सूत्रमेतत्, किन्तु नैतत् देवताविधानार्थं परन्तु परमतोपन्यासार्थम्। कथं पुनरवगम्यते,–परमतोपन्यासार्थमेतदिति। शृणु यथाऽवगम्यते। अष्टका रात्रिदेवता,—इति देवतामष्टकायाःसूत्रयित्वा, पुष्टिकर्म्मा, इति चफलवादम्, आग्नेयीत्यादिकं सूत्रयन्त्राचार्यःपरमतमेतदिति दर्शयति। तदिदमर्थं पुष्टिकर्म्मा,–इति मध्ये सूत्रितम्। अन्यथादेवतोपदेशानां मध्ये फलवादोपन्यासोऽनुचित एव स्यात्।
यच्च,–उत्तरेण सूत्रेण सहैकसूत्रताशङ्गा-निरासार्थं मध्य एवफलवादोपन्यासः,–इति वर्णितम्। तदपि नातीव समीचीनम्। कस्मात् ? तदाशङ्काया अकिञ्चित्करत्वात्। एकसूत्रतायामपि क्षतेरभावाच्च। तस्मात्, अष्टका रात्रिदेवता पुष्टिकर्म्मा, –इत्यनेन स्वमतमभिधाय अग्नेयीत्यादिना परमतमादर्शितम्–इत्यादरणीयम्। ग्रुह्यान्तरेऽप्येकैकमतपरतयैवैतासां देवतानामुपन्यासो दृश्यते। तथाच गृह्यान्तरम्। “तां हैके वैश्वदेवीं ब्रुवत आज्ञेयीमेके **प्राजापत्यामेके रात्रिदेवतामेके**ऋतुदेवतामेके पिटदेवतामेके”–इति। तस्मादेता देवता नैकस्याभिमताःअपि त्वेकैका देवता एकैकस्याचार्य्यस्य। तत्र, “रात्रिदेवतामेके”– इत्येतदस्मदाचार्य्यमतस्योपन्यासः,—इति बोद्धव्यम्। अएतवआचार्य्येण, –“अष्टकारात्रिदेवता”—इति सूत्रयित्वा, “—इति देवताविचाराः— “इतिसूत्रितं, न देवताविकल्पाः –इति। एतासां देवतानां स्वाभिमतत्वे तु, “नव षट् त्रय इति विकल्पः”—इतिवत् “देवताविकल्पाः”,—इत्येव कुर्य्यात्। तस्मात्,–देवताविचारा एवैते, न पुनरेता देवता भवन्ति। देवता त्वस्माभिरुक्तैव,–अष्टका रात्रिदेवता, –इति। सोऽयमाचार्य्यस्वाभिप्रायः।देवताविचारप्रकारश्चबुद्धिमद्भिरूहनीयः। ग्रन्थगौरवभयादुपारभ्यतेऽस्माभिः।
यच्च मन्त्रलिङ्गमग्न्यादीनामस्ति, न तद्देवताश्रुतिचोदितांरात्रिं वाधितुमीष्टे। दुर्बलं हि लिङ्गं श्रुतेरिति खल्ववोचाम।यथा च, मन्त्रलिङ्गावगताऽपि देवता तद्धितशिष्टया देवतयाबाध्यते, तथैव देवताशब्दशिष्टयाऽपि बाधिष्यते। न्यायस्याविशेषात्। अन्ये तु मन्यन्ते, –“अन्यतरस्या देवताया अभिसन्धानं न घटते। कुतः ? मध्यमाष्टकायाम्, अग्नावग्निः,–इति मन्त्रलिङ्गविरोधात्। तस्मात् सर्व्वासामभिसन्धानं कर्त्तुंयुक्तम्। अत्रापि यत्र मन्त्रान्तरेण होमः, तत्र होमकालेमन्त्रदेवतामेवाभिध्यायेत्। तयैव तत्राभिध्यातया भक्तिसाहचर्य्यात्सर्वा अप्येकदा देवता अभिध्याता इष्टदाश्च भवन्ति”–इति॥ ०॥ ३॥०॥
कियत्यःपुनरष्टका भवन्ति ? उच्चते,—
** चतुरष्टको हेमन्तः ताः सर्व्वाःसमा
चतस्रोऽष्टका यस्मिन्, सोऽयं चतुरष्टको हेमन्तः ऋतुविशेषः।तदिदं त्र्यृसंवत्सराभिप्रायं सूत्रम्। एतदुक्तं भवति। हेमन्तमासचतुष्टये चतस्त्रोऽष्टका भवन्ति, –इति। ताः सर्व्वाश्रतस्रोऽप्यष्टकाः समांसाः मांससहिताश्चिकीर्षेत् कर्त्तुमिच्छेत्। चिकीर्षेत्, इति गुरुकरणं केनाप्युपायेन मांससम्पत्तिं कर्त्तमिच्छेदित्युपदेशार्थम्। इति,—अनन्तरोक्तं,— चतस्रोऽष्टकाः–इति,तासु सर्व्वासु मांसम् – इति च, कुत्सस्यापत्यं कौत्स आचार्य्यो मन्यते॥ ०॥ ४॥ ०॥
त्र्यष्टक इत्यौद्गाहमानिः॥ ५॥
तिस्रोऽष्टका यस्मिन्, सोऽयं त्र्यष्टको हेमन्तः,–इत्यौद्गाहमानिराचार्य्योमन्यते। उद्गाहमानस्यापत्य मौद्गाहमानिः॥ ०॥ ५॥०॥
यथौद्गाहमानिराचार्य्योमन्यते,—
तथा गौतमवार्कखण्डी॥ ६॥
आचार्य्यावपि मन्येते। एवञ्च, औद्गाहमानिगौतमवार्कखण्डीनामाचार्य्याणामनुमतस्त्यष्टक-पक्षएवास्मदाचार्य्यस्याप्यभिप्रेतः,इत्यवगच्छामः। कस्मात् ? तिसृृणामेव परतःकर्म्मोपदेशात्।अस्मिंश्च पक्षेमध्यमाष्टकैव समांसा कर्त्तव्या। कस्मात् ? प्रथमामतिक्रम्य मध्यमायामेव तदुपदेशात्। इतरयोर्द्रव्यान्तरोपदेशाच्च। एवमेतस्मिन् पक्षेअन्वष्टक्यमपि मध्यमायामेव भवति।कस्मात् कारणात्? तस्याष्टकासंज्ञपितपशुसाध्यत्वात्। भध्यमाष्टकायामेव च पशुसंज्ञपनोपदेशात्। तथाच वक्ष्यति,–“वामंसक्थ्यन्वष्टक्याय निदध्यात्”–इति। तथा चोक्तम्।
“अन्वष्टक्यं मध्यमायामिति गोभिलगौतमौ।
वार्कखण्डिश्च, सर्व्वासु कौत्सो मेनेऽष्टकासु च”।
इति। वचनस्य खल्वेतस्योक्तन्यायमूलतया त्र्यष्टकपक्षएव गोभिलाचार्य्यस्यानुमतः,—इति, भङ्गन्तरेण कात्यायनः स्पष्टयाञ्चकार।कौत्सस्य पुनराचार्य्यस्य मते सर्व्वासामेवाष्टकानां समांसत्वात् सर्व्व त्रैवान्वष्टक्यंसम्भवति, —इति द्रष्टव्यम्। तस्मादाचार्य्येण चतुर्थ्या अष्टकायाःकर्म्मासूत्रणात् त्र्यष्टकपक्षएवादरणीयः। चतुरष्टकपक्षस्तु कौत्सानुमतोऽपि बहुभिर्व्विरोधादुपरोद्धव्यः। अथाचवाक्यार्थविद्भिरभिहितम्।
“अल्पानां यो विघातःस्यात् स बाधो बहुभिः स्मृतः।
प्राणसम्मित इत्यादि वाशिष्ठं बाधितं यथा।
विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम्।
तुल्यप्रमाणसत्त्वे तु न्याय एव प्रवर्त्तकः”।
इति॥ ०॥ ६॥ ०॥
अथेदानीं तिस्रोऽष्टकाःक्रमेणोपदेष्टुमाह,
योऽर्द्धमाग्रहायण्यास्तामिश्राष्टमीतामपूपाष्टकेत्याचक्षते॥ ७॥
आग्रहायण्याःपौर्णमास्याऊर्द्ध्वं परतो या तामिश्रा कृष्णपक्षीयाअष्टमी। तमिश्राष्टमी,—इति केचित् पठन्ति, तत्रापि स एवार्थः।तां अपूपाष्टका,—इति आचक्षते कथयन्ति आचार्य्याः।यथेयमपूपविधानादपूपाष्टका भण्यते, तथा मध्यमाऽपि मांसविधानान्मांसाष्टका, अन्तिमाऽपि शाकविधानात् शाकाष्टकोच्यते,—इतिद्रष्टव्यम्। अथैवम्,—अपूपविधानादेवाभिधाने सिद्धे ‘अपूपाष्टकेत्याचक्षते’,–इत्येतदवाच्चम् ? उच्यते। एवन्तर्हि गुणार्थोऽयमनुवादो भविष्यति। कथं नाम ? ब्राह्मणभोजनार्थमप्यपूपाः कर्त्तव्याः,–इति। एवञ्च, अष्टकाविहितमन्यदपि यत् कर्म्म—श्राद्धं, तदप्यपूपैः करणीयमिति सिध्यति। तथाच पुराणेषु स्मर्य्यते।
“आद्याऽपूपैःसदा कार्य्या मांसैरन्या भवेत् सदा।
शाकैःकार्य्या तृतीया स्यादेष द्रव्यगतो विधिः”।
इति॥ ०॥ ७॥ ०॥
स्थालीपाकावृता तण्डुलानुपस्कृत्य चरुश्रपयति॥ ८॥
स्थालीपाकरीत्या पूर्व्वोक्तया, तण्डुलानुपस्कृत्य संस्कृत्य चरु श्रपयति॥ ०॥ ८॥ ०॥
अष्टौ चापूपान् कपालेऽपरिवर्त्तयन्॥ ८॥
अष्टसङ्ख्याकान् मण्डकान्। तथा चोक्तम्।
“त्रैयम्बकं करतलमपूपा मण्डकाःस्मृताः।
पालाशा गोलकाश्चैव लौहचूर्णञ्च चीवरम्”।
इति। कपाले,–
“कपालं मृन्मयं पात्रं चक्राघटितमुच्यते।
आसुरं चक्रघटितं दैवे पैत्रे च वर्ज्जयेत्”।
इत्युक्तलक्षणे, अपरिवर्त्तयन् परिवर्त्तनमकुर्व्वन्। चशब्दात् श्रपयति,—इत्यनुषज्यते॥ ०॥ ८॥ ०॥
किमेकस्मिन्नेवकपाले अष्टावपूपान् श्रपयति ? न। कथन्तर्हि? उच्यते—
एककपालान्॥ १०॥
एकैककपालान्—इत्यर्थः। तथाच, एकैकस्मिन् कपाले एकैकमपूपं श्रपयति। कथं ज्ञायते ? सूत्रारम्भस्यार्थवत्त्वादित्याह।कपाले,—इत्येतावन्मात्रसूत्राणादप्यविशेषादेकस्मिन्नेव कपाले भविष्यति, किं सूत्रान्तरारम्भेण ? तस्मात् सूत्रान्तरारम्भादवगच्छामः,—एकैकस्मिन् कपाले एकैकस्यापूपस्य श्रपणम्—इति।
ननु, अविशेषात् द्वेत्रीणि वा कपालान्यपि प्राप्नुपन्ति ?प्राप्नुवन्तु नाम, तावताऽप्येकस्मिन् कपाले क्रियत एव। क्रियतेचेत, —तत्रैव क्रियताम्, अलं कपालान्तरकल्पनया ? तस्मादेकैककपालान्—इत्यस्मदुक्तैव वर्णना। तथा चोक्तम्।
“पृथक्वपालान् कुर्व्वीत अपूपानष्टकाविधौ”।
इति॥ ०॥ १०॥ ०॥
कपालप्रसङ्गात् पुरोडाशधर्म्माणामपि प्रसङ्गं कश्चिदाशङ्कीत, अतस्तन्निषेधार्थमाह, —
अमन्त्रानित्यौद्गाहमानिः॥ ११॥
अमन्त्रान्मन्त्ररहितानष्टावपूपानित्यौद्गाहमानिराचार्य्योमन्यते ॥ ०॥ ११॥ ०॥
अपूपानां प्रमाणेनैव कपालानामपि प्रमाणं सेत्स्यति,— इत्यभिप्रायेणापूपानामेव प्रमाणमुपदिशति,—
त्रैयम्बकप्रमाणान्॥ १२॥
अष्टावपूपान् श्रपयति,—इति सम्बध्यते। त्रैयम्बकप्रमाणान् करतलप्रमाणान्—इत्यर्थः। तथा चोक्तम्। “त्रेयम्बकं करतलम्”—इति। एतस्य पुनरसम्भवे गृह्यासंग्रहोक्तं प्रमाणमपि द्रष्टव्यम्।तथाच गृह्यासंग्रहः।
“चतुर्मुष्टिञ्चरुःकार्य्यश्चतुर्णामुत्तरोऽपि वा।
कपालस्य प्रमाणेन अपूपानष्टकाविधौ।
चतुर्भागं पाणितलात् कपालं याज्ञिका विदुः।
पृथक्-कपालान् कुर्व्वीत अपूपानष्टकाविधौ”।
इति॥ ०॥ १२॥ ०॥
शृतानभिघार्य्योदगुद्वास्य प्रत्यभिघारयेत्॥ १३॥
शृतान् पक्वानपूपान् घृतेनाभिघार्य्य अमेरुत्तरतोऽवतार्य्य पुनर्घृतेनाभिघायेत्। कपालानां स्थालीपाकधर्म्मानतिदेशादेवं सूत्रितम्। एवञ्च, यावदुक्तत्वात्नात्राभिधारणे पवित्रान्तर्हितत्वमपेक्षितम्। चरौ तु स्थालीपाकधर्म्मातिदेशादेवैतानि प्राप्नुवन्ति। वैकृतत्वात् यावद्ववनमेव माभूदित्याशङ्कया वा वचनम्॥ ० ॥ १३॥॥ ०॥
स्थालीपाकावृताऽवदाय चरोश्चापूपानाञ्चाष्टकायैस्वाहेति जुहोति॥ १४॥
स्थालीपाकधर्म्मेण चरोश्चअपूपानाञ्च सर्व्वेषां पृथक् पृथगवदाय अष्टकायैस्वाहेति तन्त्रेणैव जुहोति। अत्रसन्दिह्यते। किंचरोरपूपानाञ्च सर्व्वेषां मध्येभ्योऽवदाय ततः पूर्व्वार्द्धेभ्योऽवद्यति ?आहोस्विदेकैकस्य मध्यात् पूर्व्वार्द्धाच्चावदाय पुनरपरापरस्यापितथैवावद्यति ? एकैकस्य मध्यात् पूर्व्वार्द्धाच्चवदाय पुनरपरापरस्यापितथैवावद्यति, —इति प्रतिपद्यामहे। कस्मात् ? चरोश्चापूपानाञ्च,—इति चशब्दद्वयकरणात्। प्रत्येकं चशब्दबलात् प्रत्येकमेव तावत्यथोक्तावदानमवगम्यते। अवगम्यते चेत्, न युज्यते विना कारणमुत्स्रष्टुम्। अन्यथा चरोरपूपानाञ्च,—इति कुर्य्यात्॥०॥ १४॥०॥
स्यालीपाकावृताऽन्यत्॥ १५॥
कृतभाष्यमेतत्। अत्रापूपाष्टकाकर्म्मणः परिसमाप्तिः॥०॥ १५॥०॥
अथेदानींमांसाष्टकाप्रकरणं प्रस्तूयते,–
तैष्या ऊर्द्ध्वमष्टम्यां गौः॥ १६॥
तैषी पौषीपौर्णमासो।तस्या ऊर्द्ध्वं –तस्याः परस्यामष्टम्यां गौरालब्धव्या,—इति सूत्रशेषः॥ ०॥ १६॥ ०॥
कथमालब्धव्या ? उच्यते,—
**
ता
रात्र्यह्नोःसन्धिरेव सन्धिवेला। सा चार्थात् पूर्व्वेव बोद्धव्या, नपश्चिमा उषैव सन्धिवेलाशब्दार्थः,–इति केचित्। तस्याःसन्धिवेलायाःसमीपं “कालाध्वनोरत्यन्तसंयोगे”– इति द्वितीया। सन्निधावित्यर्थः। पुरस्तात् पूर्व्वस्यां दिश्यग्नेः, तां गां अवस्थाप्य प्रत्यङ्मुखीं स्थापयित्वा, उपस्थितायामागतायां सन्धिवेलायां, यत् पशवः,—इत्यनेन मन्त्रेण जुहुयात्। द्रव्यानुपदेशादाज्येन। स्रुवेण चायं होमःस्यात्। एतदुक्तं भवति। सन्धिवेलाया अल्पत्वात् तदानीं होतुं तस्याः समीपमेवाग्नेःपूर्व्वतोगामवस्थापयति तत आगतायां सन्धिवेलायां जुहोति,—इति।
ननु, उपस्थितायां गवि जुहुयात्,—इत्ययमेव सम्बन्धः कस्मान्न वर्ण्यते ? विरोधादित्याह। कथं नाम ? यदि नामोपस्थितायामेव गवि हूयते, न तर्ह्यग्नेः पुरस्तात्तामवस्थाप्य जुहोति। अथाग्नेःपुरस्तात्तामवस्थाप्य जुहोति, व्यक्तं तर्हि तस्यामुपस्थितायामेव न जुहोति—अपि तु अग्नेःपुरस्तादवस्थापितायामिति।
अथापि स्यात्, —नेयमुपस्थितिरवस्थानाद्भिद्यते। यत् खल्ववस्थापनं “पुरस्तादग्नेरवस्थाप्य”—इत्यनेन सूत्रितं, तत्र याऽवस्थितिःसैवोपस्थितायामित्यनेन परामृश्यते। न,—इत्युच्यते। कस्मात्न–इत्युच्यते ? शृणु, यथा न–इत्युच्यते। यदि नाम सैवावस्थितिः परामृश्येत, नूनमवस्थितायामित्यकरिष्यत्। तदकरणाच्चवगच्छामः,—नात्र सैवावस्थितिः परामृश्यते,–इति।न खल्ववस्थितिमभिप्रयन्नुपस्थितायामिति च कुर्व्वन्नाचार्य्योऽस्माकंप्रतीतिं स्थगयति, –इति युक्तमध्युपगन्तुम्। आनर्थक्यञ्चैवमापद्येत। पुरस्तादग्नेरवस्थाप्य जुहुयात्,—इति ह्यभिप्रेतम्।
तस्मात्, सन्धिवेलायामुपस्थितायाम् —इत्यस्मदुक्त एवार्थ आदरणीयः। शब्दस्यवणमात्रात् खल्वयमेवार्थोऽवगम्यते। अवगम्यते चेत्,न युज्यते परित्यक्तुम्। अतएव, सन्धिवेलासमीपं गोरवस्थापनंसन्धिवेलायामुपस्थितायां होमार्थम्। सन्धिवेलासमीपम्,—इत्यस्य प्रातराहुत्यनन्तरपरतया वर्णनायाञ्चतदेवानर्थकं स्यात्।परिभाषाबलादेव तत्प्राप्तेः। नापि सन्धिवेलासमीपमित्यने- नाञ्चस्येनैतदवगम्यते। तस्मान्न किञ्चिदेतत्।
कश्चिदिदं स्त्रम्—उपस्थितायां गवि, —इत्यन्यथा व्याख्याय,बहुप्रकार वर्णयाञ्चकार। “ननु, अवस्थाप्य—इत्युक्ता, पुनरुपस्थितायामिति कस्मादुच्यते ? अत्राह।अस्य होमस्य पशूपस्थापनेन सहातिसम्बन्धार्थम्। पश्वभावे स्थालीपाकं कुर्व्वीत,—इत्यस्मिन् पक्षे निवृत्तिरेव स्यात्। प्रोक्षणपर्य्यग्निकरणमन्त्रौ तु स्थालीपाकपक्षेऽप्यविरोधात् पठनीयौ। अथवा। अज्यसंस्कार प्रतिषेधार्थम् उपस्थितायामिति पुनर्व्वचनम्।कथन्नाम ?उपस्थितायां जुहुयादेव, न तावदाज्यं संस्कुर्य्यात्, —इति।अथवा। आसादनीये आसादिते कर्म्मणःकृताक्कतप्रत्यवेक्षणकर्त्तरि ब्रह्मणि चोपविष्टे तत्रापि होमस्य प्राप्तत्वात् तथा माभूदित्यानर्य्यार्थंपुनर्व्वचनम्। तेन किम् ? उपस्थितायामनन्तरमेव जुहुयादेव, न तावत् किञ्चिदपि कुर्य्यात् “—इति॥ ०॥॥ १७॥०॥
हुत्वा चानुमन्त्रयेतानु त्वा माता मन्यतामिति॥१८॥
हुत्वा, अनुत्वा माता,—इति मन्त्रेण मामनुमन्त्रयेत, —अनामिक्राग्रेश स्पृशन्। तथाचोक्तम्।
“स्पृशन्ननामिकाग्रेण क्वचिवालोकयन्नपि।
अनुमन्त्रणीयं सर्व्वत्र सर्व्वदैवानुमन्त्रयेत्”।
इति। चतुष्पथप्रतिमन्त्रणादौ अवलोकयन्निति संबन्धनीयम्। योग्यत्वात्। प्रतिमन्त्रणमभिमन्त्रणमनुमन्त्रणमिति खल्वनर्थान्तरम्।हुत्वा,—इति वचनं हुत्वैवानुमन्त्रयेत न तु तन्त्रसमापनमपिक्रुत्वा,—इत्येवमर्थम्। चशब्दश्च यवमिश्रोदकादीनामासादनार्थः।तेन,—यवमिश्रमुदकं, पवित्रं, क्षुरः, शाखाविशाखे पलाशकाष्ठे,वर्हिः, इध्मः, आज्यं, समिधौ, स्रुवः, — इत्येतानि यथावदासाद्य,अनन्तरमनुमन्वयेतेत्यर्थः॥ ०॥ १८॥ ०॥
यवमतीभिरद्भिः प्रोक्षेदष्टकायै त्वा जुष्टां प्रोक्षामीति॥ १९॥
पूर्व्वमासादिताभिर्यवमतीभिरद्भिर्गां प्रोक्षेत्—प्रकर्षेणसिञ्चेत्अष्टकायै,—इति मन्त्रेण॥ ०॥ १९॥ ०॥
उल्मुकेन परिहरेत् परिवाजपतिः कविरिति॥ २०॥
उल्मुकमलातमित्यनर्थान्तरम्। तेन गां परिहरेत् प्रदक्षिणीकुर्य्यात् परिवाजपतिरिति मन्त्रेण॥ ०॥ २०॥ ०॥
अपः पानाय दद्यात्॥ २१॥
तस्यै गवे पानायोदकं दद्यात्—मन्त्रानुपदेशात् व्याहृतित्रितयंजपन्। कथं ज्ञायते ?
“यत्रमन्त्रा न विद्यन्ते व्याहृतित्रितयं जपेत्।
मन्त्राणामेव चादेशे मन्त्रात् कर्म्मसमाचरेत्”।
इति गृह्यासंग्रहवचनात्। एवमन्यत्रापि बोद्धव्यम्। मन्त्रानुपदेशादमन्त्रकमिति वर्णनन्तु उक्तवचनानवलोकनेन। इध्मादीनामेवकेवलं तूष्णींकरणमाचार्य्यपुत्रेणोपदिष्टम्॥ ०॥॥ २१॥ ०॥
पीतशेषमधस्तात् पशोरवसिञ्चिदात्तं देवेभ्यो हविरिति॥ २२॥
तस्याः पीतावशिष्टमुदकं, पशोस्तस्या एव गोरधस्तादवसिञ्चेत् अवाचीनं सिञ्चेत् आत्तं देवेभ्यः,—इति मन्त्रेण॥०॥ २२॥ ०॥
अथैनामुदगुत्सृप्य संज्ञपयन्ति॥ २३॥
अथ, —अनन्तरमेव, एनां गां उदगुत्तरस्यामनेरुत्सृप्य नीत्वासञ्ज्ञापयन्ति।कर्त्तुरनियमः।सञ्ज्ञपनं हननम्॥ ०॥ २३॥ ०॥
कोदृशीं सञ्ज्ञपयन्ति ? उच्यते,—
प्राकृशिरसमुदक्पदींदेवदैवत्ये॥ २४॥
प्राकृशिरसं पूर्व्वाभिमुखशिरस्कां, उदक्पदीमुदङ्मुखपदींसज्ज्ञपयन्ति। देवदैवत्ये,—देवानुद्दिश्य यत् क्रियते, तस्मिन्॥ ०॥ २४॥ ०॥
दक्षिणाशिरसं प्रत्यक्पदींपितृदैवत्ये॥ २५॥
पूर्व्वसूत्रव्याख्यानेनैवेदमपि सूत्रं व्याख्यातम्। सेयमष्टका-प्रसङ्घात्साधारणकर्म्मपरिभाषा क्रियते। ततश्च, देवतान्तरेषु प्रोक्षणमन्त्रमूहेत। तेन,—वास्तुकर्म्मणि, वास्तोष्पतये त्वा जुष्टां प्रोक्षामि,—इति। “श्रोत्रियेऽभ्यागते श्राद्धं महोक्षेण महाजेन पयस्विन्यावा दद्यात्” इत्युक्तलक्षणे पित्र्ये,—पितृभ्यस्त्वा, जुष्टमिति काजुष्टामिति वा। एवमन्यत्राणि। तथा चोक्तम्।
“ऊहःप्रोक्षणमन्त्रस्य लिङ्गदेवतयोर्वशात्”।
इति॥ ०॥ २५॥ ०॥
संज्ञप्तायां जुहुयात् यत् पशुर्मायुरकृतेति5॥ २६॥
तस्यां संज्ञप्तायां सत्यां जुहुयात्, यत् पशुरितिमन्त्रेण॥०॥ २६॥०॥
पत्नी चोदकमादाय पशोः सर्व्वाणि श्रोता
पत्नी उदकमादाय, चशब्दाद्दर्भकूर्च्चमप्यादाय, पशोर्हताया गोःसर्वाणि श्रोतांसि—
“सप्त तावन्मर्द्धन्यानि तथा स्तनचतुष्टयम्।
नाभिः श्रोणिरपानञ्च गोः श्रोतांसि चतुर्दश”।
इत्युक्तलक्षणानि।प्रचालयेत्,–दर्भकूर्च्चेण श्रोतांसिप्रकर्षेणाकृष्य क्षालयेदित्यर्थः। श्रोतसां क्षालनञ्चेदं तूष्णीं करणीयम्। क्रमश्चेच्छाधीन एव भवति। तथा चोक्तम्।
“क्षालनं दर्भकूर्च्चेणसर्व्वत्र श्रोतसां पशोः।
तूष्णोमिच्छाक्रमेण स्वाद्वपार्थे पार्णदारुणी”।
इति॥ ०॥ २७॥ ०॥
अग्रेण नाभिं पवित्रे अन्तर्धायानुलोममाकृत्यवपामुद्धरन्ति॥ २८॥
अग्रेण नाभिं नाभेरग्रतः—अदूरप्रदेशे इत्यर्थः। पूर्व्वमासादितेपवित्रे अन्तर्धाय। द्विवचनं दलापेक्षम्, —इति भट्टनारायणः।अनुलोमं लोम्नामनुकूलं यथा भवति, तथाआकृत्य—पूर्वमासादितेन क्षुरेण पाटयित्वा, वपां मांसचर्म्मणोरन्तर्व्वर्त्तिनींवशांउद्धरन्ति। कर्त्तरनियमः।यद्यप्यत्र मन्त्रो नोपदिश्यते, तथापि व्याहृतिजपो न कर्त्तव्यः।कस्मात् ?
“वपाहोमे मुखेनैव होमे स्विष्टकृते तथा।
व्याहृतिर्न प्रयोक्तव्या मुखे नाप्सु च लक्षणम्”।
इति गृह्यासंग्रहवचनात्। ननु, वपाहोमननु, वपाहोम एव व्याहृतिप्रयोगः निषेधःवचनादवगम्यते ? सत्यम्। किन्तु वपाहोमे आचार्य्येण मन्त्रोपदेशात् व्याहृतिप्रयोगप्रसक्तिरेव नास्ति, —इति व्यर्थस्तत्रनिषेधः। तस्मादवगच्छामः, —वपाहोमे कर्त्तव्ये यत् किञ्चित्कियते तदनुकूलं, तत्रैवासौ निषेधः, —इति॥ ०॥ २८॥ ०॥
ता
शाखा एकशाखं काष्ठम्। विशाखा नानाशाखं काष्ठम्। शाखाच विशाखाच शाखाविशाखे, तयोः —शाखाविशाखयोः काष्ठयोः।ते च काष्ठे पालाशे बोद्धव्ये। कस्मात् ? “वपार्थे पार्णदारुणी’—इति वचनात्। तयोः काष्ठयोः तां वपां अवसज्य आरोप्य, उदकेनाभ्युक्ष्यश्रपयेत्॥ ०॥ २९॥ ०॥
प्रश्च्युतितायां विशसथेति ब्रूयात्॥ ३०॥
प्रश्च्युतितायां प्रक्षरितायां।श्चुतिर क्षरणे,—इति स्मरणात्। प्रश्च्युप्रतितायां वपायां विशसथ,—इति ब्रूयात्। विशसथ, गांविकृतां कुरुत अपमतचर्म्मदेहां कुरुत, —इत्यर्थः। सोऽयंसहायानां प्रेषः। सहायान् खल्ववं प्रेष्य, अन्यदपि तानवबोधयेत्॥ ०॥ ३०॥०॥
किन्तत् ? उच्यते,—
यथा न प्रागग्नेर्भूमि
यथा येन प्रकारेण विशस्यमानाया गोःशोणितं, प्रागग्नोर्भूिमिं अग्नेः पुरस्ताद्भूमिभागं न गच्छेत् न इयात्,—तथा विशसथ,—इत्यर्थः। एतस्माच्च कारणादगगच्छामः, —अग्नेःसमीप एवगौर्व्विशसनीया, —इति॥ ०॥ ३१॥ ०॥
श्रुतामभिघार्य्यदगुद्वास प्रत्यभिघारयेत्॥ ३२॥
शृतां वपाम्। कृतभाष्यमन्यत्॥॥ ३२॥ ०॥
स्थालीपाकावृता वपामवदाय, —स्विष्टकृदावृतावाऽष्टकायै स्वाहेति जुहोति॥ ३३॥
स्थालीपाकावृता,—“अथ हविष उपस्तीर्य्यावद्यति मध्यात् पूर्व्वार्द्धात्’’—इत्याद्युक्तप्रकारेणेत्यर्यः। पूर्व्वमासादितेन क्षुरेण वपामवदाय, स्विष्टकृदावृता वा कृत्स्नांवपामादाय, अष्टकायैस्वाहा,—इत्यनेन मन्त्रेण जुहोति। तथा चोक्तम्।
“क्षुरो मांसावदानार्थः, क्रुत्स्नांस्विष्टक्रुदावृता।
वपामादाय जुहुयात् तत्र तन्त्रं समापयेत्”।
इति। स्विष्टदावृता तावत् उत्तरार्द्धपूर्व्वार्द्धदवदानं प्राप्नोति। अयंपुनरत्र विशेषः, यत् कृत्स्नैव वपा स्विष्टकृदावृताऽवदातव्या– इति।
अनन्तरमेवान्यस्य कर्म्मण उपदेशादेककर्म्माशङ्का माभूदिति,“तत्र तन्त्रंसमापयेत्”—इत्यनेन कर्म्मणो नानात्वं स्पष्टीकृतम्॥ ०॥ ३३॥ ०॥
स्थालीपाकावृताऽन्यत् स्यालीपाकावृताऽन्यत्॥ ३४॥
कृतभाष्यमेतत्। अस्मादपि वचनादिदानीमेकस्य कर्म्मणः परिसमाप्तिरवगम्यते। द्विर्व्वचनं प्रपाठकसमाप्तिप्रज्ञापनार्थम्॥ ०॥॥ ३४॥ ०॥
इति महामहोपाध्यायराधाकान्त सिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलोयगृह्यसूत्रभाष्ये तृतीयप्रपाठकस्य दशमी खण्डिका समाप्ता॥ ०॥
समाप्तश्चयं तृतीयः प्रपाठकः॥
____________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके प्रथमा खण्डिका।
वपाहोममुक्त्वा वपाश्रपण्योः पलाशशाखयोः प्रतिपत्ति माह, —
अनुप्रहरति वपाश्रपण्यौ॥१॥
ययोःशाखाविशाखयोरवसज्य वपा श्रपिता, ते शाखाविशाखेवपाश्रपस्यौ उच्येते। ते वपाश्रवण्यौअनु पश्चात् प्रहरति। कस्यपश्चात् ? द्रव्यासादनतद्वीक्षणप्रोक्षणब्रह्मोपवेशनपर्य्यन्तस्य। कस्मात् ? आरम्भसामर्थ्यादित्याह। पूर्व्वप्रपाठकपरिसमाप्तौ पूर्व्वस्थकर्म्मणः तन्त्रसमापनस्याभिधानात् अग्रे च चरुवपणस्य सूत्रयिष्यमाणत्वात् इदानीं खल्वनुशब्देन चरुश्रपण-पूर्व्वकर्त्तव्यानामेव कर्म्मणां परतः, — इत्यवगम्यते।
तत्र च, क्षुरः, कंसपात्रत्रयं, प्लक्षशाखावान् प्रस्तरः, —इत्येतेषामेव वैकृतानामासादनमत्राधिकम्। प्राकृतानामपि मध्ये,चरुस्थालीपवित्रमेक्षणानि द्वन्द्वश आसादयितव्यानि, विनियोगसामर्थ्यात्। सर्व्वमन्यत् प्रकृतवदेवासादयितव्यम्। प्रहरतिश्चयजतिवचनः,—इति प्रस्तर-प्रहरण-न्याये निर्णीतम्। “गार्हपत्येप्रहरामः”—इति च श्रूयते। तथा सूत्रकारोऽप्याह। “अष्टावष्टौ सकलान्याहवनीये प्रहरेयुः”—इति। तस्मात् होमोऽयम्॥॥०॥ १॥०॥
कथं प्रहरति ? उच्यते,—
प्राचीमेकशूलां प्रतीचीमितराम्॥ २॥
एकं शूलमग्रं यस्याः सेयमेकशूला, तां–शाखां, प्राचींप्रागग्रांप्रहरति। इतरां विशाखां प्रतीचीं प्रत्यगग्रां प्रहरति॥०॥ २॥०॥
अवद्यान्त्यवदानानि सर्व्वाङ्गेभ्यः॥ ३॥
अवदीयन्ते,—इत्यवदानानि मांसान्यभिधीयन्ते। प्रकृतस्य पशोःअवदानानि मांसानि अवद्यन्ति क्षुरेणोद्धरन्ति। बहुवचनादनियतः कर्त्ता। कुतोऽवद्यन्ति ? सर्व्वाङ्गेभ्यः—
“हृज्जिह्वाक्रोड़सक्थीनि यकृद्वृक्कौगुदं स्तनाः।
श्रोणिःस्कन्धसटा पार्श्वेपश्वङ्गानि प्रचक्षते।
एकादशानामङ्गानामवदानानि संख्यया।
पार्श्वस्य वृक्कसक्थ्रोश्च द्वित्वादाहुश्चतुर्दश”।
इत्युक्तलक्षणेभ्यः। ननु, सर्व्वग्रहणं किमर्थम् ? उच्यते।
“हृदयं जिह्वा क्रोड़ं सव्यसक्थि पार्श्वनड़क पार्श्वे च।
यकृदथ वृक्कौ च गुदं दक्षिणश्रोणिरितरा नाभिः”।
इति वचनान्तरोक्तानामङ्गानामेवावदानानामिह ग्रहणं माभूत,किन्तु सर्व्वेषाम्—इत्येतदर्थमिति गृहाण॥ ०॥ ३॥ ०॥
सर्व्वाभ्यः,—इत्यस्यापवादमाह,—
अन्यत्र वामाच्च सक्थःक्लोम्नश्च॥ ४॥
सक्थि उरुः। क्लोम तिलकम्। वुक्कादूर्द्धंपिपासास्थानं क्लोम,—
इत्याचक्षते वैद्यकाः। वामात्–सव्यात् सक्थ्रःक्लोमश्चान्यत्रसर्वाङ्गेभ्य अवद्यन्ति। चशब्दद्वयं द्वयोस्तुल्वत्वप्रज्ञापनार्थम्। तदत्रचतुर्दशानामवदानानामवदानद्वयस्य पर्य्युदासात् द्वादशैवावदानानि भवन्ति। प्रयोजनञ्चास्य पर्य्युदासस्योत्तरसूत्रे वक्ष्यामः॥ ४॥ ०॥
वामं
वामं सक्थि, अपवादसामर्थ्यात्तुल्यत्वप्रज्ञापनाच्च—क्लोम च, अन्वष्टक्याय, —तादर्थ्येचतुर्थी, वक्ष्यमाणान्वष्टक्यकर्म्मार्थं निदध्यात्स्थापयेत्॥ ०॥ ५॥ ०॥
** तस्मिन्नेवाग्नौ श्रपयत्योदनचरुञ्च मा
अग्निद्वये चरुद्वयस्य श्रपणं माशङ्गीत,—इति तस्मिन्नेवाग्नावित्याह। कथंनाम ? पशुकर्म्मणि खल्ववदानानामग्न्यन्तरे शामित्रे श्रपणं दृष्टम्।तद्वदत्राप्यग्न्यन्तरस्योपादानं कश्चिदाशङ्कीत।तन्मा प्रशाङ्क्षीदिति तस्मिन्नेवाग्नाविति वचनम्।तत्राग्नौओदनचरुश्चश्रपयति, मांसचरुञ्च श्रपयति—अखण्डितैरैवावदानैः।ओदनचरुश्च व्रीहितण्डुलनिष्पन्नो भवति। पृथक् नाना श्रपयति। किं कुर्व्वन् ? मेक्षणाभ्यां प्रदक्षिणमुदायुवन्। प्रदक्षिणं यथा भवति, तथा उदायुवन् ऊर्द्ध्वमीषन्मिश्रयन्। ओदनचरुञ्च मांसचरुञ्च,—इत्यसमासकरणं चरुद्वश्रपणस्यपृथक्कालत्वप्रज्ञापनार्थम्। श्रपणक्रमश्चानयोः पाठक्रमादेव कल्पनीयः॥ ०॥ ६॥ ०॥
शृतावभिघार्य्योदगुद्वास्य प्रत्यभिधारयेत्॥ ७॥
व्याख्यातप्रायमेतत्। ननु, मांसचरोःस्थालीपाकधर्म्मानतिदेशात्तस्मिन्नेव चरावेतद्विधातव्यम्। तथाच, शृतमित्येकवचनं मांसचरुमिति वा कर्त्तुमुचितम्। कस्मात् द्विवचनं क्रियते ? असंमोहार्थमित्याह। अन्यथैकवचने कृते मांसचरुमिति वा सूत्रिते, तस्यैव चरोरभिघारणं न पुनरन्यस्यापि,—इति शिष्याःसंमुह्येयुः। अथवा।यावदुक्तत्वादस्मिन्नोदनचरावपि अभिघारणे पवित्रान्तर्हितत्वं न करणीयमित्येतदर्थं श्रुताविति द्विवचनं कृतम्॥ ०॥ ७॥०॥
एतस्मिन् क्रमे आज्यभागान्तं कृत्वा,-
कंसे, —पूर्व्वमासादितानां कंसपात्राणामेकस्मिन् कंसपात्रे, रसंअवदानमांसयूषं अवासिच्य निनीय॥ ०॥ ८॥ ०॥
प्लक्षशाखावति प्रस्तरेऽवदानानि कृत्वा॥ ९॥
प्लक्षोवृक्षविशेषः। प्रस्तरःकुशमुष्टिः। प्लक्षस्य शाखा प्लक्षशाखा।सा यस्यास्ति सोऽयं प्लक्षशाखावान्। तस्मिन् प्लक्षशाखावति प्रस्तरेभूमौ प्रागग्रनिहिते, अवदानानि अपनीतयूषान्यवदानमांसानि,कृत्वा स्थापयित्वा॥ ०॥ ९॥ ०॥
स्थालीपाकावृताऽवदानानां क
स्थालीपाकावृता मध्यात् पूर्व्वादित्युक्तया रीत्या, प्रत्येकंसर्व्वेषामवदानानां—अपनीतयूषाणां मांसानां, कंसे अपरस्मिन्कंसपात्रे, —यत्र यूषो नावसिक्तस्तस्मिन् –इत्यर्थः। अवद्यति क्षुरेणावदाय स्थापयति। अवदानानामिति संबन्धलचणा षष्ठी॥ ०॥ १०॥ ०॥
स्विष्टकृतश्च पृथक्॥ ११॥
स्विष्टकृतःस्विष्टकृदर्थं। चशब्दात्, —स्थालीपाकावृताऽवदानानांकंसे अवद्यति। किं तस्मिन्नेव कंसे ? न। कुत्रतर्हि ?पृथक्,–अन्यस्मिन् कंसे, इत्यर्थः। अत्र च, स्विष्टकृदर्थत्वादवदानमांसाना-मुत्तरार्द्धपूर्व्वेभ्योऽवदातव्यम्॥ ०॥ १९॥ ०॥
चरोरुद्धृत्य विल्वमात्रमवदानैः सह यूषेय सन्नयेत्॥ १२॥
चरोःप्रकृतत्वादोदनचरोःविल्वमात्रं विल्वपरिमाणं ( परिमाणे मात्रट् ) उद्धृत्य पूर्वोक्तयैव रीत्या मेक्षषेन गृहीत्वा। पात्रेस्थापयेदित्यर्थः। किमेकस्मिन्नेव पात्रे ? न। पृत्रक्। कथंज्ञायते ? अत्रापि पृथगिति सम्बध्यते। कस्मात् ? मध्यमणिन्यायात्। तेन, पृथक् पृथगेव मक्षणेनादाय पृथक् पृथगेव पात्रे स्थापयेत्। एतदुक्तं भवति। मध्यात् पूर्व्वार्द्धादित्युक्तक्रमेण मेक्षणेन चरोर्विल्वमात्रमवदाय यत्र मांसावदानानि स्थापितानितस्मिन् कंसपात्रेस्थापयति। एवमुत्तरार्द्धपूर्व्वादित्युक्तरीत्यास्विष्टकदर्थमपि चरोर्विल्वमात्रं प्रथमवदाय स्विष्टकृत्कंसपात्रेपृथगेव स्थापयति, —इति। अतएव, यथा सर्व्वैरप्यवदानैर्व्विल्वमात्रमेवोद्धृतं भवति नाधिकं, तथोद्धरेदिति बोद्धव्यम्।ततश्च, तदुद्धृतं विल्वमात्रं पूर्व्वगृहीतैर्मांसावदानेःयूषेण चपूर्व्वावसिक्तेन सह सन्नयेत् सम्यगेकीकुर्य्यत् मिश्रयेदित्यर्थः॥॥ ०॥ १२॥ ०॥
एतस्मिन् क्रमे आज्यभागौ हुत्वा,
चतुर्गृहीतमाज्यं गृहीत्वाऽष्ठर्च्चप्रथमया जुहुयादवग्निरिति॥ १३॥
चतुर्गृहीतमाज्यं गृहीत्वा,—इत्युक्तार्थम्। अम्नावग्निरिति योऽयमष्टर्च्चः,—अष्टानामृचां समाहारःतस्य प्रथमया ऋचा जुहुयात्। भृगूणामपि चतुर्गृहीतमेवैतत्। कुतः ? विशेषवचनारम्भस्यार्थवत्त्वात्। पूर्व्ववत्तेषां विशेषस्थानुपदेशाच्च। सेयमाज्याहुतिः॥ ०॥ १३॥ ०॥
अथ चर्व्वाहुतिरभिधीयते,—
सन्नीतात् तृतीयमात्रमवदाय द्वितीयातृतीयाभ्यांजुहोति॥ १४॥
यत् प्रथमे पात्रेसन्नीतं मांसावदानं चर्व्वदानं यूषश्च, तस्यात्सन्नीतात्त् तृतीयमात्रंविभागेकभागमित्येतत्। अवदाय गृहीत्वाप्रकृतस्याष्टर्च्चस्यद्वितीयातृतीयाभ्यां ऋग्भ्यां मिलिताभ्यां जुहोति॥ ०॥ १४॥ ०॥
मन्त्रान्ते स्वाहाकारः,—इति सूत्रणात् प्रतिमन्त्रमेव स्वाहाकारं कञ्चिदाशङ्गीत, अतस्तदपवादार्थमिदमाह,—
उत्तरस्या
उत्तरस्यां ऋचि न पूर्व्वस्यां, खाहाकारं दधाति करोति।तत्रैव च जुहोति॥ ०॥ १५॥ ०॥
एवमेवावरे चतुर्थीपञ्चमोभ्या
एवमेव पूर्वोक्तेनैव विधिना, अवरे द्वेतृतीयमात्रे अवदाय। अपरे –इति पाठेऽपि तथैवार्थः। प्रकृतस्याष्टर्च्चस्य चतुर्थीपञ्चमीभ्यांमिलिताभ्याम् एकामाहुतिं जुहोति, षष्ठी सप्तमीभ्याञ्चापराम्।अत्राप्युत्तरस्यामुत्तरस्यां स्वाहाकारं करोति, तत्रेव च जुहोति॥०॥ १६॥॥
शेषमवदाय सौविष्टकृतमष्टम्या जुहुयात्॥ १७॥
शेषं स्विष्टकृदर्थमुत्तरार्द्धपूर्व्वार्द्धेभ्यो यद्गृहीतं, तदवदाय, प्रकृतस्यैवाष्टर्च्चस्य अष्टम्या ऋचा स्वाहाकारान्तया अमेरुत्तरार्द्धपूर्व्वार्द्धेजुहुयात्॥ ०॥ १७॥ ०॥
एवन्तावत् गवा यथोक्तेन विधिना यागः कर्त्तव्यः, — इत्ययंप्रथमः कल्पः।यदा पुनर्गौर्न सम्पद्यते, तदा कथं कर्त्तव्यम् ?तदिदानीमभिधीयते,—
यद्युवाअल्पसम्भारतमः स्यादपि पशुनैव कुर्य्यात्॥ १८॥
सम्भ्रियते, —इति सम्भारो द्रव्यम्। अल्पः सम्भारो यस्य सोऽयमल्पसम्भारः। तस्यैवातिशयस्तमप् प्रत्ययार्थः। उ वै,―इति निपातौ।यद्युवा,—इति निपातसमुदायो यद्यर्थे,—इति केचित्। यदिअत्यपद्रव्यवान् स्यात् अपि तदाऽपि पशुनैव कुर्य्यादष्टकायागम्। पशुरपि छाग एव स्यात्। कस्मात् ? “अनादेशे पशुछागः”—इति गृह्यान्तरवचनात्। “छागपक्षे चरावषि”—इति च लिङ्गात्। एवकारकरणं पूर्वोक्तकृत्स्नविधिनियमार्थम्।तेन, अत्रापि कल्पे सर्व्व एव पूर्वोक्तो विधिःस्यात्॥ ०॥ १८॥ ०॥
छागस्याप्यसम्भवे कथं कर्त्तव्यम् ? तदुच्यते,—
अपि वा स्थालीपाकं कुर्व्वीत॥ १९॥
ऋजुरक्षरार्थः। स खल्वयं स्थालीपाक ओदनचरोःपरस्तान्मांसचरुस्थाने सवत्सायास्तरुण्या गोः पयसि श्रपयितव्यः।तथाचोक्तम्।
“स्थालीपाकं पशोःस्थाने कुर्य्याद्यद्यानुकल्पिकम्।
श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु”।
इति। पशोःस्थाने,—इति करणात् पशुकार्य्यकारित्वमस्यावगम्यते।तेन, अत्राप्यष्टर्च्चेन होमःस्यात्। एवञ्च, पशुपक्षेयावन्ति पशोरवदानानि प्रस्तरे क्रियन्ते, स्थालीपाकपक्षेऽपि तावतःपायसान्पिण्डान् तत्र कुर्वीत। तथा चोक्तम्।
“चरितार्था श्रुतिः कार्य्यःयस्मादप्यनुकल्पशः।
अतोऽष्टर्च्चेन होमःस्याच्छागपक्षेचरावपि।
अवदानानि यावन्ति क्रियन्ते प्रस्तर पशोः।
तावतः पायसान् पिण्डान् पश्वभावेऽपि कारयेत्”।
इति। ननु, अपि वा स्थालीपाकेन,—इति वक्तव्ये किमर्थं प्रकृतविभक्त्यतिक्रमः क्रियते ? कस्यचित् कर्म्मणोऽतिक्रमसूचनार्थमित्याह। कथं नाम ? अष्टर्च्चहोमवत् पश्वभावेऽप्यविलोपार्थंवपाहोमोऽपि स्थालीपाकेनैव स्यात्। अतो वपाहोमस्य निवृत्तिप्रज्ञापनार्थं प्रकृतविभक्त्यतिक्रमः क्रियते,—इति। अत एव, परिशिष्टकारेणाप्यवदानसङ्ख्ययैव पायसपिण्डकरणमुपदिशता आचार्य्यस्यायमभिप्रायः स्पष्टीकृतः॥ ०॥ १९॥ ०॥
अपि वा गोर्ग्रासमाहरेत्॥ २०॥
अपि वा अथ वा,—स्थालीपाकस्याप्यसम्भवे, गोः,—अविशेषेणोपदेशात्आत्मीयस्यपरकीयस्यवा कस्यचिदनडुहः, ग्रासमाहरेद्दद्यात्। तावताऽप्यष्टकाकर्म्मकृतं भवतीत्यभिप्रायः।तथा च गृह्यान्तरम्।“अप्यनडुहो यवसमाहरेत्”—इति। केचिदत्रप्रकरणात् गोशब्दस्य स्त्रीगवीपरत्वं वर्णयन्ति। ग्रस्यते, —इतिग्रामस्तृणयवसादिः। स च यावता गोर्दिवसाहारःसम्पद्यते,तावान् दातुमुचितः। कस्मात् ?
