01 प्रागुदीचीमुद्वहेत् ...{Loading}...

प्रागुदीचीमुद्वहेत् १

02 ब्राह्मणकुलेऽग्निमुपसमाधाय पश्चादग्नेर्लोहितं चर्मानडुहमुत्तरलोम ...{Loading}...

ब्राह्मणकुलेऽग्निमुपसमाधाय पश्चादग्नेर्लोहितं चर्मानडुहमुत्तरलोम प्राग्ग्रीवमास्तीर्य वाग्यतामुपवेशयेत् २

03 प्रोक्ते नक्षत्रेऽन्वारब्धायां स्रुवेणोपघातम् ...{Loading}...

प्रोक्ते नक्षत्रेऽन्वारब्धायां स्रुवेणोपघातं जुहुयात् षड्भिर्लेखाप्रभृतिभिस्सम्पातानवनयन् मूर्धनि वध्वाः ३

04 प्रदक्षिणमग्निं परिक्रम्य ध्रुवम् ...{Loading}...

प्रदक्षिणमग्निं परिक्रम्य ध्रुवं दर्शयति ध्रुवाद्यौरिति ४

05 अभिवाद्य गुरून् गोत्रेण ...{Loading}...

अभिवाद्य गुरून् गोत्रेण विसृजेद्वाचम् ५

06 गौर्दक्षिणा ...{Loading}...

गौर्दक्षिणा ६

07 अत्रार्घ्यम् ...{Loading}...

अत्रार्घ्यम् ७

08 आगतेष्वित्येके ...{Loading}...

आगतेष्वित्येके ८

09 त्रिरात्रं क्षारलवणे दुग्धमिति ...{Loading}...

त्रिरात्रं क्षारलवणे दुग्धमिति वर्जयन्तौ सह शयीयातां ब्रह्मचारिणौ ९

10 हविष्यमन्नं परिजप्यान्नपाशेनेत्यसाविति वध्वा ...{Loading}...

हविष्यमन्नं परिजप्यान्नपाशेनेत्यसाविति वध्वा नाम ब्रूयात् १०

11 भुक्त्वोच्छिष्टं वध्वै दद्यात् ...{Loading}...

भुक्त्वोच्छिष्टं वध्वै दद्यात् ११

12 ऊर्ध्वं त्रिरात्राच्चतसृभिराज्यं जुहुयात् ...{Loading}...

ऊर्ध्वं त्रिरात्राच्चतसृभिराज्यं जुहुयात् अग्ने प्रायश्चित्तिरिति समस्त पञ्चमीं सम्पातानवनयन्नुदपात्रे १२

13 तेनैनां सकेशनखामाप्लावयेत् ...{Loading}...

तेनैनां सकेशनखामाप्लावयेत् १३

14 ततो यथार्थं स्यात् ...{Loading}...

ततो यथार्थं स्यात् १४

15 ऋतुकाले दक्षिणेन पाणिनोपस्थमालभेद्विष्णुर्योनिम् ...{Loading}...

ऋतुकाले दक्षिणेन पाणिनोपस्थमालभेद्विष्णुर्योनिं कल्प यत्विति समाप्तायाम् १५

16 सम्भवेद्गर्भं धेहीति ...{Loading}...

सम्भवेद्गर्भं धेहीति १६


  1. 4, 1-11 = Gobhila II, 3, 1 seqq. ↩︎

  2. 12-13 = II, 5, 1 seqq. ↩︎

  3. 14 = II, 4, II. ↩︎

  4. 15, 16 = II, 5, 9, 10. ↩︎