[[अथ पञ्चदशप्रपाठके द्वितीयोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯र्ऋ꣣ त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म्। गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥ 39:0525 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् ।
गावो॑ यन्ति॒ गोप॑तिं पृ॒च्छमा॑नाः॒ सोमं॑ यन्ति म॒तयो॑ वावशा॒नाः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ति꣣स्रः꣢। वा꣡चः꣢꣯। ई꣣रयति। प्र꣢। व꣡ह्निः꣢꣯। ऋ꣣त꣡स्य꣢। धी꣣ति꣢म्। ब्र꣡ह्म꣢꣯णः। म꣣नीषा꣢म्। गा꣡वः꣢꣯। य꣣न्ति। गो꣡प꣢꣯तिम्। गो। प꣣तिम्। पृच्छ꣡मा꣢नाः। सो꣡म꣢꣯म्। य꣣न्ति। मत꣡यः꣢। वा꣣वशानाः꣢। ५२५।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- पराशरः शाक्त्यः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम नाम से परमात्मा, जीवात्मा और आचार्य का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। (वह्निः) जगत् का वहनकर्ता सोम परमेश्वर (तिस्रः वाचः) ऋग्, यजुः, साम रूप तीन वाणियों का (प्र ईरयति) प्रजाओं के कल्याणार्थ उपदेश करता है। वही (ऋतस्य) सत्यमय यज्ञ के (धीतिम्) धारण की और (ब्रह्मणः) ज्ञान के (मनीषाम्) मनन की (प्र ईरयति) प्रेरणा करता है। (गावः) पृथिवी आदि लोक अथवा सूर्यकिरण (गोपतिम्) अपने स्वामी के विषय में (पृच्छमानाः) मानो पूछते हुए (यन्ति) चले जा रहे हैं—अर्थात् मानो यह पूछ रहे हैं कि कौन हमारा स्वामी है, जो हमें सञ्चालित करता है। इसी प्रकार (मतयः) मेरी स्तुतियाँ (वावशानाः) अतिशय पुनः-पुनः चाह रखती हुई (सोमम्) रसागार परमात्मा को (यन्ति) प्राप्त हो रही हैं ॥ द्वितीय—जीवात्मा के पक्ष में। (वह्निः) शरीर का वहनकर्ता जीवात्मा (तिस्रः वाचः) ज्ञानरूप में, विचाररूप में तथा जिह्वा के कण्ठ तालु आदि के संयोग से जन्य शब्दरूप में विद्यमान त्रिविध वाणियों को (प्र ईरयति) प्रकट करता है। वही (ऋतस्य) सत्य के (धीतिम्) धारण को और (ब्रह्मणः)उपार्जित ज्ञान के (मनीषाम्) मनन को करता है। (गावः) मन-सहित पाँचों ज्ञानेन्द्रियाँ (पृच्छमानाः) मानो कर्तव्याकर्तव्य को पूछती हुई (गोपतिम्) इन्द्रियों के स्वामी आत्मा के पास (यन्ति) पहुँचती हैं। (मतयः) मेरी बुद्धियाँ (वावशानाः) निश्चय में साधन बनना चाहती हुई (सोमम्) ज्ञाता आत्मा के पास (यन्ति) पहुँच रही हैं ॥ तृतीय—आचार्य के पक्ष में। (वह्निः) ज्ञान का वाहक आचार्य, शिष्य के लिए (तिस्रः वाचः) त्रिविध ज्ञान-कर्म-उपासना की प्रतिपादक अथवा सत्त्व-रजस्-तमस् की प्रतिपादक, अथवा सृष्टि-स्थिति-प्रलय की प्रतिपादक, अथवा जाग्रत्-स्वप्न-सुषुप्ति की प्रतिपादक, अथवा धर्म-अर्थ-काम की प्रतिपादक वाणियों का (प्र ईरयति) उच्चारण करता है। वही (ऋतस्य) सत्य के (धीतिम्) धारण को और (ब्रह्मणः) ब्रह्म की अथवा मोक्ष की (मनीषाम्) प्रज्ञा को (प्र ईरयति) देता है। (गावः) मेरी वाणियाँ (पृच्छमानाः) ब्रह्मविद्याविषयक प्रश्न पूछती हुई (गोपतिम्) वाचस्पति आचार्य को (यन्ति) प्राप्त होती हैं। (मतयः) मेरी बुद्धियाँ (वावशानाः) ज्ञानोद्घाटन को चाहती हुई (सोमम्) ज्ञानरस के आगार, सौम्य आचार्य को (यन्ति) प्राप्त होती हैं ॥३॥ इस मन्त्र में श्लेष अलङ्कार है। प्रथम दो पक्षों में ‘गावो यन्ति गोपतिं पृच्छमानाः’ में व्यङ्ग्योत्प्रेक्षा है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वाणियों के प्रेरक, सत्य वा यज्ञ को धारण करानेवाले, ज्ञान के प्रदाता और मन-बुद्धि आदियों के संस्कर्ता परमेश्वर, जीवात्मा तथा गुरु का सदा सेवन एवं सत्कार करना चाहिए ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमनाम्ना परमात्मानं जीवात्मानमाचार्यं च वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। (वह्निः) जगतो वोढा सोमः परमेश्वरः (तिस्रः वाचः) ऋग्यजुःसामरूपाः तिस्रो वाणीः। तेषामृग् यत्रार्थवशेन पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुःशब्दः। जै० सू० २।१।३५-३७। (प्र ईरयति) प्रजानां कल्याणाय उपदिशति, स एव (ऋतस्य) सत्यमयस्य यज्ञस्य। ऋतस्य योगे यज्ञस्य योगे। निरु० ६।२२ इति निरुक्तप्रामाण्याद् ऋतं यज्ञः। (धीतिम्) धारणम्, (ब्रह्मणः) ज्ञानस्य (मनीषाम्) मननं च, प्र ईरयति उपदिशति। (गावः) पृथिव्यादयो लोकाः सूर्यकिरणाः वा (गोपतिम्) निजस्वामिनम् (पृच्छमानाः) पृच्छन्त्यः इव (यन्ति) गच्छन्ति— क्वाऽस्माकमधिपतिर्योऽस्मान् सञ्चालयतीति ज्ञीप्समाना इव पर्यटन्तीत्यर्थः। तथैव (मतयः) मम स्तुतयः (वावशानाः) अतिशयेन पुनः-पुनः कामयमानाः। वश कान्तौ यङ्-लुगन्तात् शानच्। (सोमम्) रसागारं परमात्मानम् (यन्ति) प्राप्नुवन्ति ॥ अथ द्वितीयः—जीवात्मपरः। (वह्निः) शरीरस्य वोढा जीवात्मा (तिस्रः वाचः) ज्ञानरूपे, विचाररूपे, जिह्वायाः कण्ठताल्वादिसंयोगजन्यशब्दरूपे च विद्यमानाः त्रिविधाः वाणीः (प्र ईरयति) प्रकटयति। स एव (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) उपार्जितज्ञानस्य (मनीषाम्) मननं च करोति। (गावः) मनःसहितानि पञ्चज्ञानेन्द्रियाणि (पृच्छमानाः) कर्तव्याकर्तव्यं पृच्छन्त्यः इव (गोपतिम्) इन्द्रियाणां स्वामिनम् आत्मानम् (यन्ति) उपगच्छन्ति। (मतयः) मदीयाः बुद्धयः (वावशानाः) अध्यवसायात्मके ज्ञाने साधनीभवितुं कामयमानाः इव (सोमम्) ज्ञातारम् आत्मानम् (यन्ति) उपगच्छन्ति ॥ अथ तृतीयः—आचार्यपरः। (वह्निः) ज्ञानस्य वाहकः सौम्यः आचार्यः, शिष्याय (तिस्रः वाचः) ज्ञानकर्मोपासनाकाण्डप्रतिपादिकाः, सत्त्वरजस्तमःप्रतिपादिकाः, सृष्ट्युत्पत्तिस्थितिप्रलयप्रतिपादिकाः, जाग्रत्स्वप्नसुषुप्तिप्रतिपादिकाः, धर्मार्थकामप्रतिपादिकाः वा तिस्रो वाणीः (प्र ईरयति) प्रोच्चारयति। स एव (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) परमेश्वरस्य मोक्षस्य वा (मनीषाम्) प्रज्ञाम् च (प्र ईरयति) प्रयच्छति। (गावः) मदीयाः वाचः (पृच्छमानाः) ब्रह्मविद्याविषयकान् प्रश्नान् कुर्वाणाः (गोपतिम्) वाचस्पतिम् आचार्यम् (यन्ति) प्राप्नुवन्ति। (मतयः) मदीयाः बुद्धयः (वावशानाः) ज्ञानोद्घाटनं कामयमानाः (सोमम्) ज्ञानरसागारं सौम्यम् आचार्यम् (यन्ति) प्राप्नुवन्ति ॥३॥२ यास्काचार्य ऋचमिमामेवं व्याख्यातवान्—“वह्निरादित्यो भवति, स तिस्रो वाचः प्रेरयति ऋचो यजूंषि सामानि। एतस्यादित्यस्य कर्माणि ब्रह्मणो मतानि। एष एवैतत् सर्वमक्षरमित्यधिदैवतम्। अथाध्यात्मम् वह्निरात्मा भवति, स तिस्रो वाच ईरयति प्रेरयति विद्यामतिबुद्धिमतानि ऋतस्य आत्मनः कर्माणि ब्रह्मणो मतानि, अयमेवैतत् सर्वमनुभवतीत्यात्मगतिमाचष्टे” इति (निरु० १४।१४)। अत्र श्लेषालङ्कारः। आद्यपक्षद्वये ‘गावो यन्ति गोपतिं पृच्छमानाः’ इत्यत्र व्यङ्ग्योत्प्रेक्षा च ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वाचां प्रेरकः, सत्यस्य यज्ञस्य वा धापयिता, ज्ञानस्य प्रदाता, मनोबुद्ध्यादीनां संस्कर्ता च परमेश्वरो जीवात्मा गुरुश्च सदा सेवनीयः सत्कर्तव्यश्च ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।