01 पूर्वे भागे वेश्मनो ...{Loading}...

पूर्वे भागे वेश्मनो गोमयेनोपलिप्य तस्य मध्यदेशे लक्षणं कुर्यात् १

02 दक्षिणतः प्राचीं लेखामुल्लिख्य ...{Loading}...

दक्षिणतः प्राचीं लेखामुल्लिख्य २

03 तदारम्भादुदीचीं तदवसानात्प्राचीं तिस्रो ...{Loading}...

तदारम्भादुदीचीं तदवसानात्प्राचीं तिस्रो मध्ये प्राचीः ३

०४ तदभ्युक्ष्य ...{Loading}...

तदभ्युक्ष्य ४

05 तदभ्युक्ष्य ४ अग्निमुपसमाधाय ...{Loading}...

अग्निमुपसमाधाय ५

06 इमं स्तोममिति परिसमूह्य ...{Loading}...

इमं स्तोममिति परिसमूह्य तृचेन ६

07 पश्चादग्नेर्भूमौ न्यञ्चौ पाणी ...{Loading}...

पश्चादग्नेर्भूमौ न्यञ्चौ पाणी कृत्वेदं भूमेरिति ७

08 वस्वन्तं रात्रौ ...{Loading}...

वस्वन्तं रात्रौ ८

09 पश्चाद्दर्भानास्तीर्य दक्षिणतः प्राचीम् ...{Loading}...

पश्चाद्दर्भानास्तीर्य दक्षिणतः प्राचीं प्रकर्षेदुत्तरतश्च ९

10 अप्रकृष्य वा ...{Loading}...

अप्रकृष्य वा १०

11 पूर्वोपक्रमं प्रदक्षिणमग्निं स्तृणुयान्मूलान्यग्रैश्छादयंस्त्रिवृतम् ...{Loading}...

पूर्वोपक्रमं प्रदक्षिणमग्निं स्तृणुयान्मूलान्यग्रैश्छादयंस्त्रिवृतं पञ्चवृतं वा ११

12 उपविश्य दर्भाग्रे प्रादेशमात्रे ...{Loading}...

उपविश्य दर्भाग्रे प्रादेशमात्रे प्रच्छिनत्ति न नखेन पवित्रे स्थो वैष्णव्याविति १२

13 अद्भिरुन्मृज्य विष्णोर्मनसा पूते ...{Loading}...

अद्भिरुन्मृज्य विष्णोर्मनसा पूते स्थ इति १३

14 उदगग्रे अङ्गुष्ठाभ्यामनामिकाभ्यां च ...{Loading}...

उदगग्रे अङ्गुष्ठाभ्यामनामिकाभ्यां च सङ्गृह्य त्रिराज्यमुत्पुनाति देवस्त्वा सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिरिति १४

15 अभ्युक्ष्यैते अग्नावनुप्रहरेत् ...{Loading}...

अभ्युक्ष्यैते अग्नावनुप्रहरेत् १५

16 आज्यमधिश्रित्योत्तरतः कुर्यात् ...{Loading}...

आज्यमधिश्रित्योत्तरतः कुर्यात् १६

17 दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽनुमन्यस्वेत्युदकाञ्जलिं प्रसिञ्चेत् ...{Loading}...

दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽनुमन्यस्वेत्युदकाञ्जलिं प्रसिञ्चेत् १७

18 अनुमतेऽनुमन्यस्वेति पश्चात् सरस्वत्यनुमन्यस्वेत्युत्तरतः ...{Loading}...

अनुमतेऽनुमन्यस्वेति पश्चात् सरस्वत्यनुमन्यस्वेत्युत्तरतः १८

19 देव सवितः प्रसुवेति ...{Loading}...

देव सवितः प्रसुवेति प्रदक्षिणमग्निं पर्युक्षेदभिपरिहरन् हव्यम् १९

20 सकृत्त्रिर्वा ...{Loading}...

सकृत्त्रिर्वा २०

21 समिधमाधाय ...{Loading}...

समिधमाधाय २१

22 प्रपदं जपित्वोपताम्य कल्याणम् ...{Loading}...

प्रपदं जपित्वोपताम्य कल्याणं ध्यायन् वैरूपाक्षमारभ्योच्छ्वसेत् २२

23 प्रतिकामं काम्येषु ...{Loading}...

प्रतिकामं काम्येषु २३

24 सर्वत्रैतद्धोमेषु कुर्यात् ...{Loading}...

सर्वत्रैतद्धोमेषु कुर्यात् २४


  1. 2, 1 seqq.=Gobhila I, 1, 9 seqq. ↩︎

  2. 6-8 = IV, 5, 3 seqq. ↩︎

  3. 9-11 = I, 7, 9 seqq. ↩︎

  4. 12-16 = I, 7, 21-27. ↩︎

  5. 17-21 = I, 3, 1 seqq. ↩︎

  6. 22 = I, 8, 26. ↩︎

  7. 23 = IV, 5, 6 seqq. ↩︎

  8. 24, 25 desunt. ↩︎