01 अष्टमे वर्षे ब्राह्मणमुपनयेत् ...{Loading}...

अष्टमे वर्षे ब्राह्मणमुपनयेत् १

02 तस्या षोडशादनतीतः कालः ...{Loading}...

तस्या षोडशादनतीतः कालः २

03 एकादशे क्षत्रियम् ...{Loading}...

एकादशे क्षत्रियम् ३

04 तस्या द्वाविंशात् ...{Loading}...

तस्या द्वाविंशात् ४

05 द्वादशे वैश्यम् ...{Loading}...

द्वादशे वैश्यम् ५

06 तस्या चतुर्विंशात् ...{Loading}...

तस्या चतुर्विंशात् ६

07 कुशलीकृतमलङ्कृतमहतेनाच्छाद्य हुत्वाऽग्ने व्रतपत ...{Loading}...

कुशलीकृतमलङ्कृतमहतेनाच्छाद्य हुत्वाऽग्ने व्रतपत इति ७

08 उत्तरतोऽग्नेः प्रत्यङ्मुखमवस्थाप्याञ्जलिं कारयेत् ...{Loading}...

उत्तरतोऽग्नेः प्रत्यङ्मुखमवस्थाप्याञ्जलिं कारयेत् ८

09 स्वयं चोपरि कुर्यात् ...{Loading}...

स्वयं चोपरि कुर्यात् ९

10 दक्षिणतस्तिष्ठन्मन्त्रवान् ब्राह्मण आचार्यायोदकाञ्जलिम् ...{Loading}...

दक्षिणतस्तिष्ठन्मन्त्रवान् ब्राह्मण आचार्यायोदकाञ्जलिं पूरयेत् १०

11 आगन्त्रेति जपेत् प्रेक्षमाणे ...{Loading}...

आगन्त्रेति जपेत् प्रेक्षमाणे ११

12 को नामासीत्युक्तो देवताश्रयम् ...{Loading}...

को नामासीत्युक्तो देवताश्रयं नक्षत्राश्रयं वाऽभिवादनीयं नाम ब्रूयादसावस्मीति १२

13 उत्सृज्यापो देवस्य त ...{Loading}...

उत्सृज्यापो देवस्य त इति दक्षिणोत्तराभ्यां हस्ताभ्यामञ्जलिं गृह्णीयादाचार्यः १३

14 सूर्यस्येति प्रदक्षिणमावर्तयेत् ...{Loading}...

सूर्यस्येति प्रदक्षिणमावर्तयेत् १४

15 दक्षिणमंसमन्ववमृश्यानन्तर्हितां नाभिमालभेत्प्राणानामिति ...{Loading}...

दक्षिणमंसमन्ववमृश्यानन्तर्हितां नाभिमालभेत्प्राणानामिति १५

16 अथैनं परिदद्यादन्तकप्रभृतिभिः ...{Loading}...

अथैनं परिदद्यादन्तकप्रभृतिभिः १६

17 दक्षिणमंसं प्रजापतये त्वेति ...{Loading}...

दक्षिणमंसं प्रजापतये त्वेति १७

18 सव्येन सव्यं देवाय ...{Loading}...

सव्येन सव्यं देवाय त्वेति १८

19 ब्रह्मचार्यसीति ...{Loading}...

ब्रह्मचार्यसीति १९

20 सम्प्रेष्योपविश्य दक्षिणजान्वक्तमञ्जलिकृतं प्रदक्षिणम् ...{Loading}...

सम्प्रेष्योपविश्य दक्षिणजान्वक्तमञ्जलिकृतं प्रदक्षिणं मुञ्जमेखलामावध्नन्वाचयेदियं दुरुक्तादिति २०

21 अधीहि भो इत्युपसीदेत् ...{Loading}...

अधीहि भो इत्युपसीदेत् २१

22 तस्मा अन्वाह सावित्रीम् ...{Loading}...

तस्मा अन्वाह सावित्रीं पच्छोऽर्धर्चशस्सर्वामिति सावित्रीं वाचयेत् २२

23 महाव्याहृतीश्चैकैकशः ...{Loading}...

महाव्याहृतीश्चैकैकशः २३

24 ॐकारं च ...{Loading}...

ॐकारं च २४

25 प्रयच्छत्यस्मै वार्क्षं दण्डम् ...{Loading}...

प्रयच्छत्यस्मै वार्क्षं दण्डम् २५

26 सुश्रवस्सुश्रवसं मेति ...{Loading}...

सुश्रवस्सुश्रवसं मेति २६

27 समिधमादध्यादग्नये समिधमिति ...{Loading}...

समिधमादध्यादग्नये समिधमिति २७

28 भैक्षं चरेत् ...{Loading}...

भैक्षं चरेत् २८

29 मातरमग्रे ...{Loading}...

मातरमग्रे २९

30 अथान्यास्सुहृदः ...{Loading}...

अथान्यास्सुहृदः ३०

31 आचार्याय भैक्षं निवेदयेत् ...{Loading}...

आचार्याय भैक्षं निवेदयेत् ३१

32 तिष्ठेदाऽस्तमयात्तूष्णीम् ...{Loading}...

तिष्ठेदाऽस्तमयात्तूष्णीं ३२

33 त्रिरात्रं क्षारलवणदुग्धमिति वर्जयेत् ...{Loading}...

त्रिरात्रं क्षारलवणदुग्धमिति वर्जयेत् ३३


  1. 4, 1 = Gobhila II, 10. ↩︎