३४, साम० ८५९। २. अस्या ऋचो व्याख्याने विवरणकृन्माधव एवमाह—“तिस्रो वाचः ऋग्यजुःसामानि। वह्निः वोढा सोमः। ऋतस्य धीतिं कर्म। ब्रह्मणो मनीषां मन्त्राणि वेदोक्तानि प्रेरयति। गोपतिं यजमानम् ॥ यद्यपि पावमानीषु सोमं मुक्त्वा अन्या देवता न सम्भवन्ति तथाप्यष्टादशे व्याख्यातेति कृत्वा तेनापि आत्मानुस्मरणार्थमालिख्यते। तिस्रो वाचः ऋग्यजुःसामानि। अथवा तिस्रो वाचः सत्त्वरजस्तमांसि। अथवा जाग्रत्स्वप्नसुषुप्तिवृत्तयः। ईरयति प्रेरयति। उदकं रश्मींश्च वहतीति वह्निरादित्यः। ऋतस्य आदित्यस्य धीतिम् अथवा ऋतस्य सत्यस्य ब्रह्मणः, अथवा ऋतस्य अन्नस्य धीतिं यज्ञस्य वा आदित्यस्य वा।…. एतमेव गोपतिं रश्मिस्वामिनं वा पृच्छन्त इव सोमं यन्ति। पृथिवीं वसानाः सर्वोपकाराय सोमम् आदित्यं, मतयः।….रश्मयः वावशाना आदित्यं यन्ति प्रविशन्ति। अध्यात्मं वा—वह्निरात्मा भवति, वश्यादिगुणसंयोगात्। स तिस्रो वाचः प्रेरयति विद्याबुद्धिमनांसि। विद्या महान्, बुद्धिरहङ्कारो मन इति प्राधान्याद् भूतेन्द्रियाणि। ऋतस्य आत्मनः। गावः यन्ति आत्मानम् इन्द्रियाणां स्वामिनं पृच्छमानाः आत्मानम्। तदभिप्रायेण शब्दाद्यनुगमात्। एतमेवात्मानं सोमं कामयमाना इव यन्ति मतयः तदर्थं प्रादुर्भवन्ति” इति। अथ भरतः—“तिस्रः त्रिविधाः मन्द्रमध्यमोत्तमाः। वह्निः वोढा यज्ञस्य। ऋतस्य यज्ञस्य। धीतिं विधानम् अनुष्ठानं च प्रेरयति। सोमे अभिषुते कर्माणि प्रवर्त्यन्ते। ब्रह्मणः ब्राह्मणानाम्। मनीषां स्तुतिं च प्रेरयति। सामान्यवाची ब्रह्मशब्दः नपुंसकलिङ्गः। गावः यन्ति अभिगच्छन्ति गोपतिं सोमम् पृच्छमाना अन्विच्छन्त्यः। सोमं यन्ति मतयः स्तुतयः। वावशानाः कामयमानाः” इति। अथ सायणः—“वह्निः वोढा यजमानः तिस्रो वाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति। तथा ऋतस्य यज्ञस्य धीतिं धारयित्रीं ब्रह्मणः परिवृढस्य सोमस्य मनीषां मनस ईशित्रीं कल्याणवाचं च प्रेरयति। किञ्च गोपतिं वृषभं यथा गावोऽभिगच्छन्ति तद्वत् गवां स्वामिनं सोमं गावः पृच्छमानाः पृच्छन्त्यः सत्यो यन्ति स्वपयसा आश्रयितुमभिगच्छन्ति, तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति” इति।
39_0525 तिस्रो वाच - 01 ...{Loading}...
लिखितम्
५२५-१। संक्रोशास्त्रयः॥ त्रयाणामङ्गिरसत्रिष्टुप्सोमः सूर्यो वा॥
हो꣡इ। हो। हा꣢ऽ᳐३हो꣡इ। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥१॥ हो꣡इयाऽ२३हो꣡इ। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥२॥ आ꣢꣯। हो꣡इयाऽ२३ हो꣡इ। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥३॥॥सामसुरसी द्वे॥ द्वयोः समसुरास्त्रिष्टुप्सोमः सूर्यो वा॥
हो꣡इहा। इ꣢हो꣡इहा। औ꣭ऽ३हो꣢ऽ᳐३१इ। इहा। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥४॥ हो꣡इया। इ꣢यो꣡इया। औ꣭ऽ३हो꣢ऽ᳐३१इ। इया। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥५॥
39_0525 तिस्रो वाच - 02 ...{Loading}...
लिखितम्
५२५-२। वेणोर्विशाले द्वे॥ वेणुस्त्रिष्टुप्सोमः सूर्यो वा॥
इ꣣हो꣢᳐इ꣣ह꣥। इ꣢हो꣯इहाऽ᳐३हो꣡। वा꣣꣯हो꣢᳐इ꣣ह꣥। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥ ६॥ इ꣥हो꣤꣯वाऽ५। इ꣢हो꣡वाऽ२३। ई꣢ऽ᳐३४हहा꣥इ। ई꣤ऽ५। इ꣤हा। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥७॥
॥तन्त्रातन्त्रे द्वे॥ गोतमास्त्रिष्टुप्सोमः सूर्यो वा॥
इ꣢हो꣡वाऽ२३। ई꣢ऽ३४हहा꣥इ। इ꣤हा। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥८॥ आ꣡औ꣢ऽ᳐३हो꣢। आ꣡औ꣢ऽ᳐३हो꣢ऽ३४। औ꣥꣯हो꣯वा। हा꣢ऽ᳐३हा꣢इ। तिस्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥९॥
॥अगस्त्यस्य यमिके द्वे॥ द्वयोरगस्त्यस्त्रिष्टुप्सोमः सूर्यो वा॥
आ꣡। औ꣢ऽ᳐३हो꣯वा꣯हा꣢ऽ३४। औ꣣꣯हो꣤꣯वा꣥। ति꣢स्रो꣡꣯वा꣯चाः। ई꣢ऽ᳐३र꣡य। ति꣢प्र꣣व꣤ह्नीः꣥॥१०॥
39_0525 तिस्रो वाच - 03 ...{Loading}...
लिखितम्
५२५-३।
ओ꣣꣯हा꣢ऽ᳐३। ओ꣤हा꣥ओ꣤हा꣥। ऋ꣢त꣡स्यधाइ। ती꣢ऽ᳐३म्ब्र꣡ह्म। णो꣢᳐म꣣नी꣤षा꣥म्॥११॥॥वारवन्तीये द्वे॥ द्वयोरिन्द्रस्त्रिष्टुप्सोमः॥
ह꣡ह꣢हो꣡इ। हह꣢हा꣣꣯ह꣢हो꣡इ। गा꣢꣯वो꣡꣯यन्ताइ। गो꣢ऽ᳐३प꣡तिम्। पृ꣢च्छ꣣मा꣤नाः꣥॥१२॥ इ꣡ह꣢हो꣡इ। इह꣢हा꣣꣯ह꣢हो꣡इ। सो꣢꣯मं꣡यन्ताइ। म꣢त꣡यः। वा꣢ऽ᳐३४३। वा꣢ऽ᳐३शा꣤ऽ५" नाऽ६५६ः॥१३॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣स्य꣢ प्रे꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नो दे꣣वो꣢ दे꣣वे꣢भिः꣣ स꣡म꣢पृक्त꣢ र꣡स꣢म्। सु꣣तः꣢ प꣣वि꣢त्रं꣣ प꣡र्ये꣢ति꣣ रे꣡भ꣢न् मि꣣ते꣢व꣣ स꣡द्म꣢ पशु꣣म꣢न्ति꣣ हो꣡ता꣢ ॥ 40:0526 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस॑म् ।
सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣स्य꣢। प्रे꣣षा꣢। हे꣣म꣡ना꣢। पू꣣य꣡मा꣢नः। दे꣣वः꣢। दे꣣वे꣡भिः꣣। सम्। अ꣣पृक्त। र꣡स꣢꣯म्। सु꣣तः꣢। प꣣वि꣢त्र꣢म्। प꣡रि꣢꣯। ए꣣ति। रे꣡भ꣢꣯न्। मि꣣ता꣢। इ꣣व। स꣡द्म꣢꣯। प꣣शुम꣡न्ति꣢। हो꣡ता꣢꣯। ५२६।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में आत्मा और परमात्मा का विषय वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्य) इस सौम्य ज्योतिवाले सोम परमात्मा की (प्रेषा) प्रेरणा से। और (हेमना) ज्योति से (पूयमानः) पवित्र किया जाता हुआ (देवः) द्युतिमान् आत्मा (देवेभिः) मनसहित ज्ञानेन्द्रियों के साथ मिलकर (रसम्) आनन्द को (समपृक्त) अपने अन्दर संपृक्त करता है। (सुतः) ध्यान द्वारा अभिषुत परमात्मारूप सोम (रेभन्) कर्तव्य का उपदेश करता हुआ (पवित्रम्) पवित्र मन में (पर्येति) पहुँचता है, (इव) जैसे (होता) होता नामक ऋत्विज् (पशुमन्ति) पशु-युक्त (मिता) निर्मित (सद्म) गो-सदनों में दूध, घृत आदि लाने के लिए जाता है ॥४॥ इस मन्त्र में उपमालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उपासकों के अन्तःकरण में प्रकट हुआ परमेश्वर उन्हें पवित्र और तेजस्वी बना देता है ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथात्मपरमात्मविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्य) सौम्यज्योतिषः परमात्मनः (प्रेषा) प्रेरणया (हेमना) ज्योतिषा च। अत्र हेम्ना इति प्राप्ते सर्वेषां विधीनां छन्दसि विकल्पनात्, ‘अल्लोपोऽनः’ इति प्राप्तः अकारलोपो न भवति। (पूयमानः) पवित्रीक्रियमाणः (देवः) द्योतमानः आत्मा (देवेभिः) मनःसहितैः ज्ञानेन्द्रियैः सह संभूय (रसम्) आनन्दम् (समपृक्त) स्वात्मनि संपृणक्ति। (सुतः) ध्यानद्वारा अभिषुतः परमात्मसोमः (रेभन्) कर्तव्यमुपदिशन्। रेभृ शब्दे भ्वादिः। (पवित्रम्) मनोरूपं दशापवित्रम् (पर्येति) परिगच्छति, (इव) यथा (होता) होतृनामकः ऋत्विक् (पशुमन्ति) पशुयुक्तानि (मिता) मितानि निर्मितानि (सद्म) सद्मानि गृहाणि पयोघृताद्यानयनाय गच्छति तद्वत्। मिता, सद्म इत्युभयत्र ‘शेश्छन्दसि बहुलम्’ अ० ६।१।७० इति शसः शेर्लोपः ॥४॥ अत्रोपमालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उपासकानामन्तःकरणे प्रकटितः परमेश्वरस्तान् पवित्रांस्तेजस्विनश्च विदधाति ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।१, साम० १३९९।
40_0526 अस्य प्रेषा - 01 ...{Loading}...