“यतः कुतश्चित् सम्प्राप्य गोभ्यो वाऽपि गवाह्निकम्।
अभावे प्रीणयन्नस्मान् श्रद्धायुक्तःप्रदास्यति”।
इति श्राद्धकरणाशक्तस्य तथा दर्शनात्। ग्रासोऽपि, एषा मेऽष्टकेतिमन्त्रेण देयः। कुतः ? सिंहावलोकितन्यायेन तस्यात्राप्यनुषङ्गात्।तस्य चाचार्य्यानुमतत्वात्। तथा चोक्तम्।
“कक्षोपधानमन्त्रोयःस गोर्ग्रासे विधीयते”। इति॥ ०॥ २०॥ ०॥
अपि वाऽरण्ये कक्षमुपधाय ब्रूयादेषा मेऽष्टकेति॥ २१॥
अपि वा गोर्ग्रासाहरणस्याप्यसम्भवे,—इत्येतत्। अरण्ये, कक्षंबाहुमूलकोटरप्रदेशं, उपधाय,—( उप होनार्थे ) होनाधानंकृत्वा,—कक्षतिरोधानमपनीय ऊर्द्ध्वबाहुर्भूत्वा,—इति यावत्।एषा मेऽष्टका,—इत्येतं मन्त्रं ब्रूयात् कथयेत्। तथा च, श्राद्धाभक्तौगवाह्निकप्रदानस्याप्यसम्भवे पुराणस्मरणम्।
“सर्व्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः।
सूर्य्यादिलोकपालानामिदमुच्चैः पठिष्यति।
न मेऽस्ति वित्तं न धनं न चान्यत्
श्राद्धोपयुक्तं, स्वपितृन्नतोऽस्मि।
तृप्यन्तु भक्त्या पितरो, मयैतौ
भुजौ कृतौ वर्त्मनि मारुतस्य”।
इति। तस्मादत्राप्येतत्परतया वर्णना शक्यते कर्त्तुम्। दृष्टपरिकल्पनाया न्याय्यत्वात्।
एवं वा-
अरण्ये, कक्षं तृणसङ्घमुपधाय,—अग्निना सन्धुक्ष्यएषा मेऽष्टकेतिब्रूयात्। तथा च गृह्यान्तरम्। “अग्निना वा कक्षमुपोषेत्”—इति। अत्रकिञ्चिद्वक्तव्यमस्ति। मूख्यकल्पानुकल्पभावेन तावदत्रपञ्च पक्षाउपदिष्टाः। तत्र योऽयमाद्यो गोपशुपक्षः स तावदिदानीं शिष्टैर्नानुष्ठीयते। अननुष्ठनाच्चसाम्प्रतं पुराकल्पीभूतः। तथाच वाक्यार्थविद्भिरुक्तम्।
" विधिर्योऽनुष्ठितः पूर्व्वंक्रियते नेह साम्प्रतम्।
पुराकल्पःस यद्वच्च विधवाया नियोजनम्।
गोवधो मधुपर्कादौ महोक्षोऽतिथिपूजने।
सम्प्रत्यकरणात्तस्य पुराकल्पत्वमागतम्।”
इति॥ ०॥ २१॥ ०॥
न त्वेव न कुर्व्वीत न त्वेव न कुर्व्वीत॥ २२॥
नैवाष्टकां न कुर्व्वीतेति नञ्द्वयेनावश्यं करणमुपदिशति। न वक्तव्यंतर्हि ? अवश्यं करणस्य पूर्व्वमेव सिद्धत्वात्। उच्यते। मुख्यकल्पानुकल्पभेदात्तावदत्र पञ्च पक्षाः सूत्रिताः। शास्त्रान्तरेऽपि यानिपक्षान्तरराण्युक्तानि,–“अपि वा अनूचानेभ्य उदकुम्भमाहरेत्”—इत्येवमादीनि, तानि वा कुर्य्यात्, न त्वेव न कुर्व्वीत,—इत्येतदर्थमिदमुच्यते। तुशब्दःस्थालीपाकपक्षेऽप्यन्वष्टक्यस्यावश्यकरणप्रज्ञापनार्थः। इतरथा, पश्वभावेन मांसाभावादस्य लोपःस्यात्। मध्यमाष्टकासंज्ञपितपशुमांसेनान्वष्टक्यविधानात्। तथा चोक्तम्।
“ओदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम्।
सद्रवं श्रपयेदेतदन्वष्टक्येऽपि कर्म्मणि”।
इति। द्विर्व्वचनमादरार्थं, मध्यमाष्टकाकर्म्मणः परिसमाप्त्यर्थं,वीप्सया सर्व्वास्वेवाष्टकासु यथासम्भवमनुकल्पप्राप्त्यर्थञ्च। अन्ये तुवर्णयन्ति। “अभ्यासःप्रकरणपरिसमाप्त्यर्थः। अथवा। अष्टकालोपे दोषगुरुत्वप्रज्ञापनार्थः। अविलोपे च फलभूयस्त्व पनार्थोऽभ्यासः। तथाच यास्केनोक्तम्। अभ्यासे भूयांसमर्थं मन्यन्ते इति। अथवा।सूत्रद्वयमेतत्। अत्र पूर्व्वस्य यथोक्त एवार्थः।उत्तरं चोत्तरसूत्रेण सह संबध्यते, न त्वेव न कुर्व्वीत श्वस्ततोऽन्वष्टक्यम्—इति। तेन किं ? स्थालीपाक पक्षेऽप्यन्वष्टक्यमवश्यं कुर्य्यादिति दर्शयति” —इति।
इदमिदानींचिन्त्यते। किमेतेऽष्टकादयःपाकयज्ञाःसकृत्कर्त्तव्याः? उत प्रत्यब्दम् ?—इति। तत्र, केचित् सकृदमीषांकरणम् –इच्छन्ति। कस्मात् ? एतेषां पुरुषसंस्कारत्वात्, सकृत्कृतेनैव च कर्म्मणा पुरुषसंस्कारस्य वृत्तत्वात् पुनःकरणे हेतोरभावात्,—इति। अन्ये त्वाहुः;—
“तस्मादुत्सृज्य कौन्तेय ! गोवृषान् प्रति वत्सरम्”।
इति पौराणिक-लिङ्गदर्शनात् आवृत्तिरेवामीषाम्। न चपुरुषसंस्कारस्य वृत्तत्वात् किमर्थमावृत्तिरिति वाच्यम्। पुरुषसंस्कारस्य वृत्तत्वेऽपिप्रत्यवायपरिहारार्थमावृत्तेर्युक्तत्वात्,— इति। वयन्तु पश्यामः।सकृदेवश्यमेव करणं, आवृत्तौतुनात्यन्तं नियमः। ततश्च, आवृत्तावभ्युदयः, अनावृत्तावषि नप्रत्यवायः। तथा चोक्तम्।
“सकृदप्यष्टकादीति कुर्य्यात् कर्म्माणि यो द्विजः।
स पंक्तिपावनो भूत्वा लोकान् प्रैति घृतश्च्युतः।
इति। अत्र खल्वपिशब्दादावृत्तिरपि अवगम्यते॥ ०॥ २२॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य प्रथमा खण्डिका समाप्ता॥ ०॥
_______________
गोभिलीय-ग्रुह्यसूत्रे
चतुथप्रपाठके द्वितीया खण्डिका।
श्वस्ततोऽन्वष्टक्यम्॥ १॥
ततस्तस्मादनन्तरोपदिष्टाम्मांसाष्टकाकर्म्मणः, श्वः अनागतेऽःह्रि, —नवम्यामित्यर्थः। एवमेके। अष्टकाकर्म्मण्यष्टम्याउपस्थितत्वादन्वष्टक्यस्यापि नवम्यां वर्षयितुमुचितत्वात्,—इति तेषामाशयः।अष्टकाकर्म्मदिनात् परदिन एव, न नवम्या नियमः। एवमपरे।अन्वष्टक्यं कर्त्तव्यमिति वाक्यशेषः। अष्टकायाःपश्चाद्भवतीत्यन्वष्टका, तत्रसाधु अन्वष्टक्यमिति कर्म्मणो नामधेयम्।
कश्चित् सर्व्वत्रैवान्बष्टक्यंमन्यमानः सूत्रे ततः-शब्दस्य वीप्सांकृत्वा व्याचष्टे,—ततस्ततः अन्वष्टक्यम्,—इति। तदसङ्गतम्।मांसाष्टकाकर्म्मण एवानन्तरत्वात्। वीप्साया अश्रुतत्वाच्च। पठ्यमानमन्त्रकाण्डे मांसाष्टकाविनियुक्ताष्टर्च्चानन्तरमन्वष्टक्यमन्त्रस्यपठितत्वात्। सर्व्वत्रान्वष्टक्यपक्षस्याचार्य्याननुमतत्वाच्च। तदिदमधस्तादेवास्माभिरभिहितं, —“तथा गौतमवार्कखण्डी”—इत्यत्र।
अथैवं ततः,—इत्यनर्थकम्, अधिकारादेव मांसाष्टकाकर्म्मणोलाभात्। नियमार्थं तर्हि। किं नियम्यते ? तस्मान्मांसाष्टकाकर्म्मणएव नान्यस्मादित्येतन्नियम्यते। किमर्थं पुनर्नियम्यते ? अधिकाशङ्कानिरासार्थमित्याह। का पुनरत्राधिकाशङ्का? उच्चते। सप्तमीतावदुपाष्टका, अष्टमी अष्टका, नवमी चान्वष्टकेतिभण्यते। तथाचअन्वष्टकायांभवम् अन्वष्टक्यम्, —इति समाख्याबलात्सर्व्वास्वेचाष्टकासु अन्वष्टक्यं कदाचिदापातेन प्रतिभायात् कस्यचित्। सेयमधिकाशङ्का। तन्निरासार्थं ततइत्युक्तम्॥ ०॥ १॥ ०॥
अपरश्वो वा॥ २॥
अपरश्वः –एकान्तरिते अहनि वा अन्वष्टक्यंकर्त्तव्यम्। तिथिवृद्धिपक्षेऽयं विकल्पः,—इति नवम्यामन्वष्टक्यवादिनः। दिनवादिनस्वाहुः,—अशक्तावयं विकल्पः, —इति॥ ०॥ २॥ ०॥
अथेदानीम् अन्वष्टक्यं कर्म्मविवक्षुराह,—
दक्षिणपूर्व्वेऽष्टमदेशे परिवारयन्ति॥ ३॥
वेश्मनो दक्षिणपूर्व्वेअष्टमदेशे उभयदिगष्टमभागे, —आनेय्यामितत्येतत्। परिवारयन्ति, सर्व्वतोभावेनाच्छादयन्ति कटादिभिःकिञ्चित् स्थानम्। बहुवचनादनियतः कर्त्ता॥ ०॥ ३॥०॥
कथं परिवारयन्ति ? उच्यते,—
तथाऽऽयतम्॥ ४॥
तथेति दक्षिणपूर्व्वाष्टमदेशोभण्यते। दक्षिणपूर्व्वाष्टमदेशायतं यथाभवति, तथा परिवारयन्ति। आयतमायामोदैर्घ्यमित्यनर्थान्तरम्। परिवृतस्योत्तरार्द्धदक्षिणार्द्धयोरुपरिष्टात् कर्म्मोपदेशात् दक्षिणपूर्व्वाष्टमदेशे दक्षिणोत्तरायसमेव स्थानं परिवृतंभवतीत्यशङ्कानिरासार्थं’तथाऽऽयतम्’—इति सूत्रयाञ्चकार। तस्मात्, ‘प्रकृतत्वाद्दक्षिणपूर्व्वकोणायतं भविष्यति किं सूत्रेण, —इत्यसङ्गतं वचनम्॥॥ ०॥ ४॥ ०॥
तथामुखैः कृत्थम्॥ ५॥
यद्वक्ष्यमाणं कर्म्म, तत् तथामुखैःदक्षिणपूर्व्वाष्टमदेशाभिमुखैःकृत्यं करणीयम्। लाघवार्थमत्रैतत् सूत्रितम्।लाघवार्थमत्रैतत् सूत्रितम्। अन्यत्र सूत्रणेहि दक्षिणपूर्वाष्टमदेशमुखैरिति सूत्रयितव्यं भवति॥ ०॥ ५॥ ०॥
कियत्परिमितं स्थानं परिवारयन्ति ? उच्यते,—
चतुरवरार्घ्यान्प्रक्रमान्॥ ६॥
चत्वारोऽवरार्घ्याःनिकृष्टा येषां, तान् चतुरवरार्घ्यान्प्रक्रमान्परिवारयन्ति। तदस्यातिक्रान्ततरेण सूत्रेण संबन्धो बोद्धव्यः।प्रक्रमः श्रवणाकर्म्मण्येव व्याख्यातः। एतदुक्तं भवति। सर्व्वनिकृष्टोऽयं पक्षः;—यच्चतुर्णांप्रक्रमाणां परिवारणम्, —इति। इच्छयापुनरधिकमपि परिवारयन्ति॥ ०॥ ६॥ ०॥
तस्य खलु परिवृतस्य,—
पश्चादुपसञ्चारः॥ ७॥
पश्चात् पञ्चिमदिशि उपसञ्चारः कर्त्तव्यः। उपसञ्चरत्यनेनेत्युपसञ्चारो द्वारमुच्यते॥ ०॥ ७॥ ०॥
उत्तरार्द्धेपरिवृतस्य लक्षणं कृत्वाऽग्निं प्रणयन्ति॥८॥
परिवृतस्य स्थानस्योत्तरार्द्धंपूर्वोक्तं लक्षणसंज्ञकं कर्म्मकृत्वा अग्निंप्रणयन्ति। बहुवचनात् कर्त्तुरनियमः। एवञ्चात्र यावदुक्तत्वाद्ब्रह्मासनादीनां निवृत्तिरवगम्यते। तथाच गृह्यासंग्रहः।
“एकाग्नौ पितृयज्ञे च ब्रह्माणं नोपकल्पयेत्।
सायं प्रातश्चहोमेषु तथैव बलिकर्म्मसु ”।
इति। इदमिदानीं सन्दिह्यते। किमेतदग्निप्रणयनं उपवीतिनाप्राङ्मुखेन करणीयम्, उत प्राचीनावीतिना दक्षिणपूर्व्वाष्टमदिङ्मुखेन ? —इति। उपवीतिना प्राङ्मुखेन,—इति ब्रूमः। कस्मात् ?“लक्षणावृदेषा सर्व्वत्र “—इति सर्व्वत्र-ग्रहणेन व्याप्त्यवगमात्।इह च, लक्षणं कृत्वा,—इति वचनस्यैवमर्थत्वात्। अन्यथा खल्वग्निप्रणयने लक्षणं प्राप्तमेवेति पुनर्व्वचनमनर्थकमेव स्यात्। तस्मात्,लक्षणे रेखानां प्राग्गतत्वानुरोधात् तत्र प्राङ्मुखकरणावधारणाच्च, अत्रापि प्राङ्मुख एव कुर्य्यादित्यवगच्छामः।यथा अन्यत्र लक्षणमुपवीतिना क्रियते, तथा अत्राप्यस्मिन् कर्म्मण्युपवीतिनैव भवितव्यम्। उपरिष्टात् खल्वाचार्य्यः,—“अत ऊर्द्ध्वंप्राचीनावीतिना”—इति कुर्व्वन्, अधस्तात् किञ्चित् कर्म्मप्राचीनावीतिना, किञ्चिदुपवीतिना, किञ्चिच्चोभयथैव कर्त्तव्यमित्युपदिशति। एतच्चोपरिष्टादेव व्याख्यास्यामः। अतएव कर्म्मप्रदीपः।
“दक्षिणं पातयेज्जानु देवान् परिचरन् सदा।
पातयेदितरज्जानु पितॄन् परिचरन्नपि”।
इति स्मरति। तदिदं वचनम्,—पितृकर्मान्तःपात्यपि देवपरिचरणं दक्षिणजानुपातेन, एवं देवकर्म्मान्तर्गतमपि पितृपरिचरणंइतरजानुपातेन करणीयम्,—इत्याह। कथं ज्ञायतेकथं ज्ञायते ? सदाशब्दस्यैवमर्थत्वात्। एवञ्च, जानुपातवदुपवीतित्वप्राचीनावीतित्वयोरपि तथैव वर्णयितुमुचितम्। कस्मात् ? कारणस्याविशेषात्।अग्निं किल देवमाचक्षते नैरुक्ताः॥ ०॥ ८॥ ०॥
** पश्चादग्नेरुलूखलं दृ
उत्तरशब्द उपरितनवचनः। सव्यः पाणिरुत्तरो दक्षिणञ्चाधरोययोः पाण्योः, ताविमौ सव्योत्तरौ, ताभ्यां सव्योत्तराभ्यांपाणिभ्यां मुषलेनावहन्ति। उक्तार्थमन्यत्। सकृत् संगृहीतमितिवचनात् अनुनिर्व्वापयोरत्र निवृत्तिमिच्छन्ति।व्रीहिग्रहणंहविरन्तरप्रतिषेधार्थम्। यद्यप्यत्र सकृत्संगृहीतस्य मुष्टिमात्रस्यग्रहणम् अवगम्यते, तथापि तथा गृह्णीयात् यथा होमस्यपिण्डानाञ्चाभिनिर्वृत्तिःस्यात्। कुतः ?कुतः ? ऐदमर्थ्याद्ग्रहणस्य।
अतएवाचार्य्यपुत्रेण,—
“चतुर्मुष्टिश्चरुः कार्य्यश्चतुर्णामुत्तरोऽपि वा”।
इति सामान्यत एवोपदिष्टम्। तदिदं हविर्निर्व्वपणानिकं प्राचीनावीती दक्षिणपूर्व्वाष्टमदिङ्मखः कुर्य्यात्। कुतः ? पित्र्यत्वात्।कस्मात् पुनः कारणात् सत्यपि देवतानां साधारण्ये पित्र्यत्वमेवहविषःकथ्यते ? प्राधान्यादित्याह। पितॄणांखल्वत्र कर्म्मणिप्राधान्यमवगम्यते। तस्मात् पित्र्यमिदं भवितुमर्हति। प्रधानवशाद्धिनियमो वर्षयितुमुचितः। कुतः पुनरत्र पितृणामेव प्राधान्यमवगम्यते न देवतानामपि ? तथामुखैः कृत्यमिति वचनात् — इतिब्रूमः।अपिच।हविषःसकृद्ग्रहणात् सव्योतराभ्यां पाणिभ्यामवहननात्, सकृत् फलीकरणात् यथा मांसाभिघाराःपिण्डाभवन्ति तथा मांसच्छेदनात्, प्रसव्यमुदायवनात्, दक्षिणस्यामुद्वासनात्,—इत्येवमादिभिरुपदेशशतैः पितृृणामेवात्र प्राधान्यमवगम्यते। मनुरपि स्मरति I
“देवकार्य्यात् द्विजातीनां पितृकार्य्यंविशिष्यते।
दैवं हि पितृकार्य्याणां पूर्व्वमाप्यायनं स्मृतम्”।
इति। तस्मात् पितृृणामेव प्राधान्यम्। एतच्चोपरिष्टात्तत्र तत्रस्फुटीभविष्यति।
इदमिदानींसन्दिह्यते। किमत्र पित्र्यत्वात् पितृभ्यस्त्वा जुष्टंनिर्व्वपामि,—इति मन्त्रेण निर्व्वपणम्, आहोस्वित् यावदुक्तत्वादमन्त्रकम्, उताहो आचार्य्यपुत्रपरिभाषाबलात् व्याहृतित्रितयेन ?—इति। पितृभ्यस्त्वा जुष्टंनिर्व्वपामि,—इति मन्त्रेण,—इति ब्रूमः।कस्मात् ? प्रकृतौ तथा दर्शनात्। लिङ्गाच्च। अग्नौकरणहोम-विचारश्लोके खल्वेतस्थार्थस्य लिङ्गमुपलभ्यते। तथाचकर्म्मप्रदीपः।
“अपसव्येन वा कार्य्योदक्षिणाभिमुखेन तु
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते”।
इति। एतस्मात् लिङ्गात् मन्त्रवद्ग्रहणमवगम्यते। पित्रर्थंनिर्व्वापःखल्वस्य हविषःहेतुतयोपन्यस्यते। तच्चैवं सति आञ्जस्योनोपपद्यते। तथाच पुराणस्मरणम्।
“अग्निमान् निर्व्वपेत् पित्र्यंचरुं वा शस्यमुष्टिभिः।
पितृभ्यो निर्व्वपामीति सव्यं दक्षिणतोन्यसेत्”।
इति॥ ०॥ ९॥ ०॥
यदा वितुषाः स्युः॥ १०॥
यदा यस्मिन् काले वितुषाःविगततुषाः स्युर्भवेयुः॥ ०॥ १०॥ ०॥
सकृदेव सुफलीकृतान् कुर्व्वीत॥ ११॥
सकृदेकवारमेव, सुफलीकतान्—सुशब्दःशोभनवचनः, शोभनंयथा भवति तथा फलीकृतान् निष्पन्नीकृतान् तण्डुलान् कुर्व्वीतपूर्व्वमेव खल्ववघातेन तण्डुला निष्पन्नाः। इदानीन्तु शोभनंनिष्पन्नीकरणमुपदिश्यते। तेन प्रच्छट्टनमिदानीं कुर्व्वीत। कंबूकापनयनं वा फलीकरणमुच्यते। सूफलीकृतानपनीतसमस्तकंबूकानित्यर्थः॥ ०॥ ११॥ ०॥
अथामुष्माच्चसक्थ्रोमा
अथशब्द आनन्तर्य्यार्थः। अथ, तण्डुलप्रक्षालनानन्तरम्। प्रक्षालनञ्च सकृदेव स्यात्। हविषःपित्र्यत्वात्। व्यवहितस्यापिबुद्ध्यासन्रिकृष्य अमुष्मादित्यनेन परामर्शः। अथशब्दःपूर्व्वप्रकृतार्थोवा।अमुष्मात् पूर्व्वप्रकृतात् मांसाष्टकायां निहितात् सक्थ्रः,चशब्दात् क्लोनश्च, मांसपेशीं,—मांसपेशी प्रसिद्धा, तां अवकृत्यअवच्छिद्य, नवायां सूनायां,—सूना नाम काष्ठमयःपात्रविशेषः,तस्यां सूनायां अणुशः सूक्ष्मं सूक्ष्मं कृत्वा छेदयेत्॥०॥ १२॥०॥
कथं छेदयेत् ? उच्यते,—
यथा मा
यथा येन प्रकारेण मांसाभिघाराःमांसव्यञ्जनाः पिण्डा भविष्यन्ति, इति तथा छेदयेत्॥ ०॥ १३॥ ०॥
तस्मिन्नेवाग्नौ श्रपयत्योदनचरुञ्च मा
प्रसव्यं अप्रदक्षिणम्।कृतभाष्यमन्यत्। अत्रापि, मांसाभावेपायसःस्यात्। तदिदमुक्तमस्माभिरधस्ता देव, “ओदनव्यञ्जनार्थन्तु” — इत्यादिना॥ ०॥ १४॥ ०॥
शृतावभिघार्य्यदक्षिणोद्वास्य न प्रत्यभिघारयेत्॥ १५॥
दक्षिणा दक्षिणस्याम्। गतमन्यत्॥ ०॥ १५॥ ०॥
दक्षिणार्द्धेपरिवृतस्य तिस्रः कर्षूःखानयेत् पूर्व्वोपक्रमाः॥ १६॥
परिवृतस्य स्थानस्य दक्षिणार्द्धेदक्षिणांशे, तिस्रः विसंख्याकाःकर्षूःकेनचित् खानयेत्। अन्यस्य पुनरसम्भवे स्वयमपि खनेत्।कर्षूर्नाम अवटो गर्त्त इत्यनर्थान्तरम्। कथम्भूताः ? पूर्वोपक्रमाः। पूर्व्वस्यां दिश्युपक्रमो यासां ताः, तथाविधाः,—इत्यर्थः।तथाच, पूर्व्वस्यां दिश्युपक्रम्य पश्चिमायां दिशि खननं समापनीयम्। पित्र्यत्वात् प्रसव्यखननमित्यभिप्रायः। अथवा। उपक्रम्यते,—इत्युपक्रमः। पूर्व्वा कर्षूरुपक्रमो यासां कर्षूणां, ताः तथोक्ताः।तथाभूताः खानयेत्। का पुनःपूर्व्वा ? या खल्वात्मनःपुरतः क्रियते। एतदुक्तं भवति। प्रथमतः पूर्व्वां कर्षूंखानयेत्, ततो मध्यमां, तत उत्तमाम्, —इति। तथा चोक्तम्।
“पुरतो याऽऽत्मनः कर्षूःसा पूर्व्वापरिकीर्त्त्यते।
मध्यमा दक्षिणेनास्यास्तद्दक्षिणत उत्तमा”।
इति।तथाच, इमाःकर्ष्वोदक्षिणसंस्था भवन्ति। खननञ्चामूषां शङ्कुना करणीयम्। स च,—
“शङ्कुश्चखादिरःप्रोक्तो रजतेन विभूषितः।
शङ्कुश्चैवोपवेशश्चद्वादशाङ्गुल इष्यते”।
इति कर्म्मप्रदीपोक्तलक्षणः॥ ०॥ १६॥ ०॥
कीद्रुशीःकर्षूःखानयेत् ? उच्यते,—
प्रादेशायामाश्चतुरङ्गुलपृथ्वीस्तथाऽवखाताः॥ १७॥
प्रादेशायामाःप्रादेशदीर्घाः। पृथुशब्दो धर्म्मवचनः। चतुरङ्गुलंपृथु यासां, ताः चतुरङ्गुलपृथ्वीः। पृथु पृथुत्वं परिणाहः,—इत्येतत्। तथा चतुरङ्गलं अवखातं यासां, ताः तथाऽवखाताः।विशेषमाह कर्म्मप्रदीपः।
“वाय्वग्निदिङ्मुखान्तास्ताःकार्य्याःसार्द्धङ्गुलान्तराः।
तोक्ष्णाग्रा यवमध्याय मध्ये नावइवोत्किरेत्”।
इति॥ ०॥ १७॥ ०॥
पूर्व्वस्याः कर्ष्वाःपुरस्ताल्लक्षणं कृत्वाऽग्निं प्रणयन्ति॥ १८॥
ऋजुरचरार्थः। अत्रापि, लक्षणग्रहणस्य पूर्व्वोतमेव प्रयोजनंबोद्धव्यम्। बहुवचनात् कर्त्तुरनियमः॥ ०॥ १८॥ ०॥
कञ्चिदव विशेषमाह,—
अपरेणकर्षूःपर्व्याहृत्य लक्षणे निदध्यात्॥ १९॥
अपरया अदूरवर्त्तिन्या दिशा,—इत्यर्थे एणप् प्रत्ययान्तोऽयमपरेणशब्दः तद्योगात् कर्षूरिति द्वितीया। तथाच, अयमर्थः।कर्षूणामदूरवर्त्तिन्या पश्चिमया दिशा, अग्निं पर्य्याहृत्य सर्व्वतोभावेनाहृत्य लक्षणे निदध्यात्॥ ०॥ १९॥ ०॥
सकृदाच्छिन्नं दर्भमुष्टि
आच्छिन्नं आ सम्यक्,–उपमूले च्छिन्नं दर्भमुष्टिं, सकृदेकवारंं स्तृणोति,–“पश्चाद्वाऽऽस्तीर्य्य”—इत्युक्तया रीत्या; प्रकृतस्याग्नेश्चतुर्द्दिक्षु। अत्र, आच्छिन्नमिति वचनस्यार्थवत्त्वार्थमुपमूललूनत्वावगमात् तस्य च पित्रर्थत्वात् प्राचीनावीतिनैतत् कर्त्तव्यम्,—इत्यवगम्यते॥ ०॥ २०॥ ०॥
कर्षूश्च॥ २१॥
स्तृणोति,—इत्यनुवर्त्तते॥ ०॥ २१॥ ०॥
किमनियमेन ? न। कथन्तर्हि ?—
पूर्वोपक्रमाः॥ २२॥
व्याख्यातोऽक्षरार्थः। अत्र किञ्चिद्वक्तव्यमस्ति। कर्षूणां स्तरणंखल्विदं दक्षिणपूर्व्वाष्टमदिगग्रैःकुशैःदक्षिणान्तादारभ्य करणीयम्। तदाह कर्म्मप्रदीपः।
“अग्न्याशाग्रैः कुशैःकार्य्यंकर्षूणां स्तरणं घनैः।
दक्षिणान्तात्तदग्रैस्तु पितृयज्ञेपरिस्तरेत्”।
इति। इदमिदानीं सन्दिह्यते। किमभितः कर्षूणां स्तरणंकर्त्तव्यम् ? आहोस्विन्मध्यतः?—इति। अग्निवदभितः,—इतिब्रूमः। कुतः ? अग्निस्तरणसमभिव्याहारेणोपदेशात्तथाऽवगतेः।अग्नेःखल्वभित एव स्तरणमिति तावन्निर्व्विवादम्। तत्सामान्यात्कर्षूणामपि तथैव स्तरणमित्ययमर्थोऽस्माकमागच्छनि हृदयम्।आगच्छति चेत्, न युज्यते विना कारणमुत्स्रष्टुम्। लेखाकरणोपपत्तेश्च। कर्षूणां मध्यतः किल लेखाकरणं वक्ष्यामः। तदुपपत्तये च अभितः कर्षूणां स्तरणमिति प्रतिपद्यामहे। न खलुकुशैःस्तृतानां कर्षूणां मध्यतो लेखा कर्त्तुं शक्यते। अपरे पुनरेतदविद्वांसो भाषन्ते,–स्तरणमिदं कर्षूणां मध्यतः करणीयम्,-इति॥ ०॥ २२॥ ०॥
पश्चात् कर्षूणा
व्याख्यातप्रायमेतत्॥ ०॥ २३॥ ०॥
केन?—
दक्षिणाग्रैःकुशैः॥ २४॥
ऋज्वर्थंसूत्रम्॥ ०॥ २४॥ ०॥
कीदृशं स्वस्तरमास्तारयेत् ?—
दक्षिणप्रवणम्॥ २५॥
इदमपि व्याख्यातप्रायमेव॥ ०॥ २५॥ ०॥
वृषीञ्चोपदध्यात्॥ २६॥
वृषी नाम काष्ठमयो द्वादशाङ्गुलपरिमित आसनविशेषः, उपवेशश्चाख्यायते। ताञ्च उपदध्यात् स्थापयेत्। चशब्दःस्वस्तरेण सम्बन्धकरणार्थः। तेन, स्वस्तरोपरि वृष्या उपधानम्, —इतिकेचित्। चशब्दात् उपशब्दाच्च स्वस्तरस्योप समीपे व्रुषींदध्यात्।अतएव परतः स्वस्तरोपरि द्रव्याणामासादनं सूत्रयिष्यते। अस्याअपि स्वस्तरोपर्य्येवासादने इदमपि तत्रैवासूत्रयिष्यत्, अत्रैव वास्पष्टार्थं’तत्र’ ग्रहणमकरिष्यदाचार्य्यः। तदकरणादवगच्छामः, —नास्याःस्वस्तरोपर्य्यासादनम्, —इति। एवमपरे। तदत्रभगवन्तोभूमिदेवाः प्रमाणम्। उपदध्यादिति वचनादुपधानमेवास्याःकर्त्तव्यमदृष्टार्थं, न पुनरुपवेशनार्थं तदासादनमिति नारायणोपाध्यायप्रभृतयः॥ ०॥ २६॥ ०॥
तत्रास्मा आहरन्त्येकैकशः सव्यं बाहुमनु॥ २७॥
तत्र,—इत्यतिक्रान्तस्य स्वस्तरस्य परामर्शो न वृष्याः। कथंज्ञायते ? “स्वस्तरे सर्व्वमासाद्य”—इति परिशिष्टकारवचनात्।तत्र स्वस्तरे वक्ष्यमाणानि द्रव्याण्येकैकशःआहरन्ति। कथमाहरन्ति ? अस्मै सव्यं बाहुमनु। अस्मै,—इत्यत्र " षष्ट्यर्थेचतुर्थीवक्तव्या”—इति वचनात् षष्ठ्यर्थेचतुर्थी। अस्य यजमानस्य सव्यंबाहुं अनु लक्ष्मीकत्य,—अप्रादक्षिण्येनेत्यर्थः। अथवा।इति तादर्थ्येचतुर्थी।यजमानाय, अन्ये शिष्यादय आहरन्ति। समानमन्यत्। अन्यस्य पुनरसम्भवे स्वयमेवाहरेत्॥ ०॥ २७॥ ०॥
कानि पुनस्तानि द्रव्याणि ? उच्यते, —
चरुस्थाल्यौमेक्षणे क
ओदनचरुमांसचरुसहिते पूर्व्वोक्ते चरुस्थाल्यौआहरन्ति। एवमुत्तरत्रापि। इतिकार-करणात् अन्येषामप्यनपिञ्जूलीयवतिलपुष्पप्रभृतीनां येषामुपरिष्टाद्विनियोगः सूत्रयिष्यते, इह चासादनं कण्ठतो नोक्तं, तानि चासादयन्ति॥ ०॥ २८॥ ०॥
पत्नी वर्हिषि शिलां निधाय स्थगरं पिनष्टि॥ २९॥
स्थगरंचन्दनादिगन्धद्रव्यम्। तथा चोक्तम्।
“स्थगरं सुरभि ज्ञेयं चन्दनादि विलेपनम्”।
इति। स्पष्टमन्यत्॥ ०॥ २९॥ ०॥
तयाञ्चैवाञ्ञ्जनं निघृष्य तिस्रो दर्भपिञ्जलीरञ्जयतिसव्यन्तराः॥ ३०॥
तस्यामेव शिलायाम्,—एवशब्दाद्वर्हिषि निहितायां, चशब्दात्प्रकृता पत्नी, अञ्जनं निघृष्य विशेषेण घर्षयित्वा। निघर्षणोपदेशात् अञ्जनपदेन सौवीराञ्जनमभिप्रेतमित्यवगच्छामः। कुतः?इतरस्य घर्षणानुपपत्तेः। तथा चोक्तम्।
“सौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम्”।
इति। तेनैवाञ्जनेन तिस्रः त्रिसंख्याकाः, दर्भपिञ्जूलीःपूर्वोक्तलक्षणाःअञ्जयति स्रक्षययि पत्नी। किं यथेच्छम् ? न।कथन्तर्हि ? सव्यन्तराः। विशेषेणान्तरमवकाशोव्यन्तरं तत्सहिताः सव्यन्तराः। श्वाविच्छलाकावदिति यावत्। अथवा।सव्यशब्दो नानावचनः। तेन, नानाऽन्तराः,—इति पूर्व्वोक्तएवार्थः॥ ०॥ ३०॥ ०॥
तैलञ्चोपकल्पयेत्॥ ३१॥
चशब्दात् स्वस्तर एव। तदस्यातिक्रान्तेन स्वस्तरेण सम्बन्धोबोद्धव्यः॥ ०॥ ३१॥ ०॥
क्षौमदशाञ्च॥ ३२॥
अतसीसूत्रदशाञ्च स्वस्तर एवोपकल्पयेत्॥ ०॥ ३२॥ ०॥
शुचौ देशे ब्राह्मणाननिन्द्यानयुग्मानुदङ्मुखानुपवेश्य॥ ३३॥
शुचौ पवित्रे, देशे—गोमयेनोपलेपिते। कथं ज्ञायते ?
“शुचिं देभं विविक्तञ्च गोमयेनोपलेपयेत्”।
इति मनुस्मरणात्। ब्राह्मणान्, ब्राह्मणग्रहणात्क्षत्रियादिप्रतिषेघः। अनिन्द्यान्,—निन्द्याःनिन्दार्हाः, ते न भवन्तीत्यनिन्द्याः,तान् अनिन्द्यान्। अयुग्मान् विषमसंख्याकान्,—बहुवचनात्त्रिप्रभृतीन्, उदङ्मुखान् उपवेश्य। उपवेशनञ्चामीषां कर्षूणां दक्षिणतःस्यात्। एवं खल्वग्रतो ब्राह्मणानां कर्षूपिण्डा भविष्यन्ति।
इदमिदानींसन्दिह्यते। किमत्र वैश्वदेवार्थं ब्राह्मणमुपवेशयेत्, उत यावदुक्तत्वान्न ?—इति। तत्र, अविधानादिह वैश्वदेवस्यैवाभावः,—इति केचित्। तदसङ्गतम्। कस्मात् ? वैश्वदेवपूर्व्वस्यैव श्राद्धस्य शास्त्रान्तरे विधानात्। तथाच मनुः।
“तेषामारक्षभूतन्तु देवं पूर्व्वं नियोजयेत्।
रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्ज्जितम्”।
इति। “स्नातान् शुचीनाचान्तान् प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान् यथाशक्ति पित्र्ये”—इति, “दैवपूर्व्वं श्राद्धं कुर्वीत”—इति चास्मदीये श्राद्धकल्पे यावदुक्तेक्रियमाणे तु ब्राह्मणानामुपवेशनमात्रं स्यात् न भोजनम्। न चैवमिष्यते। इष्यत एवेतिचेत्। न। कुतः ? “वृद्धिपूर्त्तेषु युग्मानाशायेत् “–इति विशेषोपदेशादत्रायुग्मानां ब्राह्मणानामाशनावगतेः। “योवा तेषां ब्राह्मयानामुच्छिष्टभाक् स्यात्”–इति च लिङ्गात्। तस्मात्,—श्राद्धकल्पस्यापेक्षितत्वात् —वैश्वदेवार्थं युग्मान् ब्राह्मणान् प्राङ्मुखानुपवेश्य ततः पितृब्राह्मणानुपवेशयेत्,—इति सिद्धान्तः। तथाचकर्म्मप्रदीपः।
“स्वस्तरे सर्व्वमासाद्य यथावदुपयुज्यते।
दैवपूर्व्वन्ततः श्राद्धमत्वरः शुचिरारभेत् ”।
इति। किमर्थं तर्हिवैश्वदेवस्यासूत्रणम् ? उच्यते। प्रधानस्यपितृयन्त्रस्य सूत्रणे तदङ्गं वैश्वदेवमसूत्रितमपि प्राप्यत एवेति मन्यमानःखल्वाचार्य्योनात्र वैश्वदेवं सूत्रयाञ्चकारेति श्लिष्यते।अथवा। अनिन्द्यानित्यनेन ब्राह्मणपरीक्षां सूचयन् दैवञ्चात्रासूत्रयन् दैवे ब्राह्मणपरीक्षा नास्तीति दर्शयति। तथाच मनुः।
“ब्राह्मणं न परीक्षेत दैवे कर्म्मणि धर्म्मवित्।
पित्र्येतु कर्म्मणि प्राप्ते परीक्षेत प्रयत्नतः”।
इति॥ ०॥ ३३॥ ०॥
दर्भान् प्रदाय॥ ३४॥
दर्भानासनेषु दत्त्वा। तथा चास्मदीयं श्राद्धकल्प-सूत्रम्।“आसनेषु दर्भानास्तीर्य्य”–इति। आदिशब्दोऽत्र लुप्तवत् द्रष्टव्यः। तेनदर्भादीनर्घ्यपर्य्यन्तान् प्रदाय—अर्घ्यपर्यन्तं कर्म्मकृत्वा,–इत्येतत्।तथाच कर्म्मप्रदीपः।
“आसनाद्यर्घ्यपर्य्यन्तं वशिष्ठेन यथोदितम्।
कृत्वा कर्म्माथ पात्रेषु उक्तं दद्यात्तिलोदकम्”।
इति॥ ०॥ ३४॥ ०॥
** उदकपूर्व्वन्तिलोदकं ददाति पितुर्नाम गृहीत्वाऽसावेतत्ते तिलोदकं ये चात्र त्वामनु या
उदकं पूर्व्वं यस्य तदुदकपूर्व्वं तिलोदकं तिलमिश्रमुदकं ददाति।एतदुक्तं भवति। प्रथमं केवलमुदकं दत्त्वा ततस्तिलमिश्रमुदकंददाति—इति। केन मन्त्रेण ददाति ? असावेतन्ते तिलोदकमित्यनेन मन्त्रेण। किं कृत्वा ? असौ—इत्येतस्मिन् मन्त्रस्थानेसम्बोधन विभक्त्या पितुर्नाम गृहीत्वा उच्चार्य्येति प्राञ्चः। नैतत् समीचीनम्। कस्मात् ? ‘पितुर्नाम गृहीत्वा’ –इति नामग्रहणमुपदिश्य’असावेतन्ते’ –इत्यसावित्यस्य पुनरुपदेशस्यार्थवत्त्वोपपत्तेः। न हि’असौ’ –इत्यत्र ‘पितुर्नाम गृहीत्वा’ —इत्यस्यां वर्णनायां किञ्चित्प्रमाणमस्ति। “असाविति नाम गृहाति” –इति कात्यायनसूत्रं प्रमाणमिति चेत्। न। ‘पितुर्नाम गृहीत्वा” – इत्यस्यानर्थकत्वापत्तेः। शास्त्रान्तरपरिभाषायाश्च शास्त्रान्तरेऽनुपयोगात्।तस्मात्। ‘एतत्ते’—इति ‘तस्मै ते –इति च द्वयं यथा प्रयुज्यते, तथा अमुकशर्म्मन्नसावेतत्ते इति द्वयमेव प्रयोक्तव्यंभवत्यदृष्टार्थम्। प्रत्यक्षोपस्थितेनादः पदार्थेन ब्राह्मणेन समं पितुरभेदबुद्ध्यर्थञ्चेत्यादरणीयम्।
“नामग्रहनवचनमेकदेशोत्कीर्तनाभिप्रायम्। तेन गोत्रादेरप्युल्लेखः”–इति वदन्ति। तथा चास्मदीयं स्नानसूत्रपरिशिष्टम्।
“गोत्रं स्वरान्तं सर्व्वत्र गोत्रस्याक्षय्यकर्म्मणि।
गोत्रस्तु तर्पणे प्रोक्तःकर्त्ता एवं न मुह्यति।
सर्व्वत्रैव पितः प्रोक्तं पिता तर्पणकर्म्मणि।
‘पितुरक्षय्यकाले तु कर्त्ता एवं न मुह्यति।
शर्म्मन्नर्घ्यादिके कार्य्येशर्म्मातर्पणकर्म्मणि।
शर्म्मणोऽक्षय्यकाले तु कर्त्ता एवं न मुह्यति”।
इति। इदञ्चतिलोदकदानं पात्रेष्वेव कर्त्तव्यं न ब्राह्मणहस्तेषु।कस्मात् ? " पात्रेषु उक्तं दद्यात्तिलोदकम् “—इति वचनात्।तिलोदकदानपात्रञ्च —
“आसुरेण तु पात्रेण यस्तु दयात्तिलोदकम्।
पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च
कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम्।
तदेव हस्तघटितं स्थाल्यादि दैविकं स्मृतम्”।
इत्युक्तलक्षणं बोद्धव्यम्। आह। किमानन्तर्य्यात् तिलोदकमेवमन्त्रेण ददाति, उत केवलोदकमपि ?—इति। तिलोदकमेव,—इति ब्रूमः।कस्मात् ? आनन्तर्य्यादेवः। तथाच कर्म्मप्रदीपः।
“तूष्णीं पृथगपो दद्यान्मन्त्रेण तु तिलोदकम्”।
इति॥ ०॥ ३५॥०॥
अप उपस्पृश्यैवमेवेतरयोः॥ ३६॥
अप उदकं, उपस्पृश्य स्पृष्ट्वा, एवमेव तूष्णीमुदकदानपूर्व्वकं मन्त्रेणतिलोदकदानं, इतरयोः पितामहप्रपितामहयोः, नाम गृहीत्वाकर्त्तव्यम्।तिलोदकदानाच्चपरतो गन्धोदकमपि मन्त्रेण पात्रेष्वेव दद्यात्। तथा चोक्तम्।
“तूष्णीं पृथगपो दद्यान्मन्त्रेण तु तिलोदकम्।
गन्धोदकञ्च दातव्यं सन्निकर्षक्रमेण तु “।
इति। अत्र च, ‘गन्धोदकञ्च’—इति चकारं कुर्व्वन् गन्धोदकस्यापि, तिलोदकवत् मन्त्रेण पात्रेषु दानं बोधयति। “अस्मिन्नवसरे तिलगन्धोदकैः पात्राणां पूरणं कर्त्तव्यम्। उपयोगस्त्ववनेजमार्थतया पश्चात् सूत्रयिष्यति”—इतिनारायणोपाध्यायाः॥॥ ०॥ ३६॥ ०॥
तथा गन्धान्॥ ३७॥
तथा तेनैव प्रकारेण –नामग्रहणपूर्व्वकं मन्त्रोच्चारणेनेत्यर्थः।गन्धान् –बहुवचनात् गन्धादीन्, ददाति। दानञ्चामीषां ब्राह्मणइस्तेष्वेव न पात्रेषु। कस्मात्।
“गन्धान् ब्राह्मणसात् कृत्वा पुष्पाण्यृतुभवानि च।
धूपञ्चैवानुपूर्व्व्येणअग्नौ कुर्य्यादतः परम्”।
इति कर्म्मप्रदीपवचनात्॥ ०॥ ३७॥ ०॥
अग्नौ करिष्यामीत्यामन्त्रण
होष्यतःहोमं करिष्यतो यजमानस्य अग्नौ करिष्यामि’ –इत्यामन्त्रणं कर्त्तव्यम्। ननु, आमन्त्रणं करोति, –इति वक्तव्येकिमर्थं होष्यतः,—इति विभक्त्यतिक्रमः क्रियते ? उच्यते।आमन्त्रणं करोति, —इत्युक्ते गन्धादिप्रदानादनन्तरमेव आमन्त्रणं स्यात्। होष्यतः, —इति तु कुर्व्वन् होमं करिष्यत एवआमन्त्रणं न गन्धादिप्रदानात् परत एव, —इत्युपदिशति। तेन,मध्ये अन्यदपि किञ्चित् कर्म्म अस्ति,—इत्यवगच्छामः। किं तत् ?भूमिशोधनमण्डलकरणादि। तदिदमर्थं होष्यतः, –इति विभत्यतिक्रमः क्रियते। एवमेके। ‘अग्नौकुर्य्यादतः परम्”—इतिवचनान्नात्रास्मिन्नवसरे भूमिशोधनादि। एवमपरे। तदत्रभगवन्तो भूमिदेवाः प्रमाणम्।
तदिदमामन्त्रणं सर्व्वेषां ब्राह्मणानां सकृदेव स्यात्,प्रधानस्यैकस्यैव वा। कस्मात् ? “सर्व्वत्रप्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छतिसर्व्वान् वा “—इति ग्रन्थान्तरात्॥ ०॥ ३८॥ ०॥
तैश्च ब्राह्मणैः,—
** कुर्व्वित्युक्ते क
ऋजुरक्षरार्थः। अत्र किञ्चिद्वक्तव्यमस्ति। यथानिर्देशमेवैष होमःकर्त्तव्यः, न पुनर्मन्त्रान्ते स्वाहाकारःप्रयोक्तव्यः। परन्तु, स्वाहाकारेण हुत्वा पश्चात् सोमाय पित्रुमते, — इत्यादि मन्त्रशेषःसमापनीयः। ॐकारश्चप्रत्येकं मन्त्रादौ न करणीयः। तथाचकर्म्मप्रदीपः।
‘स्वाहां कुर्य्यान्न चात्रान्ते न चैव जुहुयाद्धविः।
स्वाहाकारेण हुत्वाऽग्नौ पश्चान्मन्त्रं समापयेत्”।
इति।
“नोङ्गुर्य्याद्धोममन्त्राणां पृथगादिषु कुत्रचित्।
अन्येषाञ्चाविकृष्टानां कालेनाचमनादिना”।
इति च। अत्राह। निर्देशसामर्थ्यादेव पूर्वोत्तरत्वे सिद्धे,पूर्व्वाम्—इति, उत्तराम्—इति च, वचनमनर्थकम्। अथोच्यते,कारणं वक्तव्यम्।उच्यते। “अग्नये च सोमाय च जुहोति”—इत्यध्वर्य्युशाखादिषु देवताविपर्य्यासः श्रूयते, तन्निरासार्थमाचार्य्यः"पूर्व्वाम्” “उत्तराम्” –इत्याह।इदमिदानींसन्दिह्यते। किमयमग्नौकरणहोमःप्राचीनवीतिना कर्त्तव्यः, आहोस्विदुपवीतिना, उताहो अनियमेन ?—इति। अनियमेन, –इत्याह। कस्मात् ? इतः परं प्राचीनावीतिना कृत्योपदेशात्। इतः परं खल्त्वाचार्यःप्राचीनावीतिना कृत्यमुपदिशन् अत्राग्नौकरणहोमे प्राचीनावीतित्वोपवीतित्वयोरनियमं दर्शयति। तथाच कर्म्मप्रदीपः।
“अग्नौकरण होमश्च कर्त्तव्य उपवीतिना।
प्राङ्मुखेनैव देवेभ्यो जुहोतीतिश्रुतिश्रुतेः।
अपसव्येन वा कार्य्योदक्षिणाभिमुखेन च।
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते”।
इति। तथाच श्रूयते। “अग्नौकरणहोमे प्राचीनावीती भूत्वा”—इत्यादि। “स उद्वास्याग्नौ द्वेआहुती जुहोति देवेभ्यः” –इतिच माध्यन्दिनीये ब्राह्मणे।
“अग्निमान् निर्व्वपेत् पूर्व्व चरु वा शस्यमुष्टिभिः।
पितृभ्यो निर्व्वपामीति सर्व्वं दक्षिणतो न्यसेत्”।
इति च मात्स्ये पुराणे। तस्मादुभयस्वरसाद्विकल्पः,—इति परिशिष्टकृतःकात्यायनस्याभिप्रायः। तस्मात्, —ऊर्द्ध्वंप्रचीनावीतित्वोपदेशात् अग्नौकरणहोमे प्राचीनावीतित्वोपवीतित्वयोरनियमः, –इति सूत्रकारस्याभिप्रायोऽस्पष्टः परिशिष्टकता स्पष्टीकृतः,इति भट्टनारायणशूलपाणिरघुनन्दना- दिमतमादरणीयम्।
यच्चवर्णितम्, —“येषान्तिस्रआहुतयो हूयन्ते, येषांचाग्निः पूर्व्वमिज्यते, स्वधाकारान्ताश्चमन्त्राः, तद्विषयं प्राचीनावीतित्वम्।येषान्तु द्वेआहुती, सोमश्च पूर्व्वं हूयते, स्वाहाकारान्ताश्च मन्त्राः, तेषामुपवीतित्वम्। ‘अथोपवीतीसोमं पितृमन्तमग्निं कव्यवाहनञ्च यजेत, प्राचीनावीती चेत् अग्निं पूर्व्वं,स्वाहास्थाने स्वधापदञ्च दत्त्वा जुहोति’ –इति सूत्रान्तरात्”—इति। तदसङ्गतम्। अस्मद्गृह्येसोमपूर्व्वाहुतिद्वयस्यैव सूत्रणात्। अस्मत्परिशिष्टकारणैव द्वयोरेव पक्षयोः स्वहस्तितत्वाच्च। अपिच।अग्न्याद्याहुतित्रयपक्षएवोपवीतित्वं दृश्यते। तथाच मत्स्यपुराणे, –
“अग्नेःसोमयमाभ्याञ्च कुर्य्यादाप्यायनं बुधः”।
इत्यभिप्राय,—
“यज्ञोपवीती निर्व्वर्त्यततः पर्य्युक्षणादिकम्।
प्राचीनावीतिना कार्य्यमतः सर्व्वंविजानता”
इत्युक्तम्। आदिपदाद्धोम उक्तः,—इति वाचस्पतिमिश्राः। तथा तैत्तिरीयशाखायामापस्तम्बसूत्रम्। “अथ पुनरुपवीतीदक्षिणजान्वाच्यमेक्षणेनोपस्तीर्य्यतेनावदायाभिघार्य्यसोमायपित्रुमते स्वधानम इति दक्षिणाग्नौजुहोति, यमायाङ्गिरसेस्वधानम इति द्वितीयाम्, अग्नये कव्यवाहनाय स्वधानमइति –तृतीयाम्” –इति। तथा सांख्यायनसूत्रम्। “दक्षिणजान्वाच्ययज्ञोपवीती प्रागासीनो मेक्षणेन जुहोति अग्नयेकव्यवाहनाय” –इत्यादि। तस्मात्, सूत्रान्तराणि तत्तच्छाखिनामेव प्राचीनावीतित्वादिकमुपदिशन्ति नास्माकम्।
यदपि शौनकवचनम् –
“स्वाहाकारेणहोमे तु भवेद्यज्ञोपवीतवान्।
तत्र प्रागग्नये हुत्वा पश्चात् सोमाय हूयते”।
इति। तदपि बह्वृचविषयम्।तथाचाश्वलायनकल्पसूत्रम्। “प्राचीनावीतीध्ममुण्समाधाय मेक्षणेनावदायावदानसम्पदा जुहुयात् सोमायपितृमते स्वधानमोऽग्नये कव्यवाहनाय स्वधानमइति, स्वाहाकारेण वाऽग्निं पूर्व्वंयज्ञोपवीती” –इति।
परिशिष्टीयवचनद्वयस्य व्यवस्थितविषयत्वं गोभिलीयानामग्नौकरणहोमे उपवीतित्वञ्च परिशिष्टप्रकाशकारःप्राह। तदपि नसमीचीनम्। न खलु व्यवस्थायां किमपि प्रमाणमुपलभामहे।शाखान्तरविषयत्वाद्वचनान्तराणाम्। न खल्वत्र व्यवस्था परिशिष्टकारेण दर्शिता। कल्प्यते, —इति चेत्, यदृच्छोपनता खल्वियंकल्पना, न तु प्रमाणोपेता।एवं खल्वपहस्तितैव शास्त्रमर्यादा स्यात्। अस्मत् परिशिष्ट खल्वेतत् कात्यायनकृतंकर्म्मप्रदीपाख्यम्। कथं ज्ञायते ? अध्येतृसम्प्रदायप्रसिद्धेः।अतएव च्छन्दोगपरिशिष्टमित्याख्यायते। भवानपि नात्र विप्रतिपद्यते। एवञ्च, अस्माकमेवैष विकल्पःकात्यायनेनोपदिष्टः —इत्यकामेनापि वक्तव्यम्। न खल्वस्मत्परिशिष्ट शाखान्तरेषां विधिरुचितोवर्णयितुम्।
अस्मद्गृह्यकारेण परतः प्राचीनावीतित्वोपदेशात् व्यक्तमग्नौकरणहोमे उपवीतित्वं दर्शितम्, –इति ब्रुवाणोवाचस्पतिरपिअनादेयवागेव।कुतः ? परतः प्राचीनावीतित्वोपदेशस्य पुरतोनित्यवदुपवीतित्वाभिप्रायकत्वे प्रमाणाभावात्। तस्यानियममात्रपरताया एव परिशिष्टकृता स्पष्टीकृतत्वाच्च।परिशिष्टवचने सव्यापसव्ययोर्व्विकल्पः—इति सएवावाह।
“परिशिष्टीयं पूर्व्ववचनं पूर्व्वपक्षाभिप्रायं, उत्तरवचनन्तु सिद्धान्ताभिप्रायम्, अतएव तत्र सिद्धान्तद्योतनार्थो वाशब्दः” —इतिमहायशाः। तदप्यसङ्गतम्। कस्मात् ? वाशब्दस्य विकल्पार्थत्वात्।श्रुति-द्वैविध्येन विकल्पस्योपपन्नतरत्वाच्च। अपिच। एवं खल्वग्नौकरणहोमेऽपि नियमतःप्राचीनावीतित्वे, ‘अत ऊर्द्ध्वप्राचीनावीतिना’—इति सूत्रणमाचार्य्यस्यासङ्गतं स्यात्। तस्मादाचार्य्यविरुद्धोऽयं पक्षः। अलमतिप्रसङ्गेन।
प्रकृतमधुनोच्यते। अनग्निमता खल्वत्र पित्र्यब्राह्मणपाणौअग्नौकरणहोमः करणीयः। तथा चात्रैव कर्म्मणि कर्म्मप्रदीपः।
“पित्र्येयःपंक्तिमूर्द्धन्यस्तस्य पाणावनग्निमान्।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निः क्षिपेत्”।
इति। यच्च,—‘अग्निमतामेवात्राधिकारः। “अन्वष्टकास्वष्टकावदग्नौहुत्वा मात्रे पितामह्यैप्रपितामह्यैच पूर्व्ववद्ब्राह्मणान् भोजयित्वा”—इति विष्णुसूत्रे, “वह्नौहुत्वादद्यात् “—इति कात्यायनसूत्रे च, अग्निवचनात् विप्रपाण्यादेर्व्यवच्छेदात्। शरमयवर्हिषा कुशमयवर्हिर्बाधवत्। पितृयज्ञीयहोमस्य लौकिकाग्नौनिषेधाच्च’—इति तत्त्वकारेणोक्तम्। तन्नसमीचीनम्। कस्मात् ?अस्मत् परिशिष्टकारेण अस्मिन्नेव कर्म्मणि अनग्निमतो विप्रपाणौहोमोपदेशात्। आचार्य्येणापि ‘जुहुयात्’—इति सूत्रितं,न पुनर् ‘अग्नौ जुहुयात्’–इति। अग्नौ होमोपदेशस्तु कठादिशाखिविशेषाणामेव नामाकम्। कथं ज्ञायते ? विष्णुप्रभृतीनांतत्सूत्रकारत्वात्। ‘अन्वष्टकासु’—इति बहुवचनोपन्यासाच्च।मध्यमायां खल्वस्माकमन्वष्टक्यकर्म्म, —इत्यवोचाम। न खलुस्वशास्त्रोपरोधेन परशास्त्रादरणं कर्त्तुंमुचितम्। तथात्वेवा,तदुक्तमात्रादिश्राद्धमप्यस्माकं स्यात्। न चैवमिष्यते। तस्मादरणीयमेतत्।
अस्मिन्नेवावसरे पात्रेषु हुतशेषदानादिकं करणीयम्। कुतः?“तूष्णीं पात्रेषु निःक्षिपेत्”—इत्यादिवचनात्। ब्राह्मणभोजनादिकमप्यस्मिन्नेवावसरे कर्त्तव्यम्। न च अनुपदेशात् नास्त्येवब्राह्मणभोजनादिकम्–इति वक्तव्यम्। तस्यास्मत्श्राद्धकल्पादिसिद्धत्वात्। “यो वा तेषां ब्राह्मणानामुच्छिष्टभाक् स्यात्—इति च लिङ्गात्। ब्राह्मणोपवेशनस्य पात्रेषु हुतशेषदानादेश्चार्थवत्त्वोपपत्तेश्च। प्रमाणान्तराणि विचारान्तराणि चास्माभिर्ग्रन्थगौरवभयादुपेक्षितानि बुद्धिमद्भिरूहणीयानि॥ ०॥ २८॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौगोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य द्वितीया खण्डिका समाप्ता॥०॥
_________________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके तृतीया खडिका।
अत ऊर्द्ध्वंप्राचीनावीतिना वाग्यतेन कृत्यम्॥ १॥
ऋजुरक्षरारः। वाग्यमनोपदेशात् मनसैव मन्त्रोच्चारणम्। “वाग्-यतेन,—इति लौकिक्या वाचः प्रतिषेधो न मन्त्राश्रयायाः, मन्त्रोपदेशसामथ्यात्”—इति केचित्। तत्तु नातीव समीचीनम्। कुतः ?इतः पूर्व्वमपि तदविशेषात्। न खलु कृत्यमध्ये लौकिक्या वाचःकथनं शिष्टैरनुमन्यते॥ ०॥ १॥ ०॥
सव्येन पाणिना दर्भपिञ्जूलीगृहीत्वा दक्षिणाग्रांलेखामुल्लिखेदपहता असुराइति॥ २॥
सव्येन वामेन पाणिना दर्भपिञ्जूलींपूर्वोक्तलक्षणां गृहीत्वादक्षिणाग्रां लेखां—रेखां उल्लिखेत् कुर्य्यादित्यर्थः। प्रत्ययार्थमात्रविवक्षा।अपहता इति मन्त्रेण।कस्मिन् लेखामुल्लिखेत् ?कर्षूणां मध्यतः,–इति ब्रूमः। कुतः ? प्रकृतत्वात्। पिण्डदानार्थंहि लेखोल्लेखनम्। पिण्डाश्च कर्षूष्वेवदास्यन्ते।
इदमिदानीं सन्दिह्यते। सव्येनपाणिना, —इत्सुपादानात्, —किं सव्येनैव पणिना लेखोल्लेखनं कर्त्तव्यम्, आहोस्वित् संन्निधानातिशयात् सव्येन दर्भपिञ्जूल्या ग्रहणमात्रं करणीयम् ?—इति।ग्रहणमात्रम्—इत्याह। कुतः ? सन्निधानातिशयादेव। एतदुक्तंभवति। प्रथमं सव्येन पाणिना स्वस्तरात् दर्भपिञ्जूलीमादत्ते, ततः सव्यात् हस्तात् दक्षिणेन हस्तेन दर्भपिञ्जलीं गृहीत्वा, सव्येनअन्वारभ्य लेखामुल्लिखेत्—इति। एवमुत्तरत्रापि वर्णनीयम्। तथाच कर्म्मप्रदीपः।
“सव्येन पाणिनेत्येवं यदत्रासकृदीरितम्।
परिग्रहणमात्रन्तत् सव्यस्यादिशति व्रतम्।
पिञ्जूल्याद्यभिसंगृह्य दक्षिणेनेतरात् करात्।
अन्वारभ्य च सव्येन कुर्य्यादुल्लेखनादिकम्”।
इति। अत्र च, तिसृृणामेव कर्षूणां मध्ये लेखोल्लेखनं बोद्धव्यम्।मन्त्रावृत्तिरुक्ता॥ ०॥ २॥ ०॥
** सव्येनैव पाणिनोल्मुकं गृहीत्वा दक्षिणार्द्धेकर्षूणांनिदध्याद्ये रूपाणि प्रतिमुञ्चमाना इति॥ ३॥**
व्याख्यातप्रायमेतत्॥ ०॥ ३॥ ०॥
अथ पितॄनावाहयत्येत पितरः सोम्यास इति॥ ४॥
अथ, —इत्यानन्तर्य्यार्थम्। कर्षूष दर्भस्तरणानन्तरमित्यर्थः कस्मात् ? उत्तरत्रकर्षूषु दर्भेषु अवनेजनस्य पिण्डदानस्य चसूत्रणात्। “अथ शब्दोऽन्यकर्त्तृकत्वपक्षेऽपि यजमानपितॄणामेवनियमार्थः”–इत्यपरे व्यचक्षते। पितॄन्, —इति बहुवचनात्पितामहप्रपितामहयोरपि ग्रहणम्। ऋज्वन्यत्॥ ०॥ ४॥ ०॥
अथोदपात्रान् कर्षूषु निदध्यात्॥ ५॥
अथशब्दःपूर्व्वप्रक्रुतार्थः। उदपात्रान्,—इति पुंस्त्वं छान्दसम्।उदकपात्राणि,—इति केचित् पठन्ति। कर्षूषु, —इति, “अथाग्निषोमीयेन चरन्त्युत्तरवेद्याम्”—इतिवत् सामीप्ये सप्तमी। अयमर्थः। पूर्व्वपूरितान्युदकपात्राणि कर्षूणां सन्निधावानुपूर्व्व्येणस्थापयेत्॥ ०॥ ५॥ ०॥
** सव्येनैव पाणिनोदपात्रंगृहीत्वाऽवसलविपूर्व्वस्यां कर्ष्वांदर्भेषु निनयेत् पितुर्नाम गृहीत्वाऽसाववनेनिक्ष्वये चात्र त्वामनु या
अवसलविशब्देन पितृतीर्थमुचते,—इत्यवोचाम।तेन, पितृतीर्थेनपूर्व्वस्यां कर्ष्वां दर्भेषु उदकं निनयेत्। कृतभाष्यमन्यत्॥०॥६॥०॥
अप उपस्पृश्यैवमेवेतरयोः॥ ७॥
अपरकर्षूद्वये,—इति वाक्यशेषः। व्याख्यातमन्यत्॥०॥ ७॥ ०॥
** सव्येनैव पाणिना दर्व्वींगृहीत्वा सन्नीतात्तृतीयमात्रमवदायावसलवि पूर्व्वस्यां कर्ष्वांदर्भेषुनिदध्यात् पितुर्नाम गृहीत्वाऽसावेष ते पिण्डोये चात्र त्वामनु या
दर्व्वीपूर्व्वमेव व्याख्याता। तया दर्व्या, सन्नीतात् –एकीकृतात्चरुहविषः, तृतीयमात्रंतृतीयां शमवदाय यथोक्तेन प्रकारेण निदध्यात् निर्व्वपेत्। श्लिष्टमन्यत्। सन्नीतात्,—इति लिङ्गात् सन्नयनंतावदवगम्यते। सन्नयनं नाम एकीकरणम्। न ज्ञायते ;—केनसह कस्य सन्नयनम् –इति। तद्वक्तव्यम्। उच्यते। सर्व्वस्मात् हविषः अल्पमल्पमुद्धृत्य तेषां चरुणा सह सन्नयनं कर्त्तव्यम्। तस्माच्च सन्नीतादवदाय पिण्डा दातव्याः, –इति। कुत एतत् ?
