01 जननाज्ज्यौत्स्ने तृतीये तृतीयायाम् ...{Loading}...

जननाज्ज्यौत्स्ने तृतीये तृतीयायां प्रातः स्नाप्य कुमारमस्तमिते शान्तासु दिक्षु पिता चन्द्र मसमुपतिष्ठेत् प्राञ्जलिः १

02 शुचिनाऽऽच्छाद्य माता प्रयच्छेदुदक्छिरसम् ...{Loading}...

शुचिनाऽऽच्छाद्य माता प्रयच्छेदुदक्छिरसम् २

03 अनुपृष्ठं गत्वोत्तरतस्तिष्ठेत् ...{Loading}...

अनुपृष्ठं गत्वोत्तरतस्तिष्ठेत् ३

04 यत्ते सुसीम इति ...{Loading}...

यत्ते सुसीम इति तिसृभिरुपस्थायोदञ्चं मात्रे प्रदाय यदद इत्यपामञ्जलिमवसिञ्चेत् ४

05 द्विस्तूष्णीम् ...{Loading}...

द्विस्तूष्णीम् ५

06 जननादूर्ध्वम् ...{Loading}...

जननादूर्ध्वं दशरात्राच्छतरात्रात्संवत्सराद्वा नाम कुर्यात् ६

07 स्नाप्य कुमारं करिष्यत ...{Loading}...

स्नाप्य कुमारं करिष्यत उपविष्टस्य शुचिनाऽऽच्छाद्य माता प्रयच्छेदुदक्छिरसम् ७

08 अनुपृष्ठं गत्योत्तरत उपविशेत् ...{Loading}...

अनुपृष्ठं गत्योत्तरत उपविशेत् ८

09 हुत्वा कोसीति तस्य ...{Loading}...

हुत्वा कोसीति तस्य मुख्यान् प्राणानभिमृशेत् ९

10 असाविति नाम कुर्यात्तदेव ...{Loading}...

असाविति नाम कुर्यात्तदेव मन्त्रान्ते १०

11 मात्रे ...{Loading}...

मात्रे ११

12 प्रथममाख्याय ...{Loading}...

प्रथममाख्याय १२

13 विप्रोष्यङ्गादङ्गादिति पुत्रस्य मूर्धानम् ...{Loading}...

विप्रोष्यङ्गादङ्गादिति पुत्रस्य मूर्धानं परिगृह्णीयात् १३

14 पशूनां त्वेत्यभिजिघ्रेत् ...{Loading}...

पशूनां त्वेत्यभिजिघ्रेत् १४

15 तूष्णीं स्त्रियाः ...{Loading}...

तूष्णीं स्त्रियाः १५

16 तृतीये वर्षे चौलम् ...{Loading}...

तृतीये वर्षे चौलम् १६

17 तत्र नापित उष्णोदकमादर्शः ...{Loading}...

तत्र नापित उष्णोदकमादर्शः क्षुरो वौदुम्बरः पिञ्जूल्य इति दक्षिणतः १७

18 आनडुहो गोमयः कृसरस्स्थालीपाको ...{Loading}...

आनडुहो गोमयः कृसरस्स्थालीपाको वृथापक्व इत्युत्तरतः १८

19 माता च कुमारमादाय ...{Loading}...

माता च कुमारमादाय १९

20 हुत्वाऽयमागादिति नापितं प्रेक्षेत्सवितारम् ...{Loading}...

हुत्वाऽयमागादिति नापितं प्रेक्षेत्सवितारं ध्यायन् २०

21 उष्णेनेत्युष्णोदकं प्रेक्षेद्वायुं ध्यायन् ...{Loading}...

उष्णेनेत्युष्णोदकं प्रेक्षेद्वायुं ध्यायन् २१

22 आप इत्युन्देत् ...{Loading}...

आप इत्युन्देत् २२

23 विष्णोरित्यादर्शं प्रेक्षेदौदुम्बरं वा ...{Loading}...

विष्णोरित्यादर्शं प्रेक्षेदौदुम्बरं वा २३

24 ओषध इति दर्भपिञ्जूलीस्सप्तोर्ध्वाग्रा ...{Loading}...

ओषध इति दर्भपिञ्जूलीस्सप्तोर्ध्वाग्रा अभिनिधाय २४

25 स्वधित इत्यादर्शेन क्षुरेणौदुम्बरेण ...{Loading}...

स्वधित इत्यादर्शेन क्षुरेणौदुम्बरेण वा २५

26 येन पूषेति दक्षिणतस्त्रिः ...{Loading}...

येन पूषेति दक्षिणतस्त्रिः प्राञ्चं प्रोहेत् २६

27 सकृदायसेन प्रच्छिद्यानडुहे गोमये ...{Loading}...

सकृदायसेन प्रच्छिद्यानडुहे गोमये केशान् कुर्यात् २७

28 उन्दनप्रभृन्येवं पश्चादुत्तरतश्च ...{Loading}...

उन्दनप्रभृन्येवं पश्चादुत्तरतश्च २८

29 त्र्यायुषमिति पुत्रस्य मूर्धानम् ...{Loading}...

त्र्यायुषमिति पुत्रस्य मूर्धानं परिगृह्य जपेत् २९

30 उदङ्ङुत्सृप्य कुशली कारयेद्यथागोत्रकुलकल्पम् ...{Loading}...

उदङ्ङुत्सृप्य कुशली कारयेद्यथागोत्रकुलकल्पम् ३०

31 अरण्ये केशान्निखनेयुः ...{Loading}...

अरण्ये केशान्निखनेयुः ३१

32 स्तम्बे निदधत्येके ...{Loading}...

स्तम्बे निदधत्येके ३२

33 गौर्दक्षिणा ...{Loading}...

गौर्दक्षिणा ३३


  1. 3, 1-5 = Gobhila II, 8, 1-7. ↩︎

  2. 6-12 = II, 8, 8-17. ↩︎

  3. 13-15 = II, 8, 21-25. ↩︎

  4. 16-33 = II, 9. ↩︎