लिखितम्
५२६-१। अष्टौ वासिष्ठानि॥ षण्णां वसिष्ठस्त्रिष्टुब्देवाः उत्तरयोर्विश्वेदेवाः॥
अ꣣स्या꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥। प्रे꣡꣯षा। हे꣢ऽ᳐३म꣡ना꣯। पू꣢᳐य꣣मा꣤नाः꣥॥१॥ उ꣣हुवा꣢इ᳐। अ꣣स्या꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥। प्रे꣡꣯षा। हे꣢ऽ᳐३म꣡ना꣯। पू꣢᳐य꣣मा꣤नाः꣥॥२॥ हा꣢इ। उहुवा᳐। दे꣣꣯वा꣢ऽ ३४औ꣣꣯हो꣤꣯वा꣥। दे꣡꣯वाइ। भी꣢ऽ३᳐स्स꣡म। पृ꣢क्त꣣र꣤सा꣥म्॥३॥ हा꣢उ। हो᳐इ। सु꣣ता꣢ऽ३४ औ꣣꣯हो꣤꣯वा꣥। प꣡वाइ। त्रा꣢ऽ३म्प꣡रि। ए꣢᳐ति꣣रे꣤भा꣥न्॥४॥ हा। हा꣢औ꣯हो᳐इ। मि꣣ता꣢ऽ᳐३४ औ꣣꣯हो꣤꣯वा꣥। व꣡सा। द्मा꣢ऽ᳐३प꣡शु। म꣢न्ति꣣हो꣤ता꣥। प꣡शु। मा꣢ऽ३४३। ती꣢ऽ᳐३हो꣤ऽ५ ता"ऽ६५६॥५॥
40_0526 अस्य प्रेषा - 02 ...{Loading}...
लिखितम्
५२६-२। वासिष्ठम्॥
औ꣡꣯हो꣢꣯वा꣣꣯हा꣢ऽ᳐३हो꣡इ। इ꣣हा꣢। अस्य꣡प्रे꣯षा। हे꣢ऽ३म꣡ना꣯। पू꣢᳐य꣣मा꣤नाः꣥॥ दे꣢꣯वो꣡꣯दे꣯वाइ। भी꣢ऽ३स्स꣡म। पृ꣢क्त꣣र꣤सा꣥म्॥ सु꣢तᳲ꣡पवाइ। त्रा꣢ऽ᳐३म्प꣡रि। ए꣢᳐ति꣣ रे꣤भा꣥न्॥ औ꣡꣯हो꣢꣯वा꣣꣯हा꣢ऽ᳐३हो꣡इ। इ꣣हा꣢। मिते꣡꣯वसा। द्मा꣢ऽ᳐३प꣡शु। मा꣢ऽ᳐३४३। ती꣢ऽ᳐३ हो꣤ऽ५ता"ऽ६५६॥६॥ दी-१२। प-१७। मा-७॥ ५ (छे) १०२४॥
योनि-प्रस्तुतिः ...{Loading}...
सो꣡मः꣢ पवते जनि꣣ता꣡ म꣢ती꣣नां꣡ ज꣢नि꣣ता꣢ दि꣣वो꣡ ज꣢नि꣣ता꣡ पृ꣢थि꣣व्याः꣢। ज꣣निता꣡ग्नेर्ज꣢꣯नि꣣ता꣡ सूर्य꣢꣯स्य जनि꣣ते꣡न्द्र꣢स्य जनि꣣तो꣡त विष्णोः꣢꣯ ॥ 41:0527 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सोमः॑ पवते (=पात्रेषु क्षरति) जनि॒ता म॑ती॒नां
ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।
ज॒नि॒ताग्नेर् ज॑नि॒ता सूर्य॑स्य
(द्युः, पृथिवी, पृथिव्या ज्योतिः, दिवो ज्योतिर् इति चारु क्रमः!)
जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः॑ ५
(इत्थं पवमानस्य सोमस्य महज्जनकता प्रोक्ता!)
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सो꣡मः꣢꣯। प꣣वते। जनिता꣢। म꣣तीना꣢म्। ज꣣निता꣢। दि꣣वः꣢। ज꣣निता꣢। पृ꣣थिव्याः꣢। ज꣣निता꣢। अ꣣ग्नेः꣢। ज꣣निता꣢। सू꣡र्य꣢꣯स्य। ज꣣निता꣢। इ꣡न्द्र꣢꣯स्य। ज꣣निता꣢। उ꣣त꣢। वि꣡ष्णोः꣢꣯। ५२७।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- प्रतर्दनो दैवोदासिः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा के सर्वजनकत्व का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (सोमः) सर्वोत्पादक, रसागार और चन्द्रमा के समान कमनीय परमेश्वर (पवते) हृदयों को पवित्र करता है, जो (मतीनाम्) बुद्धियों का (जनिता) उत्पादक है, (दिवः) द्युलोक का तथा मनोमय कोश का (जनिता) उत्पादक है, (पृथिव्याः) भूलोक का तथा अन्नमय कोश का (जनिता) उत्पादक है, (अग्नेः) आग का तथा वाणी का (जनिता) उत्पादक है, (सूर्यस्य) सूर्य का तथा चक्षु का (जनिता) उत्पादक है, (इन्द्रस्य) वायु का तथा प्राणमयकोश का (जनिता) उत्पादक है, (उत) और (विष्णोः) यज्ञ का (जनिता) उत्पादक है ॥५॥ इस मन्त्र में पुनः-पुनः ‘जनिता’ कहने से यह सूचित होता है कि इसी प्रकार अन्य भी अनेक पदार्थों का जनिता है। लाटानुप्रास अलङ्कार है। कुवलयानन्द का अनुसरण करने पर आवृत्तिदीपक अलङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वोत्पादक परमात्मा ने ही ब्रह्माण्ड के सूर्य, चन्द्र, वायु, विद्युत् आदि और शरीर पिण्ड के प्राण, मन, बुद्धि, वाक्, चक्षु, श्रोत्र आदि रचे हैं, क्योंकि उनकी रचना करना किसी मनुष्य के सामर्थ्य में नहीं है ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनः सर्वजनकत्वमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (सोमः) सर्वोत्पादकः, रसागारः, चन्द्रवत् कमनीयः परमेश्वरः (पवते) हृदयानि पुनाति, यः (मतीनाम्) मनीषाणाम् (जनिता) उत्पादकः, (दिवः) द्युलोकस्य मनोमयकोशस्य वा (जनिता) उत्पादकः, (पृथिव्याः) भूलोकस्य, अन्नमयकोशस्य वा (जनिता) उत्पादकः, (अग्नेः) वह्नेः वाचो वा। वागेवाग्निः। श० ३।२।२।१३। (जनिता) उत्पादकः, (सूर्यस्य) आदित्यस्य, चक्षुषो वा। आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्। ऐ० उ० २।४। (जनिता) उत्पादकः, (इन्द्रस्य) वायोः, प्राणमयकोशस्य वा। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। प्राण एवेन्द्रः। श० १२।९।१।१४। (जनिता) उत्पादकः, (उत) अपि च (विष्णोः) यज्ञस्य। यज्ञो वै विष्णुः। श० १।१।२।१३। (जनिता) उत्पादकः वर्तते। जनयिता इति प्राप्ते ‘जनिता मन्त्रे’ अ० ६।४।५३ इति णिलोपो निपात्यते ॥५॥ ऋचमिमां निरुक्तकार एवं व्याचष्टे—सोमः पवते। सोमः सूर्यः प्रसवनात् जनयिता मतीनां प्रकाशनकर्मणामादित्यरश्मीनां, दिवो द्योतनकर्मणामादित्यरश्मीनां, अग्नेर्गतिकर्मणामादित्यरश्मीनां, सूर्यस्य स्वीरणकर्मणामादित्यरश्मीनाम्, इन्द्रस्य ऐश्वर्यकर्मणामादित्यरश्मीनां, विष्णोर्व्याप्तिकर्मणामादित्यरश्मीनाम् इत्यधिदैवतम्। अथाध्यात्मम्—सोम आत्मापि एतस्मादेव इन्द्रियाणां जनिता इत्यर्थः। अपि वा सर्वाभिर्विभूतिभिः विभूततम आत्मा इति आत्मगतिमाचष्टे। (निरु० १४।१२) ॥ मुहुर्मुहुः ‘जनिता’ इति कथनाद् अन्येषामपि बहूनां पदार्थानां जनकत्वं सूच्यते। लाटानुप्रासोऽलङ्कारः। कुवलयानन्दानुसरणे तु आवृत्तिदीपकालङ्कारः२ ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वोत्पादकेन परमात्मनैव ब्रह्माण्डस्य सूर्यचन्द्रवायुविद्युदादीनि शरीरपिण्डस्य च प्राणमनोबुद्धिवाक्चक्षुःश्रोत्रादीनि रचितानि सन्ति, तन्निर्माणे कस्यचिन्मनुष्यस्य सामर्थ्याभावात् ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९६।५, साम० ९४३। २. ‘माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः’ (कु० ५०) इतिवत्।
41_0527 सोमः पवते - 01 ...{Loading}...