“यावदर्थमुपादाय हविषोऽर्भकमर्भकम्।
चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत्”।
इति कर्म्मप्रदीपवचनात्॥ ०॥ ८॥ ०॥
अप उपस्पृश्यैवमेवेतरयोः॥ ९॥
व्याख्यातोऽक्षरार्थः। अत्र च, मध्यमायां कर्ष्वांपितामहस्य पिण्डदानं, दक्षिणस्यां प्रपितामहस्य,—इति बोद्धव्यम्। तथा चोक्तम्।
“पितुरुत्तरकर्ष्वन्ते मध्यमे मध्यमस्य तु।
दक्षिणे तत्पितुश्चैव पिण्डान् पर्व्वणि निर्व्वपेत्”।
इति॥ ०॥ ९॥ ०॥
स खल्वयं यजमानः, पितृपितामहप्रपितामहानाम् –
** यदि नामानि न विद्यात्; —स्वधा पितृभ्यःपृथिवीषद्भ्यइति प्रथमं पिण्डं निदध्यात्, स्वधापितृभ्योऽन्तरिक्षसद्भ्यइति द्वितीय
ऋजुरक्षरार्थः। तदनेन सूत्रेण, पित्रादिनामाज्ञाननिमित्तं मन्त्रानन्तरमेव पिण्डदाने विधीयते, –इत्यादरणीयम्। तेन, ये चात्रत्वा, –इत्ययं मन्त्रोऽस्मिन् पक्षेनिवर्त्तते। स्वधाशब्दस्य प्रदानार्थस्योपादानाच्च।अत्रच, अन्यतरस्यापि नाम्न्यज्ञायमाने सर्व्वेषामेव अनेन मन्त्रान्तरेण पिण्डदानं कर्त्तव्यम्—त्रितयसम्बन्धे- नैवविधानात्। एवमेके।यस्य नाम ज्ञायते तस्य नामोच्चारणपूर्व्वकंपूर्व्वेणैव मन्त्रेण पिण्डदानं, यस्य च नाम न ज्ञायते, तस्यैवानेनमन्त्रान्तरेण।कुतः ? नामाज्ञाननिमित्तेन मन्त्रान्तरविधानात्।नैमित्तिकं हि मन्त्रान्तरं नित्यं मन्त्रं बाधितुमीष्टे।फलचमसइव सोमम्। नामज्ञाने तु निमित्तमेव नास्ति कुतो नैमित्तिकंमन्त्रान्तरं कुतो वा तेन नित्यस्य बाधः। तदेतद्यथार्थमभिप्रेतम्। एवमपरे।
अत्र पृच्छामः। नामाज्ञाने तिलोदकादिदानं कथं कर्त्तव्यम् ?—इति। तुल्यहेतुत्वादनेनैव मन्त्रान्तरेण कर्त्तव्यम्—इति केचित्।तदसङ्गतम्। कस्मात् ? अतिक्रम्य विधानात्। तिलोदकादिकंखल्वतिक्रम्य पिण्डदानएवैतन्मन्त्रान्तरमाचार्य्येण विधीयते। कःपुनरत्रभिप्रायः? पिण्डदानमेवानेन मन्त्रान्तरेण कर्त्तव्यम्-—इति। पिण्डदानसंबन्धेनैव विधानाच्च।तस्मात्, –पिण्डदानप्रयोगविधिरेवायम्। तस्मात्, –अतीतं तिलोदकादिकमनागतञ्चालनादिकमनेन मन्त्रेण न देयमेव। अपर आह। मन्त्रान्तराविधानादमन्त्रकमेव तेषां दानम् –इति। तदप्युपेक्षणीयम्।कुतः ? तेषामपि समन्त्रकदानोपदेशात्। पिण्डदानवत् तत्रापिसमन्त्रकत्वस्योचितत्वाच्च।
आह। एवं भवता द्वावपि पक्षौ प्रतिक्षिप्तौ, कतमस्तर्ह्यत्रपक्षः? उच्यते। अनेन मन्त्रान्तरेण तावन्नकर्त्तव्यमेव, नाप्यमन्त्रकम्। किन्तु, प्राचीनं तिलोदकादि पराचीनञ्चाञ्जनादियथासूत्रितेनैव मन्त्रेण देयम्। ननु, “नाम गृहीत्वा” –इतितत्र तत्र सूत्रणमस्ति, नाम्न्यज्ञायमाने कथं यथासूत्रितेन मन्त्रेणदानममीषां सम्भवति ? उच्यते। नाम्न्यज्ञायमाने नामस्थानेपृथिवीषदादयः शब्दाःप्रयोक्तव्याः। कथं ज्ञायते ? श्रुणु यथाज्ञायते। पितृपितामहप्रप्रितामहानां नामाज्ञाने विहितेषु मन्त्रान्तरेषु, —पृथिवीषदिति, अन्तरिक्षसदिति, दिविषदिति चविशेषोपदेशात् तेषामेव पित्राद्यभिधानस्थानपातित्वमवगच्छामः।तेन, पृथिवीषदसावेतत्ते तिलोदकं, अन्तरिक्षसदसावेतत्ते तिलोदकं, दिविषदसावेतत्ते तिलोदकम् –इति प्रयोगे विशेषः।ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा,—इति तु सर्व्वत्रैवप्रयोज्यम्। पिण्डदाने तु स्वधापदवन्मन्त्रान्तरविधानात् पूर्व्वस्यमन्त्रस्य निवृत्तिरेव स्यादित्यवोचाम। तथाच स्मरणम्।
“पृथिवीषत् पिता चाचस्तत्पिता चान्तरिक्षसत्।
अभिधानापरिज्ञाने दिविषत् प्रपितामहः”।
इति। तदिदं स्मरणमाचार्य्यसंवादितमर्थं वदतीत्यादरणीयम्। रघुनन्दनस्तु च्छन्दोगोऽपि एतदजानानः,—“नामान्य विद्वांस्ततपितामहप्रपितामहेति” —इति पिण्डपितृयज्ञीयमाश्वलायनकल्प सूत्रमाकुलीकृत्य, –“नामान्यविद्वांस्तत्पितृपितामहप्रपितामहाः”—इति परिकल्प्यलिखित्वा बहुविरुद्धं वर्णयाञ्चकार॥०॥ १०॥०॥
निधाय जपत्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति॥ ११॥
पिण्डान् निधाय, अत्र पितरः—इतिमन्त्रं जपति। अथ, निधायइत्येतदवाच्यमिति चेत्। न। प्रतिनिधानं जपप्रतिषेधार्थत्वात्।कथं नाम ? सर्व्वान् पिण्डान् निधाय जपति न प्रतिपिण्डनिधानम् –इति। ननु, सर्व्वेषां पिण्डानां निधानं सूत्रयित्वा परतःसूत्रणादेव प्रतिपिण्डनिधानं जपो न भविष्यति। एवन्तर्हि अन्यथावर्णयिष्यामः। निधायैव जपति न पुनरन्यदपि किञ्चित् कृत्वा—इति। किमतः ?
“अवनेजनवत् पिण्डान् दत्त्वा विश्वप्रमाणकान्।
तत्पात्रक्षलनेनाथ पुनरम्यवनेजयेत्”।
इत्युक्तं पुनरवनेजनमत्र न कर्त्तव्यम्। एतदतः॥ ०॥ ११॥ ०॥
** अपपर्य्यावृत्त्य पुरोच्छ्वासादभिपर्य्यावर्त्तमानो जपेदमीमदन्त पितरो यथाभागमावृषायिषतेति॥१२॥**
अप, —इत्यप्रदक्षिण्यार्थम्। अप्रादक्षिण्येन पर्य्यावृत्त्य परिक्रम्य,वामावर्त्तेनेत्यर्थः। “वामं पर्य्यावृत्त्य”–इति नारायणोपाध्यायःपठति। तदा व्यक्त एवार्थः। इदञ्च पर्य्यावर्त्तनं केचिदुदगन्तमन्यन्ते। गौतमादयस्तु दक्षिणापर्य्यन्तमिच्छन्ति। तथा चोक्तम्।
“वाममावर्त्तनं केचिदुदगन्तं प्रचक्षते।
सर्व्वंगौतमशाण्डिल्यो शाण्डिल्यायन एवच”।
इति। तेन उदङ्मुखो दक्षिणामुखो वा भूत्वा। इदानीं प्राणान्संयम्य, ‘पुरा’ पूर्व्वं’, ‘उच्छासात्’ प्राणविमोकात्, अमीमदन्त,—इति मन्त्रं जपेत्। किं कुर्व्वन् ?अभिपर्य्यावर्त्तमानः। येनैव पथागतः,तेनैव पथा पर्य्यावर्त्तमानः। आगत्य च प्राणान् विमोचयेत्।तथा चोक्तम्।
“आवृत्य प्राणानायम्य पितॄन् ध्यायन् यथार्हतः।
जपंस्तेनैव चावृत्त्यततः प्राणान् विमोचयेत्”।
इति॥ ०॥ १२॥ ०॥
** सव्येनैव पाणिना दर्भपिञ्जूलीं गृहीत्वाऽवसलविपूर्व्वस्यांकर्ष्वांपिण्डेनिदध्यात् पितुर्नाम गृहीत्वाऽसावेतत्त आञ्चनं ये चात्रत्वामनु या
दर्भपिञ्जूलीं–पूर्व्वमञ्जनेनाञ्जितानां तिसृृणामेकाम्। आञ्जनं—आसम्यक् अनञ्जम्। व्याख्यातमन्यत्॥ ०॥ १३॥ ०॥
अप उपस्पृश्यैवमेवेतरयोः॥ १४॥
कृतभाष्यमेतत्। अत्रापरयोर्दर्भपिञ्जूल्योर्विनियोगः॥ ०॥ १४॥ ०॥
तथा तैलम्॥ १५॥
तथा तेनैव प्रकारण, तेलं,—पूर्व्वमासादितं, पिण्डेषु निदध्यात्।
एतदुक्तं भवति। पितुर्नाम गृहीत्वाअसावेतत्तेतैलं ये चात्रवेतिपितृपिण्डे दत्त्वा अप उपस्पृश्यैवमेषेतरयोर्दद्यात्॥ ०॥ १५॥ ०॥
तथा सुरभि॥ १६॥
पूर्वसूत्रव्याख्यानेनैवेदमपि व्याख्यातम्। सोऽयमञ्जनतैलसुरभीणांपूर्व्वमासादितानां विनियोगः॥ ०॥ १६॥ ०॥
अथ निह्नुते॥ १७॥
अथ, –इत्यानन्तर्य्यार्थम्। अन्यथा स्वस्वनुषङ्गेन विधानात् अञ्जनतैलसुरभीणां प्रत्येकम्,—त्रानन्तर्य्यातिरेकात् सुरभिमात्रस्यैववा निह्नवमाशङ्गीत कश्चिन्मन्दमतिरिति तन्निरासार्थमथेत्याह।अञ्जनतैलसुरभौणि निधाय अथ अनन्तरं निह्नते,—प्रकृतान्पिण्डान् आदाय नमस्करोति॥ ०॥ १७॥ ०॥
कथं निह्नते ? उच्यते,—
** पूर्व्वस्यां कर्ष्वांदक्षिणोत्तानौपाणी कृत्वा नमोवः पितरो जीवाय नमो वः पितरः शूषायेति॥ १८॥**
जपति,—इति वक्ष्यमाणं सिंहावलोकितन्यायेन संबध्यते। दक्षिणःवाणिकत्तानो ययोः पाण्योस्तौदक्षिणोत्तानौ। उत्तानवचनात्सव्यस्य पाणेर्न्यब्जता प्रतीयते। एवमुत्तरत्रापि व्याख्येयम्। ऋज्वन्यत्॥ ०॥ १८॥ ०॥
**
मध्यमाया
जपति। मध्यमायां कर्ष्वाम्। सव्योत्तानौपाणी कृत्वा॥ ०॥॥ १९॥ ०॥
** उत्तमायां दक्षिणोत्तानौ नमो वः पितरः स्वाधायैनमो वः पितरो मन्यव इति॥ २०॥**
इदमपि पूर्व्ववद् व्याख्येयम्॥ ०॥ २०॥ ०॥
** अथाञ्जलिकृतो जपति नमो वः पितरः पितरोनमो व इति॥ २१॥**
अथशब्दः पूर्व्वपकृतार्थः। पूर्व्वप्रकृतं कर्षूत्रयं अभिसन्धाय, अञ्जलिक्रुतः सन्, नमोव इति मन्त्रं जपति। अञ्जलिकृतः,—इति व्यत्यासेन प्रयुङ्क्ते। कताञ्जलिरित्यर्थः। “अञ्जलिश्चात्र संहतः कर्त्तव्योन व्याकोषः। कुतः ? निह्नवे संहतस्योपयोगित्वात् व्याकोषस्यचन्द्रदर्शनाद्युपयुक्तत्वात्”—इति भट्टनारायणोपाध्यायाः॥०॥ २१॥
गृहानवेक्षते गृहान् नः पितरो दत्तेति॥ २२॥
“महाःपत्नी “—इति वचनात् गृहान् पत्नीम्। एवमेके। गृहप्रार्थनयैव पत्नीप्रार्थनाया अपि चरितार्थत्वात् गृहशब्दस्य पत्न्यामरूढत्वाच्च निवेशनमेवार्थः। एवमपरे। तदत्रभगवन्तो भूमिदेवाः प्रमाणम्। बहुवचनान्तपुंलिङ्गगृहपदोपादनात्तु पूर्व्वैव व्याख्या ज्यायसी प्रतिभाति॥ ०॥ २२॥ ०॥
पिण्डानवेक्षते सदो वः पितरी देष्मेति॥ २३॥
ऋज्वर्थंसूत्रम्॥ ०॥ २३॥ ०॥
** सव्यं नैव पाणिना सूत्रतन्तुं गृहीत्वाऽवसलविपूर्व्वस्यां कर्ष्वांपिण्डेनिदध्यात् पितुर्नाम गृहीत्वाऽसावेतत्ते वासो ये चात्र त्वामनु या
सूत्रतन्तुम्,—प्रकरणसामर्थ्यात् क्षौमदशाम्। व्याख्यातमन्यत्॥ ०॥ २४॥ ०॥
अप उपस्पृश्यैवमेवेतरयोः॥ २५॥
कृतभाष्यमेतत्॥ ०॥ २५॥ ०॥
** सत्येनैव पाणिनोदपात्रं गृहीत्वाऽवसलवि पिण्डान् परिषिञ्चेदूर्ज्जंवहन्तीरिति॥ २६॥**
ऋजुरक्षरार्थः। अत्रपूर्व्ववत् ‘एवमेवेतरयोः’ –इत्यकरणात्पिण्डान् — इति बहुवचनाच्च सकृदेव मन्त्रमुच्चार्य्य त्रीन् पिण्डान्परिषिञ्चेत्—इति बोद्धव्यम्। इदञ्च परिषेचनम्—
“गन्धादीन् निक्षिपेत्तूष्णींतत आचामयेत् द्विजान्”।
इत्यादि,—
“प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः।
पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत्”।
इत्यन्तकर्म्मप्रदीपोक्त-कर्म्मक्रमेणकरणीयम्। एवमेके। यावदुक्तत्वादत्रकर्म्मप्रदीपोक्तः कर्म्मक्रमो न कर्त्तव्यः। एवमपरे। एतस्मिन्नेवक्रमे,—
“युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा।
कृत्वा धूर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः”।
इति कर्म्मप्रदीपाद्युक्तम्—“विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा यथाशक्ति दक्षिणां दद्यात्”—इति श्राद्धकल्पाद्युक्तञ्च कर्म्म कुर्य्यात्॥ ०॥ २६॥ ०॥
** मध्यमं पिण्डं पत्नी पुत्रकामा प्राश्नीयादाधत्तपितरो गर्भमिति॥ २७॥**
ऋजुरक्षरार्थः। सा तु भोजनकाले प्राश्नीयात् न पुनरेतस्मिन्नेवक्रमे,—इति द्रष्टव्यम्। मन्त्रश्चपतिः पठति। कस्मात् ? ‘यथेह पुरुषः स्यात्’—इति मन्त्रलिङ्गात्॥ ०॥ २७॥ ०॥
यो वा तेषां ब्राह्मणानामुच्छिष्टभाक् स्यात्॥ २८॥
उच्छिष्टशब्दोऽत्र भुक्तावशिष्टपाकवचनो न तु भोजनपात्रावशिष्टवचनः। यः तेषां ब्राह्मणानां उच्छिष्टभाक् — उच्छिष्टं भजते,इत्युच्छिष्टभाक् –उच्छिष्टभजनार्हः,स्यात्, स ‘प्राश्नीयात्—इत्यनुषज्यते। किं प्राश्नीयात् ? तेषामुच्छिष्टम्। कुतः ? उपस्थितत्वात्। वाशब्दः समुच्चये। अयमपि स्वभोजनकाल एव प्रानीयात्।कः पुनस्तेषामुच्छिष्टभाक् ? यजमानादिः,—इत्याह। कस्मात्?“शेषमिष्टेभ्योदत्त्वास्वयञ्च भुञ्जीत”—इति वचनात्। तथा स्मृत्यन्तरम्।
“प्रदक्षिणमनुव्रज्य भुञ्जीत वित्रुसेवितम्।
इति। तथा देबलः।
“निवृत्तेपितृमेधे तु दीपं प्रच्छाद्य पाणिना।
आचम्य पाणी प्रक्षाल्यज्ञातीन् शेषेण भोजयेत्।
ततो ज्ञातिषु भुक्तेषु स्वान् भृत्यानपि भोजयेत्।
पश्चात् स्वयञ्च पत्नी च श्राद्धशेषमुदाहरेत्”।
इति। तैत्तिरीयशाखायामापस्तम्बसूत्रम्। “सर्व्वतः समवदाय ग्रासावरार्द्धमश्नीयाद् यथोक्तम्”—इति। अत्रभूरिद्रव्य—कृत्सवाचिसर्व्वशब्दान्नियमोऽयमदृष्टार्थः,— इत्याचक्षते। श्लोकमपि उदाहरन्ति।
“श्राद्धंकृत्वा तु यः शेषं नान्नमश्नाति मन्दधीः।
लोभान्मोहाद्भयाद्वाऽपि तस्य तन्निष्फलं भवेत्”।
इति। “पित्र्यमाघ्रेयं तन्नैव प्राशितं नैवाप्राशितञ्च भवति” इति,
“उपवासो यदा नित्यः श्राद्धंनैमित्तिकं भवेत्।
उपवासं तदा कुर्य्यादाघ्राय पितृसेवितम्”।
इति च श्रुतिस्मृती नियममवगमयतः। आचार्य्योऽपि “प्राश्नीयात्”—इति प्रशब्दनैतदेव दर्शयति। सेयमुच्छिष्टस्य प्रतिपत्तिः। अतोयत्रोच्छिष्टं न शिष्यते, तत्रनैष नियमः। प्रतिपत्तेः प्रतिपाद्याप्रयोजकत्वात्। यत् पुनर्यमवचनम् —
“भक्ष्यं भोज्यं तथा पेयं यत् किञ्चित् पच्यते गृहे।
न भोक्तव्यं पितृृणान्तदनिवेद्यकथञ्चन”।
इति। यच्च शङ्खवचनम्—
“यत्किञ्चित् पच्यते गेहे भक्ष्यं भोज्यमथापि वा।
अनिवेद्य न भुञ्जीत पिण्डमूले कथञ्चन”।
इति। तत् श्राद्धार्थपाकादन्यदपि यत्किञ्चिद् भक्षणार्थं गृहे पच्यते,तदपि पितृृणां निवेद्यैव भोक्तव्यम्–इत्युपदिशति। न पुनः श्राद्धशेषातिरिक्तस्य भोजनं निषेधति। कथं ज्ञायते ? अनयोरेव श्राद्धशेषव्यतिरिक्तस्यापि पितॄणां निवेद्य भोजनोपदेशात्। यत्किञ्चित्—इति, गृहे—इति च करणाच्चैवमवगच्छामः। अतएव पिण्डमूले—पिण्डान्तिके निवेदनमुपदिश्यते, न तु तेनैव पिण्डदानं ब्राह्मणभोजनं वा।
आह। कुतः पुनरियमवधारणा ;—पिण्डमूले निवेदनं नब्राह्मणभोजनार्थम्—इति। ननु, येषां पिण्डदानात्परतोब्राह्मणभोजनं, तेषां ब्राह्मणभोजनार्थमपि पिण्डमूले निवेदनं सम्भवति। उच्यते। सत्यं सम्भवति। न तु तेषामयमुपदेशः। केषांतर्हि ? येषां ब्राह्मणभोजनात् परतः पिण्डदानं, तेषाम्—इतिब्रूमः। कस्मात् कारणात् ?
“उच्छिष्टसन्निधौ कार्य्यंपिण्डनिर्व्वपणं बुधैः”।
इति तेनैव ब्राह्मणभोजनात् परतः पिण्डदानोपदेशात्। शङ्कवचनस्य तु पूर्व्वार्द्धंशङ्कसंहितायामेवं पश्यामः,—
“पङ्क्तिविदात्मनो गेहे भक्ष्यं वाऽभक्ष्यमेव वा”।
इति। तदा व्यक्त एवायमर्थो —यः खल्वस्माभिर्व्वर्णितः। कुतः ?अभक्ष्यमपि भुञ्जतः पिण्डमूले निवेदनोपदेशात्। “शङ्खवचनंनश्राद्धेतरभोजनव्यावर्त्तकं, किन्तु यत्किञ्चित् —इति श्राद्धार्थत्वेनविशेषणीयम्। अन्यथा श्राद्वप्रतिषिद्धद्रव्याणां भक्ष्यत्वं न स्यात्।तेन श्राद्धार्थपक्वंयत्, तददत्त्वा न भोक्तव्यम् —इति तस्यार्थः”—इति वचनतात्पर्य्यमपर्य्यालोचयतो रघुनन्दनस्य कल्पनान्तुनाभिनन्दामहे।प्रमाणाभावात्। युक्तेश्चाकिञ्चित्करत्वात्। भिन्नौखल्वेतौ पदार्थौ—यत् पिण्डमूले निवेदनं, यच्च श्राद्धावशिष्टम्,—इति। अलमसदावेशेन। प्रकृतमनुसरामः।
कश्चित् पुनरन्ययेमं ग्रन्थंवर्णयाञ्चकार,—“यो वा तेषां ब्राह्मणानाम्”—इत्यादिम्।“यः तेषां ब्राह्मणनामुच्छ्रिष्टं भजते,तस्योच्छिष्टभाजो यजमानज्येष्ठस्य पुत्रपौत्रादेःपत्नी मध्यमं पिण्डंप्राश्नीयात्”—इति। तन्मते, ज्ञातिप्रभृतीनामपि तदुन्छिष्टभाक्तेषामपि पत्न्यःप्राश्नन्तु।न चैवमिष्यते। तस्मान्न किञ्चिदेतत्॥ ०॥ २८॥ ०॥
अभून्नो दूतो हविषो जातवेदा इश्युल्मुकमद्भिरभ्युक्ष्य॥ २९॥
उल्मुकं दक्षिणार्द्धेकर्षूणां स्थितम्। श्लिष्टमन्यत्॥ ०॥ २९॥ ०॥
द्वन्द्वंपात्राणि प्रक्षाल्य प्रत्यतिहारयेत्॥ ३०॥
पात्राणि चरुस्थाल्यादीनि प्रक्षाल्य निर्णिज्य, प्रत्यतिहारयेत्—केनचित् शिष्यादिना आनयेत्। सम्भवे स्वयमपि हरेत्। प्रतिशब्दकरणात् येन यन्नीतमासीत्, तेनैव तत् हारयेत्। अतिशब्दोऽसम्प्रतिक्षेपार्थः। तेन कालविलम्बमकुर्व्वन् हारयेत् –इत्यर्थः।“अभिहारयेत्”—इति केचित् पठन्ति। पात्राणि कथं प्रत्यतिहारयेत्? ‘द्वन्द्वं’ यथा भवति, तथा प्रत्यतिहारयेत्। द्वन्द्वशःप्रक्षाल्य,—इति वा वर्णनीयम्॥०॥ ३०॥ ०॥
अप्सु पिण्डान् सादयेत्॥ ३१॥
उदके पिण्डान् निक्षिपेत्। पिण्डान्—इति बहुवचनं व्यक्त्यपेक्षं, द्वयोरेवावशिष्टत्वात्। पत्न्याःप्राशनस्यानियतत्वात्तदभावपक्षाभिप्रायं वा वर्णनीयम्। अपरे पुनरेतदविद्वांसो भाषन्ते,–“पिण्डान्—इति बहुवचनं षट् पिण्डश्राद्धविषयम्”—इति॥ ०॥ ३१॥ ०॥
प्रणीते वाऽग्नौ॥ ३२॥
‘पिण्डान् सादयेत्’ –इत्यनुवर्त्तते॥ ०॥ ३२॥ ०॥
ब्राह्मणं वा भोजयेत्॥ ३३॥
पिण्डान्—इत्येव॥ ०॥ ३३॥ ०॥
गवे वा दद्यात्॥ ३४॥
पिण्डानेव। इदमिदानीं विचार्य्यते। किमत्र मात्रादिश्राद्धंमात्रामहादिश्राद्धञ्चास्ति, उत यावदुक्तत्वान्न ?—इति। न,—इतिब्रूमः।कुतः ?यावदुक्तत्वादेव। योषिच्छ्राद्धंखल्वस्माकमवसानदिन-व्यतिरेकेणपृथक् नास्ति। तथाच कर्म्मप्रदीपः।
“न योषिद्भ्यःपृथग् दद्यादवसानदिनादृते।
स्वभर्त्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता”।
इति। वचनबलात्तु क्वचित् क्रियते। तदप्याह, स एव।
“मातुःप्रथमतः पिण्डं निर्व्वपेत् पुत्रिकासुतः।
द्वितीयन्तु पितुस्तस्यास्तृतीयञ्च पितुः पितुः”।
इति।
“मातुःसपिण्डीकरणं पितामह्या सहोदितम्”।
इति च। न च परशास्त्रमप्यादर्त्तुं शक्यते। स्वशास्त्रोपरोधप्रसङ्गात्।तस्मात्, मात्रादिश्राद्धंतावदत्रन कर्त्तव्यमेव। मातामहादिश्रद्धमप्यत्रकरणीयम्। तथाच कर्म्मप्रदीप आह।
“कर्षूसमन्वितं त्यक्त्वा तथाऽऽद्यं श्राद्धषोड़शम्।
प्रत्याब्दिकञ्च, शेषेषु पिण्डाःस्युः षड़िति स्थितिः”।
इति। तस्मात् पित्रादित्रयाणामेवात्रश्राद्धम्—इति सिद्धम्॥ ०॥॥ ३४॥ ०॥
अथेदानीमनेनैव श्राद्धविधिना श्राद्धान्तराण्यपि व्याख्यातानि,—इति मनसि कृत्वा, वृद्ध्यादिषु तावत् कञ्चिद्विशेषमुपदिदिक्षुराह,—
वृद्धिपूर्त्तेषु युग्मानाशयेत्॥ ३५॥
“वृद्धिः पुरुषसंस्कारः”,— इति भट्टभाष्यम्। पूर्त्तम्—
“वापीकूपतड़ागादि देवतायतनानि च।
अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते”।
इत्याद्युक्तलक्षणम्। तेषु, पित्रर्थमपि युग्मान् ब्राह्मणान् भोजयेत्।अस्मादपि लिङ्गात् अन्वष्टक्येब्राह्मणभोजनमवगम्यते॥ ०॥ ३५॥ ०॥
प्रदक्षिणमुपचारः॥ ३६॥
प्रदक्षिणं यथा भवति, तथा दर्भासनादिक उपचारः, कर्त्तव्यः—इति सूत्रशेषः। “वृद्धिपूर्त्तेषु " –इत्यनुवर्त्तते॥ ०॥ ३६॥ ०॥
यवैस्तिलार्थः॥ ३७॥
तिलैर्योऽर्थः प्रयोजनं क्रियते, स यवैः कर्त्तव्यः। वृद्धिपूर्त्तेषु,—इत्येव। सोऽयं संक्षेपतः श्राद्धविधिः। विस्तरतस्तु, कर्म्मप्रदीपेवाशिष्ठे च कल्पे द्रष्टव्यः। श्राद्धमन्त्राश्च परिसंख्यानादुपलब्धव्याः।अतएव कर्म्मप्रदीपे कात्यायनेनोक्तम्।
एष श्राद्धविधिः कृत्स्नं उक्तःसंक्षेपतो मया।
ये विदन्ति न मुह्यन्ति श्राद्धकर्म्मसु ते क्वचित्।
इदं शास्त्रञ्च गृह्यञ्च परिसंख्यानमेवच।
वशिष्ठोक्ताञ्च यो वेद स श्राद्धं वेद नेतरः”।
इति। इदमिदानीं सन्दिह्यते। किं ब्राह्मणभोजनमत्र प्रधानम्,आहोस्वित् पिण्डदानम्, उताहो उभयम् ? — इति। आह। शेषेणपिण्डदानविधानात् पिण्डदानं प्रतिपत्तिरेव; कस्मादियं विचारण?उच्यते। सत्यमत्र शेषःप्रतिपाद्यते, तथापि नासौ प्रतिपत्तिः।बलिहरणे शेषस्य प्रतिपादनेऽपि न तत् प्रतिपत्तिः, — इति यथा।किं कारणम् ? अर्थकर्म्मणि तस्य प्रतिपादनात्। कथं ज्ञायते ?फलार्थवादोपपत्तेः। तच्च तत्रतत्र उदाहरिष्यामः। विनाऽपिशेषं पिण्डदानदर्शनाच्च। क्व? पिण्डपितृयज्ञादौ। ब्राह्मणभोजनस्यखल्वभावे कस्यशेषः प्रतिपादयिष्यते। ब्राह्मणभोजनस्य पुरस्तादपिकेषाञ्चित् पिण्डदानविधानाच्चैवमवगच्छामः। तस्मात्, –अर्थकर्म्मैवासौ, न प्रतिपत्तिः। तत्रैव च शेषः प्रतिपाद्यते। अथवा।प्रतिपत्त्यर्थकर्म्मपिण्डदानं स्यात्, न प्रतिपत्तिरेव। तस्मात्,—भवति विचारणैषा।
तत्र, उभयं प्रधानम्—इति भट्टनारायणप्रभृतयो मन्यन्ते।श्लोकानपि उदाहरन्ति।
“प्राधान्यं पिण्डदानस्य केचिदाहुर्मनीषिणः।
गयादौपिण्डमात्रस्य दीयमानस्य दर्शनात्।
श्रुतौ च पिण्डदानस्य केवलस्य विधानतः।
भीष्मस्य ददतः पिण्डान् हस्तोत्थानस्मृतेरपि।
भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः।
ब्राह्मणानां परीक्षायां महायत्नप्रदर्शनात्।
महाफलविधेश्चैव पंक्तिपावनभोजनात्।
अपांक्त भोजनाद्दातुर्महानर्थप्रदर्शनात्॥
आमश्राद्धविधानस्य विना पिण्डंक्रियाविधेः।
तदालभ्याप्यनध्यायविधानश्रवणादपि।
मतद्वैधमुपादाय मम त्वेतत् हृदि स्थितम्।
प्राधान्यमुभयोर्यस्मात् तस्मादेष समुच्चयः”।
इति।तइमे लोकाःकर्म्मप्रदीपस्य तृतीयप्रपाठकस्यान्तिमेखण्डे पठ्यन्ते। क्वचित् द्वितीयचतुर्थौविहाय। तस्मादस्माकंसमुच्चयपक्ष आदरणीयः। अत्र च, निमित्ततो ब्राह्मणभोजमस्यपिण्डदानस्य चाननुष्ठानेऽपि उभयोः प्राधान्यं नानुपपन्नम्। असोमयाजिपक्षेदधिपयोयागवत्। फलश्रुतिश्चोभयत्राप्यस्ति।ब्राह्मणभोजनं प्रधानं पिण्डदानमङ्गम्—इति शूलपाणिप्रभृतयः।अन्नोत्सर्गः प्रधानम्—इति वाचस्पतिमिश्रादयः। स्मरन्ति च।
“श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्ज्जितः।
उष्णमन्नं द्विजातिभ्यः श्रद्धया प्रतिपादयेत्”।
इति। अत्र खल्वन्नोत्सर्गे श्राद्धपदं प्रयुक्तम्। तथा स्मृत्यन्तरम्।
“संस्कृतं व्यञ्जनाढ्यान्नं पयोदधिघृतान्वितम्।
श्रद्धया दीयते यस्मात् तेन श्राद्धं निगद्यते”।
इति। अपिच। नित्यवाद्धादौ तावत् पिण्डनिषेधोऽवगम्यते। सच प्राप्तस्यैव भवति। प्राप्तिश्चातिदेशादेव। स खलङ्गानामेव नप्रधानस्य। कस्मात् ? उपकारकत्वेनैवातिदेशस्य सप्तमाध्यायेसिद्धान्तितत्वात्। तस्मात् पिण्डदानमङ्गमेव। अङ्गेषु फलश्रुतिरर्धवाद एव। केवल- पिण्डदानविधिस्तु अङ्गभूतपिण्डदानात् कर्म्मान्तरमेव। प्रकरणाधिकरणन्यायात्, —इति श्राद्धविवेकः।
इदन्त्विह वक्तव्यम्। “मासमग्निहोत्रं जुह्वति”—इति कुण्डपायिनामयने यथा अग्निहोत्रवत् जुह्वति,–इति वचनव्यक्त्या नैयमिकस्याग्निहोत्रस्य धर्म्मा प्रतिदिश्यन्ते ; प्रधानश्चहोमो—योऽग्नये च प्रजापतये च,—इति, यथा वा “उद्भिदा यजेत” –इत्येवमादौअव्यक्तयजतौ, सौमिकधर्म्मा इव प्रधाना अपि यजतयःप्रदिश्यन्ते,तयोः रूपान्तराभावात्। तद्वदत्रापि स्यात्। आनर्थक्यात् हि प्रधानस्यानतिदेश उक्तः। न चैवमानर्थक्यं शक्यते वक्तुम्।
अथ मन्यसे,—नासौप्रधानस्यातिदेशः। कस्य तर्हि ? अङ्गस्यैव।प्रधानं खल्वत्र जुहोतिना यजतिना च विहितं, द्रव्यदेवते पुनरङ्गे एवातिदिश्येने, अङ्गान्तरवत्—इति। एवन्तर्हिप्रक्ततेऽपि श्राद्धचोदनया प्रधानं विहितम्—इति न प्रधानस्यातिदेशः, अपितु अङ्गमेव—इतिकर्त्तव्यताकलापः प्रदिश्यताम्।कथन्तर्हि पिण्डदानस्य निषेधः क्रियते ? इतिकर्त्तव्यतानिषेधाभिप्रायतया,—इति गृहाण। नायं पिण्डदानस्य निषेधः,अपितु तदितिकर्त्तव्यताया एव। तस्याश्च निषेधात् पिण्डोऽपि नदीयते। उत्तरवेदेर्निषेधात् वैश्वदेवे सुनासीरीये च यथा नअग्निः प्रणीयते, तद्वत्।
अपि च। कस्मात् कारणादुभयोःप्राधान्यपक्षेपिण्डदानस्यनिषेधो न घटते,—इति तावदसौ प्रष्टव्यः। स यदिब्रूयात् ;—प्राप्तेरभावात्—इति॥ तं प्रति ब्रूयात् ;—विध्यन्तेनप्राप्तेरभावेऽपि विध्यादितः प्राप्तिरस्त्येव। कुतः ? श्राद्धपदस्यैवैवमर्थ्यात्। तत्र, विध्यादितः प्राप्तः पिण्डःप्रतिषिध्यमानस्तदितरकरणमेव प्रयोजयति। सोऽयं पर्य्युदासोन निषेधः।यथा,सर्व्वस्वं दद्यात्, —इत्यत्र, भूम्यादिप्रतिषेधात्तदितरत् सर्व्वस्वमर्थः, तथैवात्रापि पिण्डेतरत् श्राद्धमर्थः,—इतिन किञ्चिदनुचितम्।
एतेन “श्राद्धंसपिण्डकं कृत्वा” –इत्यादिवचनान्यपि व्याख्यातानि।गोवृषन्यायात् खल्वेवमुच्यते प्रशंसार्थम्। तदेवमादिवचनवैचित्र्यमृषीणामबुद्ध्वान बुद्धिमद्धिर्भ्रमितव्यम्। यत् पुनरङ्गभूतपिण्डदानादितरदेव कर्म्मान्तरं प्रधानं पिण्डदानम् —इति वर्णितम्।तत्र पृच्छामः। तस्य श्राद्धत्वमिष्यते न वा ? –इति। यदि तावत्प्रथमःपक्षःतदा विफल प्रयासः। पिण्डदानस्यापि श्राद्धत्वाभ्युपगमात्। कर्म्मान्तरवचनानुपपत्तिश्च स्यात्। सति ब्राह्मणभोजने पिण्डदानमङ्गम् असति प्रधानम्,—इति ब्रवीमि , —इति चेत्। नैतत् प्रमाणोपेतं ब्रवीषि। कस्मात् ? रूपभेदाभावात्। यदेव खल्वस्य रूपमङ्गस्य तदेव प्रधानस्यापि,—इतिसति ब्राह्मणभोजने अङ्गं, विपरीतमन्यथा,—इत्यत्र विशेषहेतुर्नास्ति। फलश्रुतेरुभयत्राप्यविषेणैकशेषस्य दुष्करत्वात्।
अपि च। एतावताऽपि श्राद्धशब्दाभिधेयत्वमस्याभ्युपगच्छत्येव भवान्,—इति असतीव ब्राह्मणभोजने, सत्यपि तस्मिन्प्राधान्यमेवास्य अभ्युपगम्यताम् कृतमर्द्धजरतीयेन। कुत्रचिदेकस्यकुत्रचिच्चान्यस्य प्राधान्ये पुनरभ्युपगम्यमाने अनेकार्थत्वमस्य कल्पनीयं स्यात्। तच्चान्याय्यम्।
उत्तर इतिचेन्नाचार्य्यविरोधात्। इति चेत् पश्यसि, —उत्तरः पक्षः तर्हि समाश्रयिष्यते, इति। एतदपि न पारयसि।कस्मात् ? आचार्य्य विरोधात्। “तत् श्राद्धम्”—इति। सूत्रयन्नाचार्ग्य्यःपिण्डपितृयज्ञस्यापि श्राद्धत्वमुपदिशति। विरुध्यते खल्वेतद्भवताम्। पिण्डप्रधानो हि सः। तस्मात्, पिण्डमन्तरेणेवब्राह्मणभोजनमन्तरेणापि श्राद्धदर्शनात् नैतदेकतरस्मिन्नेव पक्षेचोदयितव्यं भवति; द्वयोःसमानत्वात् —इति सन्तोष्टव्यम्।समुच्चयपक्षः खल्वेवमुपोद्वलितो भवति। यस्तु, ब्राह्माणभोजनमात्रं प्रधानमाह, स कथं पिण्डदानमात्रस्य श्राद्धत्वं समर्थयितुंशक्ष्यति,—इति न विद्मः।
यदपि शङ्कवचनमुपन्यस्तं—‘श्राद्धं कृत्वा प्रयत्नेन’—इत्यादि,सोऽयं केवलान्नोत्सर्गेश्राद्धपदप्रयोगः,—इति वर्णितञ्च। तदप्यसङ्गतम्। कस्मात् ?
