01 अर्धमासव्रती पौर्णमास्यां रात्रौ ...{Loading}...

अर्धमासव्रती पौर्णमास्यां रात्रौ शङ्कुशतं जुहुयादेकाक्षर्ययायसान्वयकामः १

02 खादिरानायुष्कामोऽथापरम् ...{Loading}...

खादिरानायुष्कामोऽथापरम् २

03 प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य स्थण्डिलम् ...{Loading}...

प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य स्थण्डिलं समूह्य पर्वते वाऽऽरण्यैर्गोमयैस्तापयित्वाऽङ्गारानपोह्यास्येन जुहुयात् ३

04 द्वादश ग्रामा ज्वलिते ...{Loading}...

द्वादश ग्रामा ज्वलिते ४

05 त्र्यवरा धूमे ...{Loading}...

त्र्यवरा धूमे ५

06 कम्बूकान् सायम्प्रातर्जुहुयान्नास्य वृत्तिः ...{Loading}...

कम्बूकान् सायम्प्रातर्जुहुयान्नास्य वृत्तिः क्षीयते ६

07 इदमहमिममिति पण्यहोमं जुहुयात् ...{Loading}...

इदमहमिममिति पण्यहोमं जुहुयात् ७

08 पूर्णहोमं यजनीये जुहुयात् ...{Loading}...

पूर्णहोमं यजनीये जुहुयात् ८

09 इन्द्रा मवदादिति सहायकामः ...{Loading}...

इन्द्रा मवदादिति सहायकामः ९

10 अष्टरात्रोपोषितः प्राङ्वोदङ्वा ग्रामाच्चतुष्पथे ...{Loading}...

अष्टरात्रोपोषितः प्राङ्वोदङ्वा ग्रामाच्चतुष्पथे समिद्ध्याग्निमौदुम्बर इध्मः स्यात् स्रुवचमसौ च जुहुयादन्नं वा इति श्रीर्वा इति १०

11 ग्रामे तृतीयामन्नस्येति ...{Loading}...

ग्रामे तृतीयामन्नस्येति ११

12 आधिपत्यं प्राप्नोति ...{Loading}...

आधिपत्यं प्राप्नोति १२

13 उपतापिनीषु गोष्ठे पायसम् ...{Loading}...

उपतापिनीषु गोष्ठे पायसं जुहुयात् १३

14 अक्षेमे पथि वस्त्रदशानाम् ...{Loading}...

अक्षेमे पथि वस्त्रदशानां ग्रन्थीन्कुर्यात् सहायिनां च स्वस्त्ययनानि १४

15 क्षुधे स्वाहेत्येताभ्यामाहुतिसहस्रं जुहुयादाचितसहस्रकामः ...{Loading}...

क्षुधे स्वाहेत्येताभ्यामाहुतिसहस्रं जुहुयादाचितसहस्रकामः १५

16 वत्समिथुनयोः पुरीषेण पशुकामोऽविमिथुनयोः ...{Loading}...

वत्समिथुनयोः पुरीषेण पशुकामोऽविमिथुनयोः क्षुद्र प शुकामः १६

17 हरितगोमयेन सायम्प्रातर्जुहुयाद् नास्य ...{Loading}...

हरितगोमयेन सायम्प्रातर्जुहुयाद् नास्य वृत्तिः क्षीयते १७


  1. 3, 1-5, Gobhila IV, 8, 10-16. 6 = IV, 9, 15. ↩︎

  2. 7-9 = IV, 8, 19 seqq. ↩︎

  3. 10-16 = IV, 9, 1 seqq. ↩︎

  4. 17 = IV, 8, 18. ↩︎