01 आप्लवने पुरस्तादाचार्यकुलस्य परिवृत ...{Loading}...

आप्लवने पुरस्तादाचार्यकुलस्य परिवृत आस्ते १

02 उदङ्मुख आचार्यः प्रागग्रेषु ...{Loading}...

उदङ्मुख आचार्यः प्रागग्रेषु २

03 एवं ब्रह्मवर्चसकामः ...{Loading}...

एवं ब्रह्मवर्चसकामः ३

04 गोष्ठे पशुकामः ...{Loading}...

गोष्ठे पशुकामः ४

05 सभायां यशस्कामः ...{Loading}...

सभायां यशस्कामः ५

06 सर्वौषधेनापः फाणयेत् ...{Loading}...

सर्वौषधेनापः फाणयेत् ६

07 सुरभिभिश्च ...{Loading}...

सुरभिभिश्च ७

08 ताभिश्शीतोष्णाभिराचार्योऽभिषिञ्चेत् ...{Loading}...

ताभिश्शीतोष्णाभिराचार्योऽभिषिञ्चेत् ८

09 स्वयं वा मन्त्राभिवादात् ...{Loading}...

स्वयं वा मन्त्राभिवादात् ९

10 उभावित्येके तेनेममित्याचार्यो ब्रूयात् ...{Loading}...

उभावित्येके तेनेममित्याचार्यो ब्रूयात् १०

11 ये अप्स्वित्यपामञ्जलिमवसिञ्चेत् ...{Loading}...

ये अप्स्वित्यपामञ्जलिमवसिञ्चेत् ११

12 यदपामिति च ...{Loading}...

यदपामिति च १२

13 तूष्णीं च ...{Loading}...

तूष्णीं च १३

14 यो रोचन इति ...{Loading}...

यो रोचन इति गृह्यात्मानमभिषिञ्चेत् १४

15 येन स्त्रियमिति च ...{Loading}...

येन स्त्रियमिति च १५

16 तूष्णीं च ...{Loading}...

तूष्णीं च १६

17 उद्यन्नित्यादित्यमुपतिष्ठेत् ...{Loading}...

उद्यन्नित्यादित्यमुपतिष्ठेत् १७

18 समस्येद्वा ...{Loading}...

समस्येद्वा १८

19 विहरन्ननुसंहरेच्चक्षुरसीति ...{Loading}...

विहरन्ननुसंहरेच्चक्षुरसीति १९

20 उदुत्तममिति मेखलामवमुञ्चेत् ...{Loading}...

उदुत्तममिति मेखलामवमुञ्चेत् २०

21 प्राश्यवापयेच्छिखावर्जं केशश्मश्रुलोमनखानि ...{Loading}...

प्राश्यवापयेच्छिखावर्जं केशश्मश्रुलोमनखानि २१

22 अलङ्कृतोऽहतवाससा श्रीरिति स्रजम् ...{Loading}...

अलङ्कृतोऽहतवाससा श्रीरिति स्रजं प्रतिमुञ्चेत् २२

23 नेत्र्यौ स्थ इत्युपानहौ ...{Loading}...

नेत्र्यौ स्थ इत्युपानहौ २३

24 वैणवं दण्डमादध्यात् गन्धर्वोऽसीति ...{Loading}...

वैणवं दण्डमादध्यात् गन्धर्वोऽसीति २४

25 उपेत्याचार्यं परिषदं प्रेक्षेद्यक्षमिवेति ...{Loading}...

उपेत्याचार्यं परिषदं प्रेक्षेद्यक्षमिवेति २५

26 उपबिष्यौष्ठापिधानेति मुख्यान् प्राणानिभिमृशेत् ...{Loading}...

उपबिष्यौष्ठापिधानेति मुख्यान् प्राणानिभिमृशेत् २६

27 गोयुक्तं रथमालभेत् वनस्पत ...{Loading}...

गोयुक्तं रथमालभेत् वनस्पत इति २७

28 आस्थाता त इत्यारोहेत् ...{Loading}...

आस्थाता त इत्यारोहेत् २८

29 प्राचीं प्रयायोदीचीं वा ...{Loading}...

प्राचीं प्रयायोदीचीं वा प्रदक्षिणमावर्तयेत् २९

30 प्रत्यागतायार्घ्यमित्येके ...{Loading}...

प्रत्यागतायार्घ्यमित्येके ३०

31 वृद्धशीली स्यादत ऊर्ध्वम् ...{Loading}...

वृद्धशीली स्यादत ऊर्ध्वम् ३१

32 नाजातलोम्योपहासमिच्छेत् ...{Loading}...

नाजातलो-म्योपहासमिच्छेत् ३२

33 नायुग्वा ...{Loading}...

नायुग्वा ३३

34 न रजस्वलया ...{Loading}...

न रजस्वलया ३४

35 न समानर्ष्या ...{Loading}...

न समानर्ष्या ३५

36 अपरया द्वारा प्रपन्नद्विःपक्वपर्युषितानि ...{Loading}...

अपरया द्वारा प्रपन्नद्विःपक्वपर्युषितानि नाश्नीयात् ३६

37 अन्यत्र शाकमांसयवपिष्टविकारेभ्यः ...{Loading}...

अन्यत्र शाकमांसयवपिष्टविकारेभ्यः ३७

38 पायसाच्च ...{Loading}...

पायसाच्च ३८

39 फलप्रचयनोदपानावेक्षणवर्षतिधावनोपानत्स्वयंहरणानि न कुर्यात् ...{Loading}...

फलप्रचयनोदपानावेक्षणवर्षतिधावनोपानत्स्वयंहरणानि न कुर्यात् ३९

40 नागन्धां स्रजं धारयेन्न ...{Loading}...

नागन्धां स्रजं धारयेन्न चेद्धिरण्यस्रक् ४०

41 भद्र मिति न ...{Loading}...

भद्र मिति न वृथा व्याहरेत् ४१

42 पुष्टिकामो गाः प्रकालयेतेमा ...{Loading}...

पुष्टिकामो गाः प्रकालयेतेमा म इति ४२

43 प्रत्यागता इमा मधुमतीरिति ...{Loading}...

प्रत्यागता इमा मधुमतीरिति ४३

44 पुष्टिकाम एव प्रथमजातस्य ...{Loading}...

पुष्टिकाम एव प्रथमजातस्य वत्सस्य प्राङ्मातुः प्रलेहनाल्ललाटमुल्लिह्य निगिरेत् गवामिति ४४

45 सम्प्रजातासु गोष्ठे निशायाम् ...{Loading}...

सम्प्रजातासु गोष्ठे निशायां विलयनं जुहुयात् सङ्ग्रहेणेति ४५

46 अथापरं वत्समिथुनवोः कर्णे ...{Loading}...

अथापरं व-त्समिथुनवोः कर्णे लक्षणं कुर्यात् भुवनमिति ४६

47 पुंसोऽग्रे ...{Loading}...

पुंसोऽग्रे ४७

48 लोहिते नेत्यनुमन्त्रयेत ...{Loading}...

लोहिते नेत्यनुमन्त्रयेत ४८

49 तन्तीं प्रसारितामियं तन्तीति ...{Loading}...

तन्तीं प्रसारितामियं तन्तीति ४९


  1. III, 1, 1-32 = Gobhila III, 4, 7 seqq. (4-6. II, 12, 15, 20 desunt). ↩︎

  2. 33-44 = III, 5 (40 deest). ↩︎

  3. 45-52 = III, 6. ↩︎