“भोजयेदथवाऽप्येकं ब्राह्मणं पङ्क्तिपावनम्”।
इति।
“उच्छिष्टसन्निधौ काव्यं पिण्डनिर्व्वपणं बुधैः”।
इति च ब्राह्मणभोजनं पिण्डनिर्व्वपणञ्चाभिधाय, पश्चात् तद्वचनारम्भात्। तदनेनायमपि समुच्चयपक्षमुपोद्वलयति,—इत्यवगच्छामः।तस्मात् पौर्व्वापर्य्यपरामर्शाभावादन्नोत्सर्गेश्राद्धपदं प्रयुक्तमिति भ्नान्तिकद्बभूव। तथा चोक्तम्।
“पौर्व्वापर्य्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम्”।
इति। यच्चपुलस्त्यवचनमुपदर्शितम्—‘संस्कृतं व्यञ्जनाढ्यान्नम्’—इत्यादि। तस्यापि,—श्रद्धया यस्मादत्रान्नं दीयते—तस्मादिदं कर्म्म श्राद्धमित्युच्यते, –इति वचनव्यक्त्या अन्नदानादतिरिक्तमपि किञ्चिदवगम्यत एव। तदिदम्, –“संज्ञायाम्”—इति वा, “तेनकृतम्”—इति वा, “तस्येदम्”–इति वा भवति। जयादित्यस्तु“चूड़ादिभ्य उपसङ्ख्यानम्” –इत्यभिधाय, चूड़ा प्रयोजनमस्य –चौड़म्, श्रद्धा प्रयोजनमस्य –श्राद्धम् इत्युदाजहार। रघुनन्दनस्तु पुलस्त्यवचनमालोचनमात्रेण पश्यन्, —श्रद्धया अन्नादेर्यद्दानं तत् श्राद्धमिति वैदिकप्रयोगाधीनयौगिकम्–इतिवर्णयाञ्चकार। तदसङ्गतम्। कुतः ? तदभिप्रेतस्य योगार्थस्याशब्दत्वात्। न खलु श्रद्धयाअन्नादेर्दानम्—इत्ययमर्थःश्राद्धशब्दादवगम्यते। न खलु दानार्थेतद्धितमुपदिशन्त्याचार्य्याः। वस्तुतस्तुपुलस्त्यवचनं खल्वेतत्, दीयते इति कर्म्मणि तिङःप्रयोगात्दीयमान्नस्यान्नस्य श्राद्धत्वमाह, न त्वन्नदानस्येति कस्य केनाभिसंबन्धः। दर्शितञ्चास्माभिः पिण्डपितृयज्ञस्यापि श्राद्धत्वमाचार्य्यस्यानुमतम्। तदपि न प्रस्मर्त्तव्यम्। यच्च,—
“अदैवं भोजयेत् श्राद्धं पिण्डमेकञ्च निर्व्वपेत्”।
इति वचनम्। तत्र खल्वन्नेश्राद्धशब्दः प्रयुक्तः। यदपि, —
“आमश्राद्धंयदा कुर्य्याद्विधिज्ञः श्राद्धदः सुतः।
तेनाग्नौ करणं कुर्य्यात् पिण्डांस्तेनैव निर्व्वपेत्”।
इति वाक्यम्। तत्रापि, तेनाग्नौकरणम् — इति हेतुत्वेनोपादानम्, यतस्तेनाग्नौकरणम्, अतस्तेनैव पिण्डदानम् —इति तस्यार्थः। अग्नौकरणशेषेण पिण्डदानम्—इत्ययमत्रहेतुः।तदिदं वाक्यम्,—
“आमश्राद्धंयदा कुर्य्यात्पिण्डदानं कथं तदा।
महादाहृत्य पक्वान्नं पिण्ड दद्यात् तिलैः सह”।
इत्येतत्पक्षाननुज्ञानार्थम्। प्रथमोद्दिष्टस्यैव वा श्राद्धस्य ‘पिण्डांस्तेनैव निर्वपेत्’ — इति पर्य्यायान्तरेण परिकीर्त्तनम्। पिण्डनिर्वपणस्यैव श्राद्धपदार्थत्वादित्यभिप्रायः। तथा मनुः।
“सह पिण्ड क्रियायान्तु कृतायामस्य धर्म्मतः।
अनयैवावृता कार्य्यंपिण्डनिर्व्वपणं सुतैः”।
इति। न च, पिण्डनिर्व्वपणं पित्रे दानम् —इति रघुनन्दनव्याख्यानंयुक्तम् —इति वाच्यम्। यथाश्चुतार्थपरित्यागे मानाभावात्।
अस्य, –इति करणाच्चपिण्डदानस्यैवावगतेः। पित्रुद्देश्यकदानमात्रस्यैव तदितिकर्त्तव्यतापत्तेश्च। “न निर्व्वपति यः पिण्डम्” –इति,“पिण्डदोऽं’शहरः” –इति, “पिण्डं दद्याहनं हरेत्” —इति,“त्रिषु पिण्डःप्रवर्त्तते” –इति, “पिण्डोदकक्रियाहेतोः” –इति,“नरकस्थाश्च तृप्यन्ति पिण्डैर्दत्तैः” – इति चैवमादिषु शतशःपिण्डदानस्य प्राधान्यावगमाच्च।
“ एवं निर्व्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम्”।
इति परतस्तेनैवपिण्डनिर्व्वपणस्योपसंहाराच्चैवमवगच्छामः। उपसंहारः खल्वयं श्राद्धप्रकरणशेषे दृश्यते। तस्मात्, – पिण्डप्रदानस्यैवायमुपसंहारो न श्राद्धकर्मणः, —इत्यपिन शक्यतेवक्तुम्। अपिच। पिण्डदान एव पिण्डनिर्व्वपणपदं प्रयुक्तवान् मनुः, –इत्यवगच्छामः। कथं कृत्वा ? शृणु। पुरस्तात्तावत्,—
“त्रींस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वा समाहितः।
औदकेनैवविधिना निर्व्वपेद्दचिणामुखः”।
इति। परस्तादपि, –
“पिण्ड निर्व्वपण केचित् पुरस्तादेव कुर्व्यते”।
इति,—पिण्डप्रदान एव पिण्डनिर्व्वपणपदप्रयोगो दृश्यते। अपिच।कस्यचित् पिण्डदानम्, कस्यचिच्चब्राह्मणभोजनं प्रधानम्—इत्यतोहि कारणात् समुच्चयपक्षःप्रादुर्भवति। तत् किमत्र करिष्यक्तिअन्यतरप्राधान्यावेदकानि वचनानि। स खल्वयमलङ्कारः समुच्चयपक्षस्य न दोषः। तस्मात् तत्तद्वाक्यपर्य्यालोचनया क्वचित्पिण्डः प्रधानम, —यथा गयापिण्डपितृयज्ञादौ। क्वचित्ब्राह्मणभोजनम्, —थथा नित्यश्राद्धादौ। अन्यत्रत्वविशेषादुभयंप्रधानम्। यथा सपिण्डीकरणादौ। इत्यस्तु किं विस्तरेण॥॥ ०॥ ३७॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य तृतीया खण्डिका समाप्ता॥ ०॥
______________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके चतुर्थी खण्डिका।
अथेदानींप्रसङ्गाल्लाघवाच्चअन्वष्टक्यविधिं पिण्डपितृयज्ञेऽप्यतिदिशन्नाह,—
अन्वष्टक्यस्थालीपाकेन पिण्डपितृयज्ञो व्याख्यातः॥ १॥
अन्वष्टक्यकर्माणि यः स्थालीपाकःविहितः, तेनैव विधिना पिण्डपितृयज्ञो व्याख्यातः। ननु, अन्वष्टकोन, —इति वक्तव्ये किमर्थम्अन्वष्टक्यस्थालीपाकेन, –इति स्थालीपाकग्रहणं क्रियते ? मांसचरुनिवृत्त्यर्थमित्याह। कथं नाम ? अन्वष्टक्येनेतिकृते स्थालीपाको मांसचरुश्चेतिद्वयमेव प्राप्यते।तत्रयत् पुनः स्थालीपाकग्रहणं करोति, तद्वेधयति मांसचरुरत्रनास्तीति।
तर्हि पितृयज्ञः,—इति वक्तव्ये पिण्डपितृयज्ञः,—इति कथंपिण्डग्रहणं क्रियते ? उच्यते। पितृयज्ञः,—इति कृते खल्वन्वाहार्य्यादावपि अयमतिदेशःस्यात्। स चानिष्टः। पिण्डपितृयज्ञधर्म्मस्य तत्रातिदेशात्। एतस्मात् कारणात् पिण्डपितृयज्ञः,—इति सूत्रितम्। अथवा। पिण्डग्रहणं कुर्व्वन्नेतस्य पितृयज्ञस्यपिण्डप्रधानतां दर्शयति। कथं नाम ? पिण्डैरेव यत्र पितरइज्यन्ते सोऽयं पिण्डपितृयज्ञः। तथाच निगमः।“आहिताग्नेःपित्रर्च्चनं पिण्डैरव, अपि वा ब्राह्मणान् भोजयेत् “—इति पिण्डस्यासम्भवे ब्राह्मणभोजनमुपदिशति॥ ०॥ १॥ ०॥
अतिदेशवशान्नवम्यामेव माभूदित्यतःकालान्तरविधानार्थमिदमाह।
एवं वा।
कः पुनः पिण्डपितृयज्ञो नाम,—योऽयमन्वष्टक्यस्थालीपाकेन व्याख्यातः, को वा तस्य कालः ? उच्यते।
अमावस्यायां तत् श्राद्धम्॥ २॥
तत् पिण्डपितृयज्ञाख्यं श्राद्धममावस्यायां कर्त्तव्यमिति सूत्रशेषः।अविहिते पिण्डपितृयज्ञेकथं तत्र धर्म्मप्रदेशः – इति इदमर्थतःसूत्रं पूर्व्वं द्रष्टव्यम्॥ ०॥ २॥ ०॥
अमावस्याप्रसङ्गादाह, –
इतरदन्वाहार्य्यम्॥ ३॥
इतरदपरं द्वितीयमित्यर्थः। अनु पश्चादाह्रियते, —इत्यन्वाहार्य्यंनाम श्राद्धममावस्यायां कर्त्तव्यमित्यनुवर्त्तते। कस्य पश्चात् ?पिण्डपितृयज्ञपिण्डानां, तस्यैव वा, —इति ब्रूमः। कस्मात् ?उपस्थितत्वात्। अत एव पिण्डान्वाहार्य्यकम् —इत्याख्यायते।तथाच गृह्यान्तरम्।
“यत् श्राद्धं कर्म्मणामादौ या चान्ते दक्षिणा भवेत्।
अमावास्यां द्वितीयं यदन्वाहार्य्यंतदुच्यते”॥
इत्यमावस्वायां द्वितीयस्य श्राद्धस्यान्वाहार्य्यत्वं स्मरति। न च,“पिण्डानां मासिकं श्राद्धमन्वाहार्य्यंविदुर्बुधाः”।
इति स्मरणात् पिण्डानां पितृृणामन्वाहार्य्यंमासैकतृप्तिजनकं यत्ततथेति तत्त्वकारोक्तं युक्तमिति वाच्यम्। केवलान्वाहार्य्यपदे तदर्थस्यासम्भवात्। व्युत्पत्तेरशब्दत्वाच्च। पूर्वोक्तगृह्यान्तरविरोधाच्च।प्रकरणञ्चैवमुपरुध्येत। तस्मादनग्नेरमावस्याश्राद्धंनान्वाहार्य्यमित्यादरणीयम् ।
तदत्रब्राह्मणभोजनं पिण्डदानञ्चषण्णांकर्त्तव्यम्। तथाचगृह्यान्तरम्। “मध्यमं पिण्डं पत्न्यैप्रदाय ब्राह्मणान् भोजयित्वातथैवमेतेभ्यो मातुश्च पितृभ्यस्त्रींस्त्रीन् पिण्डानवनेनिज्य निदध्यात्”—इति। अत्र, मध्यमं पिण्डम्—इति पिण्डपितृयज्ञविषयम्।ब्राह्मणान् भोजयित्वा, –इत्यादिकमन्वाहार्य्यश्राद्धपरम्। एतेभ्यः, –इति पिण्डपितृयज्ञोपात्ताः स्वपितरः परामृश्यन्ते। एवञ्च,पिण्डपितृयज्ञे त्रयाणामेव पिण्डदानं स्यात्।पिण्डदानं स्यात्। तथाच कर्म्मप्रदीपः।
“कर्षूसमन्वितं मुक्त्वातथाऽऽद्यं श्राद्धषोड़शम्।
प्रत्याब्दिकञ्च, शेषेषु पिण्डाः स्युः षड़ित स्थितिः”॥
इति। कर्षूश्च पिण्डपित्रुयज्ञेऽप्यस्ति॥ ०॥ ३॥ ०॥
सक्रुत् कृतेनैव कृतं मामंस्त, –इत्येतदर्थमाह, –
मासीनम्॥ ४॥
मासि मासि क्रियते, –इति मासीनम्। अधिकारात् श्राद्धद्वयमपि, न पुनरानन्तर्य्यातिरेकात् अन्वाहार्य्यमेव॥ ०॥ ४॥ ०॥
समाप्ता प्रासङ्गिकी कथा।प्रकृतमधुनोच्यते,
दक्षिणाग्नौ हविषः स
अतिदेशस्वरसादाहिताग्नेरपि शालाग्नावेव माभूदित्येतदर्थमिदमुच्यते। यो गार्हपत्यादानीय प्रणीयते, सोऽयं दक्षिणाग्निः।ऋज्वन्यत्॥०॥ ५॥०॥
ततश्चैवातिप्रणयः॥ ६॥
ततस्तस्माद्दक्षियाग्नेरेवाग्निमुद्धृत्य अतिप्रणयःपूर्वोक्तलक्षणःकर्त्तव्यः। चशब्दात् होमोऽपि तत्रैव स्यात्॥ ०॥ ६॥ ०॥
शालाग्नावनाहिताग्नेः॥ ७॥
अनाहिताग्नेःस्मार्त्ताग्नेः शालाग्नौहविषःसंस्करणं होमश्च कर्त्तव्यम्। अतिप्रणयश्च तस्मादेव स्यात्। ननु, एतदवाच्यं शालाग्निःखल्वेतदर्थं एव। उच्यते। दक्षिणाग्नेरुपदेशादनाहिताग्नेः पिण्डपितृयज्ञ एव न स्यादित्यपि कस्यचिदाशङ्का स्यान्मन्दमतेः।अतस्तन्निरासार्थमेतदुच्यते॥ ०॥ ७॥ ०॥
एवन्तावत् आहिताग्निशालाग्न्योर्यो विशेषः स सूत्रितः, अथेदानीमुभयसाधारणींइतिकर्त्तव्यतां वक्तुमुपक्रमते।
एवं वा–
किं समस्त एव अन्वष्टक्यप्रकारःसूत्रितविशेषव्यतिरेकेण पिण्डपितृयजे स्यात् ? एवं खलु प्राप्तम्। एवं प्राप्ते इदमारभ्यते
एका कर्षूः॥ ८॥
कर्त्तव्या,—इति सूत्रशेषः। अतिदेशात् तिसृृष्णां प्राप्तत्वादेकेत्युच्यते। सा खल्वियं दक्षिणाग्रा स्यात्। कस्मात् ? अन्वष्टक्यकर्म्मणिआग्नेय्यभिमुखीनां कर्षूणामाग्नेय्यभिमुखैः कुशैःस्तरणदर्शनात्, इह च दक्षिणाग्रैःकुशैःपरिस्तरणोपदेशात्कर्ष्या अपि दक्षियाग्रत्वावगमात्। तथा चोक्तम्।
“दक्षियान्तां तदग्रैस्तु पितृयज्ञेपरिस्तरेत्”।
इति। दक्षिणाग्रामिति पाठे तु व्यक्तं कर्ष्वा दक्षिणाग्रत्वम्॥ ०॥ ८॥ ०॥
तथा दक्षिणतोऽग्नेः स्थानम्॥ ९॥
तस्याः कर्ष्वादक्षिणतो दक्षिणस्यां दिशि अग्नेस्थानं, न पुनरन्वष्टक्यकर्म्मवत्पूर्व्वतः॥ ०॥ ९॥ ०॥
नात्रोल्मुकनिधानम्॥ १०॥
दक्षिणार्द्धेकर्षूणां यदुल्मुकनिधानं तत्रोक्तमासीत्, तदत्र न कर्त्तव्यम्॥ ०॥ १०॥ ०॥
न स्वस्तरः॥ ११॥
तत्रकर्षूणां पश्चात्यदुक्तमासीत्, सोऽयं स्वस्तरोऽत्र नकर्त्तव्यः॥ ०॥ ११॥ ०॥
नाञ्जनाभ्यश्चने॥ १२॥
अत्रकर्त्तव्ये। अञ्जनञ्चअभ्यञ्जनञ्चते अञ्जभ्यञ्जने। अञ्जनंसौवीराञ्जनं व्याख्यातमेव। अभ्यज्यतेऽनेन, –इत्यभ्यञ्जनं तैलम्॥ ०॥ १२॥ ०॥
न सुरभि॥ १३॥
अत्रकर्त्तव्यम्॥ ०॥ १३॥ ०॥
न निह्नवनम्॥ १४॥
निह्नवनं नमस्कारोपलक्षितैर्मन्त्रैः दक्षिणोत्तानौपाणी कृत्वा, –इत्येवमादिना तत्र यदुक्तमासीत्, तदत्रन कर्त्तव्यम्। ते खल्विमेअतिदेशागता इह प्रतिषिध्यन्ते॥॥ १४॥ ०॥
उदपात्रान्तः॥ १५॥
पिण्डपरिषेकार्थमुदपात्रमन्तो यस्य, सोऽयमुदपात्रान्तःपिण्डपितृयज्ञः स्यात्। ननु, एतदवाच्यम्, अतिदेशादेव प्राप्तत्वात्। उच्यते।यावदुक्तकरणार्थमेतदुच्यते। तेन, ‘गन्धादीन् निःक्षिपेत्तूष्णीम्’ —इत्यादिकं कर्म्मअत्रन भवति। अन्यदपि प्रयोजनमुत्तरत्रवक्ष्यामः॥ ०॥ १५॥
वासस्तु निदध्यात्॥ १६॥
ऋजुरक्षरार्थः। ननु, किमर्थमिदमुच्यते, वासःखल्वतिदेशादेवलभ्यते ? वासोऽन्तरविधानार्थम् –इत्याह। तुशब्देन पूर्व्वोक्तं वासोव्यवच्छिद्यते। कथं ज्ञायते ? पूर्व्वोक्तं खलु वासोऽतिदेशादेवप्राप्यते, –इति तदर्थं पुनः सूत्रणमनर्थकमेव स्यात्। तस्माद् वासोऽन्तरमत्रविधीयते,—इत्यवगच्छामः। एककार्य्यार्थत्वात् पूर्व्वस्यवाससो निवृत्तिः स्यात् तन्निवृत्त्या च मन्त्रोऽपि तदीयो येचात्रत्वामनुइत्यादिःप्रत्येकेन दानञ्च निवर्त्तते। तेन, “एतद्वःपितरोवासः”—इति यथाऽऽम्नातेनैव मन्त्रेण वाससो निधानं सिध्यति। अतएव “पूर्व्वोक्तस्य वासोनिधानविधेर्निवृत्त्यर्थ- मेकवासोनियमार्थञ्चपुनरिदमुच्यते। तेन किम् ? ‘वासस्तु निदध्यात्’ —इत्येकवचनोपदेशात् ‘एतद्वःपितरोवासः’ —इत्यनेन यथाऽऽम्नातेन मन्त्रेणैकमेवात्र वासोनिदध्यात्” —इति भट्टनारायणोपाध्यायाः। अपूर्व्वं खल्वत्र वासोविधीयते। अतस्तदेकत्वमपि पश्वेकत्ववद्विवक्षितंभवितुमुचितम्। तदस्मात् वैकृताद्विशेषोपदेशात् प्राकृतं प्रत्येकंवाससोनिधानं निवर्त्तते। न ह्येकं वासःप्रत्येकं शक्यं निधातुम्। तस्मात् “एतद्वःपितरोवासः” —इति मन्त्रे बहुवचनान्तपितृपदोपादानात् सूत्रे मन्त्रे च वासस एकवचनसंयोगाच्च तन्त्रेणत्रीन् पित्रादीनुद्दिश्यैकमेव वासः प्रिण्डवये निधातव्यम्। पित्रादित्रिके खल्वस्मिन् प्रदेशे बहुवचनान्तस्य पितृशब्दस्य प्रयोग इति ह्यवोचाम।
अतएव कर्म्मप्रदीपे कात्यायनः।
“अर्घ्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने।
तन्त्रस्य विनिवृत्तिः स्यात् स्वधावाचन एवच”।
इत्यर्घ्यादौ तन्त्रविनिवृत्तिं ब्रुवाणः परिगणितव्यतिरिक्तेषु तन्त्रमभ्यनुजानाति। अन्यथा परिगणनानर्थक्यापत्तेः। अर्घ्यादिवत्वासोनिधानमपिवा परिगणयितव्यं स्यात्। अथैवं कात्यायनस्योपजीव्यविरोधः। आचार्य्योह्यन्वष्टक्यकर्म्मणि प्रत्येकं वाससःप्रदानं सूत्रयाञ्चकार। नैष दोषः। अन्यत्रैतदभिधानात्। अभविष्यत् कात्यायनस्योपजीव्यविरोधो यद्यमावन्वष्टक्यकर्म्मण्येतदभ्यधास्यत्। न तु तत्रैतदभ्यधात्। किन्तु ततोऽन्यत्रैव तेनेदमभ्यधायि। अन्वष्टक्यादन्यच्चश्राद्धजातं साक्षात् परम्परयावा पिण्डपित्रुयज्ञेन विक्रियते, स त्वन्वष्टक्यस्थालीपाकेन। पिण्डपितृयज्ञे चैकत्वाद्वाससः प्राकृतं वाससोबहुत्वं निवर्त्तते। तस्मान्नास्त्युपजीव्यविरोधः।
ननु तथापि विरोध एव। कथम् ? उच्यते। अन्वष्टक्येतावत् प्रत्येकं तिलोदकदानमुक्तमाचार्य्येण। न चात्र तन्निषिद्धम्। तस्मादत्र, यच्चानेन विक्रियते तत्र च, तत् करणीयंभवति।तत्र यदि प्रत्येकं क्रियेत, तदा परिगणनानर्थक्य प्रसङ्गः। अथ तदर्थवत्त्वार्थं तन्त्रेण क्रियेत, तर्ह्याचार्य्यसूत्रविरोधः। नैष दोषः। कुतः ?विषयभेदोपपत्तेः।आचार्य्येणह्यन्वष्टक्ये प्रत्येकं तिलोदकदानमुक्तम्। कात्यायनोऽपि।
“तूष्णींपृथगपोदद्यान्मन्त्रेण तु तिलोदकम्”।
इत्यनेन तत्र तथैवाह। अन्यत्रैव तु तेनार्घ्यादिव्यतिरिक्तेषु तन्त्रमनुज्ञातम्, न प्रकृतौ। तत्रतथाऽभ्यनुज्ञाने विरोधो भवेत्। नत्वेवम्। चोदको हि विकृतावुपकारकाकाङ्क्षिण्यामुपकारकान् प्राकृतान् पदार्थान् प्रापयति। क्रमश्वापकुर्व्वतां तेषांसाहाय्यं कुर्व्वन् गुणभूतः। उत्तरकालं हि प्रयोगप्राशुभावायक्रमस्यापेक्षा भवति। यथा चातुर्मास्येषु तृतीये पर्व्वणि प्रातर्मध्यन्दिने सायमित्यह्नःकालेष्वित्वष्टीनामवगमात् सद्यस्कालतायांविधेरनुमानात् प्राकृतधर्म्मस्य द्वहकालत्वस्य लोपः। एवमिहापिपरिगणितव्यतिरिक्तेषु तन्त्रानुमानात् प्राकृतधर्म्मस्य प्रत्येकंदानस्य लोपःस्यात्। तथाचोक्तम्। “अपिवा क्रमकालसंयुक्ताः सद्यः क्रियेत तत्र विधेरनुमानात् प्रकृतिधर्म्मलोपःस्यात् ” —इति। यथा कृष्णलचरौ प्रकृतौ भक्षाणां विहृतत्वात्"चोदकेन विहृतानां प्राप्तत्वेऽपि सह भक्षाणां समर्पणं, तथाऽत्रापि प्रकृतौ तिलोदकस्य प्रत्येकं दानात् चोदकेन तथाभूतस्यप्राप्तावपि तन्त्रेणैव तद्दानम्।ननु कृष्णलचरौ “एकधाब्रह्मणे परिहरति” –इति वचनात् सह समर्पणम्। तथाचोक्तम्।“एकधोपहारेमहत्वं ब्रह्मभक्षाणांप्रकृतौ विहृतत्वात् " — इति।उच्यते। इहापि “अर्घ्येऽक्षय्योदके चैव” –इत्यादिवचनात् परिगणितव्यतिरिक्तेषु तन्त्राभ्यनुज्ञानात् वचनावगतमेव तन्त्रमनुष्ठान मिति समानम्।
इदमिदानींसन्दिह्यते। किमाहिताग्नेःश्रौतस्य गृह्योक्तस्य चपिण्डपितृयज्ञस्य समुच्चयः, आहोस्वित् विकल्पः, अथवा स्मार्त्तस्यनिवृत्तिः, उताहो श्रौतस्यैव ? —इति। उच्यते। स्मार्त्तस्य निवृत्तिस्तावन्न भवति। कस्मात् ? उपदेशस्थानर्थकत्वापत्तेः। समुच्चयोऽपि न युज्यते; एकार्थत्वात्। विकल्पोऽप्यसङ्गतः; अतुल्यबलत्वात्। पक्षे स्वशाखाश्रयं खल्वेवं परित्यज्येत। तच्चानिष्टम्।तस्मात्, श्रौतस्यैव निवृत्तिरित्यवगच्छामः। पिण्डपित्रुयज्ञः खल्वस्मच्छाखायां न पठ्यते। न खलु स्वशास्त्रोक्तमुपेक्ष्य पारशाखिकं श्रौतमुपादातुमुचितम्। तथाच कर्म्मप्रदीपः।
“अक्रिया त्रिविधा प्रोता मुनिभिः कर्म्मकारिणाम्।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया।
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः।
कर्त्तुमिच्छति दुर्म्मेधा मोघं तत्तस्य चेष्टितम्।
यन्नाम्नातं स्वशाखायां परोक्तमविरोधि च।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत्”।
इति। अपिच।पूर्व्वत्र उदपात्रान्तत्वं पिण्डपितृयज्ञस्य सूत्रयन्नाचार्य्यःपारशाखिकं श्रौतं नानुमन्यते। श्रौते पिण्डपितृयज्ञे खल्ववधानाजिघ्रणादिकमपि उदकनिषेकात् परतः श्रूयते। अपर आह। गृह्याग्निमतः स्मार्त्त एवाचार्य्यसम्मतः पिण्डपितृयज्ञः,श्रौताग्निमतस्तु पारशाखिकोऽपि श्रौत एव, अग्निहोत्रादिवत्, —इति॥ ०॥ १६॥ ०॥
अवसिता प्रासद्धिकीकथा। अथेदानीमष्टकाकर्म्मशेषमेवानुवर्त्तामहे,—
माध्या ऊर्ध्वमष्टम्या
कर्त्तव्यः, —इतिसूत्रशेषः। अष्टकायैत्वा, —इति निर्व्वापः॥ ०॥ १७॥ ०॥
तस्य जुहुयात्॥ १८॥
तस्य स्थालीपाकस्यैकदेशंजुहुयात्॥ ०॥ १८॥ ०॥
अष्टकायै स्वाहेति जुहोति॥ १९॥
ऋजुरक्षरार्थः। पूर्व्वेणैवजुहोतिना सिद्धेपुनर्जुहोतिग्रहणं शाकचरोरपि होमप्रज्ञापनार्थम्॥ ०॥ १९॥ ०॥
स्थालीपाकावृताऽन्यत्॥ २०॥
कृतभाष्यमेतत्॥ ०॥ २०॥ ०॥
शाकं व्यञ्जनमन्वाहार्य्यम्॥ २१॥
अनु पश्चादोदनचरोराह्रियते, –इत्यन्वाहार्य्यं शाकं व्यञ्जनं कुय्यात्, —इति सूत्रशेषः। एतदुक्तं भवति। अस्यामष्टकायामोदनचरोःपश्चात् शाकचरुःकर्त्तव्यः। स च शाकचरुरोदनचरोर्व्यञ्जनार्थःमांसादिचरुवत्। तथाच पूर्व्वाष्टकायामुक्तम्।
“ओदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम्।
सद्रवं अपयेदेतदन्वष्टक्येऽपि कर्म्मणि”।
इति। होमोऽपि पूर्व्वत्तन्त्रेणैव स्यात्। कुतः ? शाकस्य व्यञ्जनतयोपन्यासेन स्वातन्त्र्यनिराकरणात्। तथा चोक्तम्।
“शाकञ्च फाल्गुनाष्टम्यां स्वयं पत्न्यपि वा पचेत्।
यस्तु शाकादिहोमः स कार्योऽपूपाष्टकाऽऽवृता”।
इति। भन्वाहार्य्यः,–इति केचित् पठन्ति। तत्रच, छान्दसत्वमाश्रयणीयम्। अन्वाहार्य्यश्चरुरिति चरुसम्बन्धविवक्षया वा कथञ्चित् सङ्गमनीयम्। अन्वाहार्य्ये,—इति पाठे, अन्वाहार्य्ये; पूर्व्वाष्टकायाःप्रकृतत्वादोदनचरोः पश्चादाह्रियमाणेमांसचरौतत्स्थाने, –इत्येतत्। तथाच,तदीयमांसचरुस्थाने अत्र शाकं व्यञ्जनं कुर्य्यात्, —इत्यर्थः।अन्वाहार्य्यश्राद्धे-—इति कथं नवर्ण्यते ? ‘नाष्टकासु भवेत्श्राद्धम्’ —इत्यष्टकाकर्म्मण्यन्वाहार्य्यश्राद्वनिषेधात् —इत्याह। तस्माद्यथोक्तएवार्थः॥ ०॥ २१॥
** अथ पितृदेवत्येषु पशुषु—वह वपां जातवेदःपितृभ्य इति वपां जुहुयात्॥ २२॥**
अथशब्दःपूर्वोक्तायाः पश्वितिकर्त्तव्यताया अनुवृत्त्यर्थः। पित्रर्थं ये पशव आलभ्यन्ते त इमे पितृदेवत्याः पशवः। तेषु पितृदेवत्येषुपशषु,—वह वपामिति मन्त्रेण वपां जुहुयात्। पितृदेवत्याश्चपशवः, —“श्रोत्रियेऽभ्यागते श्राद्धं महोक्षेण महाऽजेन वा दद्यात् " —इत्येवमादयस्तन्त्रान्तरोक्ता आदरणीयाः। कुतः ? स्वशास्त्रेविधानाभावात्। ओदनचरोश्चात्र, पितृभ्यस्त्वा, —इति निर्व्वापःस्यात्। कस्मात् ? पित्रर्थत्वात्। एवं, सव्योत्तराभ्यां पाणिभ्यांसकृदवहन्यात्। सकृत् फलीकुर्य्यात्। सकृत् प्रक्षालयेत्।प्रसव्यमवघट्टयेत्। दक्षिणत उद्वासयेत्। न च प्रत्यभिघारयेत्। अष्टर्च्चस्य चात्र निवृत्तिः स्यात्। कुतः? मन्त्रलिङ्गविरोधात्।एवञ्च, अवदानानि सन्नीय त्रिधा विभागमकृत्वैव स्थालीपाकावृता सौविष्टकृदावृता वा अवदाय, पितृभ्यः स्वाहा, —इति सकृदेव जुहुयात्। प्रोक्षणनिर्व्वापप्रधानहोमाश्चप्राचीनावीसिननैवकर्त्तव्याः। कुतः ? पित्रर्थत्वात्। तथा चोक्तम्।
“प्राचीनावीतिना कार्य्यंपित्र्येषु प्रोक्षणं पशोः।
दक्षिणोद्वासनान्तञ्च चरोर्निर्वपणादिकम्।
सन्नयश्चावदानानां प्रधानार्थो न हीतरः।
प्रधानहवनञ्चैव शेषं प्रकृतिवद्भवेत्”।
इति॥ ०॥ २२॥ ०॥
देवदेवत्येषु —जातवेदो वपया गच्छ देवानिति॥ २३॥
देवार्थं ये पशव आलभ्यन्ते त इमे देवदेवत्याः पशवः। तेषु जातवेद इति मन्त्रेण, वपां जुहुयात्, —इत्यनुवर्त्तते। आह। के पुनर्देवदेवत्याः पशवः ? उच्यते। योऽयं वास्तुकर्म्मणि ‘कृष्णया गवायजेत’ —इत्येवमादिना सूत्रयिष्यते ; ये च तन्त्रान्तरे, —‘हिरण्यकामोऽमावस्यायां मणिभद्रं रोहितेनाजेन यजेत, गोऽश्वकामःपौर्णमास्यां श्वेतेन’, —इत्येवमादयः, त इमे देवदेवत्याः पशवः।तत्र, वास्तुकर्म्मणि वास्तोष्पतये त्वा, —इति निर्व्वापः। होमे तुविशेषं वक्ष्यति। मणिभद्रयागादिषु मणिभद्राय त्वा, —इत्यादिनिर्वापः। मणिभद्राय स्वाहा, —इत्यादिको होमः॥०॥ २३॥०॥
कथं पुनर्ज्ञायते; यन्मणिभद्रयागादिषु मणिभद्राय, —इत्यादिनानिर्व्वापहोमौ भवतः, —इति ? उच्यते।
अनाज्ञातेषु तथाऽऽदेशं यथाऽष्टकायै स्वाहेतिजुहोति॥ २४॥
आ-सम्यक् ज्ञातंआज्ञातं तन्नभवतीत्यनाज्ञातम्। तेषु यथैवश्रूयते, तथैवादेशो यथा भवति तथा कर्त्तव्यम्। एतदुक्तं भवति।येषु समशनीयचरुहोमोपनयनव्रतान्तसावित्रचरुहोमादिषु देवतानिर्दिश्यन्ते न मन्त्राः; तेषु यदेव श्रूयते तदेवादिश्य निर्व्वपेत्जुहुयाच्च। एवञ्च, समशनीयचरौ अग्नये त्वा,–इत्यादिर्निर्वापः,अग्नये स्वाहा, —इत्यादिकश्च होमः। एवं सावित्रचरुहोमादिषुयथायथमूहनीयम्। येषु पुनराग्रहायण्यादिषु देवता नोपदिश्यतेहोममन्त्रश्चाव्यक्तलिङ्गः ; तेषु यावन्मात्रंवाक्यादवगम्यते, तावतएवादेशःनिर्व्वापे। आदिष्टमन्त्रेण तु होमः। येषु पुनश्चैत्र्यादिषुमन्त्रो नोपदिश्यते नापि देवता ; तेषु चैत्र्यैत्वा, –इत्यादिनानिर्व्वापः, चैत्रै स्वाहा, —इत्यादिना च होमःस्यात्।
अत्र दृष्ठान्तः। ‘यथाऽष्टकायै स्वाहेति जुहोति’, —इति।यथा खल्वष्टकायै स्वाहेति यदेव कर्म्मणोनामधेयं तेनैव जुहोति,एवं चैत्र्यादिष्वपि, —इति बोद्धव्यम्। आह। ननु, विषम उपन्यासः, —चैत्रादिषु देवता मन्त्रश्च नोपदिश्यते, न चैवमष्टका।तव हि देवता उपदिष्टा। उच्यते। सत्यमुपदिष्टा तत्र देवता,तथापि तु अन्तिमाष्टकायां ‘अष्टकायै स्वाहा’, —इति कर्म्मनामधेयेनैव होमः क्रियते, सूत्रप्रामाण्यात्। स खल्वयं कर्म्मनामधेयेनहोमोऽत्रदृष्टान्तीकृतः। तस्माददोषः॥ ०॥ २४॥ ०॥
स्थालीपाकावृताऽन्यत्॥ २५॥
व्याख्यातार्थं सूत्रम्॥ ०॥ २५॥ ०॥
ऋणेप्रज्ञायमाने गोलकानां मध्यमपर्णेन जुहुयात् —यत् कुसीदमिति॥ २६॥
ऋणं प्रसिद्धम्।तस्मिन् प्रज्ञायमाने प्रकर्षेण ज्ञायमाने गोलकानांपलाशानां मध्यमपर्णेन मध्यमच्छदेन जुहुयात्, यत् कुसीदमितिमन्त्रेण। अथ, प्रज्ञायमाने, —इत्येतदवाच्यम् ? –इति चेत्। न।यत् खलु ऋणं प्रकर्षेण ज्ञायत एव केवलं, न पुनरपाकर्त्तुं शक्यते,तत्रैव होमोऽयं यथा स्यादित्येवमर्थत्वात्। एतदुक्तं भवति। ऋणमवश्यमपाकरणीयम्। अन्यथा दोषश्रवणात्। तथाच स्मर्य्यते।
“तपस्वीचाग्निहोत्री च ॠणवान् म्रियते यदि।
अग्निहोत्रं तपश्चैव तत्सर्व्वं धनिनो भवेत्”।
इति। तथा।
“ऋणं ये न प्रयच्छन्ति बुद्धिमोहात् कथञ्चन।
धनदातुस्तदीयं स्यात् पुण्यं ते च पुरोहिताः”।
इति। “ऋणानाञ्चानपक्रिया” –इति चोपपातकगणनायां मनुनोक्तम्। यदि पुनरत्यन्तमेवाधनो न शक्नोति तदपाकर्त्तुम्, तदैवं जुहुयात्, —इति। अन्ये तु वर्णयन्ति, —नष्टे धनिके तदृक्थभागिनि च,ऋणापाकरणासम्भवे जुहुयात्, —इति। तदसङ्गतम्।कस्मात् ? राज्ञोऽप्यन्ततस्तदृक्थभाक्त्वात्। नहि कदाचिदपिराज्ञोऽभावोऽस्ति। तमिमं होमं यावत्सङ्ख्यमृणं तात्सत्सङ्ख्यमिच्छन्ति।क्षिप्रहोमञ्च मन्यन्ते॥ ०॥ २७॥ ०॥
अथातो हलाभियोगः॥ २७॥
वर्त्तिप्यते, —इति सूत्रशेषः। अथशब्दःपूर्व्वप्रकृतापेक्षः। कथंनाम ? यथा पूर्वोक्तान्यष्टकादीनि अवश्यकर्त्तव्यानि, एवमिदमप्येतस्मिन् निमित्ते सत्यवश्यमेव कर्त्तव्यम्,–इति। अतःशब्दोहेत्वर्थः। यस्मात् ;—
“ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा”।
इति कृष्याऽपि जीवनं मन्वादीनामनुमतम्। अतः एतस्मात्कारणात्। हलं लाङ्गलं तस्य अभिमुख्येन योगो हलाभियोगः, —कृषिप्रारम्भः, —इत्येतत्॥ ०॥ २७॥ ०॥
** पुण्ये नक्षत्रे खालीपाक
ऋजुरक्षरार्थः। देवतानां विसमासकरणं निर्वापहोमयोः पृथक्त्वप्रज्ञापनार्थम्॥ ०॥ २८॥ ०॥
सीतामाशामरडामनघाञ्च यजेत॥ २९॥
ऋजुरचरार्थः। ‘अरडां’ इत्यत्र ‘अरढां’ —इति पाठान्तरम्।विसमासकरणं पूर्व्ववत्। अथ, पूर्व्ववत् चतुर्थ्यन्तनिर्देशेनैव सिद्धेकिमर्थं विभक्तिमतिक्रम्य यजेत, —इति पुनः क्रियते ? आज्येनामूषां देवतानां होमप्रज्ञापनार्थमित्याह। कथं नाम ? पूर्व्वविभक्तिमतिक्रामन् यजेत, —इति च पुनः कुर्व्वन्, पूर्व्वासामेवदेवतानां चरुभागाभिसम्बन्धः नामूषाम्, —इति दर्शयति। आसांपुनर्देवतानामाज्येनैव होमःस्यात्। तथा चोक्तम्।
“आश्वयुज्यां तथा कृष्यांवास्तुकर्म्मणि यात्रिकाः।
यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते।
द्वेपञ्च द्वे क्रमेणैता हविराहुतयः स्मृताः।
शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत्”।
इति॥ ०॥ २९॥ ०॥
एता एव देवताः सीतायज्ञखलयज्ञप्रवपणप्रलवनपर्य्ययणेषु॥ ३०॥
यजेत, –इत्यनुवर्त्तते। सीता लाङ्गलपद्धतिः, कृष्टं क्षेत्रमित्येतत्।तत्र यो यज्ञः स सीतायज्ञः। स चायं कृष्टस्य क्षेत्रस्य पूर्वोत्तरार्द्धेस्यात्। पक्वव्रीहियवमध्ये क्षेत्रस्य पूर्व्वार्द्धोत्तरार्द्धे, —इतिकेचित्। स खल्वयं सोतायज्ञः शरदि वसन्ते च स्यात्। कस्मात् ?विशेषाभावात्। पक्वंशस्यं छेदनात् परतःक्षेत्रादाकृष्य यत्रपरिष्कृते देशविशेषे स्थाप्यते, सोऽयं खलः। तत्र खलयज्ञःकर्त्तव्यः। स खस्वयं खलयज्ञोऽप्युभयत्रैव करणीयो भवति ; —यवानां खले, व्रीहीणां खले च। प्रवपणं बीजवपनम्। प्रशब्दात्समस्तेषु बीजेषु उप्तेष्वयं यज्ञःस्यात्। प्रलवनं धान्यानां छेदनम्। प्रशब्दःपूर्व्ववत्। पर्य्ययणं —परि सर्व्वतोभावेन धान्यानांखलाद्गृहनयनम्। एतेषु सीतायज्ञादिषु एता एव देवताःयजेत।
ननु, प्रवपणक्रमस्य युक्तत्वात् कस्मात् क्रमभेदः क्रियते ?उच्यते। सीतायज्ञखलयज्ञोस्तावदादितो निर्देशःव्रीहियवयोर्द्वयोरेव धान्ययोस्तयोः करणप्रज्ञापनार्थः। प्रवपणादीनां क्रममतिक्रम्याभिधानं शारदधान्यमतिक्रम्य तेषां करणप्रज्ञापनार्थम्।तेन, सीतायज्ञखलयज्ञयोरुभयत्र करणात् चत्वारो यज्ञा भवन्ति,प्रवपणादीनां सकृत् करणाच्चत्रयः, मिलित्वा संवत्सरे सीतायज्ञादयः सप्त सम्पद्यन्ते। अष्टमश्चहलाभियोगः, —इति। अतएवोक्तम्। “सप्त सीतामखादयः” —इति।
इदमिदानीं सन्दिह्यते। एता एव, —इति किमनन्तरोक्ताःसीतादयो देवताःपरामृश्यन्ते ? आहोस्वित् पूर्व्वाइन्द्रादयः ? उताहो सर्व्वा एव ? –इति। तत्र, पूर्व्वाः पञ्च, —इति केचित्वर्णयन्ति। कुतः ? देवताशब्दसामान्यात्। पूर्व्वत्र तावत् एताभ्योदेवताभ्यः, —इति देवताशब्दः श्रूयते, अत्रापि, एता देवताः,— इति देवताशब्दः कृतः। तस्मात् पूर्व्वास्वेव देवता शब्दप्रयोगात्पूर्व्वा एव गृह्यन्ते नोत्तराः। तदसङ्गतम्। कस्मात् ? यस्मादुत्तरासामग्रहणे सीतायाः ग्रहणं न स्यात्। न च सोतायज्ञे सीतायाःपरित्यागः कर्त्तमुचितः।
अन्ये तु, सर्व्वासामेव ग्रहणमिच्छन्तः, पूर्व्ववत् पूर्व्वाः पञ्चचर्व्वाहुतयः उत्तराश्चान्याहुतयः, —इति मन्यन्ते। तदप्यसङ्गतम्। कस्मात् ? एवम् –इत्यकरणात्। एवं खल्वेवमिति कुर्य्यात्।न खलु देवतायाः परामर्शे द्रव्यमपि परामर्ष्टव्यम्, –इतिकिञ्चिन्नियामकमस्ति। तस्मात्, एताः, –इति सर्व्वनाम्नः प्रकृतपरामर्शकत्वात् एवकारकरणाच्चाविशेषेण सर्व्वासामेव देवतानांपरामर्शः, –इत्येतद्गृह्णीमः।पूर्व्वासां चरुणा उत्तरासामाज्येनहोमः, —इति तु नानुमन्यामहे। प्रमाणाभावात्। तस्मात् सर्व्वासामाज्येनैवात्र होमःस्यात्। तथा चोक्तम्।
“केवलाज्यहविष्काः स्युः सप्त सीतामखादयः”।
इति। अतिक्रान्तपरामर्शश्च नाचार्य्यस्याननुमतः, —इत्यसकृदावेदितम्॥ ०॥ ३०॥ ०॥
आखुराजञ्चोत्करेषु यजेत॥ ३१॥
आखुराजो मुषिकानां राजा। तञ्च उत्करेषु यजेत। उत्कीर्यन्ते, —इत्युत्कराः पांशवो भण्यन्ते। चशब्दात् सर्व्वेषामेव सीतायज्ञादीनामन्ते आज्येनायमाखुराजस्य होमःस्यात्। तथा चोक्तम्।
“केवलाज्यहविष्काःस्युः सप्त सीतामखादयः।
आज्येनाखुंयजेदग्नौ तदन्ते, नित्यमेव तत्”।
इति। आखुराजाय स्वाहा, —इति होमः। सीतायज्ञादिषु आखुराजहोमे च क्षिप्रहोमन्यायमिच्छन्ति। यजेत, —इति पुनः करणंपूर्व्वेणैककर्म्याशङ्कानिरासार्थम्॥ ०॥ ३१॥ ०॥
इन्द्राण्याः स्थालीपाकः॥ ३२॥
कर्त्तव्यः, –इति सूत्रशेषः। इन्द्राण्यै त्वा — इति निर्वापः॥ ३२॥०॥
तस्य जुह्नयादेकाष्टका तपसा तप्यमानेति॥ ३३॥
ऋज्वर्थमेतत्॥ ०॥ ३३॥ ०॥
स्थालीपाकावृताऽन्यत् स्थालीपाकावृताऽन्यत्॥ ३४॥
कृतभाष्यं सूत्रम्।द्विर्व्वचनं प्रकरणसमाप्त्यर्थम्। अत्र किञ्चिद्वक्तव्यमस्ति। तत्र तावत् पृच्छामः। कः पुनरिन्द्राण्याः स्थालीपाकस्य कालः? तत्र केचिदाहुः। चतुरष्टको हेमन्तः, —इतिअष्टकाचतुष्ट्वावगमात् तिसृष्वेव च कर्म्मोपदेशात् चतुर्य्यष्टकायामेतत् कर्त्तव्यम्, —इति। तदसङ्गतम्। कस्मात् ? चतुरष्टकपक्षस्याचार्य्याननुमतत्वात्। तदिदमभिहितमस्माभिः, –“तथागौतमवार्कखण्डी” —इत्यत्र। अपरेतु, —चैत्र्याःपाकायज्ञमध्येपाठात् कर्म्मणश्च तत्रानुपदेशात् तद्विषयताम् एतस्य मन्यन्ते।तदप्यसमीचीनम्। कुतः? अनाज्ञातेषु तथाऽऽदेशम्–इत्यनेनैवतत्र कर्म्मणः सिद्धत्वात्। एकाष्टकेति मन्त्रलिङ्गविरोधाच्च। अन्येतु, पारिभाषिकमेव अस्य कालम्— इच्छन्ति।
तत्र वदामः। एकाष्टका, —इति मन्त्रलिङ्गादेकाष्टकायामेतत्कर्त्तव्यम्। तदिदं सामर्थ्यंनाम प्रमाणं वाक्यस्य बाधकम्। आह।का पुनरियमेकाष्टका नाम ? तत्र व्याख्यातारो विवदन्ते। माध्यनन्तराऽष्टका एकाष्टका, —इति पूर्व्वमीमांसाभाष्ये आचार्येणशवरस्वामिना निर्णीतम्। “माघी वैकाष्टकाश्रुतेः” —इति सूत्रयतो भगवतो जैमिनेरप्येष एवाशयोऽवधार्य्यते। “अन्याऽपीतिचेन्न भक्तित्वादेषा हि लोके” —इति सूत्रयन् तत्रभावान जेमिनिमध्यनन्तराया अष्ठम्या एकाष्टकात्वं लोकप्रसिद्धमित्याह। तथआपस्तम्बोऽपि। “माध्याःपौर्णमास्या उपरि षड़ष्टका, तस्यामष्टमी ज्येष्ठा या सम्पद्यते तामेकाष्टकेत्याचक्षते” —इति सूत्रयन्नेतदेवाह।महाब्राह्मणभाष्ये तु चैत्र्यनन्तरायामप्यष्टम्यामेकाष्टकाशब्दप्रयोगः समर्थितः। केचित्तु, प्रौष्ठपद्या ऊर्द्ध्वकालभाविन्यामष्टकायामेतेन भाव्यम्, —इति वदन्ति। तस्यास्त्वेकाष्टकात्वे नकिञ्चित् प्रमाणं पश्यामः। माध्यनन्तरायास्त्वष्टम्यास्तथात्वन्तुलोकवेदसिद्धमित्यवोचाम। तदत्र भगवन्तो भूमिदेवाः प्रमाणम्॥॥ ०॥ ३४॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य चतुर्थी खण्डिका समाप्ता॥ ०॥
______________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके पञ्चमी खण्डिका।
उक्तो नित्यनैमित्तिकविधिः, अथेदानीं काम्यविधयोवक्तव्याः। तेषुतावत्,—
काम्येष्वत ऊर्द्ध्वम्॥ १॥
अतऊर्द्ध्वंकाम्येषु विधिमुपदेक्ष्याम इति सूत्रशेषः॥ ०॥ १॥ ०॥
पूर्व्वेषु चैके॥ २॥
पूर्व्वेषु नित्यनैमित्तिकेष्वपि वक्ष्यमाणो विधिर्भवति, –इति एकेआचार्य्या मन्यन्ते॥ ०॥ २॥ ०॥
कोऽसौ विधिः? उच्यते,—
पश्चादग्नेर्भूमौन्यञ्चौ पाणीप्रतिष्ठाप्येदं भूमेर्भजामह इति॥ ३॥
जपेत्, इति सूत्रशेषः। पञ्चादग्नेरित्याद्युक्तार्थम्।न्यञ्चपाणिप्रतिष्ठापनश्च, —
“दक्षिणं वामतो वाह्यमात्माभिमुखमेवच।
करं करस्य कुर्व्वीत करणे न्यञ्चकर्म्मणः”।
इति कर्म्मप्रदीपोक्तप्रकारेण कर्त्तव्यम्। स खल्वयं –“भूमिजपः” –इत्याख्यायते॥ ०॥ ३॥०॥
किं यथाऽऽम्नात एव मन्त्रोजप्तव्यः ? न। कथं तर्हि ?
