01 अर्धमासव्रती तामिस्रादौ ब्राह्मणानाशयेत् ...{Loading}...

अर्धमासव्रती तामिस्रादौ ब्राह्मणानाशयेत् व्रीहिकंसौदनम् १

02 तस्य कणानपरासु सन्ध्यासु ...{Loading}...

तस्य कणा-नपरासु सन्ध्यासु प्रत्यग्ग्रामात् स्थण्डिलमुपलिप्य भलायेति जुहुयाद्भल्लायेति च २

03 एवमेवापरस्मिंस्तामिस्रादौ ...{Loading}...

एवमेवापरस्मिंस्तामिस्रादौ ३

04 ब्रह्मवर्यमासमाप्तेः ...{Loading}...

ब्रह्मवर्यमासमाप्तेः ४

05 आचितशतं भवति ...{Loading}...

आचितशतं भवति ५

06 गौरे भूमिभागे ब्राह्मणो ...{Loading}...

गौरे भूमिभागे ब्राह्मणो लोहिते क्षत्रियः कृष्णे वैश्योऽव सानं जोषयेत् समं लोमशमनिरिणमशुष्कम् ६

07 यत्रोदकं प्रत्यगुदीचीं प्रवर्तेत ...{Loading}...

यत्रोदकं प्रत्यगुदीचीं प्रवर्तेत ७

08 अक्षीरिणः कण्डकिनः कटुकाश्चात्रौषधयो ...{Loading}...

अक्षीरिणः कण्डकिनः कटुकाश्चात्रौषधयो न स्युः ८

09 दर्भसम्मितं ब्रह्मवर्चस्यम् ...{Loading}...

दर्भसम्मितं ब्रह्मवर्चस्यम् ९

10 बृहत्तृणैर्बल्यम् ...{Loading}...

बृहत्तृणैर्बल्यम् १०

11 मृदुतृणैः पशव्यम् ...{Loading}...

मृदुतृणैः पशव्यम् ११

12 यत्र वा स्वयम् ...{Loading}...

यत्र वा स्वयं कृताः श्वभ्रास्सर्वतोऽभिमुखाः स्युः १२

13 प्राग्द्वारं धन्यं यशस्यम् ...{Loading}...

प्राग्द्वारं धन्यं यशस्यं चोदग्द्वारं पुत्र्यं पशव्यं च दक्षिणापश्चिमद्वारे सर्वे कामा अनुद्वारं गेहद्वारम् १३

14 असंलोकी स्यात् ...{Loading}...

असंलोकी स्यात् १४

15 पयसो हविः ...{Loading}...

पयसो हविः १५

16 कृष्णा च गौः ...{Loading}...

कृष्णा च गौः १६

17 अजो वा श्वेतः ...{Loading}...

अजो वा श्वेतः पायस एव वा १७

18 मध्ये वेश्मनो वसाम् ...{Loading}...

मध्ये वेश्मनो वसां पायसं चाज्येन मिश्रमष्टगृहीतं जुहुयाद्वास्तोष्पत इति १८

19 याश्च पराः ...{Loading}...

याश्च पराः १९

20 सप्तालक्ष्मीनिर्णोदे ताभिश्च ...{Loading}...

सप्तालक्ष्मीनिर्णोदे ताभिश्च २०

21 हुत्वा दिशां बलीन् ...{Loading}...

हुत्वा दिशां बलीन् नयेत् २१

22 अवान्तरदिशां चोर्ध्वावाचिभ्यां च ...{Loading}...

अवान्तरदिशां चोर्ध्वावाचिभ्यां च २२

23 एवं संवत्सरे संवत्सरे ...{Loading}...

एवं संवत्सरे संवत्सरे नवयज्ञयोर्वा २३

24 वशङ्गमावित्येताभ्यामाहुती जुहुयाद्यमिच्छेद्वशमायान्तं तस्य ...{Loading}...

वशङ्गमावित्येताभ्यामाहुती जुहुयाद्यमिच्छेद्वशमायान्तं तस्य नाम गृहीत्वाऽसाविति वशी हास्य भवति २४


  1. 2, 1-5 = Gobhila IV, 6, 13-16. ↩︎

  2. 6-23 = IV, 7. ↩︎

  3. 24 = IV, 8, 7 (25 deest). ↩︎