लिखितम्
५२७-१। कालकाक्रन्दौ द्वौ॥
सो꣢꣯मᳲपवते꣯जनिता꣯मऽ᳐३ता꣡इनाऽ᳒२᳒म्॥ जनिता꣯दिवो꣯जनिता꣯पृऽ᳐३था꣡इ व्याऽ᳒२ः᳒॥ जनिता꣡꣯ग्ने꣯र्जनिता꣯सू। रि꣪याऽ२३स्या꣢॥ जनिते꣡꣯न्द्रा। स्या꣢ऽ᳐३ ज꣡नि। तो꣢ऽ᳐३४३। ता꣢ऽ᳐३वा꣤ऽ५इष्णो"ऽ६५६ः॥७॥ दी-१०। प-८। मा-६॥ ६ (बू) १०२५॥
41_0527 सोमः पवते - 02 ...{Loading}...
लिखितम्
५२७-२।
सो꣣꣯मᳲ꣤प꣥वते꣯जनिता꣯। ए꣢ऽ᳐३। औ꣢ऽ᳐३हो꣤ऽ५वा॥ मा꣡ताऽ२३४५इनाऽ६५६म्। ज꣢निता꣡꣯दि꣢वो꣡꣯जनि꣢ता꣡꣯पृथि꣢व्याः꣡꣯॥ जनाऽ२᳐इता꣣ऽ२३४ग्नेः꣥। ज꣢निता꣯। सूऽ३४३। री꣢ऽ᳐३या꣤ऽ५स्याऽ६५६॥ ज꣢निते꣡꣯न्द्रस्य꣢जनितो꣡꣯तविष्णो꣣ऽ२३꣡४꣡५ः꣡॥८॥
41_0527 सोमः पवते - 03 ...{Loading}...
लिखितम्
५२७-३। जनित्रे द्वे॥ द्वयोर्वसिष्ठस्त्रिष्टुब्विश्वेदेवाः॥
हा꣥꣯उज꣤नत्।(त्रिः)। जनद्धा꣥उ।(त्रिः)। हो꣡इ। जनत्।(द्वे-द्विः)। होइ। जनात्। सो꣢꣯मᳲ꣡पवा। ते꣢ऽ᳐३ज꣡नि। ता꣢᳐म꣣ती꣤ना꣥म्॥ ज꣢निता꣡꣯दाइ। वो꣢ऽ᳐३ज꣡नि। ता꣢᳐पृ꣣थि꣤व्याः꣥॥ ज꣢निता꣡꣯ग्नाइः। ज꣢नि꣡ता꣯। सू꣢᳐रि꣣य꣤स्या꣥॥ हा꣯उज꣤नत्।(त्रिः)। जनद्धा꣥उ।(त्रिः)। हो꣡इ। जनत्।(द्वे-द्विः)। होइ। जनात्। ज꣢निते꣡꣯न्द्रा। स्या꣢ऽ᳐३ज꣡नि। तो꣢ऽ᳐३४३। ता꣢ऽ᳐३वा꣤ऽ५इष्णो"ऽ६५६ः॥ दी-११। प-३७। मा-३७॥ ८ (खे) १०२७॥
41_0527 सोमः पवते - 04 ...{Loading}...
लिखितम्
५२७-४।
ज꣤नद्धा꣥उ।(त्रिः)। ज꣤नदा꣥उ।(त्रिः)। ज꣡नत्। होइ।(द्वे-त्रिः)। सो꣢꣯मᳲ꣡पवा। ते꣢ऽ᳐३ज꣡नि। ता꣢᳐म꣣ती꣤ना꣥म्॥ ज꣢निता꣡꣯दाइ। वो꣢ऽ᳐३ज꣡नि। ता꣢᳐पृ꣣थि꣤व्याः꣥॥ ज꣢निता꣡꣯ग्नाइः। ज꣢नि꣡ता꣯। सू꣢᳐रि꣣य꣤स्या꣥॥ ज꣤नद्धा꣥उ।(त्रिः)। ज꣤नदा꣥उ।(त्रिः)। ज꣡नत्। होइ।(द्वे-त्रिः)। ज꣢निते꣡꣯न्द्रा। स्या꣢ऽ᳐३ज꣡नि। तो꣢ऽ᳐३४३। ता꣢ऽ᳐३वा꣤ऽ५ इष्णोऽ६"५६ः॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡मा꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णी꣢। व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢उ। सिन्धू꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥ 42:0528 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भि त्रि॑पृ॒ष्ठं (=त्रिस्तोत्रम् त्रिसवनं वा) वृष॑णं (=वर्षकम्) वयो॒धाम् (=अन्नदम्)
आ॑ङ्गू॒षाणा॑म् (= आघोषवतां ([स्तोतॄणाम्])) अवावशन्त (=शब्दायन्ते) वाणीः ।
वना (=उदकानि) वसा॑नो वरु॑णो न सिन्धू॑न्(साम्नि विसर्गः)
वि र॑त्न॒धा द॑यते (=ददाति) वारि॑याणि (=धनानि) ।।
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣भि꣢। त्रि꣣पृष्ठ꣢म्। त्रि꣣। पृष्ठ꣢म्। वृ꣡ष꣢꣯णम्। व꣣योधा꣢म्। व꣣यः। धा꣢म्। अ꣣ङ्गोषि꣡ण꣢म्। अ꣣वावशन्त। वा꣡णीः꣢꣯। व꣡ना꣢꣯। व꣡सा꣢꣯नः। व꣡रु꣢꣯णः। न। सि꣡न्धुः꣢꣯। वि। र꣣त्नधाः꣢। र꣣त्न। धाः꣢। द꣣यते। वा꣡र्या꣢꣯णि। ५२८।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में कैसा परमात्मा क्या करता है, इसका वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्रिपृष्ठम्) ऋग्-यजुः-साम रूप, पृथिवी-अन्तरिक्ष-द्यौ रूप, अग्नि-वायु-आदित्य रूप, सत्त्व-रजस्-तमस् रूप और मन-प्राण-आत्मा रूप तीन पृष्ठोंवाले, (वृषणम्) सुख आदि के वर्षक, (वयोधाम्) आयु प्रदान करनेवाले (अङ्गोषिणम्) अङ्ग-अङ्ग में निवास करनेवाले अथवा स्तुति-योग्य परमात्मा का (वाणीः) वेदवाणियाँ (अभि अवावशन्त) गान करती हैं। (वरुणः न) सूर्य के समान (वना) तेज की किरणों को (वसानः) धारण करता हुआ वह परमात्मा (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्र के समान (वार्याणि) वरणीय भौतिक एवं आध्यात्मिक रत्नों को (वि दयते) विशेष रूप से प्रदान करता है ॥६॥ इस मन्त्र में उपमालङ्कार है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सूर्य के समान तेजों का और समुद्र के समान रत्नों का भण्डार परमेश्वर तेजों तथा रत्नों को प्रदान कर सबको समृद्ध करता है ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशः परमात्मा किं करोतीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्रिपृष्ठम्२) त्रीणि ऋग्यजुःसामरूपाणि, पृथिव्यन्तरिक्षद्युरूपाणि, अग्निवाय्वादित्यरूपाणि, सत्त्वरजस्तमोरूपाणि, मनःप्राणात्मरूपाणि वा पृष्ठानि यस्य तम्, (वृषणम्) सुखादीनां वर्षकम् (वयोधाम्३) आयुष्प्रदातारम्, (अङ्गोषिणम्४) अङ्गे अङ्गे निवसन्तं स्तुत्यं वा परमात्मरूपं सोमम्। अङ्गपूर्ववसधातोरिनिप्रत्यये सम्प्रसारणे रूपम्। यद्वा आङ्गूषः स्तोमः तद्वन्तं स्तुत्यमित्यर्थः। ‘आङ्गूषः स्तोम आघोषः’ इति यास्कः। निरु० ५।११। (वाणीः) वेदवाण्यः। जसि छान्दसः पूर्वसवर्णदीर्घः। (अभि अवावशन्त५) भृशं गायन्ति। वाशृ शब्दे इति धातोः यङ्लुकि छान्दसं रूपम्। (वरुणः न) सूर्यः इव (वना) तेजोरश्मीन् वनमिति रश्मिनाम। निघं० १।५। (वसानः) धारयन् स परमात्मा, (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्रः इव इति लुप्तोपमम् (वार्याणि) वरणीयानि रत्नानि भौतिकाध्यात्मिकानि (विदयते) विशेषेण ददाति। दय दानगतिरक्षणहिंसादानेषु भ्वादिः ॥६॥ अत्रोपमालङ्कारः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सूर्य इव समुद्र इव च तेजसां रत्नानां च निधिः परमेश्वरस्तेजांसि रत्नानि च प्रदाय सर्वान् सुसमृद्धान् करोति ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९०।२ ‘मङ्गोषिण’ ‘सिन्धुर्’ इत्यत्र क्रमेण ‘माङ्गूषाणा’ ‘सिन्धून्’ इति पाठः। साम० १४०८। २. त्रिपृष्ठम् त्रीणि पृष्ठानि सवनानि लोकाः देवाः वेदा वा—इति वि०। त्रिपृष्ठं त्रिस्थानम्, सवनानि त्रीणि द्रोणकलशपूतभृदाहवनीयाख्यानि वा स्थानानि—इति भ०। ३. वयोधाम् अन्नानां दातारं यशसां वा—इति वि०। ४. अङ्गोषिणं मतिसमूहम्—इति वि०। आघोषिणम्—इति भ०। आघोषन्तं सोमम्—इति सा०। ५. अवावशन्त कामयन्ते शब्दायन्ते वा—इति सा०।
42_0528 अभि त्रिपृष्ठम् - 01 ...{Loading}...