वस्वन्त
रात्रौ क्रियमाणे कर्म्मणि ‘वसु’ शब्दान्तं, –दिवा क्रियमाणे कर्म्मणि’धनम्’ –इत्यन्तं कृत्वा, इदं भूमेरिति मन्त्रंजपेत्॥०॥ ४॥०॥
इम
इमं स्तोमम्, –इत्यादिना ऋक्त्रयेण परिसमूहेत्—विक्षिप्तानग्न्यवयवानेकोकुर्य्यात्। अन्यत्र क्षिप्रहोमेभ्यः। तथा चोक्तम्।
“न कुर्य्यात् क्षिप्रहोमेषु द्विजः परिसमूहनम्”।
इनि। तिसृणामृचां समाहारः तृचः।“ऋचि त्रेरुत्तरपदादिलोपश्च च्छन्दसि” —इति तत्पदं सिद्धम्। “छन्दोवत् सूत्राणिकवयः कुर्व्वन्ति " — इत्यभ्युपगमात्। तदिदं परिसमूहनं यथाकरणीयं, तदाह कर्म्मप्रदीपः।
“कृत्वाऽग्न्यभिमुखौ हस्तौ स्वस्थानस्थौ सुसंहितौ।
प्रदक्षिणंतथाऽऽसीनः कुर्य्यात् परिसमूहनम्”॥
इति। तस्मात्, –दक्षिणहस्तेन कुशान् गृहीत्वा, —इत्यसङ्गतैषाकल्पना भवदेवस्य॥ ०॥ ५॥ ०॥
वैरूपाक्षः पुरस्ताद्धोमानाम्॥ ६॥
वैरूपाक्षः, —उपश्च तेजश्च, —इत्यादि जपः, —इति केचित्। विरूपाक्षशब्दो यस्मिन् विद्यते, सोऽयं वैरूपाक्षः —भूर्भुवःस्वरोम् –इत्यादिको मन्त्रः,—इति तत्त्वकारः। पठ्यमानमन्त्रकाण्डे तु"भूर्भुवः स्वर् ॐ महान्तमात्मनं प्रपद्ये”—इति प्रतीकं प्रपदशेषतयैव पठ्यते। “विरूपाक्षोऽसि दन्ताञ्जिः”—इत्येतदारभ्य वैरूपाक्षःपठ्यते। भट्टभाष्येऽपि, “विरूपाक्षशब्दोऽस्मिन् विद्यतेइति वैरूपाक्षःमन्त्रःविरूपाक्षेऽसीत्येवमादिकः”—इत्युक्तम्।स खल्वयं वैरूपाक्षःहोमानां पुरस्तादग्रतो जप्तव्यः। अन्यत्र क्षिप्रहोमेभ्यः।तत्र प्रमाणं वक्ष्यामः।
होमानामिति कुर्व्वन् सहोमकेष्वेव काम्येष्वेतस्य कर्त्तव्यतांदर्शयति। पूर्व्वाणि तर्ह्यंहोमकेष्वपि कर्त्तव्यानि ? न, –इत्युच्यते। कस्मात् ? अग्निसम्बन्धेन विधानात्। न्यञ्चकरणं परिसमूहनञ्च खल्वग्निसंबन्धेन विधीयते। न खल्वहोमकेऽग्निरस्ति।अथापि स्यात्, –एतस्मादेव कारणात्तत्राप्यग्निमुत्पादयिष्यामहे,—इति।अत्रोच्यते। नाप्रयोजकत्वात्। नैषा साध्वी कल्पना। कस्मात् ? अप्रयोजकत्वात्। सिद्धं खल्वग्निमनूद्य तत्संबन्धेनजपादिकमेव वाक्यानि विदधति, न पुनरग्निमुत्पाददितुमपि प्रयोजयन्ति। कथं ज्ञायते ? वाक्यस्य तत्रासामर्थ्यात्। उभयपरत्वेवाक्यभेदापतेश्च। कथम् ? अग्निसंबन्धेनैतानि कर्त्तव्यानि, अग्निश्चोत्पादनीयः,—इति यदि द्वावभ्यर्थौविधित्सितौ, भिद्येत तर्हिवाक्यम्। अन्यदस्य रूपं विधीयमानस्य अन्यच्चानूद्यमानस्य भवति।तस्मात्,—सहोमकेष्वेव एवमन्तानां करणम्, —इति सिद्धम्।तत्त्वकारस्तु, —होमानां वक्ष्यमाणप्रागुक्तनित्यनैमित्तिकानाम्, —इति वर्णयाञ्चकार॥ ०॥ ६॥ ०॥
काम्येषु च प्रपदः॥ ७॥
प्रपदः,—तपश्च तेजश्च, –इत्यादिको मन्त्रः, काम्येषु पुरस्थात् जप्तव्यः। चशब्दात् सहोमकेष्वपि। एतदुक्तं भवति। द्विविधानि तावत्काम्यानि भवन्ति—होमसंयुक्तान्यहोमकानि च। तत्र, वैरूपाक्षोहोमसंयुक्तेष्वेव, प्रपदस्तु सर्व्वत्रैव स्यात्,—इति। तदिदं काम्यपदंहोमादन्येषामपि काम्यानां ग्रहणार्थम्। काम्येष्वत ऊर्द्ध्वम् —इतिखल्वाचार्य्यःसहोमकान्येव काम्यान्यभिप्रेत्य सूत्रयाञ्चकार,—इतिश्लिष्यते। अतएव चशब्दः सहोमकानां समुच्चयार्थः। अथवा।पूर्व्येषु चैके, –इत्युभयेषामभिकारात् पूर्व्वेष्वप्ययं विधिःस्यात्।अतस्तन्निरासार्थंकाम्यग्रहणम्। चशब्दमेवकारार्थं वर्णयतस्तत्त्वकारस्याप्येषैव वर्णना अनुमतेति गम्यते। एवञ्च, पूर्व्वाणि पूर्व्वेष्वपि पक्षतः प्राप्तानि, –इति बोद्धव्यम्॥ ०॥ ७॥ ०॥
अथेदानीं प्रपदवैरूपाक्षयोर्जपप्रकारोऽभिधीयते,—
तपश्च तेजश्चेति जपित्वा प्राणायाममायम्यार्थमनावैरुपाक्षमारभ्योच्छ्वसेत्॥ ८॥
तपश्च तेजश्च, —इत्यादिमन्त्रं ( प्रपदरूपं ) जपित्वा, तत्परिसमाप्तौ,प्राणानामायमनं प्राणायामः,—“त्रिरभ्यस्तः पूरककुम्भकरेचकाख्यःप्राणायामः”,—इति सन्ध्यास्त्रोक्तलक्षणः तमायग्यःकृत्वा,—इत्यर्थः। प्रथमं प्राणानायम्य पश्चात्तपश्च तेजश्च, —इत्यादिमन्त्रजपः,—इत्यसङ्गतैषा कल्पना। ‘अर्थमनाः’ अर्थःप्रयो-
जनम्, तस्मिन् मनो यस्य, सोऽयमर्थमनाः, —यः कश्चिदर्थःसाधयितुमभिप्रेतः सं ध्यायन्, –इत्येतत्। ‘वैरूपाक्षमारभ्य’‘उच्छसेत्’ प्राणान् विमुञ्चेत्, विमुच्यच वैरुपाक्षंमन्त्रं समापयेत्आवृत्य,—इति कश्चित् पठति, वैरुपाक्षंजप्त्वावायुं रेचयेत्,—इति व्याचष्टे च। प्राणायामोऽप्ययं काम्येष्वेव स्यात् नपूर्व्वेषु। कथं ज्ञायते ? अर्थमनाः,—इति करणात्।प्रपदजपानन्तरविधानाच्च।
अत्रकश्चिदाह। प्राणानां संयमनमेवात्र कर्त्तव्यमुपदिश्यते,न तु प्राणायामो यथोक्तलक्षणः,—इति। तदसङ्गतम्। कस्मात् ?प्राणायाममायम्य, –इति सूत्रणात्। अन्यथा, प्राणानायम्य,—इति कुर्य्यात्। एतेन, —प्राणधारणमात्रं वदता रघुनन्दनेनैतदनुप्रपत्तिभिया, प्राणानायम्य, –इति यत् परिकल्प्यलिखितं, तदप्यनादरणीयम्। प्राणायाममायम्य, –इत्येतस्यैव पाठस्य सर्व्वत्रोपलम्भात्। पूर्व्वैर्व्याख्यातृभिस्तथैव वर्णनाच्च। शिष्टाञ्च प्राणायाममेव यथोक्तलक्षणमाचरन्ति, न प्राणधारणमात्रम्। स खल्वयंप्रपदो वैरूपाक्षश्च क्षिप्रहोमेषु न भवति। कुतः ?
“न कुर्य्यात् क्षिप्रहोमेषु द्विजः परिसमूहनम्।
वैरूपाचञ्च न जपेत् प्रपदञ्च विवर्ज्जयेत्”।
इति वचनात्॥ ०॥ ८॥०॥
काम्येषु त्रिरात्रामोजनम्॥ ९॥
काम्येषु कर्म्मसुकर्त्तव्येषु त्रिरात्रमभोजनं प्रथमतः करणीयम्।आह। काम्येषु, –इति किमर्थं क्रियते ? ननु काम्येष्वत ऊर्द्धम्,— इत्यधिकृतान्येव काम्यानि। नैष दोषः। पूर्व्वेषु चैके,—इत्युभयेषामधिकारात् पूर्व्वेष्वेतत् कदाचिदपि माभूदित्येवमर्थत्वात् काम्यग्रहणस्य॥ ०॥ ९॥ ०॥
त्रीणि वा भक्तानि॥ १०॥
त्रिरात्रमत्रापि सम्बध्यते। त्रीणि वा भक्तानि भोजनानि कर्त्तव्यानि। त्रीण्येवेति नियमार्थतया पर्य्यवसानात् भक्तान्तराणांनिवृत्तिरवगम्यते। एतदुक्तं भवति। त्रिरात्रमेकभक्तं नक्तं वाकुर्य्यात्, —इति। अभक्तानि,—इति पाठेऽपि त्रीण्येव अभक्तानि,—इति भक्तवयमात्रमेव लभ्यते,—इति समान एवार्थः। वाशब्दात् जघन्योऽयं पक्षः। तेनाशक्तस्यैव स्यात्, न तु शक्तस्यापि॥ ०॥ १०॥ ०॥
नित्यप्रयुक्तानान्तु प्रथमप्रयोगेषु॥ ११॥
नित्यमहरहर्यानि कर्म्माणि प्रयुज्यन्ते, तानि नित्यप्रयुक्तानि,—“भृरित्यनकाममारं नित्यं प्रयुञ्जीत” —इत्येवमादीनि। तेषांप्रथमप्रयोगेषु प्रथमारम्भेषु त्रिरात्राभोजनादिकं न तु प्रतिप्रयोगमित्यर्थः। अशक्यत्वादित्यभिप्रायः। अथवा। यानि नित्यंप्रयुज्यन्ते, तानि नित्यप्रयुक्तानि व्रीहियवहोमहरितगोमयमादीनि, तेषामित्यर्थः। तदनेन, अनित्यप्रयुक्तानां प्रतिप्रयोगं करणं दर्शयति। तुशब्दोऽनर्थको निपातो मुखसुखार्थोवा॥ ०॥ ११॥ ०॥
उपोष्य तु यजनीयप्रयोगेषु॥ १२॥
यजनीयेति पक्षादियज्ञमाहुः। तेषां यजनीयानां यःप्रयोगोऽनुष्ठानं तेषु उपोष्य प्रयोगःकर्त्तव्यः, न तत्र त्रिरात्राभोजनादिकमित्यर्थः। तुशब्दःपूर्व्ववत् बोद्धव्यः।
आह। अथ, इदमवाच्यंननु तत्रोपवासविधानादेव स प्राप्यते,अथोच्यते,—कारणं वक्तव्यम्।उच्यते। नित्ये तावत् पक्षादिचरौउपवासःसूत्रितः, न स काम्येषु प्राप्नोति, अतः काम्येऽपि तस्यप्राप्त्यर्थमेतत् सूचितम्। अथवा।उपवासवत् त्रिरावाभोजनादिकमपि स्यात्, अतस्तन्निवृत्यर्थमेतदुच्यते। कथं नाम ? उपोष्वैव न पुनस्त्रिरात्राभोजनादिकमपि कृत्वा, –इति। एवञ्च, तुशब्दःत्रिरात्राभोजनादिव्यवच्छेदको भवति।
एवं वा—
यजनीयेऽहनि प्रतिपदि प्रयोगोऽनुष्ठानं येषां, तानि यजनीय प्रयोगानि अलक्ष्मीनिर्णोदादीनि। तेषु यजनीयप्रयोगेषुउपोष्य प्रयोगः। उपवसथ एव तत्र पुरश्चरणं न तु त्रिरात्राभोजमादीत्यर्थः। यजनीयपदेनात्रप्रतिपदुच्यते। कस्मात् ?
“यजनीयेऽह्निसोमश्चेद्वारुण्यां दिशि दृश्यते”।
इत्यादि प्रयोगदर्शनात्। पक्षादियज्ञे तु उपवसथस्य विशेषविधिमहिम्ना त्रिरात्राभोजनादेस्तत्राप्रवृत्तिरनुसन्धेया॥ ०॥ १२॥ ०॥
उपरिष्टाद्दैक्ष_(
यत् किल सन्निपतितमेव ज्ञायते, तत् सान्निपातिकमनियतनिमित्तं परिवेषादिकमाचक्ष्महे। तदिदं सान्निपातिकमुपरिष्टाद्देक्षंभवति। दीक्षा पुरश्चरणं त्रिरात्राभोजनादिकमित्येतत्।उपरिष्टात् कर्म्मणः पश्चात् दीक्षायस्य, तदिदमुपरिष्टाद्देक्षम्॥॥ ०॥ १३॥०॥
काम्यपरिभाषामभिधाय, अथेदानींकाम्यानि कर्म्मण्यभिधीयन्ते—
अरण्ये प्रपदं प्रयुञ्जीत दर्भेष्वासीनः॥ १४॥
अरण्ये प्रपदं ययोक्तलक्षणं प्रयुञ्जीत। कथम् ?आसीनःउपविष्टः। क्व? दर्भेषु कुशेषु॥ ०॥ १४॥ ०॥
दर्भेषु,—इत्येतदिदानीं विशिनष्टि,—
प्राक्कूलेषु ब्रह्मवर्च्चसकामः॥ १५॥
ब्रह्मवर्च्चसमध्यवनाश्रयं तेजः। तत् कामयते,—इति ब्रह्मववर्च्चसकामः। स खवयं ब्रह्मवर्च्चसकामः, प्राक्कूलेषु प्रागग्रेषु, दर्भेष्वासीनःअरण्ये प्रपदं प्रयुञ्जीत,—इति सम्बध्यते। केचित्पूर्व्वेणसूत्रेण सहास्यैकसूत्रतामिच्छन्ति॥ ०॥ १५॥ ०॥
उदककूलेषु पुत्रपशुकामः॥ १६॥
पुत्रान् पशूंञ्च यः कामयते,—सोऽयं पुत्रपशुकामः, उदक्कूलेषुउदमग्रेषु दर्भेष्वासीनःअरण्ये प्रपदं प्रयुञ्जीत, —इत्यनुवर्त्तते॥॥ ०॥ १६॥ ०॥
उभयेषूभयकामः॥ १७॥
उभयं कामयते,—इत्युभयकामः; ब्रह्मवर्च्चसकामःपुत्रपशुकामश्चमिलितोभयकामः—इत्येतत्। अपर आह। “उभयकामः —ब्रह्मवर्च्चसकामःपुत्रकामश्च। अथवा। ब्रह्मवर्च्चसकामःपशुकामश्च”—इति। स खल्वयमुभयकामः, उभयेषु प्रागग्रेषु उदगग्रेषु चमिलितेष्वित्यर्थः। दर्भेष्वासीनः,–अरण्ये प्रपदं प्रयुञ्जीत, –इत्यनुवर्त्तत एव। सेयं त्रिसूत्रीकाम्यकर्म्मविधानार्था। काम्येषु चप्रपदः, —इत्यस्य विशेषार्था,—इति केचित्॥ ०॥ १७॥ ०॥
पशुस्वस्त्ययनकामोव्रीहियवहोमं प्रयुञ्जीत सहस्रबाहुर्गौपत्य इति॥ १८॥
पशूनां स्वस्त्ययनं मङ्गलमारोग्यमित्येतत्। तत् कामयते,—इतिपशुस्वस्त्ययनकामः।व्रीहियवौप्रसिद्धौ। ताभ्यां मिश्राभ्यां होमोब्रीहियवहोमः। तं प्रयुञ्जीत कुर्य्यात्, सहस्रबाहुरिति मन्त्रेण। क्षिप्रहोममत्रेच्छन्ति। पशुशब्देनात्र गावोऽभिप्रेयन्ते, —इत्यवगच्छामः। कस्मात् ? गौपत्य इति मन्त्रलिङ्गानुग्रहात्। वृहत्क्षुद्रपशूनामुपरिष्टाद्विशेषोपदेशाच्च॥ ०॥ १८॥ ०॥
कौतोमतेन महावृक्षफलानि परिजप्य प्रयच्छेत्॥ १९॥
महागुणयोगात् महावृक्षोऽभिप्रेतः, न परिमाणमहत्त्वात्। एकमेके। महागुणयोगात् परिमाणमहत्त्वाच्च महावृक्षः। एवमपरे।कः पुनरसौ ? यः कश्चिङ्भोज्यफलःचूतनारिकेलादिः,—इत्याह।महावृक्षस्य फलानि महावृक्षफलानि। कौतोमतेन कौतोमतशब्दवता मन्त्रेण ; –“कौतोमतं संवननं “–इत्यादिना मन्त्रेणेत्येतत्।परिजप्य ग्रयच्छेत् दद्यात्॥ ०॥ १९॥ ०॥
कस्मै प्रयच्छेत् ? –
यस्यात्मनि प्रसादमिकेत्तस्मै॥ २०॥
आत्ममि स्वस्मिन् विषये यस्य प्रसन्नतामिच्छेत् तस्मै प्रयच्छेत्॥॥ ०॥ २०॥ ०॥
किं परिजपितानि सर्व्वाण्येव फलानि तस्मै प्रयच्छेत् ? न।
किन्तर्हि?–
एकभूया
तेषां फलानां मध्यात् एकसूयांसि-युग्मानि समानि, फलानि आत्मनःआत्मार्थं कुर्य्यात् कल्पयेत्। एकेन भूयांसि एकभूयांसि–एकाधिकानीत्यर्थः। एतदुक्तं भवति। कानिचित् फलानि परिजप्य तेषां मध्यात् कियन्ति अयुग्मानि फलाति, यस्यात्मनिप्रसादमिच्छेत् तस्मै प्रयच्छेत्, तेभ्यश्च एकेन फलेनाधिकानिअतएव युग्मानि फलानि आत्मनोऽयें कुर्य्यात्, —इति। आह।ननु सन्धिसाम्यात् अयुग्मानि, –इत्यपि शक्यते वर्णयितुम् ?उच्यते। सत्यं शक्यते वर्णयितुं, कल्पनागौरवापत्तेस्तु न तथावर्ण्यते। माङ्गलिकत्वाच्चात्मनो युग्मानामेव वर्णयितुमुचितत्वात्।युग्मानि किल माङ्गलिकानि भवन्ति। “वृद्धिपूर्त्तेषु युग्मानाशयेत्” –इत्यादिदर्शनात्॥ ०॥ २१॥ ०॥
वृक्षइवेति पञ्चर्च्चः॥ २२॥
पञ्चानामृचां समाहारः पञ्चर्च्चः। वृक्ष इव, —इत्येवमादिकःपञ्चर्च्चोऽधिकृतो वेदितव्यः॥ ०॥ २२॥ ०॥
तस्मिन् प्रथमं पार्थिवंकर्म्म॥ २३॥
तस्मिन् अधिकृते पञ्चर्च्चे, तद्विषये, –इत्यर्थः। प्रथममाद्यं कर्म्मपार्थिवम्। पृथिव्यर्थं क्रियते,—इति पार्थिवम्—ग्रामक्षेत्राद्यर्थम्—इत्यर्थः। वर्त्तिष्यते इति सूत्रशेषः॥ ०॥ २३॥ ०॥
अर्ह्वमासमभुक्ता॥ २४॥
कुर्य्यात्, —इति सूत्रशेषः। अस्मात् विशेषोपदेशात् अत्रसामान्यस्य पुरश्चरणस्य त्रिरात्राभोजनादेर्निवृत्तिरिति बोद्धव्यम्॥ ०॥ २४॥ ०॥
अशक्तौ वा पेयामन्यतरं कालम्॥ २५॥
अर्द्धमासाभोजनस्यखल्वशक्तौप्रकृतमर्द्धमासं व्याप्य पेयां वापीत्वा पार्थिवं कर्म्म कुर्य्यात्। “पेया श्राणाऽच्छमण्डयोः"इत्याभिधामिकाः। किं सायम् ? न। ‘अन्यतरं कालम्’। प्रातर्व्वा?सायं वा,–इत्यनियमः॥ ०॥ २५॥ ०॥
यत्रात्मानं परिपश्येत्॥ २६॥
यत्र यस्मिन् काले पेयां पिवेत्, —तस्मिन् काले आत्मानमात्मच्छायां परिपश्येत् –दर्पणादा- वितिवाक्यशेषः।
एवं वा, –
यत्र यस्यां पेयायामात्मानं परिपश्येत्, तां पेयां पीत्वा, —इतिपूर्वोक्तां पेयामनेन विशिनष्टि॥ ०॥ २६॥ ०॥
एतद्व्रतमर्द्धमासव्रतेषु॥ २७॥
यत्र यत्रार्द्धमासव्रतमुपदेक्ष्यते, तत्र तत्र, —“आचितशतकामोऽर्द्धमासव्रतः” —इत्येवमादौ, एतत् अनन्तरोक्तं व्रतं बोद्धव्यम्॥ ०॥ २७॥ ०॥
भासङ्गिकमभिधाय अथेदानींप्रकृतं पार्थिवं कर्म्माह,—
**
पौर्णमास्या
पौर्णमास्यां रात्री,—इत्यतिरोहितार्थम्। “विदासःशोषः, सयस्य हृदस्यास्ति स विदासी। अविदासी ग्रीष्मेऽप्यक्षीणजलः,—इत्यर्थः। तस्मिन् अविदासिनि ह्रदे”—इति केचित्। प्राचार्य्यपुत्रस्तु आह गृह्यसंग्रहे।
" मध्ये स्थण्डिलमन्ते च वारिणा परिसंवृतम्।
अविन्दासिनं ह्रदं विद्यातादृशंकर्मणो विदुः”।
इति। तदेतस्मिन् अविदासिनि ह्रदे, नाभिमात्रं नाभिपरिमितम्उदकम् अवगाह्य अवतीर्य्य, अक्षततण्डुलान्—अक्षता यवाश्चतण्डुलाश्चतान्—यवमिश्रान् व्रीहितण्डुलान्,— इत्यर्थः। अक्षतानां यवानां तण्डुलाम्, –इत्यन्ये। अपरे पुनर् अक्षतशब्देन तण्डुलानेव विशेषयन्ति ;—अक्षतानखण्डितान् तण्डुलाम्,—इति। तदेतदुभयमप्यसङ्गतम्। कस्मात् ?
“गोवाहनक्षुद्रपशुस्वस्तिकर्म्मस्वपि त्रिषु।
जलहोमे च मिश्राभ्यां द्रव्याभ्यां होम इष्यते।
इति वचनात्। तस्मात् यथोक्त एवार्थः। तानिमानक्षततण्डुलान् ऋगन्तेषु प्रक्रुतानां पञ्चानामृचामवसानेषु आस्येनमुखेन जुहुयात् स्वाहेत्युच्चार्य्य। कुत्र जुहुयात् ? उदके जले।अनग्निकत्वादस्मिन् होमे स्वाहाकारविलोपं कश्चिदाशङ्गीत मन्दमतिरिति खल्वाचार्य्यः स्वाहेति सूत्रयाञ्चकार। तस्मात्, स्वाहाकारावसान एव होमोऽयं स्यात्। ऋगन्तेषु,—इति तर्हि किमर्थम् ? प्रत्येकं ऋगवसानेषु होमप्रज्ञापनार्थमित्याह। अन्यथाखल्वेकैवाहुतिः पञ्चर्च्चेन स्यादित्यपि कश्चिदाशङ्गीत। अत्र च, अनग्निकत्वात् यावदुक्तमेव कर्त्तव्यमिति द्रष्टव्यम्॥ ०॥ २८॥ ०॥
अथापरम्॥ २९॥
अथशब्दःपूर्व्वोक्तत्रिरात्राभोजनाद्यानन्तर्य्यार्थः। पूर्व्वप्रकृतपञ्चर्च्चानुसन्धानार्थः वा। अथ एतस्मिन्नेव पञ्चर्च्चेअपरं अन्यत् कर्म्म,वर्तिष्यते, —इति सूत्रशेषः॥ ०॥ २९॥ ०॥
तदपरं कर्म्मअभिधीयते, आा खण्डिकापरिसमाप्तेः।
प्रथमयाऽऽदित्यमुपतिष्ठेत भोगकामोऽर्थपतिचक्षुर्व्विषये सिद्ध्यत्यर्थः॥ ३०॥
प्रकृतस्य पञ्चर्च्चस्य प्रथमया ऋचा,—व्रुक्षइव पक्वस्तिष्ठति,—इत्यादिकयेत्येतत्। आदित्यमुपतिष्ठेत आराधयेत्। उपस्थानञ्चेदम्, —
“तदसंसक्तपाणिर्ष्णिर्व्वाएकपादर्द्धपादपि।
कुर्य्यात् कृताञ्जलिर्व्वाऽपि ऊर्द्धबाहुरथापिवा”।
इति कर्म्मप्रदीपोक्तप्रकारेण करणीयम्। कःउपतिष्ठेत ? ‘भोगकामः’। भोगं कामयते, —इति भोगकामः। कस्मिन् प्रदेशे उपत्तिष्ठेत ? अर्थपतिचक्षुर्व्विषये। यस्मादर्थपतेः सकाशात् भोगंकामयते, तस्यार्थपतेः चक्षुर्व्विषये चक्षुर्गोचरे प्रदेशे। एवं कृतेखल्वस्य, ‘सिद्ध्यति’ ‘अर्थः’ प्रयोजनम्॥ ०॥ ३०॥ ०॥
द्वितीययाऽऽदित्ये परिविष्यमाणेऽक्षततण्डुलान्जुहुयात् बृहत्पत्र स्वस्त्ययनकामः॥ ३१॥
पदं त्रायते, –इति पत्रं वाहनमाचक्ष्महे। बृहत्शब्दो महद्वचनः।बृहत् च तत् पत्रञ्चेति बृहत्पत्रंहस्त्यश्वादिकमुच्यते। तेषां स्वसत्ययनमारोग्यं कामयते,—इति बृहत्पत्रस्वस्त्ययनकामः; —प्रकृतस्यपञ्चर्च्चस्य द्वितीयया ऋचा, —ऋतं सत्ये प्रतिष्ठितम्, —इत्येवमादिकयेत्येतत्। आदित्ये सवितरि परिविष्यमाणे, अक्षततण्डुलान् जुहुयात्,— इत्युक्तार्थम्। परिवेषः परिधिरित्यनर्थान्तरम्। यत्र खल्वादित्यस्य किरणाःवातेनमण्डलीभूताः तस्यपरितो मालाभाःलक्ष्यन्ते, सोऽयमादित्यस्य परिवेषः, —इत्याचक्षते। तथा चोक्तम्।
“वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः।
मालाभा व्योम्नि तन्वन्तः परिवेषाः प्रकीर्त्तिताः”।
इति। तदिदमुपरिष्टाद्दैक्षम्। क्षिप्रहोममत्रेच्छन्ति ३१
तृतीयया चन्द्रमसि तिलतण्डुलान् क्षुद्रपशुस्वस्त्ययनकामः॥ ३२॥
प्रकृतस्य पञ्चर्च्चस्य तृतीयया ऋचा,—अभिभागोऽसि, –इत्यादिकयेत्येतत्। चन्द्रमसि परिविष्यमाणे तिलतण्डुलान्जुहुयादित्यनुवर्त्तते। तिलतण्डुलान्, –इति, अक्षततण्डुलान्, —इति।वद् व्याख्येयम्। को जुहुयात् ? क्षुद्रपशुस्वस्त्ययनकामः। क्षुद्रषशुशब्देनाजाविकाद्युच्यते। सर्व्वमन्यत् पूर्व्ववत्॥ ०॥ ३२॥ ०॥
चतुर्थ्याऽऽदित्यमुपस्थायार्थान् प्रति पद्येत स्वस्त्यर्थवानागच्छति॥ ३३॥
प्रकृतस्य पञ्चर्च्चस्य चतुर्थ्याऋचा, —कोश इव पूर्णो वसुना, इत्यादिकयेत्येतत्। पूर्व्ववत् आदित्यमुपस्थाय, अर्थान् प्रति लक्षीकृत्य, तान् साधयितुमिति यावत्। पद्येत गच्छेत्। अर्थान् प्रपखद्येत,—इति प्राठेऽपि, अर्थान्, साधयितुमिति पूर्व्वोक्तएवार्थः।एवं गच्छन् खल्वयं गन्ता, स्वस्त्यर्थवानागच्छति। यमर्थमभिसन्धायगच्छति, तद्वान् स्वस्तिमांश्चागच्छति गृहम्॥ ०॥ ३३॥ ०॥
** पञ्चम्याऽऽदित्यमुपस्थाय गृहान् प्रपद्येत, स्वस्ति गृहानागच्छति खस्ति गृहानागच्छति॥ ३४॥**
प्रकृतस्य पञ्चर्च्चस्य पञ्चम्या ऋचा, –आकाशस्यैष आकाशः,—इत्यादिकयेत्येतत्। तदनया ऋचा पूर्व्ववदादित्यमुपस्थाय गृहान्प्रति लक्षीकृत्य प्रपद्येतगच्छेत्,— प्रवासस्थः, —इति वाक्यशेषः।अथवा।गृहान् परित्यज्य प्रपद्येत गच्छेत् प्रवसेदिव्यर्थः। गृहात्प्रपद्येत, —इति पाठे, गृहात्सकाशात्प्रतद्येत,—इति सएवार्थः। एवं प्रपद्यमानःखल्वयं स्वस्ति मङ्गलं यथा भवतितथा गृहानागच्छति। द्विर्व्वचनं पञ्चर्चाधिकारसमाप्तिप्रज्ञापनार्थम्॥ ०॥ ३४॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य पञ्चमी खण्डिका समाप्ता॥ ०॥
____________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके षष्ठीखण्डिका।
भूरित्यनकाममारं नित्यं प्रयुञ्जीत॥ १॥
भूरित्ययं मन्त्रप्रतीकः। भूरित्यादिकमनकाममारं मन्त्रं नित्यमहरहः प्रयुञ्जीत। अनकाममारशब्देन, “भूर्भुवःस्वरो
न केवलमिच्छयैव मरणमस्मान्मन्त्रात् सम्पद्यते, अपि तु यः खल्वेतंमन्त्रमहरहः प्रयुङ्क्ते, तस्य,—
न पापरोगान्नाभिचाराद्भयम्॥ २॥
पापरोगःकुष्ठराजयक्ष्मादिः। अभिचारःश्येनसन्दंशादिः। तस्मात्भयं न भवति॥ ०॥ २॥ ०॥
अलक्ष्मीनिर्णोदः॥ ३॥
अलक्ष्मीःप्रसिद्धा।तस्या निर्णोदो निर्हारो नाशकः,—इत्येतत्।कः पुनरसौ ? वक्ष्यमाणो होमः॥ ०॥ ३॥ ०॥
स खल्वयमलक्ष्मीनिर्णोदो होमः,—
यजनीयप्रयोगः॥ ४॥
यजनीयेऽहनि प्रयोगोऽनुष्ठानं यस्य, —सोऽयं यजनीयप्रयोगः। यज्ञदिने कर्त्तव्यः, –इत्यर्थः। यजनीयप्रयोगत्वादुपवसथएवात्रपुरश्चरणं स्यात्। यद्यपि यजनीयप्रयोगोऽयं, तथापि तदीयचरुणा न करणीयः, किन्तु द्रव्यानादेशादाज्येनैव स्यात्।
अपर आह। यजनीयस्य प्रयोगोऽनुष्ठानं यस्य सोऽयंयजनीयप्रयोगः।न खल्वस्ययजनीयप्रयोगत्वं विज्ञातं येनायमनुवादःस्यात्, किन्तु अविज्ञातं विधीयते। तेन, यजनीयवत्प्रयोगः,—इत्यर्थः सिद्धोभवति। तस्मात् धर्म्मप्रदेशोऽयम्। “उपोष्य तु यजनीयप्रयोगेषु” —इति सूत्रित उपवासोऽव प्रदिश्यते। कथंपुनरसति वतिप्रत्यये वत्यर्थःशक्योऽवगन्तुम् ? शक्यः, —इत्याह।कथम् ? यजनीयशब्दोऽयं कर्म्मणासम्बद्धःतत्सहचरितं उपवासधर्म्मंशक्नोति लक्षणयागमयितुम्। शक्नोति चेद्गमयितुं, प्रदेष्टुमपि शक्नोति। एवं खल्वन्तरेणापि वतिप्रत्ययं वत्यर्थःशक्योऽवगन्तुम्। स खल्वयमर्थः सप्तमाध्याय प्रपञ्चितः, तत्रैवानुसन्धेयः॥ ०॥ ४॥ ०॥
अथेदानीमलक्ष्मीनिर्णोदो होमोऽभिधीयते,—
मूर्द्भोधिम इत्येकैकया॥ ५॥
मूर्द्धोधिमे, —इत्यादिकोऽष्टर्च्चोऽत्राभिप्रेतो बोद्धव्यः। तासां खल्वष्टानामृचामेकैकया ऋचा एकैका आहुतिर्होतव्या। अलक्ष्मीनिर्णोदः, —इत्येकवचनात् सर्व्वाभिरेकैवाहुतिः स्यादित्यपि कदाचिदाशङ्का स्यात् कस्यचिन्मन्दमतेः, अतस्तन्निरासार्थमाचार्य्यएकैकयेत्याह॥ ०॥ ५॥ ०॥
किं मन्त्राणामध्ययनक्रमेणैव अष्टावाहुतयो होतव्याः? म।कथन्तर्हि?
या तिरश्चीचीति सप्तमी॥ ६॥
या तिरञ्चीत्यनया ऋचा सप्तमी आहुतिर्हेतव्या। सेयमृक् प्रदेशान्तरपठितेति द्रष्टव्यम्। तदेवमष्टर्च्चस्य षड्भिर्ऋग्भिः पाठक्रमात्षड़ाहुतीर्हुत्वा, या तिरश्चीत्यनया ऋचा प्रदेशान्तरपरिपठितयासप्तम्याहुर्होतव्या। स्थिता तावदविनियुक्तैवाष्टर्च्चस्य सप्तमीऋगष्टमीच॥ ०॥ ६॥॥
तदनन्तरम्,—
वामदेव्यर्च्चः॥ ७॥
वामदेवो नाम ऋषिः, तदीया ऋचः वामदेव्यः। अथ वा। वामदेव्यं नाम साम, तत् यासु ऋक्षुगीयते ता वामदेव्यर्च्चः।‘कयानश्चित्र आभूवत्’ —इतित्यृचो भण्यन्ते। तासामप्येककयैवऋचा होम-स्यात्, न तु त्यृचेनैव। कुतः ? एकैकया, —इत्यनुवर्त्तनात्। तदिदमुपरिष्टात् स्पष्टीकरिष्यामः॥ ०॥ ७॥ ०॥
एतदनन्तरञ्च,—
महाव्याहृतयश्च॥ ८॥
महाव्याहृतयो भूराद्यास्तिस्रः।तासामप्येकैकया एकेका अहुतिर्होतव्या॥ ०॥ ८॥ ०॥
प्रजापत इत्युत्तमा॥ ९॥
प्रजायते न त्वदित्यष्टर्च्चस्याष्टम्या ऋचा उत्तमा अन्त्या आहुतिर्होतव्या। तदेवमष्टर्च्चम्याष्टम्या ऋचो विनियोगः सूत्रितः।आह।अथ, उत्तमा, —इत्येतदवाच्यं पाठक्रमादेवैतस्या उत्तमत्वसिद्धेः,अथोच्यते, —कारणं वक्तव्यम् ?उच्यते। अस्या उत्तमत्ववचनादुपोत्तमाऽपि काचिदाहुतिर्विज्ञायते। का पुनरुपोत्तमा नामाहुतिरभिप्रेता ? शृणु। येयमष्टर्च्चस्य सप्तमी ऋक् —अपेहि त्वम्, —इत्यादिका साम्प्रतमप्यविनियुक्तैव स्थिता, सेयमुपोत्तमा इत्यवगच्छामः। कस्मात् कारणात् ? तस्या विनियोगान्तरानवगतेः,उपस्थितत्वाच्च। तदेवमष्टर्च्चस्य क्रमपरिपठिताः’परिबाधं यजामहे’ —इत्येवमन्ताः षट् ऋचः, प्रदेशान्तरपठिता या तिरश्चीत्येका, वामदेव्यर्च्चस्तिस्रः, महाव्याहृतयस्तिस्रः। एवन्तावत्त्रयोदशाहुययो भवन्ति। अपेहि त्वमिति चतुर्दशी। प्रजापते नत्वदिति पञ्चदशी बोद्धव्या। तथा चोक्तम्।
“विहारो वामदेव्यर्च्चांव्याहृतीनां तथैवच।
अलक्ष्मीनाशके होमे स्यादपेहि चतुर्दशी”॥
इति॥ ०॥ ९॥ ०॥
पर्य्यवसितोऽलक्ष्मीनिर्णोदः। अथेदानींकर्म्मान्तरं वक्तुमारभते,—
** यशोऽहं भवामीति यशस्काम आदित्यमुपतिष्ठेतपूर्व्वाह्णमध्यन्दिनापराह्णेषु॥ १०॥**
यशोऽहं भवामीति पञ्चर्च्चोऽत्राभिप्रेतः। तेनादित्यमुपतिष्ठेत। कः ?यशस्कामः।यशः कामयते यः, सोऽयं यशस्कामः। कस्मिन्काले ? पूर्व्वाहमध्यन्दिनापराह्णेषु। तिसृष्वपि सन्ध्यासु, —इत्यर्थः। कुतः ? परतःसन्धिवेलयोः पूर्व्वाह्णपराह्णपदप्रयोगदर्शनात्। एवञ्च, नित्योपस्थानादनन्तरमेतदुपस्थानं स्यात्। यथा श्रुतार्थ एव सम्यक् इति केचित्॥ ०॥ १०॥ ०॥
किं यथापठितेनैव पञ्चर्च्चेन ? न। कथन्तर्हि ?
