01 काम्येषु षड्भक्तानि त्रीणि ...{Loading}...

काम्येषु षड्भक्तानि त्रीणि वा नाश्नीयात् १

02 नित्यप्रयुक्तानामादितः ...{Loading}...

नित्यप्रयुक्तानामादितः २

03 उपरिष्टात्सान्निपातिके ...{Loading}...

उपरिष्टात्सान्निपातिके ३

04 एवं यजनीयप्रयोगेषु ...{Loading}...

एवं यजनीयप्रयोगेषु ४

05 अर्धमासव्रती ...{Loading}...

अर्धमासव्रती ५

06 अशक्तौ पेयमेकं कालम् ...{Loading}...

अशक्तौ पेयमेकं कालम् ६

07 अरण्ये प्रपदं जपेदासीनः ...{Loading}...

अरण्ये प्रपदं जपेदासीनः प्रागग्रेषु ७

08 एवं ब्रह्मवर्चसकामः ...{Loading}...

एवं ब्रह्मवर्चसकामः ८

09 यथोक्तं पशुकामः ...{Loading}...

यथोक्तं पशुकामः ९

10 सहस्रबाहुरिति पशुस्वस्त्ययनकामो व्रीहियवौ ...{Loading}...

सहस्रबाहुरिति पशुस्वस्त्ययनकामो व्रीहियवौ जुहुयात् १०

11 येनेच्छेत्सहकारं कौतोमतेनास्य महावृक्षफलानि ...{Loading}...

येनेच्छेत्सहकारं कौतोमतेनास्य महावृक्षफलानि परिजप्य दद्यात् ११

12 अर्धमासव्रती पौर्णमास्यां रात्रौ ...{Loading}...

अर्धमासव्रती पौर्णमास्यां रात्रौ नाभिमात्रं प्रगाह्याविदासिनि ह्रदेऽक्षततण्डुलानास्येन जुहुयादुदके वृक्ष इवेति पञ्चभिः पार्थिवं कर्म १२

13 प्रथमयादित्यमुपतिष्ठेद्भोगकामोऽर्थपतौ प्रेक्षमाणे ...{Loading}...

प्रथमयादित्यमुपतिष्ठेद्भोगकामोऽर्थपतौ प्रेक्षमाणे १३

14 द्वितीययाऽक्षततण्डुलानादित्ये परिविष्यमाणे बृहत्पत्त्रस्वस्त्ययनकामः ...{Loading}...

द्वितीययाऽक्षततण्डुलानादित्ये परिविष्यमाणे बृहत्पत्त्रस्वस्त्ययनकामः १४

15 तृतीयया चन्द्र मसि ...{Loading}...

तृतीयया चन्द्र मसि तिलतण्डुलान् क्षुद्र पशुस्वस्त्ययनकामः १५

16 चतुर्थ्यादित्यमुपस्थाय गुरुमर्थमभ्युत्तिष्ठेत् ...{Loading}...

चतुर्थ्यादित्यमुपस्थाय गुरुमर्थमभ्युत्तिष्ठेत् १६

17 पञ्चम्याऽऽदित्यमुपस्थाय गृहानेयात् ...{Loading}...

पञ्चम्याऽऽदित्यमुपस्थाय गृहानेयात् १७

18 अनकाममारं नित्यं जपेत् ...{Loading}...

अनकाममारं नित्यं जपेत् भूरिति १८

19 यजनीये जुहुयान्मूर्ध्नोऽधि म ...{Loading}...

यजनीये जुहुयान्मूर्ध्नोऽधि म इति षड्भिर्वामदे-व्यर्ग्भिर्महाव्याहृतिभिः प्राजापत्यया च १९

20 अलक्ष्मीनिर्णोदः ...{Loading}...

अलक्ष्मीनिर्णोदः २०

21 अक्षेमे पथ्यपेहीति जपेत् ...{Loading}...

अक्षेमे पथ्यपेहीति जपेत् २१

22 यशोऽहमित्यात्यिमुपतिष्ठेद् यशस्कामः पूर्वाह्नमध्यन्दिना ...{Loading}...

यशोऽहमित्यात्यिमुपतिष्ठेद् यशस्कामः पूर्वाह्नमध्यन्दिना पराह्णेषु २२

23 प्रातरह्णस्येति यथार्थमूहेत् ...{Loading}...

प्रातरह्णस्येति यथार्थमूहेत् २३

24 आदित्यनावमिति सन्ध्योपस्थानं स्वस्त्ययनम् ...{Loading}...

आदित्यनावमिति सन्ध्योपस्थानं स्वस्त्ययनम् २४

25 उद्यन्तं त्वेति पूर्वाम् ...{Loading}...

उद्यन्तं त्वेति पूर्वां प्रतितिष्ठन्तं त्वेति पश्चिमाम् २५


  1. IV, 1, 1-18 = Gobhila IV, 5, I, 9, 10, 11, 13, 12, 27, 24, 25, 14, 15, 18, 19, 20, 27, 28, 22, 23, 30-34 (9 deest). ↩︎

  2. 19-27 = IV, 6, 1, 4, 5, 7, 8, 9, 3, 10-12 (22 deest). ↩︎