लिखितम्
५२८-१। अङ्गिरसां व्रतोपोहः॥ (सम्पा)। वसिष्ठस्त्रिष्टुब्वरुणः॥
ओ꣢ऽ᳐३हा꣡इ। ओ꣭ऽ३हा꣢᳐। ओ꣣꣯हा꣢। इ꣡याऽ᳒२᳒। ओ꣭ऽ३हा꣢ऽ᳐३ए꣢। अभि꣡त्रिपा। ष्ठा꣢ऽ३म्वृ꣡ष। णं꣢व꣣यो꣤धा꣥म्॥ अं꣢गो꣡꣯षिणाम्। अ꣢वा꣡꣯व। श꣢न्त꣣वा꣤णीः꣥॥ व꣢ना꣡꣯वसा। नो꣢ऽ᳐३व꣡रु। णो꣢᳐न꣣सि꣤न्धूः꣥॥ ओ꣢ऽ᳐३हा꣡इ। ओ꣭ऽ३हा꣢᳐। ओ꣣꣯हा꣢। इ꣡याऽ᳒२᳒। ओ꣭ऽ३ हा꣢ऽ३ए꣢। विर꣡त्नधाः। द꣢य꣡ते꣯। वा꣢ऽ᳐३४३। री꣢ऽ३या꣤ऽ५णा"ऽ६५६इ॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मं ज꣣न꣡य꣢न् प्र꣣जा꣡ भुव꣢꣯नस्य गो꣣पाः꣢। वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥ 43:0529 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अक्रा॑न्(=अतिक्रामति) त्समु॒द्रः(=सम् + उन्द क्लेदने + रा + क) प्र॑थ॒मे विध॑र्मञ् (=विधाराः)
ज॒नय॑न् प्र॒जा(ः), भुव॑नस्य॒ राजा॑ (गोपाः इति साम्नि) ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ (=समुच्छ्रिते) अव्ये॑
बृ॒हत् सोमो॑ वावृधे सुवा॒न इन्दुः॑ (=अद्रिः इति साम्नि?) ४०
अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न्
ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः।
वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣
अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥1 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡क्रा꣢꣯न्। स꣣मुद्रः꣢। स꣣म्। उद्रः꣢। प्र꣣थमे꣢। वि꣡ध꣢꣯र्मन्। वि। ध꣣र्मन्। जन꣡य꣢न्। प्र꣣जाः꣢। प्र꣣। जाः꣢। भु꣡व꣢꣯नस्य। गो꣣पाः꣢। गो꣣। पाः꣢। वृ꣡षा꣢꣯। प꣣वि꣡त्रे꣢। अ꣡धि꣢꣯। सा꣡नौ꣢꣯। अ꣡व्ये꣢꣯। बृ꣣ह꣢त्। सो꣡मः꣢꣯। वा꣣वृधे। स्वानः꣢। अ꣡द्रिः꣢꣯। अ। द्रिः꣣। ५२९।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- पराशरः शाक्त्यः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम नाम से मेघ और परमात्मा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—मेघ के पक्ष में। (समुद्रः) जलों का पारावार मेघ (प्रथमे) श्रेष्ठ (विधर्मन्) विशेष धारणकर्ता अन्तरिक्ष में (अक्रान्) व्याप्त होता है। (प्रजाः) वृक्ष, वनस्पति आदि रूप प्रजाओं को (जनयन्) उत्पन्न करता हुआ वह (भुवनस्य) भूतल का (गोपाः) रक्षक होता है। (वृषा) वर्षा करनेवाला, (स्वानः) स्नान कराता हुआ (अद्रिः) मेघरूप (सोमः) सोम (पवित्रे) पवित्र (अव्ये) पार्थिव (सानौ अधि) पर्वत-शिखर पर (बृहत्) बहुत (वावृधे) वृद्धि को प्राप्त करता है ॥ द्वितीय—परमात्मा के पक्ष में। (समुद्रः) शक्ति का पारावार परमेश्वर (प्रथमे) श्रेष्ठ, (विधर्मन्) विशेष रूप से जड़-चेतन के धारक ब्रह्माण्ड में (अक्रान्) व्याप्त है, (प्रजाः) जड़-चेतन प्रजाओं को (जनयन्) जन्म देता हुआ वह (भुवनस्य) जगत् का (गोपाः) रक्षक है। (वृषा) सद्गुणों की अथवा अन्तरिक्षस्थ जलों की वर्षा करनेवाला, (स्वानः) सत्कर्मों में प्रेरित करता हुआ, (अद्रिः) अविनश्वर (सोमः) वह परमात्मा (पवित्रे) पवित्र (अव्ये) अव्यय अर्थात् अविनाशी (सानौ अधि) उन्नत जीवात्मा में (बृहत्) बहुत (वावृधे) महिमा को प्राप्त है, क्योंकि जीवात्मा द्वारा किये जानेवाले महान् कार्यों में उसी की महिमा दृष्टिगोचर होती है ॥७॥ इस मन्त्र में मेघ और परमेश्वर दो अर्थों का वर्णन होने से श्लेषालङ्कार है। दोनों अर्थों का उपमानोपमेयभाव भी ध्वनित हो रहा है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे अगाध जलराशिवाला मेघ अन्तरिक्ष में व्याप्त होता है, वैसे परमेश्वर सकल ब्रह्माण्ड में व्याप्त है। जैसे मेघ बरसकर वृक्ष, वनस्पति आदियों को उत्पन्न करता है, वैसे परमेश्वर जड़-चेतन सब पदार्थों को उत्पन्न करता है। जैसे मेघ भूतल का रक्षक है, वैसे परमेश्वर सब भुवनों का रक्षक है। जैसे मेघ पर्वतों के शिखरों पर विस्तार प्राप्त करता है, वैसे परमेश्वर मनुष्यों के आत्माओं में ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमनाम्ना पर्जन्यं परमात्मानं च वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—पर्जन्यपरः। (समुद्रः) उदकस्य पारावारः मेघः (प्रथमे) श्रेष्ठे (विधर्मन्) विधर्मणि विशेषेण धारके अन्तरिक्षे। अत्र “सुपां सुलुक्०” अ० ७।१।३९ इति विभक्तेर्लुक्। (अक्रान्२) क्रामति, व्याप्नोति। (प्रजाः) वृक्षवनस्पत्यादिरूपाः (जनयन्) उत्पादयन् सः (भुवनस्य) भूतलस्य (गोपाः) रक्षको जायते। (वृषा) वर्षकः (स्वानः) भूमिं स्नपयन्। षुञ् अभिषवे, णिगर्भः। (अद्रिः) मेघरूपः। अद्रिरिति मेघनाम। निरु० १।१०। (सोमः) सोमः (पवित्रे) पूते (अव्ये) अविमये पार्थिवे इत्यर्थः। इयं पृथिवी वा अविः इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३। (सानौ३ अधि) पर्वतशृङ्गे (बृहत्) बहु (वावृधे) वर्धते। वृधु वर्द्धने, लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः ॥ अथ द्वितीयः—परमात्मपरः। (समुद्रः) शक्तेः पारावारः परमेश्वरः (प्रथमे) श्रेष्ठे (विधर्मन्) विधर्मणि विशेषेण जडचेतनानां धारके ब्रह्माण्डे (अक्रान्) पदं निधत्ते, व्याप्नोति। (प्रजाः) जडचेतनरूपाः (जनयन्) उत्पादयन् सः (भुवनस्य) जगतः (गोपाः) रक्षको भवति। (वृषा) सद्गुणानां सेचकः, अन्तरिक्षस्थानाम् उदकानां वर्षको वा (स्वानः) सत्कर्मसु प्रेरयन् (अद्रिः) अविनश्वरः, न केनापि विदारयितुं शक्यः४ (सोमः) स परमेश्वरः (पवित्रे) मेध्ये (अव्ये) अव्यये अविनाशिनि (सानौ अधि) उन्नते जीवात्मनि (बृहत्) बहु (वावृधे) वर्धते महिमानमाप्नोतीत्यर्थः। यतो जीवात्मनो महत्सु कार्येषु तस्यैव महिमा दरीदृश्यते ॥७॥ निरुक्तकार ऋचमिमाम् आदित्यपक्षे आत्मपक्षे५ च व्याख्यातवान्—“अत्यक्रमीत् समुद्र आदित्यः परमे व्यवने वर्षकर्मणा जनयन् प्रजा भुवनस्य राजा सर्वस्य राजा। वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुरित्यधिदैवतम्। अथाध्यात्मम्—अत्यक्रमीत् समुद्र आत्मा परमे व्यवने ज्ञानकर्मणा जनयन् प्रजा भुवनस्य राजा सर्वस्य राजा। वृषा पवित्रे अधिसानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुरित्यात्मगतिमाचष्टे” (निरु० १४।१६) इति ॥ अत्र पर्जन्यपरमेश्वरयोर्द्वयोरर्थयोर्वर्णनाच्छ्लेषोऽलङ्कारः। द्वयोश्चोपमानोपमेयभावो ध्वन्यते ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथाऽगाधजलराशिर्मेघोऽन्तरिक्षं व्याप्नोति तथा परमेश्वरः सकलं ब्रह्माण्डं व्याप्नोति। यथा मेघो वर्षित्वा वृक्षवनस्पतीन् जनयति तथा परमेश्वरो जडचेतनान् सर्वान् पदार्थान् जनयति। यथा मेघो भूतलस्य रक्षकस्तथा परमेश्वरः सर्वेषां भुवनानां रक्षकः। यथा मेघः पर्वतानां सानुषु विस्तारमाप्नोति तथा परमेश्वरो जनानामात्मसु ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।