प्रातरह्णस्येति सन्नामयन्॥ ११॥
प्रातरह्णस्य, —इति मन्त्रभागं सन्नामयन्, सम्यक्-यथालिङ्गं, नामयन्परिणमयन् — ऊहंकुर्व्वन्नित्यर्थः। एतदुक्तं भवति। प्रातरह्णस्य तेजसः, —इत्येतस्मिन् मन्त्रस्थाने, –मध्यन्दिनस्य तेजसः, —इति मध्यन्दिने, अपराह्नस्य तेजसः, –इत्यपराह्णे, ऊहंकुर्य्यादिति॥ ०॥ ११॥ ०॥
कर्म्मान्तरमाह,—
**
सन्धिवेलयोरुपस्थान
सन्धिवेलयोःप्रातः सायमित्येतत्। उपस्थानं कर्त्तव्यमिति सूत्रशेषः। केन ? आदित्य नावमित्यगया अनुष्टुभा यजुर्द्वयसहितया।कस्य उपस्थानम् ? आदित्यस्य। कथं ज्ञायते ? अधिकारात्।मन्त्रलिङ्गाच्च। किमर्थंपुनरिदमुपस्थानम् ? स्वस्त्ययनम्। स्वस्तिमङ्गलं अयति गच्छति प्राप्नोत्यनेनेति स्वस्त्ययनम् —मङ्गलफलकमित्यर्थः। किं द्वयोरपि सन्ध्ययोरविशेषेण यजुर्द्वयस्याभिनिवेशः?न। किन्तर्हि ? उद्यन्तं त्वा,—इत्येतद्यजुः पूर्व्वाह्णे विनियोक्ताव्यम्। प्रतितिष्ठन्तं त्वा, —इत्येतद्यजुरपराह्णेप्रयोक्त्वव्यम्। तथाच, लिङ्गवशादनयोर्व्विनियोगः, –इत्यभिप्रायः॥॥ १२॥०॥
कर्म्मान्तरमाह, —
** आचितशतकामोऽर्द्धमासव्रतस्तामिश्रादौ व्रीहिका
आाचितशब्देन शकटो भण्यते। कुतः ? “आचितं शकटंप्राहुः” —इति वचतात्। शतशब्दो बहुत्ववचनः कुतः ? नैघण्टुकेकाण्डे ‘शतं “सहस्त्रं –इति बहुनामसु पाठात्। आचितानांशतं कामयते, –इत्याचितशतकामः। यद्यप्याचितशब्देन शकटोभण्यते, तथाप्यत्र शाकटो भारः ; –तावत् परिमितं सुवर्णमिहाभिप्रेतमित्यवगच्छामः। कस्मात् ? शकटमात्रस्यानतिप्रयोजनत्वात्। तावति सुवर्णेऽप्याचितशब्दस्य सङ्केतितत्वाच्च।तथा चोक्तम्।
“सुवर्णविस्तौ हेम्नोऽक्षेकुरुविस्तस्तु तत्पले।
तुला स्त्रियां पलशतं भारःस्थाद्विशतिस्तुला।
आचितो दश भाराःस्युः शाकटो भार आचितः”।
इति। अपर आह। “आचितशब्देनात्रबहुपशुधनधान्यमात्मनःप्रार्थ्यते। तथा हि चरितार्थत्वादाचितानाम्” —इति। स खल्वयमाचितशतकामोऽर्द्धमासब्रतः सन्, —पूर्वोक्तेन विधिना अर्द्धमासं ब्रतं कृत्वा, —इत्येतत्। तमिश्र एव तामिश्रः। तामिश्रस्य कृष्णापक्षस्य, आदौ प्रतिपदीत्यर्थः। ‘व्रीहिकांसौदमं ब्राह्मणान् भोजयित्वा’। व्रीहयः प्रसिद्धाः। कांसशब्देन द्रोणपरिमाणं भण्यते।कस्मात् ? " द्रोणःस्यात् कांसमानकः” —इति वचनात्। व्रीहीणां कांसं व्रीहिकांसं, व्रीहिकांसस्य ओदनो भक्तःव्रीहिकांसौदनः,तं व्रीहिकांसौदनं ब्राह्मणान् भोजयित्वा।
आह। व्रीहिकांसस्य, व्रीहिकांसयोः, व्रीहिकांसानाम्, —इति त्रेधैव विग्रहस्य सम्भवादेकत्वेन विग्रहे कारणं वक्तव्यम् ? उच्यते।प्रयमोपस्थितत्वादेकवचनसंयोगाच्च एकत्वेनैवविग्रहमाचक्ष्महे। व्रीहिकांसौदममित्येकवचने श्रूयमाणे खल्वेकत्वमागच्छति हृदयम्, आगच्छति चेत्, —न युज्यते विनाकारणमुत्स्रष्टुम्। उत्तरत्रापि, ‘तस्य’, –इत्येकवचनसंयोगेन व्रीहिकांसस्य परामर्शाच्चैवमवगच्छामः। अपि च। द्वित्वबहुत्वाभ्यां विग्रहे ब्राह्मणबहुत्वं स्यात्। तच्चानिष्टम्। कस्मात्कारणात् ? श्राद्धे तस्य दोषदर्शनात्। कारणस्य चाविशेषात्। तथा च मनुः।
“सत्क्रियां देशकालौ च द्रव्यं ब्राह्मणसम्पदः।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम्”॥
इति। तस्मात्, सत्क्रियाद्यनुरोधादत्राप्येकवचनेनैव विग्रहः, –इत्यादरणीयम्॥ ०॥ १२॥ ०॥
तदेवं ब्राह्मणान् भोजयित्वा,—
** तत्र कणानपरासु सन्धिवेलासु प्रत्यग्ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधायादित्यमभिमुखो जुहुयाद्-भलाय स्वाहा भल्लाय स्वाहेति॥ १४॥**
तस्य प्रकृतस्य व्रीहिकांसस्य, कणान्,—
“कम्बूकाश्चकणाश्चैव फलीकरणकक्कुशाः”।
इत्युतालक्षणान्। जुहुयात्, —इति सम्बन्धः। ते खल्विमे कणातृषाः, —इत्याचक्षते। अपरासु सन्धिवेलासु अस्तमयसन्ध्यासु,—इत्यर्थः। बहुवचनात् तामिश्रपक्षमभिव्याप्य सर्व्वास्वेवास्तमयसन्ध्यासु अयं होमः स्यात्, न पुनः प्रतिपद्येव, —इति द्रष्टव्यम्।प्रत्यक् पश्चिमायां दिशि, चतुष्पथे, —इति सम्बन्धः। ग्रामात्निवासभूतात् निष्क्रम्य निर्गत्य गत्वा वा। चतुष्पथःप्रसिद्धः।तस्मिन् अग्निं उपसमाधाय यथोक्तेन विधिना, आदित्यमभिमुखः, —आभिमुख्येनादित्यमुखःप्रत्यङ्मुखः, —इत्येतत्। " भलायस्वाहा” “भक्ताय स्वाहा” —इत्येताभ्यां यजुर्भ्यां पृथक् जुहुयात्। ‘अग्निमुपसमाधाय, –इति वचनात् क्षिप्रहोमोऽयम्।कथं नाम ? अग्निमुपसमाधायैव जुहुयात्, न सर्व्वामप्यावृतंकृत्वा, —इति॥ ०॥ १४॥ ०॥
एतयैवावृताऽपरौतामिश्रौ॥ १५॥
एतयैवान्तरयैवावृता रीत्या अपरावपि तामिश्रौकृष्णपक्षावभिव्याप्य अपरासु सन्धिवेलासु जुहुयात्। इदमिदानींसन्दिह्यते।एतया, —इति किं ब्राह्मणभोजनादेः परामर्शः, आहोस्विदर्द्धमासव्रतादेः? —इति। ब्राह्मणभोजनादेः, —इत्याह।कस्मात् ?आवृता, —इति करणात्। न खल्वर्द्धमासव्रतमावृत्। कर्तृधर्म्मःखल्वेतत्। कथं ज्ञायते ? “आचितशतकामोऽर्द्धमासव्रतः” –इतिकर्तृविशेषणतयोपन्यासात्। तस्मादर्द्धमासव्रतस्य न परामर्शः।अपि च। तस्यैव कर्म्मण आवृत्तिरिहोपदिश्यते। अभ्यस्तेकर्मणि सकृदेव व्रतमन्यत्रोपदिष्टम्, —“नित्यप्रयुक्तानान्तु प्रथमप्रयोगेषु " —इत्यत्र। तद्वदिहापि वर्णयितुमुचितम्।
अपर आह। तामिश्रान्तरेषु ब्रह्मचारी स्यात्, —इतिव्रतान्तरोपदेशान्नार्द्धमासव्रतस्य परामर्शः।इतरथा अर्द्धमासव्रतादेव ब्रह्मचर्य्यस्य प्राप्तत्वात् तदवाच्यंस्यात्, —इति। तदपि नसमीचीनम्। कुतः ? अर्द्धमासव्रते ब्रह्मचर्य्यस्य पूर्व्वमाचार्य्येणानुपदेशात्। प्रथमतामिश्रे तर्हि न प्राप्नोति ब्रह्मचर्य्यम् ? माप्रापत्, का नो हानिः। अर्द्धमासव्रतस्य पुरश्चरणरूपतया तत्रापिन तावतैव प्रथमतामिश्रे ब्रह्मचर्य्यस्य प्राप्तिः। यथा तु प्रथमेऽपितामिश्रे प्राप्नोति ब्रह्मचर्य्यं, तथा परतो वर्णयिष्यामः॥ ०॥१५॥ ०॥
तामिश्रान्तरेषु ब्रह्मचारी स्यादासमापनादासमापनात्॥ १६॥
अन्तरशब्दो मध्यवचनः। ताभिश्रपक्षयोरन्तरे मध्ये यान्यहानि,तानि तामिश्रान्तराणि। पूर्व्वापरयोस्तामिश्रयोर्निर्देशात् तन्मध्यपतितानि शुक्लपक्षदिनान्यपि सन्दंशपतितन्यायेन गृह्यन्ते। तेषुअहःसु ब्रह्मचारी मैथुनवर्ज्जी, स्यात् भवेत्। आसमापनात् कर्म्मसमापनपर्य्यन्तम्। कर्म्मसमापनदिनस्य तामिश्रान्तरत्वेऽपि कर्म्मसमापनात् परतो न तत्र ब्रह्मचर्य्यनियमः, —इत्येतदर्थम् ;—‘आसमापनात्’ —इत्याह। यद्यपि, पर्व्वत्वेन तत्रापि मैथुननिषेधोऽस्त्येव, तथापि निमित्तान्तरप्रयुक्तस्य तस्य कर्माङ्गत्वंनास्ति, —इत्यभिप्रायः।
एवं वा,—
तामिश्राणामन्तरे मध्ये यान्यह्यानि, तानि तामिश्रान्तराणि, तेषुतामिश्रान्तरेषु अहःसु ब्रह्मचारी स्यात्। बहुवचनात् प्रथमेऽपितामिश्र ब्रह्मचर्य्यं प्राप्नोति। तामिश्रान्तरेषु कर्म्मोपदेशातदन्तःपातिषु शुक्लपचाष्वहःसु ब्रह्मचर्य्यंन स्यात्, —इत्याशङ्कायामाह ; —आसमापनात्, —इति। कर्म्मसमापनपर्य्यन्तमित्यर्थः। द्विर्व्वचनं प्रकरणखण्डिकयोःसमाप्त्यर्थमादरार्थञ्च॥ ०॥ १६॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य षष्ठी खण्डिका समाप्ता॥ ०॥
——————
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके सप्तमी खण्डिका।
अथेदानींप्रकरणान्तरमारभते,—
अवसानं जोषयेत6॥ १॥
अवस्यन्ति निवसन्त्यस्मिन्, —इत्यवसानं गृहार्थंभूस्थानमिहाभिप्रेतम्, न गृहमेव। कथं ज्ञायते ? ‘सम’ लोमशम्’ —इत्यादिविशेषणानां सामर्थ्यात्। ‘तत्रावसानं प्राग्द्वारम्’ —इत्यादिसूत्रणोपपत्तेश्च। तदिदमवसानं जोषयेत, —‘जुषी प्रीतिसेवनयोः’इति स्मरणात् सेवेत, परिगृह्णायादित्येतत्॥ ०॥ १॥ ०॥
अवसानमिदानीं विशिनष्टि, —त्रयोदशभिः सूत्रैः,—
समंसमानम्, —अग्निम्नोन्नतमित्यर्थः। लोमशम्। लोमानीवकोमलानि तृणानि यत्र विद्यन्ते, तदिदं लोमशमित्युच्यते। अथवा। ‘तृणाणि भूमेर्लोमानि’ —इति वचनात् यथाश्रुत एवार्थः।एविभ्रंशि। यत्र कतस्य वेश्मनो नदीतीरभेदवृक्षपातमतङ्गजादिभिर्विभ्रंशो विनाशो न सम्भाव्यते, तदिदमविभ्रंशि। ‘अवसानंजोषयेत’, –इति सर्व्वत्र सम्बध्यते॥ ०॥ २॥ ०॥
प्राच्य उदीच्यो वा यत्रापःप्रवर्त्तेरन्॥ ३॥
प्राच्यःप्राङ्मुख्यः। उदीच्यःउदङ्मुख्यः। वाशब्दो विकल्पार्थः।यत्र यस्मिन् स्थाने, आपः प्रवर्त्तेरन्, —प्रकर्षेण स्वभावतो वर्त्तेरन्न तु क्रियेरन्। प्रवर्त्तेरन् स्वभावतो गच्छेयुः, न तु प्रयत्नान्तरेण, —इति वा वर्णनीयम्। ‘अवसानं जोषयेत’ —इत्यनेन सम्बध्यते।यच्छब्दोऽयमुत्तरवाक्यगतः सामर्थ्यात्पूर्व्ववाक्यगतं तच्छब्दं नापेक्षते। एवमुत्तरत्रापि द्रष्टव्यम्॥ ०॥ ३॥ ०॥
अक्षीरिण्योऽकण्टका अकटुका यत्रौषधयः स्युः॥ ४॥
क्षीरमिव क्षीरं शुभ्रो निर्यासो भण्यते। क्षीरं विद्यते यासां ताः क्षीरिण्यः, ता न भवन्तीत्यक्षीरिण्यः,—अर्कादिभ्यो भिन्नाः,—इत्येतत्। अकण्टकाः, कण्टकरहिताः, —मदनादिभ्योऽन्याः।अकटुकाः। कटुकाःकटुगुणयुक्ताः, ता न भवन्तीत्यकटुकाःनिम्बादिभ्यो भिन्नाः। कटुस्तिक्तम्। तदेवम्भूता ओषधयो यत्रयस्मिन् स्थाने, स्युः स्वभावतो भवेयुः॥ ०॥ ४॥ ०॥
गौराःशुक्लवर्णाःपांसवो रेणवो यस्मिन्, तत् गौरपांसु ब्राह्मणस्य,अवसानम्, —इति सम्बध्यते॥ ०॥ ५॥ ०॥
अवसानम्॥ ०॥ ६॥ ०॥
अवसानम्, —इत्येव॥ ०॥ ७॥ ०॥
चैवर्णिकानां विशेषमभिधाय, अथेदानींसामान्येनावसानं विशिनष्टि,—
स्थिराघातमेकवर्णमशुष्कमनूषरममरुपरिहितमकिलिनम्॥ ८॥
योद्धृभिरभिहन्यमानं यन्त्र विदीर्य्यते, तत् स्थिराघातम्। एकवर्णमभिन्नवर्णम्। यत्रोत्पद्यमाना ओषधयो न शुष्यन्ति, तदशुष्कम्। यत्रोप्तं बीजं न प्ररोहति, तदूषरमिरियमित्यनर्थान्तरम्। तन्न भवतीत्यनूषरम्। यत्र दूरं खनद्भिरल्पमेवोदकमुपलभ्यते, तन्मरुरित्युच्यते। तथा चोक्तम्।
“द्वीपमुन्नतमाख्यातं शादा चैवेष्टका स्मृता।
किलिनं सजलं प्रोक्तं दूरखातोदको मरुः”।
इति। मरुभूम्या सर्व्वतो वेष्टितं यत् स्थानं तन्मरुपरिहितम्।तत् न भवतीत्यमरुपरिचितम्। किलिनं, सजलं स्थानम्। तत्न भवतीत्यकिलिनम्॥ ०॥ ८॥ ०॥
पुनरपि विशेषेणावसानं विशिनष्टि, —त्रिभिः सूत्रैः,—
दर्भसम्मितं ब्रह्मवर्च्चसकामस्य॥ ९॥
ब्रह्मवर्च्चसं व्याख्यातम्। तत्कामस्य दर्भसम्मितम् —दर्भेःकुशैःसम्यक् मीयते ज्ञायते परिच्छिद्यते वा यत्, तथाविधं, — दर्भयुक्तमित्येतत्। तथा च गृह्यान्तरम्। “यस्मिन् कुशवीरणप्रभूतम्” –इति। वास्तुविद्याविद्भिरप्यभिहितम्।
“कुशयुक्ता शरबहुला
दूर्व्वाकाशावृता क्रमेण मही”।
इति। केचित् पुनरेतदविद्वांसो भाषन्ते, –दर्भसम्मितं कुशनिर्म्मितम् –इति॥ ०॥ ९॥ ०॥
बृहत्तृणैर्बलकामस्य॥ १०॥
बृहत्तृणैर्वीरणशरादिभिः सम्मितं युक्तम्॥ ०॥ १०॥ ०॥
मृदुतृणैः पशुकामस्य॥ ११॥
मृदुतणैर्दूर्वादिभिः। सम्मितमिति वर्त्तते। सेयं त्रिसूत्री, यथाक्रमं ब्राह्मणक्षत्रियवैश्यानामवसानस्य विशेषणार्था। कथंज्ञायते ? तथैव ब्रह्मवर्चस-बल-पशुकामनानामाजस्येनोपपत्तेः।यथा चोक्तम्।
“कुशयुक्ता शरबहुला
दूर्व्वाकाशावृता क्रमेण महौ।
अनुवर्णं वृद्धिकरी
मधुरकषायाम्लकटु का च”।
इति॥ ०॥ ११॥ ०॥
शादासम्मितम्॥ १२॥
शादा, –इति, इष्टकामाहुः। कस्मात् ? देशान्तरप्रसिद्धेः। “शादाचैवेटका स्मृता” – इति वचनाच्च। तया सम्मितं तुल्यं –चतुरस्रमित्यर्थः। अत्र, सम्मितम् –इति क्रियते, पूर्व्वस्मात् सम्मितशब्दादेतस्य सम्मितशब्दस्यार्थभेदप्रज्ञापनार्थम्॥ ०॥ १२॥०॥
मण्डलद्वीपसम्मितं वा॥ १३॥
मण्डलं वर्त्तुलम।द्वीपशब्देनोन्नतमुच्यते। कुतः? “द्वीपमुन्नतमाख्यातम् " –इति वचनात्। मण्डलञ्च तत् द्वीपञ्चेति मण्डलद्वीपं, तत्सम्मितं तदाकारम्। वाशब्दो विकल्पार्थः। सम्मितशब्दःपूर्व्ववत्॥ ०॥ १३॥ ०॥
यत्र वा श्वभ्राः स्वयं खाताः सर्व्वतोऽभिमुखाःयुः॥ १४॥
यत्र यस्मिन् स्थाने वा, श्वभ्रा अवटाः, स्वयं स्वाताः –न तुकृत्रिमाः, सर्व्वतः सर्व्वासु दिक्षु विदिक्षु च, अभिमुखा इतरेतराभिमुखाः, स्युः स्वभावतो भवेयुः। एतदनेनोक्तं भवति। सर्व्वतउच्छ्रितं मध्यतश्चकिञ्चिन्निम्नम्, —इति। यत्र किल दिशांविदिशाञ्चविचारणा नाभिप्रेयते, तत्र ‘सर्व्वतः’ –इति करोत्याचार्यः। तथाच गृह्यासंग्रहः।
“दिशाञ्च विदिशाञ्चैव यत्र नोक्ता विचारणा।
सर्व्वतस्तत्र शब्दोऽयं विधियोगे निपात्यते”।
इति। एवं वा, –
सर्व्वतोऽभिमुखाः,–आभिमुख्येन सम्बंदिग्विदिञ्मुखाः। एतदनेनोक्तं भवति। मव्यतः किञ्चिदुच्चम् अभितश्चसखातम्। तथैवावटानां सर्व्वतोऽभिमुखत्वसम्भवात्। इयमपि त्रिसूत्री यथाक्रमंब्राह्मणक्षत्रियवैश्यानामवसानस्य विशेषणार्था, —इति केचित्।सामान्येनावसानस्य विशेषणार्था, –इत्यपरे॥ ०॥ १४॥ ०॥
तत्रावसानं प्राग्द्वारं यशस्कामो बलकामः कुर्व्वीत॥ १५॥
तत्रतस्मिन् स्थाने। अवस्यन्त्यस्मिन्, —इत्यवसानं गृहं प्रागद्वारंकुर्व्वीत। कः ? यशस्कामो बलकामः। यशस्कामो वा, बलकामोवा, –इत्यर्थः। तदत्र, “खादिरे बध्नाति, पालाशे बघ्नाति, रोहितके बध्नाति”,–इतिवद्विकल्पो बोद्धव्यः। कस्मात् ? कामशब्दाभ्यासात्। यदि पुनरुभयकामोऽभिप्रेतः स्यात्, तर्हि यशोबलकामः, —इति कुर्य्यात्, अलं कामशब्दाभ्यासेन।तस्मात्, कामशब्दाभ्यासादवगच्छामः —विकल्पोऽयम्, —इति॥ ०॥ १५॥ ०॥
उदग्द्वारं पुत्रपशुकामः॥ १६॥
सत्रावसानं कुर्व्वीत, —इत्यनुवर्त्तते॥ ०॥ १६॥ ०॥
दक्षिणाद्वारं दक्षिणा नाम दिक्, तद्वारम्,—अवसानं कुर्व्वीत,—इत्यनुवर्त्तत एव। सर्व्वकामः,—इति, यत् किञ्चित् यशोबलादिकं कामयते, तत् सर्व्वमेतस्माद्भवतीत्यर्थः॥ ०॥ १७॥ ०॥
न प्रत्यग्द्वारं कुर्व्वीत॥ १८॥
पश्चिमदारमवसानं न कुर्व्वीत॥ ०॥ १८॥ ०॥
अनुद्वारञ्च॥ १९॥
अनु पश्चात् द्वारं यस्य, तदनुद्वारमवसानं न कुर्व्वीत। चकारो मकुर्व्वीतेत्यनुषङ्गार्थः। किमनेनोक्तं भवति ? एतदनेनोक्तं भवति। गृहाङ्गानाभिमुखमेव गृहद्वारं करणीयं न तु तद्वैपरीत्येन,—इति। अथवा अनुद्वारमित्यनेन द्विद्वारं गृहं निषिध्यते।कथं नाम ? संमुखद्वारंपश्चाद्द्वारञ्चगृहं न करणीयम्,—इति ०॥ १९॥ ०॥
गृहद्वारम्॥ २०॥
अनुद्वारमवसानं न कुर्व्वीत, —इत्यनुवर्त्तते। गृहद्वारमनु लक्ष्यीकत्य द्वारं यस्य, तथाविधमवसानं न कुर्व्वीत। अन्यगृहद्वाराभिमुखं गृहद्वारं न कुर्व्वीत,—इत्येतत्। तथा च वास्तुविद्याविद्भिरुक्तम्।
" द्वारगवाक्षस्तम्भैः कर्दमभित्त्यन्त कोणवेधैश्च।
नेष्टं वास्तुद्वारं विद्धमनाक्रान्तमन्यैश्च”।
इति॥ ०॥ २॥ ०॥
तथा च गृहद्वारं कुर्य्यात् ;—
यथा न संलोकीस्यात्॥ २१॥
यथा येन प्रकारेण गृहाभ्यन्तरे सध्योपासन-होम-भोजनादिक्रियांकुर्व्वाणो गृहपतिर्न पतित-श्व-चण्डालादीनां संलोको-आलोकोस्यात् भवेत्। ‘संलोकि’ —इति पाठे, गृहमध्यगतं धनादिकंयथा न वहिःस्थितस्य जनस्य संलोकि, आलोकनगम्यं स्यात्,—इति वर्णनीयम्॥ ०॥ २१॥ ०॥
वर्ज्जयेत् पूर्व्वतोऽश्वत्यंल्पक्षंदक्षिणतस्तथा।न्यग्रोधमपराद्देशादुत्तराच्चाप्युदुम्बरम्॥ २२॥
ल्पक्षोजठी पर्कटीत्यनर्थान्तरम्। न्यग्रोधो वटः। अपरः पश्चिमः।अष्टमन्यत्॥ ०॥ २२॥ ०॥
किं पुनरेतैरेतासु दिक्ष्ववस्थितैर्भवति ? उच्यते,—
** अश्वत्थादग्निभयं विद्यात् ल्पक्षाद्ब्रूयात् प्रमायुकान्।न्यग्रोधाच्छस्त्रसंपीड़ामक्ष्यामयमुदुम्बरात्॥ २३॥**
अश्वत्थात्—पूर्व्वतः स्थितात्। प्लक्षात्—दक्षिणतः स्थितात्। प्रमायुकान्,—प्रकर्षेण ह्रस्वान्, अल्पायुषः,—इत्येतत्। मायुकः,—इति निघण्टौ ह्रस्वनामसुचतुर्थं पदम्। प्रमायुकान् प्रकृष्टपित्तान्,—इति केचित्। न्यग्रोधात् –पश्चिमतः स्थितात्। अक्ष्यामयमक्षिरोगम्। उदुम्बरादुत्तरतः स्थितात्॥ ०॥ २३॥ ०॥
** आदित्यदेवतोऽश्वत्थः प्लक्षोयमदेवतः।न्यग्रोधो वारुणो वृक्षःप्राजापत्य उदुम्बरः॥ २४॥**
ऋजुरक्षरार्थः। प्लक्षो यमदेवतः, –इत्यत्रैकाक्षरन्यूनतायामपिन छन्दोभङ्गदोषश्चोदयितव्यो भवति। भवति चात्र ब्राह्मणम्।“ नह्येकस्मादक्षराद्विराधयन्ति”—इति। देवताकीर्त्तनमुत्तरार्थम्॥ ०॥ २४॥ ०॥
यदि पुनःपूर्व्वादिष्वश्वत्थादयः स्युः, तदा किं कुर्य्यात् ?,—इत्यपेक्षायामाह,—
तानस्वस्थानस्थान् कुर्व्वीत॥ २५॥
तानश्वत्थादीन् पूर्व्वादिष्ववस्थितान् अस्वस्थानस्थितान् कुर्व्वीत।स्वेषुपूर्वोक्तेषु स्थानेषु तिष्ठन्ति,—इति स्वस्थानस्थाः, न स्वस्थानस्थाःअस्वस्थानस्थाः, तथाविधान् कुर्व्वीत। यथा ते स्वस्थानेषु पूर्व्वादिषुन तिष्ठन्ति, तथा कुर्य्यादिति यावत्। तथाकरणञ्च च्छेदनादुद्धरयाद्वाबोद्धव्यम्। तत्र चोत्तरसूत्रोक्तो विशेशो द्रष्टव्यः।
“तान् स्वस्थानस्थान् कुर्वीत” —इति पाठे, तानश्वत्थादीन्स्वस्थानस्थान् स्वेषु स्थानेषु स्थितान् कुर्य्यादिति व्याख्येयम्।यस्मात् पूर्व्वादिष्ववस्थितेष्वश्वत्यादिषु अग्निभयादिकं, स्वस्थानस्थितेष्वप्यभ्युदयः, तस्मात्तान् स्वस्थानस्थितान् कुर्वीत, —स्वेषुस्थानेषु रोपयेदित्यर्यः। आह।कानि पुनरमीषां स्वस्थानामि ? पूर्व्वविपरीतानि, –इति ब्रूमः। कस्मात् ? वास्तुविद्याविदां वचनात्। तथा चोक्तम्।
“याम्यादिष्वशुभफला-
जातास्तरवः प्रदक्षिणेनैते।
उदगादिषु प्रशस्ताः
प्लक्षवटोदुम्बराश्वत्थाः”।
इति।
“भवनस्य वटःपूर्व्वे जातःस्यात् सार्व्वकामिकः।
उदुम्बरस्तथा याम्ये वारुणे पिप्पलःशुभः।
प्लक्षश्चोत्तरतो धन्यो विपरीतो विपर्य्यये”।
इति चैवमादि॥ ०॥ २५॥ ०॥
यदा खल्वेतानश्वत्थादीनुद्धरेत् च्छेदयेद्वा, तदा तद्दोषशान्त्यर्थम्,—
एताश्चैव देवता अभियजेत॥ २६॥
एता अनन्तरोक्का देवता अभियजेत। एवशब्दात् यं वृक्षमुद्धरेत्च्छेदयेद्वातस्यैव देवतामभियजेत, न पुनः सर्व्वाः। चशब्दःपूर्वोक्तकल्पेन सम्बन्धकरणार्थः। सम्बन्धकरणस्य प्रयोजनम्, —यदा खल्विमे अस्वस्थानस्थाः क्रियन्ते, तदैवायं कल्पो यथा स्यात्, —इति। वृत्ते चैवं सम्बन्धकरणे, एवशब्दःपूर्व्वोक्तप्रकारेणविशेषबोधको द्रष्टव्यः। अथवा।चशब्दःच्छेदनपक्षेमनूक्तप्रायश्चित्तान्तरानुसन्धानार्थः। कथं नाम ? एता देवताश्च अभियजेत,ऋचञ्च जपेत्, —इति। तथाच मनुः।
“फलदानाञ्च वृक्षाणां छेदने जप्यमृक्शतम्।
गुल्मवल्वीलतानाञ्च पुष्पितानाञ्च वीरुधाम्”।
इति। कल्पान्तरसमुच्चयार्थमपि चशब्दं वर्णयन्ति। कथं नाम ?यदि तानस्वस्थानस्थान् न कुर्य्यात्, तदा,—
“छिन्द्याद्यदि न तरूंस्तान्
तदन्तरे पूजितान् वपेदन्यान्।
पुन्नागाशोकारिष्ट-
वकुलपनसान् शमीशालौ”।
इति वास्तुविद्याविदुक्तं कुर्य्यात्, —इति। तदिदं कल्पान्तरं चशब्देन समुच्चीयते,—इति मन्यन्ते॥॥ २६॥॥
मध्येऽग्निमुपसमाधाय कृष्णया गवा यजेत॥ २७॥
मध्ये प्रकृतस्य गृहस्याभ्यन्तरे, न तदर्थपरिगृहीताया भूमेः। कथंज्ञायते ? सन्निहितपरित्यागे व्यवहितपरिग्रहे च कारणविशेषस्याभावात्। “पूर्व्वैःप्रौष्ठपदैर्गृहेऽग्निं प्रतिष्ठाप्य “—इति च सामविधाने ब्राह्मणे दर्शनात्। अग्निम् उपसमाधाय,—इत्युक्तार्थम्।कृष्णया कृष्णवर्णया गवा यजेत। सेयं स्त्रीगवी अभिप्रेता,—इत्यवगच्छामः। कस्मात् कारणात् ? कृष्णया,—इति स्त्रीलिङ्गनिर्देशात्॥ ०॥ २७॥ ०॥
अजेन वा श्वेतेन॥ २८॥
यजेत,—इत्यनुवर्त्तते। ऋजुरक्षरार्थः। वाशब्दाद् गोरभावे सत्ययंकल्पो बोद्धव्यः॥ ०॥ २८॥ ०॥
किं केवलया गवा ? केवलेन वा अजेन ? न। कथन्तर्हि ?—
सपायसाभ्याम्॥ २९॥
पयसि भवश्चरुःपायसः। तत्सहिताभ्यां गोऽजाभ्यां यथालाभमन्यतरेण यजेत। लाघवं चिकीर्षुः खल्वाचार्य्यः, सपायसाभ्याम्, –इति सूत्रयाञ्चकार, न पुनर्गोऽजयोःसाहित्यप्रतिपिपादयिषया। कथं ज्ञायते ? अजेन वा, –इति वाशब्देन तयोर्विकल्पप्रतिपादनात्॥ ०॥ २९॥ ०॥
गोरजस्य चालाभे,—
पायसेन वा॥ ३०॥
केवलेन यजेत। तदत्र, पशुप्रोक्षणे निर्वापे च, वास्तोष्पतये त्वा, –इति देवतानिर्देशःस्यात्। कुतः ? समाख्यानात्। देवदेवत्यत्वात्’जातवेदोवपया गच्छ देवान्’ –इति वपाहोममन्त्रःस्यात्।केवलपायसपक्षेतु, वपाया अभावात् वपाहोमस्य लोप एव स्यात्।अवदानामि त्वत्र चतुर्दशैवावदेयानि।कुतःकुतः? वामसक्तिक्तोकोस्रौरत्रापवादाभावात्॥ ०॥ ३०॥ ०॥
ततश्च प्रकृतिवत् पायसमांसचरू श्रपयित्वा, —
वसामाज्यं मा
वसाम्, —इति शृतावदानमांसयूषमाहुः। तद्विवसासम्पृक्तंभवति। शृते खलु मांसे निर्गच्छन्ती वसा यूषेणैव मिश्रीभवतिन पृथगुपलभ्यते। आह। एतस्मात् लिङ्गात् पूर्व्वमेव वसां पृथगुद्धरिष्यामः?न, —इत्युच्यते। कुतः ?कल्पनागौरवापत्तेः।प्रमाणविशेषस्य चाभावात्। तस्मात्, चरुद्वयस्यैव श्रवणमा त्रादवगतेरन्यथोपपन्नं लिङ्गं न चर्व्वन्तरमनुमापयति, –इत्यास्थेयम्।दृश्यते खल्वन्यत्रापि तत्सम्बन्धात्ताच्छब्दाम् ; –दण्डयोगाद्दण्डःपुरुषः, –इत्येवमादौ बहुलम्।
सूत्रशेषमिदानींवर्ण्यते। आज्यं व्याख्यातम्। मांसं पश्ववदानमांसम्।पायसं पूर्वोक्तम्। ‘इति’ एतानि चत्वारि, संयूय,–“यु मिश्रणे,” –इति कारणात् सम्यक् मिश्रयित्वा।
कर्म्मक्रमस्तु, —अवदानानि पायसञ्च श्रपयित्वा, कंसेऽवदानरसमवासिच्य, स्वस्तरेऽवदानामि कृत्वा, नवायांसुनायामणुशश्छेदयित्वा, कंसपात्रे चासज्य, वसादिभिः सह संमिश्रयेत्, –इति॥ ०॥ ३१॥ ०॥
ततश्च,–
अष्टगृहीतं गृहीत्वा जुहुयात्॥ ३२॥
भ्रष्टगृहीतं गृहीत्वा भष्टकृत्वो गृहीतं कृत्वा, –इत्येतत्। कस्मात्अष्टगृहीतं गृहीत्वा ? संमिश्रितात्, —इत्याह। कुतः ?मिश्रयस्य तदर्थत्वात्। पूर्व्वं च तथैव दृष्टत्वात्। अत्र च, मध्यात्पूर्वार्द्धादिति प्राकृतो धर्मों निवर्त्तते। कस्मात् ? वैकृतस्य विशेषोपदेशस्यार्थवत्त्वात्। भृगूणामपि नात्र कश्चिद्विशेषः। एवमेके।अन्ये त्वाहुः, –“सन्नीतस्य मध्यपूर्व्वाभ्यां त्रिः ग्रहणात् षड़वदानानि भवन्ति, भृगूणान्तु मध्यपूर्व्वार्द्धपश्चार्द्धेभ्यो द्विःग्रहणम्—तेन षङेव भवन्ति, पुरस्ताच्चोपरिष्टाच्चान्यस्य, एवमष्टगृहीतंभवति”—इति। तदत्र भगवन्तो भूमिदेवाः प्रमाणम्। अवदानस्थानमत्रापि प्रत्यञ्जयेत्। कुतः ? “प्रत्यनक्त्यवदानस्थानानि”—इत्यविशेषेणोपदेशात्। तद्वाधे च कारण विशेषस्याभावात्॥॥ ०॥ ३२॥॥
जुहुयात्, —इति सामान्यत उक्तम्, अथेदानीं तत्रैव विशेषोऽभिधीयते,—
वास्तोष्पत इति प्रथमा॥ ३३॥
वास्तोष्पते, –इति मन्त्रेण प्रथमा आहुतिर्होतव्या। अत्रकिञ्चिद्वक्तव्यमस्ति। परस्तात् तद्वक्ष्यमः॥ ०॥ ३३॥ ०॥
वामदेव्यर्च्चः॥ ३४॥
तिस्रः। ताभिः तिस्र आहुतयो होतव्याः॥ ०॥ ३४॥ ०॥
महाव्याहृतयः॥ ३५॥
तिस्र एव। ताभिरपि तिस्र एवाहुतयो होतव्याः॥ ०॥ ३५॥ ०॥
प्रजापतय इत्युत्तमा॥ ३६॥
प्रजापतये स्वाहा, —इत्यनेन मन्त्रेणउत्तमा अन्त्या आहुतिर्होतव्या। आह। निर्देशबलादेव प्रथमोत्तमत्वे सिद्धे, प्रथमा,—इति उत्तमा,—इति चावाच्यमिति चेत्। न। अर्थवत्त्वात्। कः पुनरर्थः?उच्यते। अनयोः प्रथमोत्तमत्वमभिदधानः खल्वनयोरेवाहुत्योश्चरुभागाभिसम्बन्धं ज्ञापयत्याचार्य्यः, न सर्व्वासामाहुतीनाम्। तस्मात्, ‘वामदेव्यर्च्चः’ ‘महाव्याहृतयः’—इत्यन्तरालसून्निताःषड़ाहुतयआज्येनैवस्युः, न चरुणा। तथा चोक्तम्।
‘आश्वयुज्यां तथा कृष्यांयज्ञकर्म्माणि याज्ञिकाः।
यत्रार्थतत्ववेत्तारो होममेवं प्रचक्षते।
द्वे पश्च द्वे क्रमेणैता हविराहुतयः स्मृताः।
शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत्”।
इति। सोऽयमर्थः। रघुनन्दनादयस्त्वेतदजानन्तः सर्व्वा एव चर्व्वाहुतीरिच्छन्ति। तदशास्त्रम्। तत्रहे एव चर्व्वाहुती अष्टगृहीतेन भवतः। अन्तरालवर्त्तिन्यः षड़ाज्याहुतयस्तु सकृदुगृहीतेनैवेति॥ ०॥ ३६॥ ०॥
हुत्वा दश बलीन् हरेत्॥ ३७॥
ऋजुरक्षरार्थः। अभिधानादेव प्राप्तत्वात् हुत्वा, —इत्येतदवाच्चमिति चेत्। न। सम्बन्धकरणार्थत्वात्। हुत्वा, —इति पुनर्व्वचनंखलु होमबलिहरायोः सम्बन्धकरणार्थम्। सम्बन्धकरणस्य चप्रयोजनम्,—होमशेषेणैव बलिहरणं यथा स्यात्,— इति। अथवा। हुत्वा,—इत्येतदवचने, ‘प्राक् स्विष्टकृत आवापः’—इति सूत्रणात् उपन्यासक्रमाच्च स्विष्टकृद्धोमादर्व्वागेव बलिहरणम्, —इत्यपिकदाचिदाशङ्गा स्यात् कस्यचिदिति, हुत्वा,—इत्याह। कथंनाम ? खिष्टकृदादिकमपि हुत्वा बलीन् हरेत्, —इति। अन्ये त्वाहुः। “कर्म्मापवर्गविहितं वामदेव्यगानमिदानीं माभूदित्यतः,हुत्वा, —इति वचनम्। कथं नाम ? हुत्वा बलीन् हरेत् ततोवामदेव्यं गायेत्” — इति।
ननु, दश, —इत्यपि अनर्थकम्, दशानामेवोपरिष्टादुपदेशात्अन्तरेणाप्येतद्वचनं, बलीनां दशत्वं लभ्यत एव। उच्यते। “प्राच्यूर्द्ध्वावाचीभ्योऽहरहर्नित्यप्रयोगः” —इति सूत्रयिष्यमाणत्वादस्मिन्कर्म्मणि अनित्यत्वमपि तेषां कश्चिदाशङ्कीत। अतस्तन्निरासार्थं दश,—इति सूत्रयाञ्चकार। अथ वा। “प्रजापतये स्वाहेति मध्य उपहरेत् ”—इति सामविधानब्राह्मणे एकादशानां वलीनां हरणदर्शनात् अत्रापि मध्यतोऽप्यधिकं बलिहरणं स्यादितीमामधिकाशङ्खामपनेतु दश, —इत्याह। दशैवात्रबलयो भवन्ति न पुनःसामविधानवदेकादश। प्रजापतये स्वाहा, —इति होम एवात्रस्यात् न बलिः, —इत्यभिप्रायः। न चैवं ब्राह्मणविरोधः, —इतिशङ्गनीयम्। तस्मात् कल्पात् कल्पान्तरत्वादेतस्य। अत एवहोमेऽपि तत्र विशेषःश्रूयते। स च तत्रैवानुसन्धेयः।तस्मात्ब्राह्मणं श्रौताग्निविषयं कल्पान्तराभिप्रायं वा, —इत्यास्थेयम्॥ ०॥ ३७॥ ०॥
अथेदानींक्वबलयोहर्त्तव्याः?कथञ्च ? –इत्येतद्वक्तव्यम्।
तदुच्यते—
प्रदक्षिणं प्रतिदिशम्॥ ३८॥
बलीन् हरेत्, —इत्यनुवर्त्तते। ऋजुरक्षरार्थः। अथ, प्रदक्षिणम्, —इत्येतदवाच्यम् ? ननु वक्ष्यमाणदेवतोपदेशस्त्रादेव प्रादक्षिण्यस्य सिद्धेः। नैष दोषः। कस्मात् ? यस्मात् प्रकृतस्याग्नेःप्रादक्षिण्येनात्रबलिहरणमित्येतत्प्रतिपिपादयिषया प्रदक्षिणमित्याह। अन्यथा कर्त्तुरेव प्रादक्षिण्यं स्यात्॥ ०॥ ३८॥ ०॥
किं केवलासु दिक्षु? न। क्व तर्हि?—
अवान्तरदेशेषु॥ ३८॥
बलीन् हरेत्, —इत्यनुवर्त्ततएव। चशब्दोऽत्र लुप्तवत् द्रष्टव्यः।अवान्तरदेशेषु च बलीन् हरेदित्यर्थः। दिशोर्दिशोरन्तरालमवान्तरदेशः, —इत्याख्यायते॥ ०॥ ३८॥ ०॥
अथेदानीं, कथं बलीन् हरेत् ?, इत्येतत् वक्तुमारभते,—
आनुपूर्व्व्येणाव्यतिहरन्॥ ४०॥
पूर्व्वंपूर्व्वमनु, —इत्यनुपूर्व्वम्, तस्य भाव आनुपूर्व्व्यम्, तेन आनुपूर्व्व्येण, बलीन् हरेत्, —इत्यनुवर्त्तत एव। किं कुर्व्वन् ? अव्यतिहरन्। व्यतिहारमकुर्व्वन्। व्यतिहारो व्यत्यासः पौर्व्वापर्य्यविपर्य्यः, —इत्यनर्थान्तरम्।
कस्य पुनर्व्यतिहारो निषिध्यते ? आनुपूर्व्यस्येत्याह। कुतः ?सन्निधानात्। मन्त्राणाम्, —इति च प्रतिपद्यामहे। कस्मात् ?तेषामपि बौद्धसन्निधानस्य सम्भवात्। न वक्तव्यं तर्हि ? ननुविधानसामर्थ्यादेव व्यतिहारी न भविष्यति, अथोच्यते;—कारणं वक्तव्यम्। आदरार्थम्, —इति ब्रूमः। आह। ननु सूत्रमेवैतदवाच्चं पूर्व्वसूत्राभ्यामुत्तरसूत्रेण चैतस्य गतार्थत्वात्। उच्यते। नैषदोषः। कस्मात् ? सामान्यप्राप्ते- र्विशेषकथनस्यापुनरुक्तत्वात्। लेखशैली खल्वियमाचार्य्याणाम्। ते खल्वादितः सामान्येनाभिधायपुनस्तदेव विशेषेणाभिदधते। सोऽयमलङ्कारो न दोषः।
एतस्मिन् खल्वनुक्ते पूर्व्वसूत्रद्वयक्रमानुरोधान्मन्त्रान् विहृत्यकिमादितःसर्वासु दिक्षु बलिहरणं ततोऽवान्तरदेशेषु ? उतउत्तरसूत्रानुसारात्तदुक्तेनैव क्रमेण ? उताहोउभयत्रापि पाठक्रमस्याविशेषात् विकल्पः ? —इति कदाचित् शिष्या मुह्येयुः,अतः परमकारुणिक आचार्य्यःसूत्रमिदं रचयाञ्चकार।
ननु तथापि न ज्ञायते; —प्राचीनस्य पराचीनस्य वा क्रमस्यानुपूर्व्व्यगमत्रामभिप्रेतम, —इति। पराचीनस्य,—इत्याह। कुतः ?यतःप्राचीनस्य क्रमस्यानुपूर्व्व्येखल्वभिप्रेयमाणे मन्त्राणां व्यतिहारःस्यात्। तच्चानिष्टम्। उत्तरसूत्रतात्पर्य्यलोचनाच्चैवमवमच्छामः। यदि तावत् प्राचीनस्य क्रमस्यानुपूर्व्व्यमिहाप्रेतमभिविष्यत्,नूनमुत्तरत्र पुरस्तात्,—इति, अवान्तरदेशे, —इति चैवमादिदेशकोर्त्तनं नाकरिष्यत्। अकार्षीच्चाचार्य्यः। तस्मादवगच्छामः, —न प्राचीनस्य क्रमस्यानुपूर्व्व्यमिह प्रतिपिपादयिषितम्,—इति।
अथ, तथाप्युत्तरसूत्रे देशकोर्त्तनमनर्थकम् ; — ननु मन्त्राणांव्यतिहारनिषेधादेव प्राचीनस्य क्रमस्यानुपूर्व्वमत्र न भविष्यति, —इत्युक्तम्। सत्यमुक्तम्। तत् खल्वेतदुत्तरसूत्रे देशकीर्त्तने सतिशक्यते वक्तुम्। न पुनरन्यथा। कथम् ? देशकीर्त्तनबलात्तत्तद्देशानामेव बलीनां ते ते मन्त्राः भवन्ति। तत्रादितो दिक्षु, ततोविदिक्षु च बलिहरणे मन्त्राणां व्यतिहारोऽवर्ज्जनीयःस्यात्। देशकोर्त्तनस्य खल्वभावे, तत्तद्देशानामेव बलीनां ते ते मन्त्राः, —इत्यत्र कारणविशेषाभावात् यथापठितैरेव मन्त्रैरादितो दिक्षु ततो विदिक्षु बलिहरणोपपत्तेर्व्यतिहारस्य वक्तुमशक्यत्वात्,—इत्यस्तु किं विस्तरेण॥ ०॥ ४०॥ ०॥
यस्थानुपूर्व्व्यस्य येषाञ्च मन्त्राणां व्यतिहारो निषिद्धः, त इदानीमभिधीयन्ते ; देवताश्चबलीनाम्,—
** इन्द्रायेति पुरस्ताद्वायव इत्यवान्तरदेशे यमायेतिदक्षिणतः पितृभ्य इत्यवान्तरदेशे वरुणायेति पश्चान्महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरतो महेन्द्रायेत्यवान्तरदेशे वासुकय इत्यधस्तादूर्द्ध्वं नमो ब्रह्मणइति दिवि॥ ४१॥**
ऋजुरक्षरार्थः। अधस्तादिति नीचैर्दानमुपदिशति। ऊर्द्ध्वमितिब्रह्मबलावन्वेति। ऊर्द्ध्वम्, —इति जर्द्ध्वमुत्क्षिप्य दानार्थम्। दिवि, –इति दिवं मनसि निधाय निक्षेपार्थम्।बलिहरणमन्त्राणाञ्चामीषामन्ते नमस्कारः स्यात्। कुतः?
“अमुष्मै नम इत्येवं बलिदानं विधीयते।
बलिदानप्रदानार्थं नमस्कारःक्रुतो यतः”।
इति प्रकृतौ तथादर्शनात्। पितृभ्यः, –इत्यत्र चान्ते स्वधाकारःस्यात्। कस्मात् ?
