01 ब्रह्मचारी वेदमधीत्योपन्याहृत्य गुरवेऽनुज्ञातो ...{Loading}...

ब्रह्मचारी वेदमधीत्योपन्याहृत्य गुरवेऽनुज्ञातो दारान् कुर्वीत १

02 आप्लवनं च ...{Loading}...

आप्लवनं च २

03 तयोराप्लवनं पूर्वम् ...{Loading}...

तयोराप्लवनं पूर्वम् ३

04 मन्त्राभिवादात्तु पाणिग्रहणस्य पूर्वम् ...{Loading}...

मन्त्राभिवादात्तु पाणिग्रहणस्य पूर्वं व्याख्यातम् ४

06 ब्राह्मणस्सहोदकुम्भः प्रावृतो वाग्यतोऽग्रेणाग्निम् ...{Loading}...

ब्राह्मणस्सहोदकुम्भः प्रावृतो वाग्यतोऽग्रेणाग्निं गत्वोदङ् मुखस्तिष्ठेत् ५

06 स्नातामहतेनाच्छाद्य ...{Loading}...

स्नातामहतेनाच्छाद्य या अकृन्तन्नित्यानीयमानायां पाणिग्राहो जपेत् सोमोऽदददिति ६

07 पाणिग्राहस्य दक्षिणत उपवेशयेत् ...{Loading}...

पाणिग्राहस्य दक्षिणत उपवेशयेत् ७

08 अन्वारब्धायां स्रुवेणोपघातं महाव्याहृतिभिराज्यम् ...{Loading}...

अन्वारब्धायां स्रुवेणोपघातं महाव्याहृतिभिराज्यं जुहुयात् ८

09 समस्ताभिश्चतुर्थीम् ...{Loading}...

समस्ताभिश्चतुर्थीम् ९

10 एवं चौलोपनयनगोदानेषु ...{Loading}...

एवं चौलोपनयनगोदानेषु १०

11 अग्निरेतु प्रथम इति ...{Loading}...

अग्निरेतु प्रथम इति षड्भिश्च पाणिग्रहणे ११

12 नाज्यभागौ न स्विष्टकृदाज्याद्दुतिष्वनादेशे ...{Loading}...

नाज्यभागौ न स्विष्टकृदाज्याद्दुतिष्वनादेशे १२

13 सर्वत्रोपरिष्टान्महाव्याहृतिभिः ...{Loading}...

सर्वत्रोपरिष्टान्महाव्याहृतिभिः १३

14 प्राजापत्यया च ...{Loading}...

प्राजापत्यया च १४

15 प्रायश्चित्तं जुहुयात् ...{Loading}...

प्रायश्चित्तं जुहुयात् १५

16 हुत्वोपोत्तिष्ठतः ...{Loading}...

हुत्वोपोत्तिष्ठतः १६

17 अनुपृष्ठं गत्वा दक्षिणतोऽवस्थाय ...{Loading}...

अनुपृष्ठं गत्वा दक्षिणतोऽवस्थाय वध्वञ्जलिं गृह्णीयात् १७

18 पूर्वा माता शमीपलाशमिश्राल्लाजाञ्छूर्पे ...{Loading}...

पूर्वा माता शमीपलाशमिश्राल्लाजाञ्छूर्पे कृत्वा १८

19 पश्चादग्नेर्दृषत्पुत्रमाक्रमयेद्वधूं दक्षिणेन प्रपदेनेममश्मानमिति ...{Loading}...

पश्चादग्नेर्दृषत्पुत्रमाक्रमयेद्वधूं दक्षिणेन प्रपदेनेममश्मानमिति १९

20 सकृद्गृहीतमञ्जलिं लाजानां वध्वञ्जलावावपेद् ...{Loading}...

सकृद्गृहीतमञ्जलिं लाजानां वध्वञ्जलावावपेद् भ्राता २०

21 सुहृद्वा कश्चित् ...{Loading}...

सुहृद्वा कश्चित् २१

22 तं साऽग्नौ जुहुयादविच्छिद्याञ्जलिम् ...{Loading}...

तं साऽग्नौ जुहुयादविच्छिद्याञ्जलिं इयं नारीति २२

23 अर्यमणं पूषणमित्युत्तरयोः ...{Loading}...

अर्यमणं पूषणमित्युत्तरयोः २३

24 हुते तेनैव गत्वा ...{Loading}...

हुते तेनैव गत्वा प्रदक्षिणमग्निं परिणयेत् कन्यला पितृभ्य २४

25 अवस्थानप्रभृत्येवं त्रिः ...{Loading}...

अवस्थानप्रभृत्येवं त्रिः २५

26 शूर्पेण शिष्टानग्नावोप्य प्रागुदीचीमुत्क्रमयेत् ...{Loading}...

शूर्पेण शिष्टानग्नावोप्य प्रागुदीचीमुत्क्रमयेत् एकमिष इति २६

27 ईक्षकावेक्षणरथारोहणदुर्गानुमन्त्रणान्यभिरूपाभिः ...{Loading}...

ईक्षकावेक्षणरथारोहणदुर्गानुमन्त्रणान्यभिरूपाभिः २७

28 अपरेणाग्निमौदको गत्वा पाणिग्राहम् ...{Loading}...

अपरेणाग्निमौदको गत्वा पाणिग्राहं मूर्धन्यवसिञ्चेत् २८

29 बधूं च ...{Loading}...

बधूं च २९

30 समञ्जन्त्वित्यवसिक्तः ...{Loading}...

समञ्जन्त्वित्यवसिक्तः ३०

31 दक्षिणं पाणिं साङ्गुष्ठम् ...{Loading}...

दक्षिणं पाणिं साङ्गुष्ठं गृह्णीयात् गृभ्णामि त इति षड्भिः ३१


  1. 3, 1 = Gobhila III, 4, 1. ↩︎

    1. 2 = III, 4, 7.
     ↩︎
  2. 3, 4 desunt. ↩︎

  3. 5 = II, I, 13. ↩︎

  4. 6 = II, 1, 17-19. ↩︎

  5. 7 seqq. = II, I, 23 seqq.; I, 9, 26 seqq. ↩︎

  6. 14, 15 desunt. ↩︎

  7. 16-31 = II, 2, 1 seqq. ↩︎

  8. Possibly the Sūtras 12 and 13 should be divided thus: 12. nājyabhāgau na svishṭakr̥d ājyāhutishv. 13. anādeśe sarvatr° &c. Comp. Gobhila I, 9, 26. 27; Sāṅkhāyana I, 12, 13; 9, 10. ↩︎

  9. (21 and a part of 27 desunt.) ↩︎