01 श्रावण्यां पौर्णमास्यां गृह्यादग्निमतिप्रणीय ...{Loading}...

श्रावण्यां पौर्णमास्यां गृह्यादग्निमतिप्रणीय प्रतिदिशमुपलिम्पेदधिके प्रक्रमे १

02 सकृद्गृहीतान् सक्तून् दर्व्याम् ...{Loading}...

सकृद्गृहीतान् सक्तून् दर्व्यां कृत्वा पूर्वोपलिप्ते निनीयापो यः प्राच्यामिति वलिं निर्वपेत् २

03 निनयेदपां शेषम् ...{Loading}...

निनयेदपां शेषम् ३

04 अप उपस्पृश्यौवं प्रतिदिशम् ...{Loading}...

अप उपस्पृश्यौवं प्रतिदिशं यथालिङ्गम् ४

05 दक्षिणपश्चिमे अन्तरेणाग्निं च ...{Loading}...

दक्षिणपश्चिमे अन्तरेणाग्निं च सञ्चरः ५

06 शूर्पेण शिष्टानग्नावोप्यातिप्रणीतादनतिप्रणीतस्यार्धं गत्वा ...{Loading}...

शूर्पेण शिष्टानग्नावोप्यातिप्रणीतादनतिप्रणीतस्यार्धं गत्वा न्यञ्चौ पाणी कृत्वा नमः पृथिव्या इति जपेत् ६

07 तत उत्थाय सोमो ...{Loading}...

तत उत्थाय सोमो राजेति दर्भस्तम्बमुपस्थाय ७

08 अक्षतानादाय प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य ...{Loading}...

अक्षतानादाय प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य जुहुयादञ्जलिना हये राक इति चतसृभिः ८

09 प्राङुत्क्रम्य जपेद्वसुवन एधीति ...{Loading}...

प्राङुत्क्रम्य जपेद्वसुवन एधीति त्रिस्त्रिः प्रतिदिशमवान्तरदेशेषु च ९

10 ऊर्ध्वं प्रेक्षन् देवजनेभ्यः ...{Loading}...

ऊर्ध्वं प्रेक्षन् देवजनेभ्यः १०

11 तिर्यङ्ङितरजनेभ्यः ...{Loading}...

तिर्यङ्ङितरजनेभ्यः ११

12 अवाङ्प्रेक्षन् प्रत्येत्यानवेक्षन्नक्षतान् प्राश्नीयात् ...{Loading}...

अवाङ्प्रेक्षन् प्रत्येत्यानवेक्षन्नक्षतान् प्राश्नीयात् १२

13 श्वोभूतेऽक्षतसक्तून् कृत्वा नवे ...{Loading}...

श्वोभूतेऽक्षतसक्तून् कृत्वा नवे पात्रे निधायास्तमिते बलीन् हरेदाऽऽग्रहायण्याः १३

14 प्रौष्ठपदीं हस्तेनाध्यायानुपाकुर्युः ...{Loading}...

प्रौष्ठपदीं हस्तेनाध्यायानुपाकुर्युः १४

15 श्रावणीमित्येके ...{Loading}...

श्रावणीमित्येके १५

16 हुत्वोपनयनवत् ...{Loading}...

हुत्वोपनयनवत् १६

17 सावित्रीमनुवाचयेत् ...{Loading}...

सावित्रीमनुवाचयेत् १७

18 सोमं राजानं पर्वादींश्च ...{Loading}...

सोमं राजानं पर्वादींश्च १८

19 धाना दधि च ...{Loading}...

धाना दधि च प्राश्नीयुरभिरूपाभ्याम् १९

20 श्वोभूते प्राधीयीरञ्शिष्येभ्यः ...{Loading}...

श्वोभूते प्राधीयीरञ्शिष्येभ्यः २०

21 अनुवाक्याः कुर्युरृगादिभिः प्रस्तावैश्च ...{Loading}...

अनुवाक्याः कुर्युरृगादिभिः प्रस्तावैश्च २१

22 अनुगानं रहस्यानाम् ...{Loading}...

अनुगानं रहस्यानाम् २२

23 विद्युत्स्तनयित्नुवर्जम् ...{Loading}...

विद्युत्स्तनयित्नुवर्जम् २३

24 अर्धपञ्चमान्मासानधीत्य पौषीमुत्सर्गः ...{Loading}...

अर्धपञ्चमान्मासानधीत्य पौ-षीमुत्सर्गः २४

25 तत ऊर्ध्वमभ्रानध्यायः ...{Loading}...

तत ऊर्ध्वमभ्रानध्यायः २५

26 विद्युत्स्तनयित्नुपृषितेषु च ...{Loading}...

विद्युत्स्तनयित्नुपृषितेषु च २६

27 त्रिसन्निपाते त्रिसन्ध्यम् ...{Loading}...

त्रिसन्निपाते त्रिसन्ध्यम् २७

28 अष्टकाममावास्यां चातुर्मासीरुदगयने च ...{Loading}...

अष्टकाममावास्यां चातुर्मासीरुदगयने च पक्षिणीं रात्रीम् २८

29 सब्रह्मचारिणि च प्रेते ...{Loading}...

सब्रह्मचारिणि च प्रेते २९

30 उल्कापाते भूमिचले ज्योतिषोश्चोपसर्ग ...{Loading}...

उल्कापाते भूमिचले ज्योतिषोश्चोपसर्ग एतेष्वाकालिकं विद्यात् ३०

31 कार्ष्वं तु कठकौथुमाः ...{Loading}...

कार्ष्वं तु कठकौथुमाः ३१


  1. 2, 1-7. 14. 15 = III, 7. ↩︎

  2. 8-13 = IV, 8, 1 seqq. (to deest). ↩︎

  3. 16-33 = III, 3 (22, 25, 29, 33 desunt). ↩︎