“स्वधाकारेण निनयेत् पित्र्यंबलिमतः सदा “।
इति वचनात्। ब्रह्मबलौ तु यावदुक्तत्वादादित एव नमस्कारःस्यात्। विशेषवचनस्य खल्वर्थवत्त्वार्थं सामान्यवचनस्योपरोध इष्यतएव। न च विकल्पः, अतुल्यबलत्वात्। सामान्य विशेषयोर्विकल्पस्य क्वचिदप्यदर्शनात्। उपजीव्यश्च खल्वाचार्य्यः कात्यायनस्य,—इति नैतदन्यथयितुं शक्यम्। सामविधानब्राह्मणेऽप्येवमेवैतत्समाम्नायते, –इति नात्र विकल्पो युक्तः कल्पयितुम्। अपरे पुनरेतदविद्वांसो भाषन्ते, –“ब्रह्मणे, –इत्यत्रान्ते नमस्कारःस्यात्।कुतः? प्रकृतौ तथा दृष्टत्वात्। यथोपदेशं वा स्यात्। उपदेशसामर्थ्यात्। एवञ्चेत्, विकल्पः, तुल्यबलत्वात् " —इति। सुभूमिकरणमुभयतश्चाद्भिः परिषेकश्च प्रकृतिवदत्तापि कर्त्तव्यः॥०॥ ४१॥
प्राच्यूर्द्ध्वाचीभ्योऽहरहर्नित्यप्रयोगः॥ ४२॥
प्राच्यूर्द्धावावाचीभ्यः, —तत्तद्दिग्देवताभ्यः, —इत्येतत्। अवाची खल्विहाधोदिगभिप्रेयते। कथं ज्ञायते ? तद्बलेरवाचीनं दीयमानत्वात्।सन्निहितपठितस्योपर्द्ध्वस्य वैपरीत्याच्च। तथाच नित्यबलौ कर्म्मप्रदीपः। “इन्द्राय वासुकये ब्रह्मणे”—इति। एताभ्यः खलु देवताभ्योऽहरहः प्रत्यहं, नित्यप्रयोगः, —नित्यमवश्यं प्रयोगोऽनुष्ठानंकर्त्तव्यः बलीनाम्। एताभ्यो देवताभ्यः प्रत्यहं बलिहरणमवश्यं कर्त्तव्यमित्यर्थः। तदिदं प्रसङ्गादत्र सूत्रितम्।अहरहरिति प्रत्यहकरणार्थम्। नित्यपदमावश्यकत्वार्थम्। क्रमश्च पूर्व्वस्त्रोक्त एवस्यात्। वैपरीत्ये कारणाभावात्। क्रमभेदःखल्विहोर्द्ध्ववैपरीत्येनावाचीग्रहणार्थः,–इत्यवोचाम। स्वहस्तितः खल्वयमेव क्रमःकर्म्मप्रदीपकृता।अभिहितञ्चैतत् सर्व्वमस्माभिरवस्तात्,—” अथ संस्तूपं स रक्षोजनेभ्यः” –इत्यत्र॥ ०॥ ४२॥ ०॥
प्रासङ्गिकमभिधाय प्रकृतमेव पुनरनुवर्त्तामहे,—
संवत्सरे संवत्सरे नवयज्ञयोर्वा॥ ४३॥
वाशब्दस्योभयत्रान्वयः कर्त्तव्यः। नवयज्ञयोः,–इत्येतदपि वीप्सितंद्रष्टव्यम्।तेनायमर्थः। संवत्सरे संवत्सरे वा नवयज्ञयोर्नवयज्ञयोर्वा नित्यप्रयोगः, —इत्यनुवर्त्तते। नवयज्ञयोरिति द्विवचनकरणात्व्रीहियवयज्ञयोरिति बोद्धव्यम्। श्यामाकयज्ञस्य तु वनस्थविषयत्वादिह नोल्लेखः।
आह। कस्य नित्यप्रयोगः ? यथोक्तस्य कर्म्मणः, –इत्याचक्ष्महे। कस्मात् ? “अव्यक्तं प्रधानगामि” –इति वचनात्। तथाचसामविधाने ब्राह्मणे। “अथातो वास्तूशमनम्” – इत्येतस्मिन् प्रकरणे, “बहुपशुधनधान्यहिरण्वमायुमत्पुरुषं वीरसूः सुभगा अविधवस्त्रीकं शिवं पुण्यं वास्तु भवति, चतुर्षु मासेषु प्रयोगःसंवत्सरेवा पुनःप्रयोगः” —इत्याम्नातम्। तस्मात्,— प्रकृतस्य बलित्रयस्य प्रयोगः,—इत्यसङ्गतैषा वर्णना।सामविधाने खल्वहरहर्बलित्रयस्योपदेशविरहात् प्रकृतस्यैव कर्म्मणःपुनःप्रयोगोऽवगम्यते।तस्मादिहापि तथैव वर्णयितुमुचितम्॥ ०॥ ४३॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य सप्तमी खण्डिका समाप्ता॥ ०॥
____________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके अष्टमी खण्डिका।
श्रवणाऽऽग्रहायणीकर्म्मणोरक्षताञ्छिष्ट्वा॥१॥
व्याख्याते श्रवणाग्रहायणीकर्म्मणी। तयोः कर्म्मणोः, अक्षतान्यवान् शिष्ट्वा, —अवशिष्टान् कृत्वा उर्व्वरितान् कृत्वा,—इत्येतत्।अक्षतान्, —इति वचनादासादितानां यवानां मध्यात् पूर्व्वमेवभर्ज्जनादवशेषः कर्त्तव्यः, न भर्जनात् परतः। कुतः ? अनचतत्वात्तेषाम्। तथा चोक्तम्
“अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते”।
इति।शिष्ट्वा, —इति करणाच्च, एतत्कर्म्मकरणार्थमक्षतानामवशेषःकरणीयः, न तु यदि देवादक्षताः शिष्यन्ते, तदैवैतस्वकर्म्मणःकरणम्, – इत्युपदिशति॥ ०॥ १॥ ०॥
** प्राङ् वोदङ् वा ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधाय हये राक इत्येकैकयाऽञ्जलिना जुहुयात्॥ २॥**
प्राङ्मुखो वा उदङ्मुखो वा ग्रामान्निष्क्रम्य निर्गत्य। सन्निधानातिरेकात् निष्क्रमणस्यैष नियमो न चतुष्पथस्य। चतुष्पथःप्रसिद्धः।तस्मिन् ‘अग्निमुपसमाधाय’ –इत्युक्तार्थम्। हये राके, —इतिचतस्र ऋचोऽभिप्रेताः। तासामेकैकया ऋचा, अञ्जलिना –व्याकोशीकृतेन पाणिद्वयेन जुहुयात्; –प्रकृतानक्षतान्। अथ, अग्निमुपसमाधाय, –इत्येतदवाच्यम् ; ननु जुहोतिचोदनया खल्वेतत्प्राप्नोति। न, –इत्याह। कस्मात् ? यस्मादग्निमुपसमाधाय, –इत्येतदवचने चतुष्पथे खल्वसौ होमःस्यात् उदकइवाक्षततण्डुलानाम्। तस्मादेतदुच्यते। क्षिप्रहोमन्यायेन खल्वयं होमः स्यात्।तत्प्रज्ञापनार्थं चाग्निमुपसमाधायेत्युच्यते। कथं नाम ? अग्निमुपसमाधायैव जुहुयात् न तु परिसमूहनादिकमपि कृत्वा,—इति॥ ०॥ २॥ ०॥
प्राङुत् क्रम्य वसुवन एधीत्यर्द्धमुदीक्षमाणो देवजनेभ्यः॥ ३॥
प्राङ् प्राङ्मुखः, उत्क्रम्य अग्नेःसकाशात् कतिचित् पदानिगत्वा। वसुवन एधि,—इति यजुषा त्रिरभ्यस्तेन, —इत्यर्थः।कुतः ? पठ्यमानमन्त्रकाण्डे तथैवैतस्य यजुषःपाठात्। ऊर्द्ध्वं उपरिष्टात्। उदीक्षमाणः ऊर्द्ध्वमवलोकयन्, देवजनेभ्यःदेवजनानुद्दिश्य। प्रकृतानामक्षतानामञ्जलिमुत्सृजेत्,—इति स्वशेषः।“ऊर्द्ध्वम्” इति पदस्योत्सर्गेणैव संबन्धो न तु ईक्षणेन। कथं ज्ञायते ?उदीक्षमाणः, —इति उदुपसर्गेणैव तदवगतेरनर्थकत्वापत्तेः।
इदमिदानींसन्दिह्यते। वसुवन एधि, —इत्येतदुयजुः किमुत्क्रमणेन संबध्यते, आहोस्विदुदीक्षणेन, उताहो उत्सर्गेण ? —इति।उत्क्रमणेन, —इति केचित्। तदसङ्गतम्। कस्मात्? यस्मादेवंसति अक्षतबलिरमन्त्रकःस्यात्। तच्चानिष्टम्।“द्रव्यत्यागो ननिर्देवः” —इति स्मरणात्। अव्यक्तस्य प्रधानसंबन्धसिद्धान्तोऽप्येवमुपरुध्येत। अतएव, उदीक्षणेन संबन्धः, —इत्यपि नाद्रियामहे। अपरे तु, —देवजनेभ्यः, —इति चतुर्थीनिर्देशादयमेव नमस्कारान्तो बलिमन्त्रः, —इति मन्यमानाः, –वसुवन एधीतिमन्त्रस्योत्क्रमणेन संबन्धम् इच्छन्ति। तदप्यसुन्दरम्।कस्मात्कारणात्? इतिकरणाभावात्। एवं खल्वभिप्रेयमाणे, “इन्द्रायेति पुरस्तात् " – इत्येवमादिवत्, देवजनेभ्यः, –इत्यत्रापि इतिःक्रियेत। तदकरणादवगच्छामः, –नायं बलिमन्त्रः, – इति।तस्मादुत्सर्गेणैव यजुषःसंबन्धः। तथा चोक्तम्।
“ऊर्द्ध्वं’ वस्वितिमन्त्रेण देवेभ्योऽस्येत् यवाञ्जलिम्।
तथेतरजनेभ्यश्च प्राञ्चमन्यद यथाविधि”।
इति। उत्क्रमणमुदीक्षणञ्च द्वयमपि मन्त्रानुपदेशाद् व्याहृतियोगेनस्यात्। तूष्णीमिति केचित्।
अत्राह। ननु आग्नेयमिदं यजुः’वसुवन एधि’ —इति।तथाचाग्नेयेन यजुषा देवजनेभ्यो बलिर्दीयते इत्यनुपपत्नमिव प्रतिभाति। नायं दोषः। “ऐन्ट्र्यागार्हपत्यमुपतिष्ठेत” —इतिवद्वचनादुपपत्तिसम्भवात्। तथा चोक्तम्। “किमिव हि वचनं न कुर्य्यात् नास्ति वचनस्यातिभारः” —इति। अपिच। देवजनार्थमग्नेरध्येषितत्वात् नात्रानुपपत्तिशङ्काऽवसरः। अयं खल्वर्थो मन्त्रस्य।वस्विति धननाम।वन सम्भक्तो। हे अग्ने, त्वमस्मिन् कर्म्मणिवसुवनः धनसंविभागशीलः एधि भव। योऽयमचतवलिर्मया दीयते,तं विभज्य यथायोग्यं देवजनेभ्यः प्रापय इति। प्रसिद्धं ह्यग्नेर्देवानांहव्यप्रापकत्वम्। तस्मात् सर्व्वमुपपद्यते॥ ०॥ ३॥ ०॥
तिर्य्यङ्ङितरजनेभ्योऽर्व्वाङ्वेक्षमाणः॥ ४॥
तिर्य्यङ् तिरश्चीनं यथा भवति, तथा, —इति क्रियाविशेषणमेतत्।अथवा।“प्राञ्चमन्यद् यथाविधि” —इति वचनात्प्राञ्चमेतं बलिंहरेत्। ततश्च एवं व्याख्यायते। तिर्य्यङ् तिरश्चीनः सन्, इतरजनेभ्यः अक्षताञ्जलिमुत्सृजेत्। प्रकृतेन वसुवन एधीत्यनेन मन्त्रेण।किमविशेषेण ? न। कथन्तर्हि ? अर्व्वाङवेक्षमाणः। अधोऽवलोकयन्। अर्व्वाङ् अधोमुखः, अवेक्षमाणो बलिदेशम्, —इति वा वर्णनीयम्॥ ०॥ ४॥ ०॥
अनवेक्षमाणः प्रत्येत्याक्षतान् प्राश्नीयात्॥ ५॥
अनवेक्षमाणोऽनवलोकयन्। अनपेक्षमाणः, —इति पाठेऽपि, अपेत्ययमुपसर्गः, –इति स एवार्थः। किमनवेक्षमाणः ? प्रकृतान्बलिदिग्देशान्। प्रत्येत्य पुनरागत्य। किम् ? अग्निसमोपदेशम्। कुतः? प्रकृतत्वात्। प्रतिशब्दस्वरसाच्च। अक्षतान्, –प्रकृतान् होमबल्योरवशिष्टान् इत्यर्थः। प्राश्नीयात्भुञ्जीत।एवञ्च न सर्व्वेषां मक्षतानां होमवल्योर्विनियोगःस्यात्॥ ०॥ ५॥ ०॥
किमेक एव प्राश्नीयात् ? न।
उपेतैरमात्यैःसह॥ ६॥
उपेतैः समीपमागतैरमात्यैः सह मिलित्वा। अमात्यशब्देनपुत्रभ्रातृप्रभृतयो गृह्या उच्यन्ते। एतदुक्तं भवति। यावदयंगृहान्निष्क्रान्तो जुहोति बलिञ्चोत्सृज्याग्निसमीपं प्रत्येति,तावदमात्या अप्यस्य समीपमागच्छेयुः; — येन तैःसार्द्धमक्षतप्राशनमस्योपपद्यते, –इति। स खल्वयमर्थःउपेतपदस्वरसादवगम्यते॥ ०॥ ६॥ ०॥
काम्येन खल्वेतेन कर्म्मणा भवितव्यम्। किं पुनरस्मिन् कर्म्मणिकृते फलं स्यात् ? तदुच्यते,—
स्वस्त्ययनम्॥ ७॥
व्याख्यातोऽक्षरार्थः। तदिदं कर्म्मणः फलवचनपरं सूत्रं न वामदेव्यगानविधानार्थम्। अनर्थकत्वापत्तेः। परिभाषाप्राप्तं वामदेव्यगानंखल्वन्तरेणाप्येतद्वचनमिदानींकर्त्तव्यं भवति। उत्तरतः कर्म्मान्तरसूत्रणादिदानीमेतस्य कर्म्मणोऽपवर्गावगमात्। अपर आह।कर्म्मपवर्गविहितं वामदेव्यगानमिह स्वस्त्ययनम् –इति॥०॥७॥०॥
वशङ्गमौ शङ्खश्चेति पृथगाहुती व्रीहियवहोमौप्रयुञ्जीत॥ ८॥
वशङ्गमौ, —इति मन्त्रेण, शङ्खश्च, —इति मन्त्रेण च, पृथक् नानाआहुती ययोः, तौपृथगाहुती व्रीहियवहोमो प्रयुञ्जीत कुर्य्यात्।ननु, पृथगाहुती, —इत्येतदवाच्यं ; मन्त्रयोः पृथगुपन्यासात् व्रीहियवहोमौ, —इति दिवचनाच्च होमयोर्द्वित्वावगतेः। न, —इत्याह।कस्मात् ? यस्मात् एतदवचने व्रीहियवयो- र्द्वन्द्वबलादितरेतरयोगावगतेर्मिलितयोर्व्रीहियवयोर्होमःस्यात्। तस्मादेकैकमन्त्रेणैकैकस्यहोमार्थंपृथगाहुती, —इति वचनम्। तदत्रद्रव्यपृथक्त्वादाहुत्योःपृथक्त्वमित्यमुमर्थं प्रज्ञापयितुं’पृथगाहुती’–इत्याह। एवञ्च,वशङ्गमाविति मन्त्रेण व्रीहिहोमः, शङ्खश्चेवत्यनेन च यवहोमःस्यात्। तथा चोक्तम्।
“वशङ्गमाविति व्रीहीन् शङ्खश्चेति यवांस्तथा।
असावित्यत्र नामोक्त्वाजुहुयात् क्षिप्रहोमवत्”।
इति। अस्माद्वचनात् क्षिप्रहोमोऽयम्। आह। असौ, –इत्येतस्मिन्सर्व्वनाम्नि नाम उक्त्वा जुहुयात्, —इत्युक्तम्। न ज्ञायते ; कस्यनाम्नोवचनम् ? —इति। तद्वक्तव्यम्। उच्चते॥ ०॥ ८॥ ०॥
यस्यात्मनि प्रसादमिच्छत्तस्मै॥ ९॥
यस्य, —अविशेषात् स्त्रियाःपुरुषस्य वा, आत्मनि स्वस्मिन् विषये,प्रसादं प्रसन्नतामिच्छेत् अभिलषति, तस्मै, तस्य, नाम उक्त्वा, —इति संवन्धः। ‘तस्यै खर्व्वः’ इतिवत् ‘तस्मै’, –इति च्छान्दस्याप्रक्रियया षष्ठ्यर्थे चतुर्थी। अपर आह। तस्मै, —इति तादर्थ्येचतुर्थी। यस्यात्मनि प्रसादमिच्छेत्तदर्थं तमुद्दिश्य व्रीहियवहोमौप्रयुञ्जीत, —इति गतेन संबन्धः। अनयाऽपि वचनव्यक्त्या तस्यैवनाम्नोवचनम्,—इति मन्यते। तं प्रसादयितुम्इ —इत्यस्यामपिवर्णनायां गतेनैवास्य संबन्धो द्रष्टव्यः, –इति॥ ०॥ ९॥॥
किमस्य व्रीहियवहोमस्य सकृत् प्रयोगः ? न,—
नित्यप्रयोगः॥ १०॥
नित्यमहरहः प्रयोगः—अर्थादाप्रसादात् प्रत्यहमनुष्ठानम्॥०॥ १०॥
एकाक्षर्य्यायामर्द्धमासव्रते द्वे कर्म्मणी॥ ११॥
“आकूतींदेवीं मनसा प्रपद्ये” —इत्यादिकामृचमेकाक्षर्य्यामाक्ष्महे।कस्मात् ? तस्या इदानींक्रमप्राप्तत्वात्। प्रसिद्धेश्च। प्रसिद्धिबीजञ्च, —“यस्यास्त एकमक्षरम्”—इतिमन्त्रवर्णः। तदस्यामेकाक्षर्य्यायामृचि चत्वारि कर्म्माणि सूत्रयिष्यति। तेषांमध्यात् द्वेकर्म्मणी अर्द्धमासव्रते स्याताम्। के पुनर्द्वे कर्म्मणिअर्द्धमासव्रते स्याताम् ? आयुष्कामग्रामकामकर्मणी, —इति ब्रूमः।कथं ज्ञायते ? अनयोर्विशिष्टफलकत्वात्। साध्यानुगुणत्वाच्चसाधनस्य।तथा चोक्तम्।
“चत्वारि चैकाक्षर्य्यायां कर्म्माणि फलभेदतः।
तत्रार्द्धमासव्रतता न द्वितीयचतुर्थयोः”।
इति। द्वितीयचतुर्थयोस्तु पारिभाषिकव्रततैव स्यात्, —विशेषस्यानुपदेशात्, —इति द्रष्टव्यम्॥ ०॥ ११॥ ०॥
तानि चत्वारि कर्म्माणि सपरिकरमिदानीमभिधीयन्ते, —अष्टभिःसूत्रैः,—
पौर्णमास्या
पौर्णमास्यां रात्रौ,— इत्युक्तार्थम्। खदिरःप्रसिद्धः।तन्मयाःशङ्कवःकीलकाः —खदिरशङ्कवः। तेषां खदिरशङ्कूनां शतम्, —(शतशब्दः संख्यावचनः) —जुहुयात्, प्रकृतया एकाक्षर्य्यया ऋचा,क्षिप्रहोमन्यायेन,—इत्यर्थः। शङ्खवश्चप्रकृतिधर्म्मानुरोधात् समित्प्रमाणाः समिल्लक्षणयुक्ताश्चकर्त्तव्याः। तथा चोक्तम्।
“सत्वचः शङ्कवः कार्य्यास्तीक्ष्णाग्रा वीतकण्टकाः।
समिल्लक्षणसंयुक्ताः सूचीतुल्यास्तथाऽऽयसाः”।
इति। को जुहुयात् ? आयुःकामः। आयुर्जीवितं कामयते यः,सोऽयमायुःकामः। कस्य आयुःकामः ? अविशेषादात्मनः पुत्रादोनां वा। कथं पुनः “शास्त्रदेशितं फलमनुष्ठातरि”—इति स्थितेसिद्धान्ते पुत्रादीनामप्यायुःकामयमानोऽधिकरोति, —इति वर्ण्यते ? गृह्यकर्म्मत्वादित्याह। गृह्याकर्म्म खल्विदं गृहाणामपि फलजनकंभवितुमर्हति, न केवलं यजमानस्यैव।गृह्याश्च पुत्रादयः। नखल्वसौ यजमानोऽन्तरेणैतान् स्वमेवाभ्युदयं कामयमानो भवतिनिर्वृतः। तत्सारत्वात्तस्य। तथाच गृह्यासंग्रहः।
“पत्न्यःपुत्राश्च कन्याश्च जनिष्याश्चापरे सुताः।
गृह्या इति समाख्याताः यजमानस्य दायकाः।
तेषां संस्कारयोगेन शान्तिकर्म्मक्रियासु च।
आचार्य्यविहितः कल्पस्तस्माद् गृह्या इति स्थितिः “॥
इति॥ ०॥ १२॥ ०॥
आयसान् बधकामः॥ १३॥
अयो लौहम्। तद्भवान् आयसान् शङ्कून्,— प्रकृतत्वाच्छतसंख्याकान्, प्रकृतेनैव विधिना जुहुयात्। कः ? बधकामः।हननंबधः, —इत्यनर्थान्तरम्। तं कामयते यः, सोऽयं बधकामःकस्य बधकामः? शत्रूणामर्थात्। न हि कश्चिदात्मनोवधंकामयते॥ ०॥ १३॥०॥
अथापरम्॥ १४॥
अथशब्दः, —बधकामकर्म्मणा व्यवहितस्यापि पूर्व्वप्रकृतस्यार्द्धमासव्रतस्यानुसन्धानार्थः। अर्द्धमासव्रते द्वे कर्म्मणी, —इत्युक्तम्। तत्रैकमायुःकामस्योक्तम्। अथापरमपि अर्द्धमासव्रतं कर्म्मग्रामकामस्यवर्त्तिष्यते,— इत्यर्थः॥ ०॥ १४॥ ०॥
** प्राङ् वोदङ् वा ग्रामान्निष्क्रम्य चतुष्पथे पर्व्वतेवाऽऽरण्यैर्गोमयैः स्थण्डिलं प्रताप्यापोह्याङ्कारान्मन्त्रं मनसाऽनुद्रुत्य सर्पिरास्येन जुहुयात्॥ १५॥**
‘प्राङ् वोदङ् वा ग्रामान्निष्क्रम्य’, —इत्युक्तार्थम्। ‘चतुष्पथे पर्व्वतेवा’ चतुष्पयपर्व्वतौ प्रसिद्धौ। तयोरन्यतरस्मिन्। ‘अरण्ये भवैर्नग्राम्यैः, ‘गोमयैः’, —न दारुभिः, ‘स्थण्डिलं’ लोहपात्रं, ‘प्रताप्य’प्रकर्षेणातिशयं तापयित्वा, तस्मात् स्थण्डिलात् ‘अङ्गारान्’ अग्निमयान्, ‘अपोह्य’ अपाकृत्य, ‘मन्त्रं’ प्रकृतमेकाक्षर्य्यामन्त्रं, ‘मनसा’हृदयेन, ‘अनुद्रुत्य’ अनुस्मृत्य, ‘सर्पिः’घृतं, ‘मास्येन’ मुखेन,‘जुहुयात्’। कुत्र जुहुयात् ? प्रतप्ते स्थण्डिले, —इत्याह।कुतः ? प्रकृतत्वात्। जुहोतिचोदनाबलादपोढ़ेष्वेवाङ्गारेषु होमः?—इति चेत्। नैतदेवम्। कस्मात् ? यस्मादेवंसतिस्थण्डिलप्रतापनोपदेशोऽनर्थकःस्यात्। अपोहनोपदेशेन चाङ्गाराणां स्थण्डिल-प्रतापनमात्रार्थतया कर्म्मानङ्गत्वावगतैः। एवञ्च,अनग्निकत्वादत्रक्षिप्रहोमधर्म्मोन स्यात्, किन्तु उदकहोमवत्यावदुक्तमेव स्यात्, —इति द्रष्टव्यम्। अत्रच, स्थण्डिलप्रतापनादौयद्यपि मन्त्रो नोपदिश्यते, तथापि न व्याहृतिप्रयोगः, किन्तुतूष्णीमेव करणीयम्। तथा च गृह्यासंग्रहः।
“वपाहोमे मुखेनैव होमे स्विष्टकृते तथा।
व्याहृतीर्न प्रयोक्तव्या मुखे नाप्सु च लक्षणम्”।
इति॥ ०॥ १५॥०॥
तस्याञ्चसर्पिराहुत्याम्—
ज्वलन्त्यां द्वादश ग्रामाः॥ १६॥
अस्य भवन्ति। फलविधिरयं न फलार्थवादः। कथं ज्ञायते ?काम्यानां श्रूयमाणफलत्वस्य रात्रिसत्रन्यायेन वर्णयितुमुचितत्वात्।तस्मात् ग्रामकामस्यात्राधिकारः॥ ०॥ १६॥ ०॥
धूमे त्र्यवरार्द्ध्याः॥ १७॥
आहुत्यामज्वलन्त्यांकेवले धूमे जायमाने त्र्यवरार्द्ध्याःग्रामाः अस्यभवन्ति। अवरार्द्ध्यशब्दो हीनवचनः। त्रयोऽवरार्द्ध्याःहीना येषांते तथोक्ताः। अवरार्द्ध्यशब्देनैतत् दर्शयति,—धूमप्रमाणाल्पत्वबहुत्वाभ्यां फलाल्पत्वबहुत्वं भवति, परन्तु न्यूनकल्पेऽपि त्रयो ग्रामाःसम्पद्यन्ते, —इति। अपरे तु मन्यन्ते, —ज्वालादीप्तितारतम्येनापिफलतारतम्यं भवति, —इति॥ ०॥ १७॥ ०॥
अमोघं कर्म्मेत्याचक्षते॥ १८॥
इदं ग्रामकामकर्म्मअमोघं अव्यर्थमिति आचक्षते कथयन्तिआचार्य्याः। अमोघवचमेनैतद्दर्शयति, —यदि ज्वाला न भवति,धूमोऽपि न जायते, तथापि नैवेदं कर्म्म मोघं भवति, अपितुकियदपि गृहक्षेत्रादिकं फलमस्य स्यादेव,—इति। कुतः ?अमोघवचनस्यैवमर्थत्वात्॥ ०॥ १८॥ ०॥
वृत्त्यविच्छित्तिकामोहरितगोमयान् सायं प्रातर्जुहुयात्॥ १९॥
वृत्तिर्वर्त्तनमुपजीवनमित्यनर्थान्तरम्। अविच्छित्तिरविच्छेदः —अविच्युतिरित्येतत्। वृत्तेरविच्छित्तिः वृत्त्य- विच्छित्तिः। तां कामयते,—इति वृत्त्यविच्छित्तिकामः। आह। कतमा पुनरिह वृत्तिरभिप्रेता ? शिलोच्छादिवृत्तिरूपा, —इति ब्रूमः। कुतः ? तस्या एवब्राह्मणादिवृत्तितया प्रसंशनात्। तथाच वृत्तिमुपक्रम्य स्मरतिभगवानत्रिः।
“मयैष धर्म्मोऽभिहितः संस्थिता यत्र वर्णिनः।
बहुमानमिह प्राप्य प्रयान्ति परमां गतिम् ”।
इति। मनुरपि।
“अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि।
यात्रामात्रप्रसिद्ध्यर्थं स्वैःकर्म्मभिरगर्हितैः।,
अक्लेशेन शरीरस्य कुर्व्वीत धनसञ्चयम्।
ऋतामृताभ्यां जीवेत्तु, मृतेन प्रमृतेन वा।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन”।
इति।
“न लोकवृत्तं वर्त्तत वृत्तिहेतोः कथञ्चन।
अजिह्यामशठां शुद्धां जीवेद्ब्राह्मणजीविकाम्”।
इति च। तस्मात्, —युक्ता अभ्युदयहेतोः शुद्धया वृत्तेरविच्छित्तिकामना। अपर आह। वृत्तिशब्देन श्रुतिस्मृतिविहितकर्म्मानुष्ठानमुच्यते। कुतः ?
“यावज्जीवमविच्छिन्नांवृत्तिं यस्त्वनुतिष्ठति।
यथाऽऽम्नातेन विधिना स परं ब्रह्म विन्दते”।
इति स्मरणात्। मनुवचनाच्च।
“एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती।
स्नातकव्रतकल्पश्चसत्वशुद्धिकरः शुभः “।
इति। तदसङ्गतम्। कुतः ? वृत्तिशब्दस्यैदमर्थ्याप्रसिद्धेः। स हिजीवनोपायमाह,—इति स्मृतिषु प्रसिद्धम्। यदपि स्मरणम् —“यावज्जीवमविच्छिन्नाम्”—इत्यादि, तदपि अस्मदुक्तामेव वृत्तिं स्तौति। तस्या अपि प्रसंशार्हत्वात्। न भवदुक्ताम्। अप्रसिद्धेरेव।मनुरपि चतुर्थेऽध्याये प्रथममस्मदुपवर्णितां वृत्तिं, परतस्तु स्नातक-व्रतमभिधाय, प्रकरणशेपे “एषोदिता गृहस्थस्य”—इत्यादिनायथाक्रमं तदुभयमेवोपसंहरति,—इत्यवगच्छामः। कथम् ? उपक्रमोपसंहारयोरेकार्थत्वोपपत्तेः। अन्वया खल्वसावन्यदुपक्रम्यान्यदुपसंहरन्ननवधेयवचनः स्यात्। भवत्परिकल्पितायाश्च वृत्तेराश्रमान्तरसाधारण्यात् गृहस्थमात्रपरं मनुवचनं पीद्येत। नखल्वेकैव वृत्तिरनेकसाधारणा एकस्य प्रशस्यते नापरस्येतिकिञ्चित् कारणमत्र शक्यमुत्प्रेक्षितुम्। तस्मादस्मदुक्त एवार्थोविद्वद्भिरादरणीयः।
स खल्वयंवृत्त्यविच्छित्तिकामः, —हरितगोमयान् सायं प्रातर्जुहुयात्। प्रकृतेनैकाक्षर्य्यामन्त्रेण। होमश्चायं क्षिप्रहोमन्यायेनस्यात्। हरिताश्चते गोमयाश्च,— इति हरितगोमयाः, तान् — हरितगोमयान्। यैः खलु गोमयैः सङ्कुले प्रदेशे हरितानि तृणानिप्रशस्तान्युत्पद्यन्ते, तान्किल गोमयान्, हरितगोमयान्आचक्षते। ते खल्वार्द्रा इहाभिप्रेयन्ते। कथं ज्ञायते ? तेष्वेवतत्प्रसिद्धेः। हरितगोमयेनोपलिम्पतीतिवत्। अप्सुषोमानामचमसाश्चात्वालदेशेऽद्धिः पूर्णाः, तेषु हरितानि तृणानि प्रास्तानिभवन्ति –इत्यत्र हरिततृणशब्दःसूत्रकारेणाप्येवमेव व्याख्यातः। अध्वर्य्यवोऽपि तादृशान्येव तृणानि तत्र प्रक्षिपन्ति। तस्माद्यथोक्तएवार्थः।
हरितगोमयान्, —इति बहुवचनं सायंप्रातरावृत्त्यपेक्षम्।आहुतेरावृत्त्यपेक्षमेव कुतो न स्यात् ? –इति चेत्। न। एकमन्त्राधिकारात्। अभ्यासस्यानुपदेशाच्चतस्मात्, —एकैवेयमाहुतिःसायंकाले प्रातःकाले च होतव्या। सा खल्वियमाहुतिः, सायंसायमाहुतेः पुरस्तात् स्यात्। प्रातश्चप्रातराहुतेःपरस्तात्। कस्मात् ? सायंप्रातर्होमयोरव्यवायोपपत्तेः। एवं खल्वध्यवायः सायंप्रातमयोरुपपद्यते। इतरथा व्यवायःस्यात्। सचानिष्टः। कुतः ?
“नैकस्मिन् कर्म्माणि तते कर्म्मान्यत् तायते यतः”।
इति वचनात्। अथ, एवमपि प्रादुष्करणहोमयोर्व्यवायः स्यादेव ?स्यादेव।अनन्यगतिकत्वात्। किं पुनरत्रकारणम् ? ; —प्रादुष्करणहोमयोर्व्यवाय आश्रयितव्यो न सायंप्रातमयोः —इति।उच्यते। आश्रयिष्यामः प्रादुष्करणहोमयोर्व्यवायम्, अनाश्रयन्तःसायंप्रातर्होमयोर्व्यवायं करिष्यामः। न च गुणस्य अव्यवायं उपपादयितुं प्रधानयोर्व्यवायः युक्त आश्रयितुम्। तस्मात्, —यथोक्तमेवास्तु। स खल्वयं होमो वर्षासु प्रत्यहं करणीयः। कुतः ? तत्रैकहरितगोमयोपपत्तेः। तथा चोक्तम्।
“सायं होमस्य पुरतः परस्तात् प्रातराहुतेः।
मा वर्षासु जुहुयात् प्रत्यहं गोमयाहुतिम्”।
इति। एवन्तावदेकाचर्य्यायां चत्वारि कर्म्मण्यभिहितानि॥ ०॥ १९॥
मन्त्रान्तर विनियोगं विवक्षुः कर्म्मान्तरमिदानींवक्तुमारभते, —
त्रिरात्रोपोषितः पण्यहोमं जुहुयादिदमहमिमंविश्वकर्म्माणमिति॥ २०॥
त्रिरात्रोपोषितः, — इत्युक्तार्थम्। ‘काम्येषु त्रिरात्राभोजनम्’—इति सिद्धत्वादेतदवाच्यम्, –इति चेत्। न। सिद्धमेव पुनरुच्यते।किमर्थम् ? आदरार्थम्। अथवा। नियमार्थमेतद्भविष्यति,—त्रिरात्रोपोषित एव पण्यहोमं जुहुयात्, —इति। किमतः ?एतदतो भवति, –‘त्रीणिवा भक्तानि’ – इत्येतत् पक्षान्तरमिहन भवति, –इति।पण्यं विक्रेयद्रव्यं भण्यते। पण्याय होमः पणहोमः। तम् –पण्यहोमम्, ‘इदमहम्, –इति मन्त्रेण क्षिप्रहोमन्यायेन जुहुयात्। आह।केन द्रव्येण जुहुयात् ? द्रव्यानादेशादाज्येन। एवमेके। उत्तरसूत्रदर्शनात् पण्यावयवेन। एवमपरे। येषां पण्यानामवयवहोमाद्विनाशः, —यथा मणिरत्नादीनाम, तेषामाज्येन, येषां पुनरवयवहोमादपि न विनाशः,—यथा धान्यादीनाम्, तेषामवयवेनैव होमः। एवमन्ये।किं पुनरत्रयुक्तम्? अन्तिमःपक्षःइत्याह। कुतः ? उत्तरसूत्रात्।अविनाशोपपत्तेश्च। न हि पण्यसम्पदे क्रियमाणो होमः पण्यविनाशाय भवितु युक्तः। न हि वरघाताय कन्यामुद्वाहयन्ति।आचार्य्यस्तु पण्यावयवेनैव होममुपदेक्ष्यति। पण्यशब्दो वृद्धावपिप्रयुज्यते, —इति तस्याप्यत्र ग्रहणमिच्छन्ति। एका चेयमाहुतिः।सकृच्चप्रयोगः॥ ०॥ २०॥ ०॥
वाससस्तन्तून्॥ २१॥
वाससःपण्यस्य तन्तून् दशासूत्राणि जुहुयात्, पूर्व्वोक्तेनविधिना॥ ०॥ २१॥ ०॥
गोर्बालान्॥ २२॥
गोःपण्यस्य बालान् लाङ्गूललोमानि, जुहुयादित्यनुवर्त्तते॥॥ ०॥ २२॥॥
एवमितरेभ्यः पण्येभ्यः॥ २३॥
इतरेभ्यःपण्येभ्यः सकाशात्, एवमवयवमुद्धृत्य जुहुयात्। अत्रपण्यहोमकर्म्मणः परिसमाप्तिः। फलमप्यस्य कर्म्मणः पण्यमेवकल्पयितव्यं भवति। कुतः ?उपस्थितत्वात्। पण्यहोममितिवचनाच्च॥ ०॥ २३॥ ०॥
पूर्णहोमो यजनीयप्रयोगः॥ २४॥
‘पूर्णहोमं यशसे जुहोमि’ –इति पूर्णशब्दोपलक्षितेन मन्त्रेण होमःपूर्णहोमः। कर्त्तव्यः, —इति सूत्रशेषः। स खल्वयं पूर्णहोमोयजनीयप्रयोगो भवति। व्याख्यातमेतत्। स चायं होमःपौर्णमास्याः प्रतिपदि प्रातर्होमादूर्द्ध्वंपक्षादिहोमाच्चार्वाक्स्यात्। अमावस्यायाःप्रतिपदि तु पक्षादिहोमादूर्द्ध्वम् —इतिद्रष्टव्यम्। होमश्चायमाज्येन करणीयः। द्रव्यानुपदेशात्। एका चेयमाहुतिः क्षिप्रहोमन्यायेन स्यात्। एवमुत्तरत्रापि॥॥ ०॥ २४॥ ०॥
इन्द्रामवदादिति च॥ २५॥
‘इन्द्रामवदात्तमोवः’ –इति मन्त्रेण च होमो यजनीयप्रयोगः॥॥ ०॥ २५॥ ०॥
अनयोः खलु यजनीयप्रयोगाहुत्योर्मध्यात्,—
यशस्कामःपूर्व्वा
यशस्कामःपूर्व्वामाहुतिं जुहुयात्। सहायकाम उत्तरामाहुतिंजुहुयात्॥ ०॥ २६॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य अष्टमी खण्डिका समाप्ता॥ ०॥
_________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके नवमी खण्डिका।
पुरुषाधिपत्यकामोऽष्टरात्रमभुक्त्वा॥ १॥
पुरुषाणामाधिपत्यं सेनापत्यादिकं कामयते, –इति पुरुषाधिपत्यकामः। अष्टरात्रम्, –अष्टौ अहोरात्राणि, अभुक्त्वाउपोष्य॥०॥ १॥॥
औदुम्बरान् स्रुवचमसेध्मानुपकल्पयित्वा॥ २॥
उदुम्बरस्यैतान् औदुम्बरान्। तान् खल्विमान् वार्क्षानेव न तेजसान्, –इत्यवगच्छामः। कथम् ? इध्मेन सहैकयोगनिर्देशात्। स्रुवचमसेध्माःव्याख्याताः। तान् उपकल्पयित्वा, –उपकल्प्यसम्पाद्य, –इत्येतत्। चमसस्योपकल्पनं प्रणीतार्थम्। इध्मानामुपकल्पनम् –आज्यतन्त्रेण होमप्रज्ञापनार्थम्। कथं ज्ञायते ?एवं खल्वमीषामुपकल्पनं दृष्टार्थं भवति। अन्यथा अदृष्टार्थत्वमेषां कल्पनीयं स्यात्। न चैतदुचितम्, —सम्भवति दृष्टेअर्थ॥०॥ २॥०॥
प्राङ् वोदङ् वा ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधाय॥ ३॥
कृतभाष्यं सूत्रम्॥ ०॥ ३॥ ०॥
** आज्यमादित्यमभिमुखो जुहुयात्; —अन्नं वाएकच्छन्दस्य
आदित्यमभिमुखः, —आभिमुख्येनादित्यमुखः, अन्नं वा,— इतिमन्त्रेण, श्रीर्व्वा, —इति मन्त्रेण च, आज्यं जुहुयात्। पृथङ्मन्त्रद्वयनिर्देशः, —आहुतिद्वयार्थः। आदित्यमभिमुखः, —इति वचनात् प्रातराहुत्यनन्तरमेव होमोऽयं करणीयः, — इत्यवगच्छामः।कथं कृत्वा ? एवं खल्वादित्याभिमुखता प्राङ्मुखता च होतुःसम्पत्स्यते। तथाच सति, न कस्यापि शास्त्रस्य उपरोधो भविष्यति। इतरथाप्राङ्मुखशास्त्रं वा उपरोत्स्यते, आदित्याभिमुखशास्त्रं वा। तच्चानिष्टम्।
ननु, आज्यम्—इति किमर्थम् ? आज्येन होमार्थम्। ननु,अवचनेऽपि तदेव प्राप्नोति ? प्राप्नोति। अनर्यकं तर्हि ? न,—इत्युच्यते। कस्मात् ? यस्मात् आज्यमित्यवचने अनादेशबलात्तत् प्राप्नोति, वचनेऽपि आदेशबलात् तदेव प्राप्नोति। तत्किमत्र चोद्यम् ? —इति न खल्वधिगच्छामि। आदेशे खल्वेतत्वचनमाज्यस्य प्रापकं भवति, अनादेशे चान्यद्वचनम्। अनादेशेप्रापकं तु वचनमवष्टभ्य आदेशवचनमाक्षिपति भवान्। नचैतदुचितम्। आचार्य्येच्छाधीनत्वादादेशानादेशयोः।
अथ, प्रयोजनान्तरमन्तरेण न ते परितोषः ; —शृणु, तदपि। आज्यमित्यवचने मन्त्रलिङ्गादन्नेन होममपि कश्चिदाशङ्कीत कदाचित्, —इति इमामधिकामाशङ्कां निरसितम्, —आज्यम्, —इत्याचार्य्यःसूत्रयाञ्चकार,—इति श्लिष्यते। अपर आह। ‘सर्पिस्तैलं दधि पयो यवागूं वा’, –इत्येतस्य व्यावृत्त्यर्थं पुनराज्यग्रहणम्।एवञ्च, अत्र आज्यमेव नियम्यते”—इति॥ ०॥ ४॥ ०॥
अन्नस्य घृतमेवेति ग्रामे तृतीयाम्॥ ५॥
अन्नस्य घृतम्, —इत्यनेन मन्त्रेण तृतीयामाहुतिं ग्रामे जुहुयात्।इयमप्याहुतिराज्येनैव स्यात्। कुतः ?द्रव्यान्तरानुपदेशात्।मन्त्रलिङ्गात्।आज्यस्य च प्रकृतत्वात्। ग्रामेऽप्यग्नावेव होमो न ग्राम एव। ‘ग्रामान्निष्क्रम्य’, —इत्येतद्वैपरीत्यमभिप्रयन् खल्वाचार्य्यः, —‘ग्रामे’,—इत्याह, —इति श्लिष्यते। ‘अग्निमुपसमाधाय’—इति खल्वनुवर्त्तत एव।
इदमिदानींसन्दिह्यते। किमियमप्याहुतिरौदुम्बरस्रुवचमसादिना अन्यतन्त्रेण स्यात्,उत क्षिप्रहोमन्यायेन, ? —इति।आज्यतन्त्रेण, —इति ब्रूमः। कस्मात् ? अधिकारात्। फलान्तरानुपदेशात् ; तृतीयत्ववचनाच्च; ऐककर्म्म्यावगतेश्च। अन्यथाखत्वभिधानादेव तृतीयत्वप्राप्तेस्तृतीयामिति वचनमनर्थकं स्यात्।तस्मात्, —संख्यावचनादैककर्म्म्यं प्रतिपादयन् पूर्वोक्ताधर्म्मसंम्बन्धमत्रापि दर्शयति, —इत्यास्थेयम्। तुल्यधर्म्माणां हि संख्येयानामेकसंख्याभिसंबन्धोऽसति बाधके वाक्यतात्पर्य्यविद्भिरिष्यते॥ ०॥ ५॥ ०॥
गोष्ठे पशुकामः॥ ६॥
गोष्ठे गवामावासे, अग्निमुपसमाधाय प्रकृतामाहुतिं जुहुयात्।कः ? पशुकामः। पशुशब्देन गौरेवाभिप्रेयते। कथं ज्ञायते?गोष्ठे, —इति तस्यैव हृदयागतत्वात्, तत् परित्यागे च कारणविशेषाभावात्। पशुशब्देनाविशेषात् गोमेषमहिषादय उच्यन्ते, —इति केचित्।
इदमिदानींसन्दिह्यते। किं कृत्स्नमेवाहुतित्रयं पशुकामस्यगोष्ठे उपदिश्यते, उताही अनन्तरा तृतीयेवाहुतिः?, —इति।अनन्तरा तृतीयैव, —इति ब्रूमः। कस्मात् ? अनन्तर्य्यातिरेकात्।अभ्यासानुपदेशाच्च।तस्मात् , —तृतीयाम्, —इत्यनुवर्त्तते, —इति बोद्धव्यम्। अपर आह। अविशेषात् उत्तरत्रापि मन्त्रत्रयस्यानुवृत्तिदर्शनाच्च कृत्स्नमेवाहुतित्रयमिहोपदिश्यते, —इति।
स खल्वयं होमः पुरुषाधिपत्यकामस्यैव सतः पशुकामस्यगोष्ठे उपदिश्यते। दर्शपौर्णमासयाजिन एव सतः पशुकामस्यगोदोहेन प्रणयनोपदेशः, —इति यथा। कथं ज्ञायते ? तस्यैवाधिकारात्। तृतीयाम्,—इत्यनुवर्त्तनेनैककर्म्म्यप्रतिपत्तेश्च। ‘गोष्ठे’पशुकामः’—इत्येतावन्मात्रंखल्विहोच्यते, न तु किञ्चिदपिकर्त्तव्यमुपदिश्यते। भवितव्यन्तु तेन। तस्मात्, —आनन्तर्य्यातिरेकात् तृतीयामाहुतिं जुहुयात,— इत्यनुषञ्जनीयम्।तस्मात्, —येयं तृतीया आहुतिःकेवलं पुरुषाधिपत्यकामस्य ग्रामेउपदिष्टा, सैव तस्यैव पशुकामस्य सतः गोष्ठ उपदिश्यते, —इति श्लिष्यते। तस्मादधिकृताधिकारोऽयमुपदेशः॥ ०॥ ६॥ ०॥
विदूयमाने चोवरम्॥ ७॥
विदूयमाने,— “टु दु उपतापे” —इति स्मरणात् विशेषेण उपतप्यमाने। कस्मिन् ? गोष्ठे। कथं ज्ञायते ? अधिकारात्। सप्तमीनिर्देशाच्च। एतदनेनोक्तं भवति। गोष्ठे अग्निमुपसमाधायैव होमो न कर्त्तव्यःकिन्तु अग्निमुपसमाधायापि तावत् प्रतीक्षणीयं ;—यावद्गोष्ठमुपतप्यमानं भवति। तत उपतप्यमाने सति गोष्ठे होमःकरणीयः, –इति। अपरे पुनर्भाषन्ते-—“गोष्ठस्योपतापासम्भवात्गोष्ठसंबन्धद्गोषु उपतप्यमानासु —इति द्रष्टव्यम्” –इति।
तदेवं विदूयमाने गोष्ठे चीवरं जुहुयात्, इति वर्त्तते ‘सम्पत्कामो जुहोमि’ –इति मन्त्रलिङ्गाच्चैतदेवं प्रतिपत्तव्यम्।चीवरशब्देन लौहचूर्णमुच्यते। कुतः ? “लोहचूर्णञ्च चीवरः” —इति वचनात्। तदत्रचीवरविधानादाज्यस्य निवृत्तिः स्यात्।पूर्वोक्तधर्म्मसंबन्धस्तु अत्रापि स्यादेव। तत्सम्बन्धेनैवोपदेशात्। याखल्वियं तृतीयाऽऽहुतिराज्येन ग्रामे स्यात्, सैव पशुकामस्य सतःचीवरेण गोष्ठे भवति,—इति खल्ववोचाम। अत्र पुरुषाधिपत्यकामकर्म्मणोऽपवर्गः।
अन्यः पुनरन्यथेमं ग्रन्थं वर्णयाञ्चकार, —‘गोष्ठे पशुकामःइत्यादिम्। “पशुकामो गोष्ठे तृतीयामाज्याहुतिं जुहुयात्। पशुकामः, —इति निरपेक्षश्रवणात् अधिकृताधिकारे च प्रमाणभावात् सर्व्वस्यैव पशुकामस्य होमोऽयं, न पुरुषाधिपत्यकामस्यैवसतःपशुकामस्य —इति। तस्मात्, पुरुषाधिपत्यकामकर्म्मणः कर्म्मान्तरमिदम्। एवञ्च, अत्र अष्टरात्रोपोषणं न स्यात्, न वाउदुम्बरस्रुवादि, –इति। कर्म्मान्तरमाह। ‘विदुयमाने चीवरम्’।गोष्ठस्योपतापासम्भवात् गोष्ठसंबन्धाद्गोषु उपतप्यमानासु चीवरंलौहचूर्णं जुहुयात्। इदमपिकर्म्मान्तरम्।क्षिप्रहोमश्चायम्।
एतेषां त्रयाणामपि कर्म्मणां सकृत् प्रयोगादेव फलं स्यात्। कुतः? अभ्यासानुपदेशात्” –इति॥ ०॥ ७॥ ०॥
अथेदानींकर्म्मन्तरमाह,—
प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन् बध्नीत॥ ८॥
भयमेव प्रतिभयम्। प्रतिरुपसर्गः। प्रकर्षवाची वा। तेन, प्रकार्षेण भयं प्रतिभयम्, —इत्यर्थः। अथवा।प्रत्यासन्नं भयं प्रतिभयम्। अध्वनि पथि, प्रतिभये, —प्रत्यासन्ने भयहेतौ सति, —इत्येतत्। वस्त्रदशानाम्, —वस्त्रं वासः, अविशेषादधरीयमुत्तरीयञ्चस्वकीयमेव भण्यते। तस्य दशानां ग्रन्थीन्, —बहुवचनात् त्रीनेव, बध्नीत। अन्नं वा एकच्छन्दस्यम्, –इत्येतत्प्रभृतिभिस्तिसृभिर्ॠग्भिः। कुतः ? एतासामेव प्रकृतत्वात्। मन्त्रान्तरानुपदेशाच्च। आह आनन्तर्य्यातिरेकात् तृतीययैव स्यात् ?उच्यते। “स्वाहाकारान्ताभिः " –इति वक्ष्यमाणसूत्रात् तिसृभिरेवस्यात्, न पुनरानन्तर्य्यातिरेकात् तृतीययैव। अतिक्रान्तसंबन्धस्याप्याचार्य्यस्यनुमतत्वात्॥ ०॥ ८॥ ०॥
स्ववाससोदशाऽभावे कथम् ? उच्यते,—
उपेत्य वसनवतः॥ ६॥
वसनवतः, —दशायुक्तवसनवतः, ‘वस्त्रदशानां ग्रन्थीन् बध्नीत’,—इत्यनुवर्त्तते। किं कृत्वा ? उपेत्य। उप, समीपम, इत्वागत्वा, न तु तमाहूय।
इयमपरा सूत्रद्वययोजना,—अध्वनि पथि, प्रतिभये सति, वस्त्रदशानां त्रीन् ग्रन्थीन् बध्नीत,प्रकृताभिर्ऋग्भिः।किमात्मनो वस्त्रदशानाम् ? न। कस्य तर्हि ?‘उपेत्य वसनवतः’। वसनवतः सह गन्तुः कस्यचित्, वस्त्रदशानांग्रन्थीन् बध्नीत। किं कृत्वा ? उपेत्य।
एवं वा, –प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन् बध्नीत’। अर्थादात्मनः। न केवलमात्मन एव। किं तर्हि ? ‘उपेत्य वसनवतः’।चशब्दोऽत्र लुप्तवत् द्रष्टव्यः। वसनवतः, –इति च द्वितीयाबहुवचनान्तं पदम्। तदयमर्थः। वसनवतश्चैकसार्थगन्तृृन् सहायानुपेत्यतेषामपि वस्त्रदशानां ग्रन्थीन् बध्नीत॥०॥ ८॥॥
स्वाहाकारान्ताभिः॥ १०॥
प्रकृताभिर्ऋग्भिः। अहोमकत्वात् कर्म्मणः स्वाहाकारविलोपं माप्रशाङ्गीत्, —इति स्वाहाकारान्ताभिः —इत्याह॥ ०॥ १०॥ ०॥
किं पुनरस्मिन् कर्म्मणि कृते फलं भवति ? उच्यते,—
सहायानाञ्च स्वस्त्ययनम्॥ ११॥
सहायानां आमनः सह गन्तृृणां, चशब्दादात्मनश्च, स्वस्ति मङ्गलंतस्यायनं प्राप्तिः, —भयनिवृत्तिरित्येतत्। तस्या एवाभिप्रेतत्वेनमङ्गलरूपत्वात्। भवति, —इति सूत्रशेषः। अभिप्रेतार्थसिद्धिर्वास्वस्तिशब्देनोच्यते। तस्यायनं प्रापकमेतत् कर्म्म, —इत्ययमर्थस्तदानींवर्णनीयः। तदिदमुपरिष्टाद्देक्षं वेदितव्यम्। भयस्यानियतकालत्वात्॥ ०॥ ११॥ ०॥
आचितसहस्रकामोऽक्षतसक्ताहुतिसहस्रं जुहुयात्॥ १२॥
आचितशतकामः,—इत्येतद्व्याख्यानेनैव, आचितसहस्रकामः, —इत्येतदपि व्याख्यातम्। अक्षतैर्यवैर्निष्पन्नाः सक्तवोऽक्षतसक्तवः,तेषामाहुतिसहस्रं क्षिप्रहोमन्यायेन जुहुयात्, —अन्नं वा एकच्छन्दस्यम्—इत्येताभिॠग्भिः। कुतः ? एतासामेवप्रकृतत्वात्।मन्त्रान्तरानुपदेशाच्च।
अत्र किञ्चिद्वक्तव्यमस्ति। आहुतिसहस्रं होतव्यमुपदिश्यते, ऋचश्च तत्र तिस्रः करणतयोच्यन्ते, तत् कथमयं होमः स्यादितितावत् सन्दिह्यते। किं तिसृणामृचामनुरोधात् आहुतिसहस्रस्य त्रिरभ्यासः कर्त्तव्यः, आहोस्वित्तिसृभिरेव ऋग्भिरेकैकाआहुतिर्होतव्या, उताहो आहुतिसहस्रं त्रिधा विभज्य ऋक्त्रयेणहोतव्यम् ? —इति। तत्र न तावदाद्यः पक्षः। कुतः ?गुणानुरोधेन प्रधानाभ्यासस्यायुक्तत्वात्। आहुतिसहस्रमिति संख्यावचनाच्च। नापि द्वितीयः। कस्मात् ? एकैकस्सा एवर्चोहोमनिर्व्वाहसामर्थ्यात्। तथात्वे खल्वन्त्याया एव ऋचः व्यवायाभावेनकरणत्वापत्त्या आद्ययोःऋचोःकरणत्वाभावप्रसङ्गाच्च।तस्मात्; पारिशेष्यात् तृतीयःपक्षो ज्यायान्। तस्मात्, आहुतिसहस्रं त्रिधा विभज्य प्रथमया ऋचा तस्य प्रथमं भागम्, द्वितीयया ऋचाद्वितीयं भागम् तृतीयया च ऋचा तृतीयं भागं जुहुयात्,—इति। अथ एवमपि अन्त्या एका आहुतिःशिष्यते, कतमयापुनःऋचा असौहोतव्या ? आद्यया, —इति ब्रूमः। कस्मात् ?मालान्यायेन पुनरपि तस्या एव उपस्थितत्वात्। तथा चोक्तम्।
“सक्त्वाहुतिसहस्रञ्च पुरोषाणाञ्च कीर्त्तितम्।
त्रिधाऽभ्यासेन तत् कुर्य्यदाद्यमन्त्राऽऽहुतिर्भवेत्”।
इति॥ ०॥ १२॥ ०॥
पशुकामो वत्समिथुनयोः पुरीषाहुतिसहस्रं जुहुयात्॥ १३॥
पशून् कामयते, —इति पशुकामः। स खल्वयं बृहत्पशुकामः —इत्यवगच्छामः। कुतः ?क्षुद्रपशुकामःइत्युत्तरत्रसूत्रणात्।वत्सश्चवत्सा च वत्समिथुनमुच्यते। कथं ज्ञायते ? मिथुनशब्दस्य द्वन्द्ववाचित्वात्। तयोः वत्समिथुनयोः, पुरीषाणांशकृताम् आहुतयः —पुरीषाहुतयः, तेषां सहस्रं जुहुयात्। अन्नंवा एकच्छन्दस्यम् —इत्येवमादिभिर्ऋग्भिः।कुतः?एतासामेवप्रक्रुतत्वात्। मन्त्रान्तरानुपदेशाच्च।
इदमिदानींसन्दिह्यते। किं यदैव यदैव पुरीषं सम्पद्यते,तदैव जुहुयात्।उत पूर्व्वमेव सर्व्वं पुरीषं संगृह्य एकस्मिन्नेवपूर्व्वाह्णेआहुतिसहस्रं जुहुयात्? —इति। एकस्मिन्नेव पूर्व्वाह्ने, —इति ब्रूमः।कस्मात् ? प्रधानस्य होमकर्म्मणोनानादिनकल्पनायां पारिभाषिककालबाधे च कारणविशेषाभावात्। पुनरपि सन्देहः। किं प्रकृतयोरेव वत्समिथुनयोः पुरीषसंग्रहःकार्य्यः,उत प्रकृतयोरन्ययोश्च कयोश्चिदनियमेन ? —इति।प्रकृतयोरेव, —इति ब्रूमः। कुतः ?प्रकृतपरित्यागे हेत्वभावात्।तथा चोक्तम्।
“चतुर्णांवत्सवत्सानां प्रकृतानाञ्च गोमयम्।
एकस्मिन्नेव पूर्वाह्णेजुहुयात् सक्तुहोमवत्”।
इति। ‘सक्तुहोमवत्’ —इति वचनादत्रापि आहुतिसहस्रं त्रिधाविभज्य पूर्व्ववत् जुहुयात्, —इति द्रष्टव्यम्॥ ०॥ १३॥ ०॥
अविमिथुनयोः क्षुद्रपशुकामः॥ १४॥
क्षुद्रपशुकामः, अविमिथुनयोः —मेषमिथुनयोः, पुरीषाहुतिसहस्रंप्रकृताभिर्ऋग्भिः पूर्व्ववदेव जुहुयात्॥ ०॥ १४॥ ०॥
** वृत्त्यविच्छित्तिकामः कम्बूकान् सायं प्रातर्जुहुयात्क्षुधे स्वाहा क्षुत्पिपासाभ्या
वृत्त्यविच्छित्तिकामः, —इत्युक्तार्थम्। कम्बूकान् फलीकरणकक्कुशान् सायं प्रातर्जुहुयात्, —क्षुधे स्वाहा क्षुत्पिपासाभ्यां स्वाहेत्याभ्यांयजुर्भ्याम्। अत्रापि सायमाहुतेः पुरस्तात् प्रातराहुतेश्च परस्तात्होमःस्यात्। क्षिप्रमहीमश्चायम्॥ ०॥ १५॥ ०॥
मा भैषीर्न मरिष्यसीति विषवता दष्टमद्भिरभ्युक्षन्जपेत्॥ १६॥
विषमस्यास्तीति विषवान् सर्पादिः। तेन दष्टम्,— अविशेषात्पुरुषं स्त्रियं वा। अद्भिरुदकेन अभ्युक्षन् आभिमुख्येन सिञ्चन्,मा भैषीरिति मन्त्रंजपेत्, —आ विषप्रक्षयात्। कथं ज्ञायते ?प्राणिपीडाऽपनयार्थत्वात् कर्म्मणः। अभ्युक्षन् जपेत्, —इति कुर्व्वन्अभ्युक्षणजपयोर्यौगपद्यं दर्शयति॥ ०॥ १६॥ ०॥
तुरगोपायेति स्नातकःसंवेशनवेलायां वैणवं दण्डमुपनिदधीत॥ १७॥
स्नातको गृहमेधी। संवेशनं शयनं स्वापो निद्रा, —इत्यनर्थान्तरम्।तस्य वेलायां रात्रावित्यर्थः। कुतः ? दिवास्वापस्य निषेधात्।वैणवम्—वेणुर्वंशः तद्भवं, दण्डं यष्टिम् तुरगोपाय, —इतिमन्त्रेण उप समोपे—शयनसन्निधौ, —इत्येतत्। निदधीत धारयेत्।दध धारणे।निशब्दप्रयोगात्तत्रैव सर्व्वांरात्रिं निश्चलंधारयेत्, न तु मन्त्रप्रयोगं कृत्वा अन्यत्रापनयेत्॥ ०॥ १७॥ ०॥
किमर्थं धारयेत्?—
स्वस्त्ययनार्थम्॥ १८॥
मङ्गलप्रात्यर्थम्—चौराद्युपद्रववारणार्थमित्येतत्॥ ०॥ १८॥ ०॥
हतस्ते अत्रिणा क्रिमिरिति क्रिमिमन्तं देशमद्भिरभ्युक्षन्जपेत्॥ १९॥
क्रिमयःप्रसिद्धाःव्रणेषु जायन्ते। क्रिमयो विद्यन्ते यस्मिन्, तंक्रिमिमन्तम्, देशम् —प्राणिव्रणप्रदेशम्, न तु गोमयादि। कथं ज्ञायते ? प्राणिपीडापनयनकर्म्मधिकारात्। तत्राप्युत्तरसूत्रस्य पशुविषयत्वादेतस्यनरविषयतामवगच्छामः। तमिमंक्रिमिमन्तं देशं अद्भिरभ्युक्षन् इतस्ते,— इत्यादिक्रिमिमन्त्रान्सर्व्वानेव जपेत्। कथं पुनर्ज्ञायते सर्व्वेषां क्रिमिमन्त्राणामत्रविनियोगः ? —इति। उच्यते। क्रिमिमतो देशस्याभ्युक्षणे विनियोगविधानात्सर्व्वेषां क्रिमिमन्त्राणामत्रैव विनियोगमवगच्छामः।अन्येषां क्रिमिमन्त्राणां विनियोगान्तरादर्शनात्। न खल्वविनियुक्ताएवान्ये क्रिमिमन्त्राः पठ्यन्ते, —इति युक्तम्। तस्मादुत्तरत्रार्हणमन्त्राणां विनियोगोपदेशादिह सर्व्वेषामेव क्रिमिमन्त्राणां विनियोगः,—इत्यादरणीयम्। अत्राप्यभ्युक्षणसमकालमेव मन्त्रजपः।एवं कृते किल क्रिमिपीड़ोपशान्तिर्भवति॥ ०॥ १८॥ ०॥
पशूनाञ्चेच्चिकौर्षेदपराह्णेसीतालोष्टमाहृत्यवैहायसं निदध्यात्॥ २०॥
पशूनां गवाश्वादीनां, चेत् यदि, चिकीर्षेत् कर्त्तुमिच्छेत्। किम् ?क्रिमिपीड़ोपशान्तिम्। कथं ज्ञायते ? अधिकारात्। तदा,अपराह्णे —न पूर्वाह्णे। सीता लाङ्गलपइतिः। तस्या लोष्टम्,लोष्टः प्रसिद्धः, तमाहृत्य आनीय, वैहायसं आकाशस्थं, निदध्यात्धारयेत्, —गृहपटलादिस्थंधारयेदित्येतत्। निशब्दःपूर्व्ववत्॥ ०॥ २०॥ ०॥
तस्य पूर्व्वाह्णेपा_(
तस्य लोष्टस्य। पूर्वाह्णे —न अपराह्णे। अथ, सिद्धत्वादेतदवाच्यम् ? अथोच्यते, —कारणं वक्तव्यम्। उच्यते। एतदवचने खल्वपराह्णे, —इत्यनुवर्त्तेत। अतस्तन्निवृत्त्यर्थम्, —पूर्वाह्णे, —इत्युच्यते। पांशुभिः रेणुभिः, परिकिरन्, —प्रकृतस्य पशोःक्रिमिमन्तं देशम्। प्रकृतमेव मन्त्रं जपेत्। कुतः ?तस्यैव प्रकृतत्वात्। मन्त्रान्तरानुपदेशाच्च। परिकिरणसमकालंमन्त्रजपोव्याख्यातः॥ ०॥ २१॥ ०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारस्य कृतौ गोभिलीयगृह्यसूत्रभाष्येचतुर्थप्रपाठकस्य नवमी खण्डिका समाप्ता॥ ०॥
________________
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके दशमी खण्डिका।
क्रमप्राप्तानामर्हणमन्त्राणां विनियोगमिदानींवक्तुमारभते,—
उत्तरतो गां बद्धोपतिष्ठेरन्नर्हणा पुत्रवाससेति॥ १॥
उत्तरतः उत्तरस्यां दिशि।कस्य ? अर्हणप्रदेशस्य। कथं ज्ञायते ?‘यत्रैनमर्हयिष्यन्तः स्युः’ —इति सूत्रयिष्यमाणत्वात्। गां स्त्रीगवींबद्ध्वा। स्त्रीगवीमिति कुतो वर्ण्यते ? लिङ्गादित्याह। धेनुः,—इतिपयस्वती—इति चैवमादिमन्त्रलिङ्गं खल्वेवमनुगृह्यते। न च पुंगवपरिग्रहे कारणं पश्यामः। तस्माद् यथोक्त एवार्थः। तदेवं गांबध्वा तामेवाभिमुखाः सन्तः, अर्हणा पुत्रवाससा, —इति मन्त्रेणोपतिष्ठेरन् आराधयेयुः। उपस्थितत्वान्मन्त्रलिङ्गाच्चतामेवोपतिष्ठेरन् न पुनरर्हणीयमिति बोद्धव्यम्। के उपतिष्ठेरन् ? येअर्हयिष्यन्तः स्युः। कथं ज्ञायते ? उपस्थितत्वात्। बहुवचननिर्देशाच्च। “यत्रैनमर्हयिष्यन्तः स्युः”—इति ह्यर्हयितार एवबहुवचनेन निर्देक्ष्यते। यदि पुनरर्हणीय ऐवोपतिष्ठेत,—तर्ह्येकवचनं कुर्य्यात्। ‘यत्रैनम्’—इत्यर्हणीयस्यैकवचनेन निर्देशात्।
आह। अर्हयितुरेकत्वात् अस्यामपि वर्णनायां नैव बहुवचनस्यार्थवत्तां पश्यामः। एवन्तर्हि बहुवचनं कर्त्तुरनियमार्थं भविष्यति। कथं नाम ? ये केचिद्गुह्या उपतिष्ठेरन्, न पुनरर्हयितैवेत्यस्ति नियमः, —इत्यभिप्रायः। अथवा। बहुवचनं कुर्व्वनाचार्य्यःसर्वैरेव गृह्यैरर्हणीयार्हणार्थ- मप्रमत्तैर्भवितव्यमित्युपदिशति।तथाच वाजसनेय के प्रवचने। “यत्र वा अर्ह्य आगच्छति, सर्व्वे गृह्या इव वै तत्र वेष्टन्ति, तथा हापचितो भवति”—इति। क्व उपतिष्ठेरन् ? अहणप्रदेशे, तत्सन्निधौ वा। कुतः ?अर्हणोपदेशसामर्थ्यात्। उत्तरत इत्यनेन तस्यैवोपस्थितेश्च॥॥०॥ १॥०॥
एवमर्हयितृषूपतिष्ठमानेषु खल्वयमर्हणीयः,—
इदमहमिमां पद्यां विराजमन्नाद्यायाधितिष्ठामोतिप्रतितिष्ठमानो जपेत्॥ २॥
प्रतितिष्ठमानःऊर्द्ध्वस्तिष्ठन् इदमहमिति मन्त्रं जपेत्। अर्थात्जपानन्तरमासने उपविशेत्। कथं ज्ञायते ? ‘इदम्’ आसनम्,अधितिष्ठामि,—इति मन्त्रलिङ्गात्। समस्तमन्त्राम्नानं किमर्थम् ?निराकाङ्क्षत्वार्थमहममुक इति नामादेशो नास्तीति प्रज्ञापनार्थम्।समाम्नायप्रज्ञापनार्थञ्च॥ ०॥ २॥ ०॥
कुत्र प्रतितिष्ठमानो जपेत् ?