४० ‘गोपाः’, ‘स्वानो अद्रिः’ अत्र क्रमेण ‘राजा’, ‘सुवान इन्दुः’ इति पाठः। साम० १२५३। २. अक्रान् सर्वमतिक्रामति। क्रमतेर्लुङि, तिपि, इडभावे वृद्धौ च कृतायां सिज्लोपे भकारस्य ‘मो नो धातो’ रिति नकारे रूपम्—इति सा०। ३. नौ। ऋक्तन्त्रप्रातिशाख्यम् १०।१०। नौ शब्दश्च ह्रस्वे अकारे प्रत्यये ओ भवति। सानौ अव्ये—‘वृषा पवित्रे अधि सानो अव्ये’। अकार इति किम् ? अश्विनौ ऋषिः—‘स्तोता वामश्विनावृषिः’। इति विवरणम्। ४. पदपाठे ‘अ-द्रि’ इति च्छेदात् नञ्पूर्वो दृ विदारणे धातुरत्र बोध्यः। न दीर्यते दार्यते वा केनचिद् यः सोऽद्रिः। ५. विवरणकारोऽपि आदित्यपक्षे आत्मपक्षे च व्याचष्टे—“अतीत्य गच्छत्युदयादस्तं सदा समुद्रः आदित्यः…अद्रिः आदित्य आदरणः।… समुद्रः आत्मा अभिद्रवन्ते तं भूतानि” इत्यादि।
43_0529 अक्रान्त्समुद्रः प्रथमे - 01 ...{Loading}...
लिखितम्
५२९-१। वैयश्वम्॥ व्यश्वस्त्रिष्टुप्सूर्यः॥
हो꣡। होइ। अक्रा꣢꣯न्त्समुद्रᳲ꣡प्र꣢थमे꣡꣯विध꣢। मा꣡न्॥ हो। होइ। ज꣢न꣡यन्प्र꣢जा꣡꣯भुवन꣢स्यगो꣯। पाः꣡॥ हो। होइ। वृषा꣢꣯पवि꣡त्रे꣢꣯अ꣡धि꣢सा꣡꣯नो꣰꣯ऽ२अ꣡। व्याइ॥ हो। हो। बृ꣢ह꣡त्सो꣯मो꣰꣯ऽ२वा꣯वृधे꣯स्वा꣯नो꣡꣯अ। द्रा। औ꣢ऽ᳐३हो꣯वा꣯हा꣢उवाऽ३॥ ए꣢ऽ᳐३। स्वा꣢꣯नो꣡꣯अ। द्रीऽ२३꣡४꣡५ः꣡॥ दी-१८। प-२०। मा-१२॥ ११ (णा) १०३०॥
योनि-प्रस्तुतिः ...{Loading}...
क꣡नि꣢क्रन्ति꣣ ह꣢रि꣣रा꣢ सृ꣣ज्य꣡मा꣢नः꣣ सी꣢द꣣न्व꣡न꣢स्य ज꣣ठ꣡रे꣢ पुना꣣नः꣢। नृ꣡भि꣢र्य꣣तः꣡ कृ꣢णुते नि꣣र्णि꣢जं꣣ गा꣡मतो꣢꣯ म꣣तिं꣡ ज꣢नयत स्व꣣धा꣡भिः꣢ ॥ 44:0530 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः ।
नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
क꣡नि꣢꣯क्रन्ति। ह꣡रिः꣢꣯। आ। सृ꣣ज्य꣡मा꣢नः। सी꣡द꣢꣯न्। व꣡न꣢꣯स्य। ज꣣ठ꣡रे꣢। पु꣣नानः꣢। नृ꣡भिः꣢। य꣣तः꣢। कृ꣣णुते। निर्णि꣡ज꣢म्। निः꣣। नि꣡ज꣢꣯म्। गाम्। अ꣡तः꣢꣯। म꣣ति꣢म्। ज꣣नयत। स्वधा꣡भिः꣢। स्व꣣। धा꣡भिः꣢꣯। ५३०।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- प्रस्कण्वः काण्वः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में हरि नाम से सोम ओषधि और परमात्मा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—सोम ओषधि के पक्ष में। (हरिः) हरे रंग का सोम (आ सृज्यमानः) द्रोणकलश में छोड़ा जाता हुआ (कनिक्रन्ति) शब्द करता है। (वनस्य) जंगल के (जठरे) मध्य में (सीदन्) स्थित वह (पुनानः) वायुमण्डल को पवित्र करता है। (नृभिः) यज्ञ के नेता ऋत्विजों से (यतः) पकड़ा हुआ वह सोम (गाम्) गोदुग्ध को (निर्णिजम्) अपने संयोग से पुष्ट (कृणुते) करता है। (अतः) इस कारण, हे यजमानो ! तुम (स्वधाभिः) हविरूप अन्नों के साथ, सोमयाग के प्रति (मतिम्) बुद्धि (जनयत) उत्पन्न करो, अर्थात् सोमयाग के निष्पादन में रुचि लो ॥ द्वितीय—परमात्मा के पक्ष में। (हरिः) पापहारी परमेश्वर (आसृज्यमानः) मनुष्य के जीवात्मा के साथ संयुक्त होता हुआ (कनिक्रन्ति) कर्तव्याकर्तव्य का उपदेश करता है। (वनस्य) चाहनेयोग्य अपने मित्र उपासक मनुष्य के (जठरे) हृदय के अन्दर (सीदन्) बैठा हुआ वह (पुनानः) पवित्रता देता रहता है। (नृभिः) उपासक जनों से (यतः) हृदय में नियत किया हुआ वह (गाम्) इन्द्रिय-समूह को (निर्णिजम्) शुद्ध (कृणुते) करता है। (अतः) इस कारण, हे मनुष्यो ! तुम (स्वधाभिः) आत्मसमर्पणों के साथ, उस परमेश्वर के प्रति (मतिम्) स्तुति (जनयत) प्रकट करो ॥८॥ इस मन्त्र में श्लेषालङ्कार है। उपमानोपमेयभाव गम्य है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे द्रोणकलश में पड़ता हुआ सोम टप-टप शब्द करता है, वैसे ही मनुष्यों के आत्मा में उपस्थित परमेश्वर कर्तव्य का उपदेश करता है। जैसे गोदूध से मिलकर सोम उस दूध को पुष्ट करता है, वैसे हृदय में निगृहीत किया परमेश्वर इन्द्रियों को पुष्ट और निर्मल करता है। अतः परमेश्वर के प्रति सबको स्तुतिगीत गाने चाहिएँ ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ हरिनाम्ना सोमौषधिं परमात्मानं च वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—सोमौषधिपरः। (हरिः) हरितवर्णः सोमः। हरिः सोमो हरितवर्णः इति निरुक्तम्। ४।१९। (आसृज्यमानः) द्रोणकलशे विसृज्यमानः (कनिक्रन्ति२) शब्दायते। (वनस्य) अरण्यस्य (जठरे) मध्ये (सीदन्) तिष्ठन् सः (पुनानः) वायुमण्डलं पवित्रं कुर्वन् भवति। (नृभिः) यज्ञस्य नेतृभिः ऋत्विग्भिः (यतः) नियन्त्रितः स सोमः। यम उपरमे, निष्ठायां रूपम्। (गाम्) गव्यं पयः। अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति। ‘गोभिः श्रीणीत मत्सरम्’ इति पयसः, इति निरुक्तम् २।५। (निर्णिजम्) स्वसंयोगेन पुष्टम् णिजिर् शौचपोषणयोः। (कृणुते) करोति। (अतः) अस्मात् कारणात् हे यजमानाः ! यूयम् (स्वधाभिः) हविर्लक्षणैः अन्नैः सह, सोमयागं प्रति (मतिम्) बुद्धिम् (जनयत) कुरुत, सोमयज्ञनिष्पादने रुचिं कुरुतेत्यर्थः ॥ अथ द्वितीयः—परमात्मपरः। (हरिः) पापहरणशीलः परमेश्वरः (आ सृज्यमानः) मनुष्यस्य जीवात्मना सह संसृज्यमानः सन् (कनिक्रन्ति) शब्दायते, कर्तव्यकर्माण्युपदिशतीति भावः। (वनस्य) कमनीयस्य स्वसुहृदो जनस्य। वनतिः कान्तिकर्मा। (जठरे) हृदभ्यन्तरे (सीदन्) उपविशन् सः (पुनानः) पवित्रतां कुर्वन् भवति। (नृभिः) उपासकैर्जनैः (यतः) हृदये निगृहीतः सन् (गाम्) इन्द्रियसमूहम् (निर्णिजम्) शुद्धं (कृणुते) करोति। (अतः) अस्मात् कारणात्, हे जनाः ! यूयम् (स्वधाभिः) स्वात्मसमर्पणैः सह, तं परमेश्वरं प्रति (मतिम्) स्तुतिम् (जनयत) प्रकटीकुरुत ॥८॥ अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च व्यज्यते ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा द्रोणकलशं प्रविशन् सोमः शब्दायते तथैव मनुष्यस्यात्मानमुपगतः परमेश्वरः कर्तव्यमुपदिशति। यथा गव्येन पयसा संसक्तः सोमस्तत् पयः पुष्टियुक्तं करोति तथा हृदये निगृहीतः परमेश्वरः इन्द्रियसमूहं पुष्टं निर्मलं च विधत्ते। अतः परमेश्वरं प्रति सर्वैः स्तुतिगीतानि गातव्यानि ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९५।१ ‘निर्णिजं गा अतो मतीर्जनयत’ इति पाठः। २. कृन्दतेर्यङ्लुकि तिपि इडभावे ‘दाधर्तिदर्धर्ती’त्यादिना निपातनादभ्यासस्य निगागमः। अभ्यस्तस्वरः—इति सा०।
44_0530 कनिक्रन्ति हरिरा - 01 ...{Loading}...
