01 पौर्णमासोपक्रमौ दर्शपूर्णमासौ ...{Loading}...

पौर्णमासोपक्रमौ दर्शपूर्णमासौ १

02 दार्शं चेत्पूर्वमुपपद्येत पौर्णमासेनेष्ट्वाऽथ ...{Loading}...

दार्शं चेत्पूर्वमुपपद्येत पौर्णमासेनेष्ट्वाऽथ तत्कुर्यात् २

03 अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येके ...{Loading}...

अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येके ३

04 अपराह्णे स्नात्वौपवसथिकं दम्पती ...{Loading}...

अपराह्णे स्नात्वौपवसथिकं दम्पती भुञ्जीयाताम् ४

05 मानतन्तव्य उवाच श्रेयसीम् ...{Loading}...

मानतन्तव्य उवाच श्रेयसीं प्रजां विन्दते काम्यो भवत्यक्षोधुकी क्षोधुको य औपवसथिकं भुङ्क्ते ५

06 तस्माद्यत्कामयेत तद्भुञ्जीत ...{Loading}...

तस्माद्यत्कामयेत तद्भुञ्जीत ६

07 नाव्रत्यमाचरेत् ...{Loading}...

नाव्रत्यमाचरेत् ७

08 प्रातराहुतिं हुत्वा ...{Loading}...

प्रातराहुतिं हुत्वा ८

09 हविनिर्निर्वपेदमुष्मै त्वा जुष्टम् ...{Loading}...

हविनिर्निर्वपेदमुष्मै त्वा जुष्टं निर्वपामीति देवताश्रयं सकृद्यजुर्वा द्विस्तूष्णीम् ९

10 त्रिर्देवेभ्यः प्रक्षालयेत् ...{Loading}...

त्रिर्देवेभ्यः प्रक्षालयेत् १०

11 द्विर्मनुष्येभ्यः ...{Loading}...

द्विर्मनुष्येभ्यः ११

12 सकृत्पितृभ्यः ...{Loading}...

सकृत्पितृभ्यः १२

13 मेक्षणेन प्रदक्षिणमुदायुवं श्रपयेत् ...{Loading}...

मेक्षणेन प्रदक्षिणमुदायुवं श्रपयेत् १३

14 शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ...{Loading}...

शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् १४

15 सर्वाण्येवं हवींषि ...{Loading}...

सर्वाण्येवं हवींषि १५

16 बर्हिष्या साद्य ...{Loading}...

बर्हिष्या साद्य १६

17 आज्यभागौ जुहुयाच्चतुर्गृहीतमाज्यं गृहीत्वा ...{Loading}...

आज्यभागौ जुहुयाच्चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तं भृगूणां जामदग्न्यानामग्नये स्वाहेत्युत्तरतस्सोमायेति दक्षिणतः १७

18 विपरीतमितरे ...{Loading}...

विपरीतमितरे १८

19 आज्यमुपस्तीर्य हविषोऽवद्येन्मेक्षणेन मध्यात्पुरस्तादिति ...{Loading}...

आज्यमुपस्तीर्य हविषोऽवद्येन्मेक्षणेन मध्यात्पुरस्तादिति १९

20 पश्चाच्च पञ्चावत्ती ...{Loading}...

पश्चाच्च पञ्चावत्ती २०

21 अभिघार्य प्रत्यनक्त्यवदानस्थानानि ...{Loading}...

अभिघार्य प्रत्यनक्त्यवदानस्थानानि २१

22 न स्विष्टकृतः ...{Loading}...

न स्विष्टकृतः २२

23 अमुष्मै स्वाहेति जुहुयाद्यद्देवत्यम् ...{Loading}...

अमुष्मै स्वाहेति जुहुयाद्यद्देवत्यं स्यात् २३

24 स्विष्टकृतस्सकृदुपस्तीर्य द्विर्भृगूणां सकृद्धविषो ...{Loading}...

स्विष्टकृतस्सकृदुपस्तीर्य द्विर्भृगूणां सकृद्धविषो द्विरभिघार्याग्नये स्विष्टकृते स्वाहेति प्रागुदीच्यां जुहुयात् २४

25 समिधमाधाय ...{Loading}...

समिधमाधाय २५

26 दर्भानाज्ये हविषि वा ...{Loading}...

दर्भानाज्ये हविषि वा त्रिरवधायाग्रमध्यमूलान्यक्तं रिहाणा वियन्तु वय इत्यभ्युक्ष्याग्नावनुमहरेद् यः पशूनामधिपती रुद्र स्तन्तिचरो वृषा पशूनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेति २६

27 तद्यज्ञवास्तु ...{Loading}...

तद्यज्ञवास्तु २७

28 सर्वत्र कुर्यात् ...{Loading}...

सर्वत्र कुर्यात् २८

29 हविरुच्छिष्टमुदगुद्वास्य ब्रह्मणे दद्यात् ...{Loading}...

हविरुच्छिष्टमुदगुद्वास्य ब्रह्मणे दद्यात् २९

30 पूर्णपात्रं दक्षिणा ...{Loading}...

पूर्णपात्रं दक्षिणा ३०

31 यथोत्साहं वा ...{Loading}...

यथोत्साहं वा ३१


  1. II, 1,1-3 desunt. ↩︎

  2. 4 = Gobhila I, 5, 26. ↩︎

  3. 5-8 = I, 6, 1-13. ↩︎

  4. 9-16 (15 deest) = I, 7, 2-19. ↩︎

  5. 17-27 (18, 23 desunt) = I, 8, 3-29. ↩︎

  6. 28 deest. ↩︎

  7. 29-31 = I, 9, 1. 6. 11. ↩︎