यत्रैनमर्हयिष्यन्तः स्युः॥ ३॥
यत्र यस्मिन् प्रदेशे, एनमर्हणीयमर्हयिष्यन्तः—अर्हयितुमिच्छन्तःस्युः भवेयुः गृह्याः। बहुवचनं व्याख्यातम्। तत्र प्रदेशे प्रतितिष्ठमानो जपेत्॥ ०॥ ३॥ ०॥
यदा वाऽर्हयेयुः॥ ४॥
यदा यस्मिन् काले, अर्हयेयुरर्हणं कर्त्तुमारभेरन्। बहुवचनं पूर्व्ववत्। तदा वा प्रतितिष्ठमानो जपेत्, —इति गतेन संबन्धः। नतु अर्हणकर्त्तृषु कार्य्यान्तरव्यासक्तेषु प्रत्युपस्थानसमनन्तवमेवेति।एवं वा—
वाशब्दःतुशब्दार्थः। यदा पुनरेनमर्हयेयुस्तदा विष्टरादीनि वेदयेरन्, —इत्यनागतेनाभिसंबन्धो वर्णनीयः॥ ०॥ ४॥ ०॥
अथेदानीमर्हणविधिविवक्षयेदमाह,—
विष्टरपाद्यार्घ्याचमनीयमधुपर्कानेकैकशस्त्रिस्त्रिर्वेदयेरन्॥ ५॥
विष्टरः,–
“ब्रह्मविष्टरयोश्चापि सन्देहे समुपस्थिते।
ऊर्द्धकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः।
कतिभिस्तु भवेद्ब्रह्मा? कतिभिर्विष्टरः स्मृतः।
पञ्चाशद्भिः कुभैर्ब्रह्मा तदर्द्धेन तु विष्टरः”।
इति आचार्य्यपुत्रेण गृह्यासंग्रहे व्याख्यातः। कात्यायनेन तु कर्म्मप्रदीपे,—
“यज्ञवासुनि मुष्ट्याञ्चस्तम्बेदर्भवटौ तथा।
दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि”।
इति विष्टरे दर्भसंख्या निषिद्धा। तदनयोर्विकल्पः, —पञ्चाशदर्द्धैर्वाकुशैर्विष्टरःस्यात्, असंख्यातैर्वा,—इति। कथं ज्ञायते ? द्वयोरेवास्मदाचार्य्याभ्यामनुशिष्टत्वात् अनन्यगतेर्वचनात्। सम्भवे पञ्चाशदर्द्धैरसम्भवे पुनरपरिमितैरपि कुशैविष्टरो भवति, –इति नारायणोपाध्यायाः। रघुनन्दनस्तु दर्भसंख्यावचनमाचार्य्यपुत्रस्येत्येतदजानानःकात्यायनवचनविरोधात् तद्वचनं शाख्यन्तरीयमितिवर्णयाञ्चकार। अन्यदपि दर्भवटुप्रसङ्गात् पूर्व्वमेव व्याख्यातम्।
स खल्वयं विष्टरः एको वा स्यात् द्वौवा, –इत्यनियमः। कथंज्ञायते ? ‘द्वौचेत्’ –इति वक्ष्यमाणसूत्रपर्य्यालोचनात्।
पाद्यम्-पादप्रक्षालनार्थमुदकम्। तथाच लाट्ययनसूत्रम्।“तत्रैतदाहरन्ति, —विष्टरं पादप्रक्षालनम् अर्घ्यम् आचमनीयंमधुपर्कमिति” –इति। द्राह्मायणसूत्रम्। “अर्हयिष्यन्त आहरन्ति, —विष्टरौ पाद्यमर्घ्यम्” —इत्यादि। “विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्कोगौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते” इति च गृह्यान्तरम्।
“पादार्थमुदकं पाद्यं केवलं जलमेव तत्।
तत्तैजसेन पात्रेण शङ्खनापि निवेदयेत्”।
इति च स्मर्य्यते पुराणेषु। तस्मात्, —‘पाद्यम्’ इत्येवमेव प्रयोगोभट्टनारायणाद्यनुमत आदरणीयः। यच्च भवदेवभट्टेन ‘पाद्याः’, –इति लिखितम्, यदपि सरलायाम्— ‘पाद्याः’, –इति प्रयोगमभिधाय, पाद्याः– इति अप्संबन्धात् स्त्रीबहुवचनम्, —इति वर्णितम्। तदसङ्गतम्। कुतः ? अस्मच्छास्त्रे पाद्यमिति निर्देशात्।न खलु वीक्षणविधौ मन्त्रे च ‘अपः’ –इति दर्शनादत्रापि तथाकल्पनायां किञ्चित् प्रमाणमस्ति। तस्माद् यथोक्त एव प्रयोगः।
अर्घ्यम् —
“दध्यक्षतसुमनस आपश्चेति चतुष्टयम्।
अर्घ्यएष प्रदातव्योगृह्योये अर्घ्यार्हाःस्मृताः।
दध्यक्षतसुमनसो घृतं सिद्धार्थका यवाः।
पानीयञ्चैव दर्भाश्च अष्टाङ्गो ह्यर्घ्यउच्यते”।
इति गृह्यासंग्रहोक्तलक्षणम्। स खल्वयमध्यःकांस्यपात्रेणार्हणीयस्याञ्चलौ निनेतव्यः। कस्मात् ?
“कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जली”।
इति वचनात्। आचमनीयम् —आचमनार्थमुदकम्। मधुपर्कः, —
“सर्पिषा मधुना दध्ना अर्च्चयेदर्हयन् सदा।
ऋषिप्रोक्तेन विधिना मधुपर्केण याज्ञिकः।
कंसे त्रितयमासिच्यकंसेन परिसंवृतम्।
परिश्रितेषु देयः स्यान्मधुपर्क इति ध्रुवम् “।
इति।
“दधनि पयसि वाऽथवा कृतान्ने
मधु दद्यान्मधुपर्कमेतदाहुः।
दधिमधुसलिलेषु सक्तवः
पृथगेते विहितास्त्रयस्तु मन्थाः”।
इति च गृह्यासंग्रहोत्तलक्षणः। तदेवं छन्दोगानां स्वशाखापरिभाषिताश्चतुर्विधो मधुपर्को भवति ;— सर्पिर्मधुदधि, दधनि मधु,पयसि मधु, कृतान्ने मधु च,— इति। तत्र प्रथमो द्वितीयश्चमधुपर्कःकंसस्थःकंसपरिवृतश्च भवति। शिष्टयोः पुनर्नैषनियमः। प्रथमे मधुपर्केतावत् “कंसे त्रितयमासिच्य”—
इत्यादिना तदभिधानात्। यथा खल्वभिक्रमणं प्रयाजमावस्यैवाङ्गंनानुयाजादीनाम्, तद्वदत्रापि स्यात्। द्वितीये मधुपर्के त्वाहकर्म्मप्रदीपे कात्यायनः।
“साक्षतं सुमनोयुक्तमुदकं दधिसंयुतम्।
अर्घ्यंदधिमधुभ्याञ्च मधुपर्को विधीयते।
कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जलौ।
कांस्यपिधानं कांस्यस्थं मधुपर्कं समर्पयेत्”।
इति। तदत्रप्रथमश्लोकेनार्घ्यंमधुपर्कञ्च परिभाष्य द्वितीयश्लोकेनयथाक्रमं तयोरर्पणप्रकारमाह। सोऽयं मधुपर्कशब्दः प्रथमश्लोकोक्तमेव मधुपर्कं परामृशति। न त्वन्यम्। कथं ज्ञायते ? “प्रकृतप्रत्ययश्च न्याय्यः” —इति शास्त्रतात्पर्य्यविदां सिद्धान्तात्। इतरथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात्। न च तत्र प्रमाणं पश्यामः।रघुनन्दनस्तु छन्दोगोऽप्येतदजानानः,
“साक्षतं सुमनोयुक्तं उदकं दधिमिश्रितम्।
अर्घ्यं, दधिमधुभ्याञ्च मधुपर्कों विधीयते”।
इति वचनं लिखित्वा, ‘दधिमधुमात्रेण मधुपर्काभिधानं घृतासम्भवपरम्’ —इति परिकल्प्य, ‘तत्सम्भवे गोभिलः’—इत्यभिधाय“मधुपर्कं दधिमधुतमपिहितं कांस्ये कांस्येन”—इति पारस्करगृह्यसूत्रम्,—“पिहितं कांस्यस्थम्” —इत्याकुलीकृत्य लिखित्वा,पूर्व्ववचने पात्रानुपदेशात् कांस्यपात्रं विनाऽपि मधुपर्को दीयतेइति वर्णयाञ्चकार। पृथगमीषां मधुपर्काणामेकविशेषस्यान्यत्रप्रसक्तेःकिमर्थमेतावान् प्रयासः,—इति न विद्मः। पूर्व्ववचनेपात्रानुपदेशादिति यदुक्तं, तदपि तत्परवचनानवलोनेन। अपिच। मध्वसम्भवे घृतेन मधुपर्कं गृह्यान्तरकाराःस्मरन्ति, स तु मन्यते, —घृतासम्भवेदधिमधुमात्रेण मधुपर्कः,—इतिकिमत्र ब्रूमः।तथाच गृह्यान्तरम्। “दधनि मध्वानीय सर्पिर्वा मध्वलाभे” –इति। विस्तरतश्चैतत् गृह्यासंग्रहभाष्ये वक्ष्यामः।अग्निस्वामिनस्तु कल्पसूत्रवृत्तौ मधुना पृक्तं दधि पयः कृतान्नंवामधुपर्कः –इति द्वितीयादिप्रकारत्रयमेवोक्तवन्तः। ‘मधुपर्कोदधिमधुयुक्तम्’ —इति ब्रुवाणोभट्टनारायणो द्वितीयं मधुपर्कमात्रमेवादर्शितवान्।
सूत्रशेषमिदानीं वर्णयामहे।तानेतान् विष्टरादीन् मधुपर्कान्तान् द्रव्यविशेषान् एकैकशःप्रत्येकं त्रिस्त्रिरुच्चार्य्य, वेदयेरन्—निवेदयेरन्, —इत्यल्पत्वादर्हयितुः कर्म्म प्रथमंसूत्रितम्।वेदयेरन्—ज्ञापयेयुः –इति केचित्। निवेदनञ्च दक्षहस्तेनादायकर्त्तव्यम्। कर्त्तुरङ्गस्योपदेशाभावे तस्यैव करस्य कर्म्मपारगत्वात्।तथा चोक्तम्।
“कर्मोपदिश्यते यत्र कर्त्तुरङ्गं न चोच्यते।
दक्षिणस्तत्रविज्ञेयः कर्म्मणां पारगः करः”।
इति। तस्मात्, —विष्टर निवेदने उत्तानहस्ताभ्याम् —इत्यसङ्गताकल्पना भवदेवभट्टस्य। सुखावबोधार्थं प्रयोगः प्रदर्श्यते। विष्टरोविष्टरो विष्टरः, पाद्यं पाद्यं पाद्यम्, अर्घ्यमर्घ्यमर्घ्यम्, आचमनीयमाचमनीयमाचमनीयम्, मधुपर्कों मधुपर्कों मधुपर्कः। प्रतिगृह्यताम् इति सर्व्वत्र वाक्यशेषं समापयेत्। कुतः ?तथा प्रसिद्धेः।योग्यत्वाच्च। विष्टरद्वयपक्षे द्विवचनान्तेन प्रयोगः, —इति भट्टनारायगोपाध्यायाः। पृथङ् निवेदनम्, —इति भवदेवभट्टः॥ ०॥ ५॥ ०॥
अथेदानीमर्हणीयकर्म्मविधिर्वक्तव्यः। स खल्वर्हयित्रा दत्तं विष्टरादिकं—विष्टरं प्रतिगृह्णामि, –इत्यादिना गृह्णीयात्। कथंज्ञायते ? योग्यत्वात्। प्रसिद्धेश्च। अर्घ्यमधुपर्कयोस्तु विशेषं वक्ष्यामः। स खल्वयमर्हणीयः विष्टरं गृहीत्वा–
या ओषधीरित्युदञ्चं विष्टरमास्तीर्य्याध्युपविशेत्॥ ६॥
या ओषधीः, –इत्यनया ऋचा उदञ्चमुत्तराग्रं विष्टरमास्तीर्य्य,विष्टरम् अधि लक्ष्मीकृत्य आसनस्योपरि उपविशेत्। क्व आस्तीर्य्य?आसने। कथं ज्ञायते ? “तामह्यमस्मिन्नासने” –इति मन्त्रलिङ्गात्। स खल्वयं मन्त्रः विष्टरस्यासनास्तरणे विनियुक्तः। कुतः ?उपवेशनस्य पूर्व्वमेव सिद्धत्वात्, इति व्याख्यातारः॥ ०॥ ६॥ ०॥
द्वौचेत् पृथगृग्भ्याम्॥ ७॥
चेत् यदि, द्वौविष्टरौ अर्हयित्रा दत्तौ स्याताम्, तदा पृथक् –नाना, ऋग्भ्याम्—या ओषधीरित्येताभ्यामित्यर्थः। आस्तीर्य्याध्युपविशेत् —इत्यनुवर्त्तते। ऋग्द्वयं मन्त्रब्राह्मणादवगन्तव्यम्। अत्र,पृथक् —इति करणात् निवेदनं युगपदवगम्यते। चेत्, —इतिकरणाच्च नातीव द्वयोरावश्यकत्वम्, —इति॥ ०॥ ७॥ ०॥
किं द्वितीयमपि विष्टरमविशेषेणासन एवास्तीर्य्यउपर्य्युपविशेत्?न। किन्तर्हि ? —
पादयोरन्यम्॥ ८॥
अन्यमपरम् —द्वितीयं विष्टरम्, या ओषधीरितिमन्त्रेण पादयोरधस्तादास्तीर्य्याध्युपविशेदित्यर्थः। पादयोरध आस्तीर्य्यउपरिपादौ तूष्णीं कुर्य्यात्, —इति भट्टभाष्यसरले॥ ०॥ ८॥ ०॥
यतोदेवीरित्यपः प्रेक्षेत॥ ९॥
यतो देवीः,—इत्यनेन मन्त्रेण, अपः,—पादप्रक्षालनार्थमुदकम्—पाद्यमित्येतत्। प्रेक्षेत अर्हणीयः॥ ०॥ ९॥ ०॥
तेनोदकेन खल्वयमर्हणीयः,—
** सव्यं पादमवनेनिज इति सव्यं पादं प्रक्षालयेत्, दक्षिणं पादमवनेनिज इति दक्षिणं पादं प्रक्षालयेत्॥ १०॥**
सव्यं पादम्, —इति मन्त्रेण सव्यं वामं, पादं प्रक्षालयेत्। अनेनैव सूत्रशेषो व्याख्यातः। प्रचालयेत् —इति क्रियाभ्यासः; निर्देशक्रमेण पादयोः प्रचालनार्थः। अन्यथा उदक् संस्थतानुरोधात् दक्षिणंप्रक्षाल्यततः सव्यस्य प्रक्षालनं स्यात्। तच्चानिष्टम्। पठन्ति च।
“पादं प्रक्षालयेद्विप्रो दक्षिणं प्रथमं सदा।
शूद्रस्तु वामं प्रथमं सामवेदी तथा बधूः”।
इति।
“सामगःक्षालयेत् सव्यमादावन्यस्तु दक्षिणम्”।
इति चैवमादि॥ ०॥ १०॥ ०॥
पूर्व्वमन्यमपरमन्यमित्युभौ शेषेण॥ ११॥
पूर्व्वमन्यमिति मन्त्रेण उभौ पादौ शेषेणावशिष्टेनोदकेन प्रक्षालयेत् —अर्हणीयः। सन्निकर्षातिशयाद्ददक्षिणस्यैव पादस्य प्रक्षालनं स्यात्, –इति तन्निरासार्थम्, –उभौं, —इत्याहपूर्व्वमन्यमित्युभौ शेषेण, —इति वक्तव्ये, पूर्व्वमन्यमपरमन्यमित्युभौशेषेण,—इति गुरुकरणं किमर्थम् ? क्रमविशेषार्थम, —इतिब्रूमः। कथं नाम ? एकैकपादप्रक्षालने यस्य पूर्वं प्रक्षालनं यस्य च पश्चात्, उभयपादप्रचालनपक्षेऽपि तस्यैव पूर्व्वंतस्यैवच पश्चात् प्रक्षालनम् —इति। तदेतत् क्रमविशेषसूचनार्थं पूर्व्वापरत्वानुकीर्त्तनमिति बोद्धव्यम्। मन्त्रे च पूर्व्वशब्दोऽग्रिमवाचीअपरशब्दः पश्चाद्वचनः। तथाच अग्रिमप्रचालितमन्यं सव्यं पश्वात्प्रक्षालितमन्यं दक्षिणञ्चोभौ पादाववाननिजे पूर्व्वेणैव क्रमेणप्रक्षालयामि, —इति मन्त्रलिङ्गादपि स एव क्रमोऽवगम्यते। अतएव उदक्संस्थतानुरोधादिह प्रथमं दक्षिणं प्रक्षाल्य ततः सव्यंप्रक्षालयेदित्ययमपि पक्षो मन्त्रलिङ्गविरोधादेवोपेक्षणीयः। मन्त्रलिङ्गसूचनार्थमेव पूर्व्व मन्यमपरमन्यम्’ —इति मन्त्रप्रतीकस्योपादानम्॥ ०॥ ११॥ ०॥
अन्नस्यराष्ट्रिरसीत्यर्घ्यंप्रतिगृह्णीयात्॥ १२॥
अन्नस्य राष्ट्रिरसि, —इत्यनेन मन्त्रेण अर्घ्यंयथोक्तलक्षणं प्रतिग्रुह्णीयात् अञ्जलो गृह्णीयात् अर्हणीयः। अर्घ्यंप्रतिगृह्णामि, —इत्यर्घ्यंप्रतिगृह्णीयादित्यसङ्गतैषा कल्पना भवदेवभट्टस्य। ‘प्रतिष्टह्णीयात्’—इत्यस्य अञ्जलौगृहीत्वा शिरसि दद्यात्, —इति रघुनन्दनव्याख्यानेऽपि प्रमाणं न पश्यामः। मन्त्रानुपदेशात् व्याहृतिभिरेवशिरस्यर्घ्यंदद्यात्, —इति तु स्यात्॥ ०॥ १२॥ ०॥
यशोऽसीत्याचमनीयमाचामेत्॥ १३॥
यशोसि, —इति मन्त्रेणाचमनीयमाचमनार्थमुदकम् ,आचामेत् सम्यक् भक्षयेत्, —अर्हणीयः। आचामेत् — इति करणात्,—वारत्रयमुदकं भक्षयेत्, अथ यथोक्तेन विधिना इन्द्रियाण्युपस्पृशेत्,—इत्यवगच्छामः। ‘तच्चसकृन्मन्त्रेण भक्षयित्वा द्विस्तूष्णीं भक्षयेत्’ —इति भट्टभाष्यम्॥ ०॥ १३॥ ०॥
यशसो यशोसीति मधुपर्कं प्रतिगृह्णीयात्॥ १४॥
यशसो यशोसि,—इत्यनेन मन्त्रेण मधुपर्कमर्हणीयः प्रतिगृह्णीयात्। अपरे पुनरेतदविद्वांसो भाषन्ते, —मधुपर्कं प्रतिगृह्णामीतिमधुपर्क प्रतिगृह्णीयात्,—इति॥ ०॥ १४॥ ०॥
तस्य खल्वस्यमधुपर्कस्य,—
यशसो भक्षोसि महसो भक्षोसि श्रीर्भक्षोसिश्रियं मयि धेहीति त्रिः पिबेत्॥ १५॥
यशसो भक्षोसि, —इत्येवमादिना मन्त्रेण, त्रिः —वारत्रयं पिबेदर्हणीयः। आह। समस्तमन्त्राम्नानं किमर्थम् ? उच्यते। मन्त्रेभक्षशब्दस्य त्रिःपाठात् त्रिः पानविधानाच्च भक्षशब्दान्तैरेव मन्त्रावयवैः पानं स्यात्, इत्यपि कदाचिदाशङ्का स्यात् कस्यचिन्मन्दमतेः। अतस्तन्निरासार्थं मन्त्रान्तेन पानप्रतिपादनार्थम्, समाम्नायप्रज्ञापनार्थञ्च समस्तमन्त्राम्नानम्। तस्मात्, कौथुमादीनां मन्त्रान्तेनैव पानम्। येषान्तु ‘श्रियो भक्षोसि’—इति मन्त्रपाठः,तेषां मन्त्रावयवैरेव पानं स्यात्। तथा च छन्दोगगृह्यान्तरम्।“मधुपर्कं त्रिः पिबेद् यशसो महसः श्रिय इति, तूष्णींचतुर्थम्”इति। तदत्र, मन्त्रप्रतीकोपादानात् प्रतीकैरेव पानमवगम्यते।‘श्रीर्भक्षोसि’ —इति खल्वस्मच्छाखायां मन्त्रपाठः।
इदमिदानीमत्र सन्दिह्यते। किं प्रतिपानं मन्त्रावृत्तिः, उतसकृन्मन्त्रेण पानत्रयम् ? —इति। सकृन्मन्त्रप्रयोगः, —इति केचित्।कुतः? “एकद्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवाचनं कृत्वा ,"—इति वचनात्। तदमङ्गतम्। कस्मात् ? द्रव्यभेदात्। द्रव्यभेदः खल्वत्रभवति। न हि यदेवादितः पिबति, परस्तादपि तदेव पिबति,—इत्यप्रमत्तः शक्नोति वदितुम्। तस्मादस्त्यत्र द्रव्यभेदः। उत्तरत्रतूष्णीमिति करणाच्चाव प्रतिपानं मन्त्रावृत्तिमवगच्छामः। आह। मध्ये तर्हि आचमनं प्राप्नोति ?अन्यथोच्छिष्टः कथं द्वितीयंतृतीयञ्च पानं करिष्यति, मन्त्रं वापठिष्यति। उच्यते। उत्तरत्रआचान्तोदकाय, —इति करणादिहोच्छिष्टतैव न भवतीत्यवगच्छामः।तस्मात्, प्राणाग्निहोत्रवत्सोमभक्षणवच्चअकृताचमनस्यैव मन्त्रपाठःस्यात्। तथाच गृह्यासंग्रहः।
" मधुपर्केतथा सोमे अप्सु प्राणाहुतीषु च।
अनुच्छिष्टो भवेद्विप्रो यथा वेदविदो विदुः।
प्राणाहुतिषु सोमेषु मधुपर्के तथैवच।
आस्यहोमेषु सर्व्वेषु नोच्छिष्टो भवति द्विजः”।
इति। इदमपरं चिन्त्यते। मधुपर्कस्य पिबति —चोदना तावदुपलभ्यते, मन्त्रे च भक्षशब्दश्रुतिः। तत्र, किं पात्रेण पातव्यम्। आहोस्वित् हस्तेन भक्षयितव्यम् ? —इति। तत्र केचिदाहुः।मन्त्रलिङ्गात् प्रसिद्धेश्चहस्तेन भक्षयितव्यम्। पिबति —चोदनातु भोजनधर्म्मस्य पूर्व्वापरद्विराचमनादेर्निवृत्त्यर्थतयाऽप्युपपद्यते,—इति। अपरे ब्रुवन्ति। मन्त्राणामविधायकत्वात्प्रसिद्धेश्चानैकान्तिकत्वात् विधिबलीयस्त्वाच्च पात्रेण पातव्यम्, —इति।अन्ये तु मन्यन्ते। मधुसंयोगात्द्रवश्वेन्मधुपर्कःस्यात्, तदापात्रेण पातव्यम्। अथ दध्नःकाठिन्यात् पानानुपपत्तिः,प्रागेवतु कृतान्नस्य, तदा हस्तेन भक्षयितव्यम् —इति। तदत्रभगवन्तो भूमिदेवाःप्रकाणम्॥ ०॥ १५॥ ०॥
तूष्णीं चतुर्थम्॥ १६॥
मधुपर्कस्य पिबेत्॥ ०॥ १६॥ ०॥
भूय एवाभिपाय शेषं ब्राह्मणाय दद्यात्॥ १७॥
भूयः –पुनरपि, एवकारकरणात्, –तूष्णीमेव, अभिपाय आभिमुख्येन पीत्वा, शेषमवशिष्टं ब्राह्मणाय दद्यात्। तच्च पुत्रायशिष्याय वा, न पुनरविशेषेण यस्मै कस्मैचित्। कथं ज्ञायते ?“उच्छिष्टं कस्यचिन्नपातव्यं नापि दातव्यम्” –इति शास्त्रान्तरेअन्यस्मै उच्छिष्टदानस्य अन्योच्छिष्टभक्षणस्य च निषेधनात्।गुर्व्वाद्युच्छिष्टभोजनन्तु प्रसिद्धमेव।तथा स्मृत्यन्तरम्। “नोच्छिष्टं कस्यचिद्दद्यादन्यत्र जायापुत्र शिष्येभ्यः”–इति। वशिष्ठोऽप्याह।“उच्छ्रिष्टमगुरोरभोज्यम्” –इति। तदभावे पुनरब्राह्मणायापिदद्यात्, तच्च अद्भिः संप्रोक्ष्य, —इति विशेषः। तथाच द्राह्यायणसूत्रम्। “तदभावेऽद्भिः सम्प्रोक्ष्याब्राह्मणाय” –इति। लाढ्यायनोऽप्येवमेव सूत्रयाञ्चकार॥ ०॥ १७॥ ०॥
आचान्तोदकाय गौरिति नापितस्त्रिर्ब्रूयात्॥ १८॥
आचान्तोदकाय अर्हणीयाय। तादर्थ्येचतुर्थी, क्रियाग्रहणात् वा।आचान्तोदकमर्हणीयमुद्दिश्य, –इति वा वर्णनीयम्। नापितोगौरिति त्रिर्वारत्रयं ब्रूयात्। आचान्तोदकाय, —इति कुर्व्वन्उच्चैस्त्वं द्योतयति। कथं नाम ? यथा खल्वर्हणीयः शृणोति,तथोच्चैर्ब्रूयात्,—इति। एवं खल्वाचान्तोदकार्थता कथनस्यसम्पत्स्यते। अन्ये तु वर्णयन्ति। ‘आचान्तोदकाय, —इतिसप्तम्यर्थे चतुर्थी। तेन, अर्हणीये आचान्तादके सतीत्यर्थः’,—इति। मधुपर्कभक्षणेउच्छिष्टता न प्राप्नोति, —इतिखल्वाचार्य्यआचान्तोदकाय, —इत्याह। तेन, इतः पूर्व्वंनास्त्येवाचमनम्॥ ०॥ १६॥ ०॥
नापितेन त्रिर्गौरित्युक्ते खल्वयमर्हणीयः, तमेव नापितम्,—
** मुञ्च गां वरुणपाशाद् द्विषन्तं मेऽभिधेहीति तंजह्यमुष्य चोभयोरुत्सृज गामत्तु तृणानि पिवतूदकमिति ब्रूयात्॥ १६॥**
मुञ्च गामिति मन्त्रं ब्रूयात्। आह।समस्तमन्त्राम्नानं किमर्थम् ?समाम्नायप्रज्ञापनार्थम्। एवमेव मन्त्रस्य पाठार्थञ्च। तेन, मे,—इत्यादी निराकाङ्क्षत्वार्थं न नामप्रयोगः। तेन, अमुष्य, —इत्यप्यनूह एव स्यात्, —इति केचित्। ते खलु, ‘मेऽभिधेहीति’ –इत्यत्र,इति—कारं किमिति न लिखितवन्तः, –इति प्रष्टव्याः। तस्मात्, ‘अमुष्य’ पदस्थाने तावदर्हयितुर्नामादेशः कर्त्तव्यः। कुतः?अदःपदस्थाने नामादेशस्य प्रसिद्धत्वात्। “समस्तमन्त्राम्नानं ‘जहि’’ अमुष्य’ –इति पदयोरन्तरा शब्दान्तराध्याहारशङ्खानिवृत्त्यर्थम्।अन्यथा, मम विष्णुदत्तस्य च, –इत्येवं प्रयोगःस्यात्। तच्चायुक्तम्। मेऽभिधेहीति मे–शब्देन तदर्थसिद्धेः” –इति केचित्।तेषामपि तदुक्तयैव युक्त्या अध्याहारशङ्काया अप्रसक्तेः समस्तमन्त्रास्त्रानं किमर्थमिति न विद्मः। मेऽभिधेहीति, –इत्यत्र इतिकरणं किमर्थम् ? परस्तान्मन्त्रपदस्य रूपान्तरत्वप्रज्ञापनार्थम्। प्रागितिशब्दप्रक्षेपात् यथापठितानामेव मन्त्रपदानां प्रयोगार्थञ्च। तेन, ‘अमुष्य’ परस्थाने नामादेशःस्यात्। तर्हि ‘तम्’ –इत्यात्रापि स्यात् ? नैष दोषः। इतिकरणात्प्राक्तनेन ‘द्विषम्तम्’ —इति पदेन तस्य सम्बन्धात्।
तस्मादियमेवावधारणा; –‘समस्तमन्त्राम्नानं समान्नायप्रज्ञापनार्थम्।मध्ये इतिकारकरणं ततः प्राक्तनस्य मन्त्रभागस्य यथापाठार्थम्, पराचीनस्य ‘अमुष्य’ पदस्य स्थाने नामादेशसूचनार्थञ्च। अन्यस्य पराचीनत्वेऽपि न नामादेशः, प्रमाणभावात्।नाप्यध्यध्याहारः, समस्तमन्त्राम्नानात्’ —इति। तथा च छन्दोगगृह्यान्तरम्। “सञ्चोदितामनुमन्त्रवेत मुञ्च गामित्यमुष्य चेत्यर्हयितुर्नाम ब्रूयात्” —इति। भट्टभाष्येऽप्युक्तम्- —“मेऽभिधेहीत्यत्रेतिशब्दप्रक्षेपात् ‘मेऽभिधेहि’ —इत्येव प्रयोगः। न तु निराकाङ्क्षीकरणाय मे वक्तुरिति। अमुष्यपदस्थाने अर्हयितुर्नामादेशः”—इति।
अत्रच, पव्यमानमन्त्रकाण्डे’ ‘इति’ पदं न पठ्यते, केवलमाचार्य्यैणैव उक्तमर्थंप्रतिपिपादयिषुणा प्रक्षिप्तं तदिति बोद्धव्यम्। भट्टनारायणोऽपि प्रक्षिप्तत्वमितिकारस्य स्पष्टमाचष्टे।व्याख्यातारोऽपि पूर्व्वाचार्य्याएवमेव प्रतिपन्नाः। भवदेवभट्टोऽपि मन्त्रेइतिकारं न लिलेख। यच्च, —उक्तभट्टभाष्यप्रतीकं लिखित्वा,रघुनन्दनेनोक्तम्, –“मेऽभिधेहौत्यत्र भवदेवभट्टेन यत् इतिपदं नलिखितम्, तद् हेयम्, भट्टभाष्यविरोधात्, प्रमाणाभावाच्च”, –इति। तदेव हेयम्। कस्मात् ?भट्टभाष्य विरोधाभावात्। तत्रखल्वितिशब्दस्य प्रक्षेपत्वकथनाद्व्यक्तमितिशब्दस्य मन्त्रानङ्गत्वमुक्तम्। प्रमाणञ्चात्र मन्त्रसमाम्नायोऽध्येतृसम्प्रदायश्च। तस्मात्,– भट्टभाष्यपङ्क्तेस्तात्पर्य्यापर्य्यालोचनात् समाम्नायाद्यनवलोकनप्रमादाच्चअप्रमाणं प्रमाणविरुद्धञ्चवर्णितमित्यनादरणीयम्॥ ०॥ १९॥ ०॥
ततो नापितेन मुक्तां तामेव गामवलोकन्नर्हणीयः,—
माता रुद्राणामित्यनुमन्त्रयेत॥ २०॥
ऋज्वर्थं सूत्रम्॥ ०॥ २०॥ ०॥
किं सर्व्वत्रैवार्हकर्म्मणि नापितेन गौरित्युक्ते मुञ्च गामित्युक्त्वामाता रुद्राणामित्यनेन तामनुमन्त्रयेदर्हणीयः ? एवं खलु प्राप्तम्।
एवं प्राप्ते इदमारभ्यते,—
अन्यत्र यज्ञात्॥ २१॥
यज्ञोऽग्निष्टोमादिः। तस्मादन्यत्रैवं कुर्य्यात्॥ ०॥ २१॥ ०॥
यज्ञे तर्हि किं कुर्य्यात् ? उच्यते,—
कुरुतेत्यधियज्ञम्॥ २२॥
यज्ञमधिक्रुत्य,—इत्यधियज्ञम्।यज्ञमधिकृत्य यदर्हणं क्रियते, तत्रनापितेन गौरित्युक्ते खल्वयमर्हणीयः ‘कुरुत’ — इति ब्रूयात्।कुरुत आलभध्वमित्यग्निस्वामिप्रभृतयः।“कुरुतेति गवि प्रोक्तायांब्रूयात् “—इति च लाट्यायनसूत्रम्॥ ०॥ २२॥ ०॥
कति पुनरर्हणीया भवन्ति ?उच्यते,—
षड़र्घ्यार्हाभवन्ति॥ २३॥
अर्घ्यमर्हणम्। तदर्हन्तीत्यर्घ्यार्हाः। ते खल्विमे षट्सङ्ख्याकाभवन्ति॥ ०॥ २३॥ ०॥
त इमे षड़र्हणीया नामतो निर्दिश्यन्ते,—
आचार्य्य ऋत्विक् स्नातको राजा विवाह्यः प्रियोऽतिथिरिति॥ २४॥
आचार्य्यः,—
" उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः।
सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते”।
इत्युक्तलक्षणः। ऋत्विक्,—
“अग्न्याधेयंपाकयज्ञानग्निष्टोमादिकान् मखान्।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते”।
इत्युक्तलक्षणः। स्नातकास्त्रयो व्याख्याताः। राजा अभिषेकादिगुणयुक्तो नरेश्वरः।विवाह्यो विवाहयितव्यो जामाता, —इत्येतत्।प्रियः,—विद्यातपः प्रभृतिर्गुणैः प्रीतिविषयोऽतिथिर्यथोक्तलक्षणः।इत्येते षड़र्घ्यार्हानामतो निर्दिष्टः। प्रियः—इति विशेषणात्विद्यादिगुणवानेवातिथिरर्ध्यार्हो भवति, न यः कश्चित्, —इतिदर्शयति॥ ०॥ २४॥ ०॥
किमेतानाचार्य्यादीन् सकृदेवार्हयेत् ? न। किन्तईि ?,—
परिसंवत्सरानर्हयेयुः॥ २५॥
परिगतःसंवत्सरो येषां, तान् परिसंवत्सरान् आचार्य्यादीन् अर्हयेयुः। ‘पुनर्’,—इति पराचीनमिहाप्यन्वीयते। मध्यमणिन्यायात्। तेन, एकस्मादर्हणकालादारभ्य संवत्सरादूर्द्ध्वमागतानेतानाचार्य्यादीन् पुनरर्हयेयुरित्यर्थः॥ ०॥ २५॥ ०॥
पुनर्यज्ञविवाहयोश्च पुनर्यज्ञविवाहयोश्च॥ २६॥
यज्ञविवाहौव्याख्यातौ। तयोर्निमित्तभूतयोः संवत्सरमध्येऽप्यागतानाचार्य्यादीन् पुनरर्हयेयुः। अपर आह। ‘यज्ञविवाहयोनिमित्तयोरर्व्वागपि संवत्सराट्टत्विगाचार्य्यो प्राप्तौ पुनरर्हयेयुः’, —इति। चः समुच्चये परिसंवत्सरकालमेव समुच्चिनोति। पुनर्यज्ञविवाहयोश्चपुनर्यज्ञविवाहयोश्च, —इति सूत्राभ्यासःशास्त्रपरिसमाप्तिं द्योतयति॥ ०॥ २६॥ ०॥
अत्रैव शिवम्।
शाण्डिल्यस्य महामुनेरकलुषे वंशे प्रसंशोत्तरे
क्षीराब्धावकलङ्गमञ्जुलवपुः कान्तः कलानां निधिः।
वाक्पीयूषकरैर्हरन्नतितरां चेतांस्थरीणामपि
क्षान्तोऽभूत् परमात्मबोधनिपुणोभोगेष्वनासक्तधीः॥
राधाकान्तो निरवधि मतः सर्व्वथा सज्जनानां
मेधोत्कर्षप्रथितमहिमा धीमतामग्रगण्यः।
शास्त्रालापव्यसनरसिकः सन्निवृत्तोऽन्यदोषात्
साक्षात् दोषाकर इव सतामाकरो ऽभूद्गुणानाम्॥
सिद्धान्तवागीश इति प्रसिद्धो-
यः सर्व्वसिद्धान्तगणेष्वभिज्ञः।
काले मितं वाक्यमुदर्कपथ्यं
यश्चोपदेष्टाऽऽगमवज्जनानाम्॥
कृपापारावारः स खलु शरणं रूढ़विपदां
परानिष्टद्वेष्टा परमभिनिविष्टःश्रुतिविधौ।
स्फुरद्भक्तिश्रद्धाविमलमतिरुच्चैर्गिरिसुता-
पदाम्भोजहद्वन्द्वप्रक्षुरमकरन्दे मधुकरः॥
योऽध्यापयामास परः सहस्रा-
ननन्यकाम्यानपि शिष्यसङ्गान्।
यश्चान्तकाले विससर्ज्जदेहं
सुरापगातीररसान्तरस्थः॥
अद्वैतवादनिरतो नवावतार इव भक्तियोगस्य।
अपरिमितो यत्प्रेमा रोमाञ्चमिषादलक्षिवाद्येऽपि॥
केनापि कस्मिन्नपि वा कथञ्चित्
प्रवर्त्तिते विश्वपतेः प्रसङ्गे।
वास्पप्रपूरः परितः प्रसर्पन्
वपुर्विभोः प्लावयतेस्मयस्य।
श्री चन्द्रकान्तनामा ब्रह्मविदः कौथुमो धरादेवः।
तस्मान्महानुभावात्तर्कालङ्कारलाञ्छनो जातः॥
सोऽयं ब्रह्ममयीसुतो मतिमतामाराधनेषूत्सुकः
पित्रैवामरगुर्व्वनूनमतिना भूयो विनीतोऽस्पृशत्।
तस्योच्चैश्चरणारविन्दकृपयाऽन्येषां गुरुणान्तथा
किञ्चिद्वोधलवोदयातिचपलः शार्दूलविक्रोड़ितम्॥
कामरूपब्रह्मपुत्रावन्तरा कैकयेषु यः।
पुण्ये सेरपुरे रम्ये करोति वसतिं द्विजः॥
श्रीमद्विजयिनी देवी साम्प्रतं भारतेश्वरी।
यद्वङ्गसाम्राज्यगतं तद्रचाधिकृताज्ञया॥
मन्वादीनां सम्यक् तथा वचांसि च निबन्धकर्तृृणाम्।
बुद्ध्याविचार्य भूयो मीमांसद्वितयमप्यथालोच्य॥
गौतमकणादतन्त्रमवलोक्य कपिलमुनिरचिततन्त्रमपि।
अपि च पतञ्जलितन्त्रंसामानि विशेषतः समालोच॥
लाट्यायनीयकल्पं द्राह्मायणरचितमाखलायनकृतम्।
गृह्यान्तरकर्तृृणां परिशिष्टकृताञ्च विचार्थ वचः॥
रचयाञ्चकार भाष्यं कठिनच्छन्दोगगृह्यसूत्रेषु।
श्रीचन्द्रकान्त एतत्तरलाल्पमतिर्यथाबुद्धि॥
वेदाङ्ग भैलचन्द्रे शकनरपतिहायने समाप्तैषा।
आश्विनमङ्गलवारे रसेन्दुदिवसे कृतिस्तस्य॥
स्खलितं यदत्र दैवात्तदखिलमखिलेश्वरः शमं नयतु।
प्रोणातु परपिताऽसौ बालकपरिचापलादस्मात्॥
मन्दोत्तममध्यानामुपासकानामनुग्रहार्थं यः।
धत्ते विविधशरीरं स हरतु दुरितं ममेशानः॥
यस्याज्ञाविवशाऽचलापि चलति भ्राम्यन्ति शून्ये ग्रहा-
वातो वाति तपत्यथापि तपनो मृत्युस्तथा धावति।
यः सर्व्वत्र गतोपि नैव सुमहानप्यन्तिके लक्ष्यते
सोऽयं श्रीपरमेश्वरः प्रकुरुतादन्तेऽपि मे मङ्गलम्॥
पित्रोश्चरणसरोजं विकसतु हृदये ममानिशं वल्गु।
तमसां विघटनदक्षाःस्फुरन्ति नखरेन्दवो यत्र॥
सन्तः सन्ति जगत्सु ये परगुणं दोषोत्करैरावृतं
साश्लाघंपरिशोध्य साधु बहुलीकुर्व्वन्ति निर्व्वासनाः।
तेषां तद्व्रतमेव, तेषु विफला सत्यं कृपाप्रार्थना
तद्भक्तिप्लुतमानसास्तु शिरसा तेभ्यो नमस्कुर्म्महे॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्य्यात्मजश्रीचन्द्रकान्ततर्कालङ्कारभट्टाचार्य्यस्यकृतौ गोभिलीयगृह्यसूत्रभाष्ये चतुर्थप्रपाठकस्य दशमी खण्डिका समाप्ता॥ ०॥
समाप्तश्चायं चतुर्थः प्रपाठकः॥ ०॥
समाप्तञ्चेदं गोभिलग्रुह्यसूत्रभाष्यम्॥ ०॥
शुभमस्तु। श्रीरस्तु॥
__________
]
-
“इत्यमेव पाठः सर्वेषु सूत्रग्रन्थेषु। भट्टभाष्यब्राह्मणसर्व्वस्वयोरपि इत्यमेवेदं सूत्रमधारि। परिशिष्टप्रकाशे तु - ‘अपि वाऽरणिम्’- इतिलिखितम्।” ↩︎ ↩︎
-
“‘अधिवर्च्चं’ वा’— इति क्वचित् पाठः तत्र व ‘सान्ता अप्यदन्ताः’—इति गतिः।” ↩︎ ↩︎
-
“अस्मदवलोकितेषु सर्व्वषु सूत्रग्रन्थेषु इत्थमेव पाठः। तत्त्वकारस्तु स्वमतरक्षणापेक्षो‘वा’-शब्दं न पपाठ।” ↩︎ ↩︎
-
“उपोद्गृह्योत्क्षिप्य–इति तत्त्वकारः पठति। उत्क्षिप्य अञ्जलिसकाशात् दक्षिणं पाणिं विच्छिद्य–इति व्याख्याति च। परं सर्व्वेषु सूत्रग्रन्थेष्वस्मदवलोकितेषु भट्टभाष्ये च ‘उत्क्षिप्य’–इति प्रतीकं न दृश्यते।नाप्यतीव समीचीनम्। तथाहि सव्येनाञ्जल्यपोद्ग्रहणस्यसूत्रणात् दक्षिणस्याञ्जलिसंयोग एव नास्ति, कुतस्तद्विच्छेदसूत्रणम्। प्राचीनञ्चाञ्जलिग्रहणमिदानीं निवृत्तं। दक्षिणेन पाणिना–इति परप्रतीकेन चास्य गतार्थता–इत्यवधेयम्।” ↩︎ ↩︎
-
“सर्व्वेष सूत्रग्रन्थेषु इत्थमेव सूत्रमत्रैव च खण्डिका समाप्तिः।भट्टभाष्ये तु–समाप्तासु–इति सूत्रच्छेदः खण्डिकासमाप्तिश्चात्रैव दृश्यते।उद्वहन्ति–इति परसूत्रावयवतया तत्रोपलभ्यत। तत्त्वकारेण तु समस्तमेवसूत्रमुत्तरसूत्रेण सहैकत्र लिखितम्।” ↩︎ ↩︎
-
“उपरिलोम-इति तत्त्वकारः पठति ।” ↩︎
-
“व्यास्तृतम् - इति तत्त्वकारः पठति ।” ↩︎
-
“इत्थमेव सर्व्वत्र पाठः । संस्कारतत्त्वे तु अत्र ‘उदगग्रेषु दर्भेषु’ - इतिन दृश्यते ।” ↩︎
-
“संस्कारतत्त्वे तु, ‘पश्चादरुदगग्रेषु दर्भेषु - इति प्रतीकं नास्ति।” ↩︎
-
“सीमन्तोन्नयनम्– इति तत्त्वकारः पठति ।” ↩︎
-
“‘ऊर्ध्वं नयति’ - इति पाठान्तरम् ।” ↩︎
-
“‘भुव इति’ - इति पाठान्तरम् ।” ↩︎
-
“इत्थमेव पाठो भाष्यपुस्तकद्वये । सूत्रपुस्तकेषु संस्कारतत्त्वे च ‘त्रिःश्वेतया’ – इत्यशुद्धः पाठो दृश्यते ।” ↩︎
-
“एतत् सूत्रानन्तरं ‘अत ऊर्द्धंज्यौत्वेस्रेष्वेतत् कर्म्मासंवत्सरम्’ - इति सूत्रतयैव संस्कारतत्त्वेऽधारि । परमस्मदवलोकितेषु सर्वेषु सूत्रग्रन्थेषु भाष्यपुस्तकद्वये च तददर्शनात् युक्त्या तन्निर्णयस्य भाष्ये दर्शनाच्च भाष्यप्रतोकमेव तत् ।” ↩︎