लिखितम्
५३०-१। सोम सामनी द्वे॥ द्वयोस्सोमस्त्रिष्टुप्सोमः॥
का꣤नी꣥॥ क्रा꣡न्तीऽ᳒२᳒क्रा꣡न्तीऽ᳒२᳒। हरिरा꣯सृज्य꣡माऽ२३ना꣢ऽ३ः॥ सा꣤इदा꣥न्। वा꣡नाऽ᳒२᳒वा꣡नाऽ᳒२᳒। स्यजठरे꣯पु꣡नाऽ२३ना꣢ऽ३ः॥ नॄ꣤भीः꣥। या꣡ताऽ᳒२᳒या꣡ताऽ᳒२ः᳒। कृणुते꣯निर्णि꣡जाऽ२३ङ्गा꣢ऽ३म्॥ आ꣤ताः꣥। मा꣡तीऽ᳒२᳒म्मा꣡तीऽ᳒२᳒म्। ज꣡नयताऽ२३। स्वा꣡ऽ२᳐धा꣣ऽ२३४औ꣥꣯हो꣯वा॥ भी꣣ऽ२३꣡४꣡५ः꣡॥
44_0530 कनिक्रन्ति हरिरा - 02 ...{Loading}...
लिखितम्
५३०-२।
क꣣नि꣤क्र꣥न्तिहा꣯। हो꣢इ। हरि꣣रा꣢꣯सृ꣣ज्य꣢᳐। मा꣣ऽ२३४नाः꣥॥ हा꣢꣯हो꣡इ। सी꣯दन्व नस्यजठरे꣯पु꣢ना꣡ऽ२३नाः꣢॥ हा꣯हो꣡इ। नृभिर्यतᳲकृणुते꣯निर्णि꣢जा꣡ऽ२३ङ्गा꣢म्॥ हा꣯हो꣡इ। अतो꣯मताइम्। ज꣪नयताऽ२३॥ स्वा꣡ऽ२᳐धा꣣ऽ२३४औ꣥꣯हो꣯वा॥ भी꣣ऽ २३꣡४꣡५ः꣡॥
योनि-प्रस्तुतिः ...{Loading}...
ए꣣ष꣢꣫ स्य ते꣣ म꣡धु꣢माꣳ इन्द्र꣣ सो꣢मो꣣ वृ꣢षा꣣ वृ꣢ष्णः꣣ प꣡रि꣢ प꣣वि꣡त्रे꣢ अक्षाः। स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ शश्वत्त꣣मं꣢ ब꣣र्हि꣢उा वा꣣꣬ज्य꣢꣯स्थात् ॥ 45:0531 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ए॒ष स्य ते॒ मधु॑माँ इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः ।
स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ए꣣षः꣢। स्यः। ते꣣। म꣡धु꣢꣯मान्। इ꣣न्द्र। सो꣡मः꣢꣯। वृ꣡षा꣢꣯। वृ꣡ष्णः꣢꣯। प꣡रि꣢꣯। प꣣वि꣡त्रे꣢। अ꣣क्षारि꣡ति꣢। स꣣हस्रदाः꣢। स꣣हस्र। दाः꣢। श꣣तदाः꣢। श꣣त। दाः꣢। भू꣣रिदा꣡वा꣢। भू꣣रि। दा꣡वा꣢꣯। श꣣श्वत्तम꣢म्। ब꣣र्हिः꣢। आ। वा꣣जी꣢। अ꣣स्थात्। ५३१।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- उशना काव्यः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा के आनन्दरस का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यवान् परमात्मन् ! (वृष्णः ते) तुझ वर्षक का (एषः) यह (स्यः) वह प्रसिद्ध, (वृषा) शक्तिवर्षक, (मधुमान्) मधुर (सोमः) आनन्दरस (पवित्रे) मेरे पवित्र हृदयरूप द्रोणकलश में (परि अक्षाः) झर रहा है। (सहस्रदाः) सहस्र गुणों का प्रदाता, (शतदाः) शत बलों का प्रदाता, (भूरिदावा) बहुत से लाभों को देनेवाला, (वाजी) वेगवान् आनन्दरस-रूप सोम (शश्वत्तमम्) सनातन (बर्हिः) आत्मा रूप दर्भपात्र में (आ अस्थात्) आकर स्थित हो गया है ॥९॥ इस मन्त्र में ‘तुझ वृषा का रस भी वृषा है’, इस प्रकार योग्य समागम की सूचना होने से समालङ्कार ध्वनित होता है। ‘वृषा, वृष्’ में छेकानुप्रास है। ‘दा’ की तीन बार आवृत्ति में वृत्त्यनुप्रास है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे मधुर रस से भरा सोम पवित्र द्रोणकलश में क्षरित होता है, वैसे ही परमेश्वर का मधुर आनन्दरस हृदय-रूप द्रोणकलश में झरता है। जैसे सोमरस बहुशक्तिप्रद होता है, वैसे ही आनन्दरस भी ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मन आनन्दरसं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (वृष्णः) वर्षकस्य (ते) तव (एषः) अयम् (स्यः) सः प्रख्यातः (वृषा) शक्तिवर्षकः, (मधुमान्) माधुर्योपेतः (सोमः) आनन्दरसः (पवित्रे) मदीये पावने हृदयरूपे द्रोणकलशे (परि अक्षाः) परिक्षरति। ‘अक्षाः’ इति क्षरतेर्लुङि तिपि रूपम्। (सहस्रदाः) सहस्रगुणानां प्रदाता, (शतदाः) शतबलानां प्रदाता। अत्र क्रमेण सहस्र-शतपूर्वाद् ददातेः कर्तरि क्विपि रूपम्। (भूरिदावा) बहुलाभप्रदः। भूर्युपपदाद् ददातेः ‘आतो मनिन् क्वनिब्वनिपश्च। अ० ३।२।७४’ इति वनिप्। (वाजी) वेगवान् सः आनन्दरसरूपः सोमः (शश्वत्तमम्) सनातनम् (बर्हिः) आत्मरूपं दर्भपात्रम् (आ अस्थात्) आतिष्ठति ॥९॥ अत्र वृष्णस्तव रसोऽपि वृषेति योग्यसमागमद्योतनाद् ‘वृषा वृष्णः’ इत्यत्र समालङ्कारो ध्वन्यते। ‘वृषा, वृष्’ इत्यत्र छेकानुप्रासः। ‘दा’ इत्यस्य त्रिश आवृत्तौ वृत्त्यनुप्रासः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा मधुररसभरितः सोमः पवित्रे द्रोणकलशे क्षरति तथा परमेश्वरस्य माधुर्योपेतं आनन्दरसो हृदयद्रोणे क्षरति। यथा सोमरसः बहुशक्तिप्रदो भवति तथैव आनन्दरसोऽपि ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।८७।४, ‘वृष्णः’, ‘सहस्रदाः, शतदा’ इत्यत्र क्रमेण ‘वृष्णे’ ‘सहस्रसाः, शतसा’ इति पाठः।
45_0531 एष स्य - 01 ...{Loading}...
लिखितम्
५३१-१। ऐषम्॥ इषस्त्रिष्टुबिन्द्रसोमौ॥
ए꣤षा꣥ए꣤षाः꣥॥ स्य꣣ता꣢ऽ᳐३१२३४इ। मधु꣥माꣳ꣯इन्द्रसो꣤꣯मः꣥। वृषा꣯वृषाऽ६ए। वृ꣣ष्णा꣢ऽ३१२३४ः। परि꣥पवि꣤त्रे꣥꣯अक्षाः꣯॥ सहसहाऽ६ए꣥। स्र꣣दा꣢ऽ᳐३१२३४ः। शत꣥दा꣤꣯ भू꣥꣯रिदा꣤꣯वा꣥꣯॥ शश्वच्छश्वाऽ६दे꣥। त꣣मा꣢ऽ३१२३४म्। बर्हिरा꣯वा꣥꣯जि꣤येऽ५। हियाऽ६ हा꣥उवा॥ स्था꣣ऽ२३꣡४꣡५꣡त्॥ दी-११। प-१४। मा-०॥ १४ (घी) १०३३॥
योनि-प्रस्तुतिः ...{Loading}...
प꣡व꣢स्व सोम꣣ म꣡धु꣢माꣳ ऋ꣣ता꣢वा꣣पो꣡ वसा꣢꣯नो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢। अ꣢व꣣ द्रो꣡णा꣢नि घृ꣣त꣡व꣢न्ति रोह म꣣दि꣡न्त꣢मो मत्स꣣र꣡ इ꣢न्द्र꣣पा꣡नः꣢ ॥ 46:0532 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
पव॑स्व सोम॒ मधु॑माँ(=मदकररसोपेतः) ऋ॒तावा(=यज्ञवान्)
+आ॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ ।
अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पानः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प꣡व꣢꣯स्व। सो꣣म। म꣡धु꣢꣯मान्। ऋ꣣ता꣡वा꣢। अ꣣पः꣢। व꣡सा꣢꣯नः। अ꣡धि꣢꣯। सा꣡नौ꣢꣯। अ꣡व्ये꣢꣯। अ꣡व꣢꣯। द्रो꣡णा꣢꣯नि। घृ꣣त꣡व꣢न्ति। रो꣣ह। मदि꣡न्त꣢मः। म꣣त्सरः꣢। इ꣣न्द्रपा꣡नः꣢। इ꣣न्द्र। पा꣡नः꣢꣯। ५३२।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- प्रतर्दनो दैवोदासिः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा-रूप सोम को कहा जा रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सोम) रसागार परमात्मन् ! (मधुमान्) मधुर आनन्द से युक्त, (ऋतावा) सत्यमय आप (पवस्व) हमारे प्रति झरो अथवा हमें पवित्र करो। (अपः) हमारे कर्मों को (वसानः) आच्छादित करते हुए आप (अव्ये) अविनाशी (सानौ) उन्नत आत्मा में (अधि) अधिरोहण करो। (मदिन्तमः) अतिशय आनन्दमय, (मत्सरः) आनन्दप्रद, (इन्द्रपानः) जीवात्मा से पान किये जाने योग्य आप (घृतवन्ति) तेजोमय (द्रोणानि) इन्द्रिय, मन, प्राण रूप द्रोणकलशों में (अवरोह) अवरोहण करो ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यहाँ श्लेष से सोम ओषधि के पक्ष में भी अर्थयोजना करनी चाहिए। परमात्मा सोम ओषधि के सदृश मधुर रस का भण्डार है। जैसे सोम ओषधि का रस जलों से मिलकर भेड़ के बालों से बने दशापवित्र में परिस्रुत होकर द्रोणकलशों में जाता है, वैसे ही परमात्मा हमारे कर्मों से संसृष्ट होकर आत्मा में परिस्रुत हो इन्द्रिय, मन, प्राण रूप द्रोणकलशों में अवरोहण करता है ॥१०॥ इस दशति में भी सोम परमात्मा तथा उससे अभिषुत आनन्दरस का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ षष्ठ प्रपाठक, प्रथम अर्ध में चतुर्थ दशति समाप्त ॥ पञ्चम अध्याय में षष्ठ खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मरूपं सोममाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सोम) रसागार परमात्मन् ! (मधुमान्) मधुमयानन्दरसोपेतः, (ऋतावा) सत्यवान् त्वम्। अत्र ऋतशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१०९ इति वनिप्। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति ऋताऽकारस्य दीर्घः। (पवस्व) अस्मान् प्रति परिस्रव, अस्मान् पुनीहि वा। (अपः) अस्माकं कर्माणि (वसानः) स्वात्मना आच्छादयन् (अव्ये) अव्यये अविनाशिनि (सानौ२) उन्नते आत्मनि (अधि) अधिरोह। (मदिन्तमः) अतिशयेन आनन्दमयः, (मत्सरः) आनन्दप्रदः, (इन्द्रपानः) इन्द्रेण जीवात्मना पातव्यः त्वम् (घृतवन्ति३) तेजोमयानि (द्रोणानि) इन्द्रियमनःप्राणरूपान् द्रोणकलशान् (अवरोह) अवाप्नुहि ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - श्लेषेण सोमौषधिपक्षेऽपि योजनीयम्। परमात्मा सोमौषधिवद् मधुररसागारो विद्यते। यथा सोमौषधिरसो जलैः संसृज्य अविबालमये पवित्रे परिस्रुतः सन् द्रोणकलशानवरोहति तथा परमात्मसोमोऽस्माकं कर्मभिः संसृज्यात्मरूपे पवित्रे परिस्रुत इन्द्रियमनःप्राणरूपान् द्रोणकलशानवरोहति ॥१०॥ अत्रापि सोमस्य परमात्मनः ततोऽभिषुतस्यानन्दरसस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम् ॥ इति षष्ठे प्रपाठके प्रथमार्धे चतुर्थी दशतिः ॥ इति पञ्चमेऽध्याये षष्ठः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९६।१३ ‘घृतवन्ति रोह’ इत्यत्र ‘घृतवान्ति सीद’ इति पाठः। २. ऋग्वेदिनः सामवेदिनश्चोभयेऽपि ‘सानो अव्ये’ इत्यस्य ‘सानौ अव्ये’ इति पदपाठमामनन्ति। द्रष्टव्या, ५२९ मन्त्रभाष्ये टिप्पणी। ३. घृतवन्ति उदकवन्ति—इति वि०। दीप्तिमन्ति—इति भ०।
46_0532 पवस्व सोम - 01 ...{Loading}...
लिखितम्
५३२-१। माधुच्छन्दसम्॥ मधुच्छन्दास्त्रिष्टुप्सोमः॥
हा꣢᳐ओ꣣ऽ२३४हा꣥इ। इ꣣हा꣢ऽ३१। प꣢व꣡स्वसो। मा꣢ऽ᳐३म꣡धु। मा꣢ ꣳ᳐ऋ꣣ता꣤वा꣥॥ अ꣢पो꣡꣯वसा। नो꣢ऽ᳐३अ꣡धि। सा꣢᳐नो꣣꣯अ꣤व्या꣥इ॥ अ꣢व꣡द्रो꣯णा। नी꣢ऽ᳐३घृ꣡त। व꣢न्ति꣣रो꣤हा꣥॥ हा꣢᳐ओ꣣ऽ२३४हा꣥इ। इ꣣हा꣢ऽ३१। म꣢दि꣡न्तमो। म꣢त्स꣡रः। आ꣢ऽ᳐३४३इ। द्रा꣢ऽ᳐३पा꣤ऽ५ ना"ऽ६५६ः॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ से꣢ना꣣नीः꣢꣫ शूरो꣣ अ꣢ग्रे꣣ र꣡था꣢नां ग꣣व्य꣡न्ने꣢ति꣣ ह꣡र्ष꣢ते अस्य꣣ से꣡ना꣢। भ꣣द्रा꣢न् कृ꣣ण्व꣡न्नि꣢न्द्रह꣣वा꣡न्त्सखि꣢꣯भ्य꣣ आ꣢꣫ सोमो꣣ व꣡स्त्रा꣢ रभ꣣सा꣡नि꣢ दत्ते ॥ 47:0533 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ ।
भ॒द्रान्कृ॒ण्वन्नि॑न्द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। से꣣नानीः꣢। से꣣ना। नीः꣢। शू꣡रः꣢꣯। अ꣢ग्रे꣣। र꣡था꣢꣯नाम्। ग꣣व्य꣢न्। ए꣣ति। ह꣡र्ष꣢꣯ते। अ꣣स्य। से꣡ना꣢꣯। भ꣣द्रा꣢न्। कृ꣣ण्व꣢न्। इ꣣न्द्रहवा꣢न्। इ꣣न्द्र। हवा꣢न्। स꣡खि꣢꣯भ्यः। स। खि꣣भ्यः। आ꣢। सो꣡मः꣢꣯। व꣡स्त्रा꣢꣯। र꣣भसा꣡नि꣢। द꣣त्ते। ५३३।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- प्रतर्दनो दैवोदासिः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में परमात्मा का सेनानी रूप में वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (सेनानीः) देवजनों का सेनापति (शूरः) शूरवीर सोम नामक परमेश्वर (गव्यन्) दिव्य प्रकाश-किरणों को प्राप्त कराना चाहता हुआ (रथानाम्) शरीररथारोही जीवात्मारूप योद्धाओं के (अग्रे) आगे-आगे (प्र एति) चलता है, इस कारण (अस्य) इसकी (सेना) देवसेना (हर्षते) प्रमुदित एवं उत्साहित होती है। (सखिभ्यः) अपने सखा उपासकों के लिए (इन्द्रहवान्) सेनापति के प्रति की गयी पुकारों को (भद्रान्) भद्र (कृण्वन्) करता हुआ, अर्थात् उपासकों की पुकारों को सफल करता हुआ (सोमः) वीररसपूर्ण परमेश्वर (रभसानि) बल, वेग आदियों को (वस्त्रा) वस्त्रों के समान (आदत्ते) ग्रहण करता है, अर्थात् जैसे कोई वस्त्रों को धारण करता है, वैसे ही वीर परमेश्वर अपने सेनापतित्व का निर्वाह करने के लिए बल, वेग आदि को धारण करता है ॥१॥ इस मन्त्र में वीररस है। सोम परमात्मा में सेनानीत्व का आरोप होने से रूपक अलङ्कार है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे कोई शूर सेनापति वीरोचित वस्त्रों को धारण कर रथारोही योद्धाओं के आगे-आगे चलता हुआ उन्हें प्रोत्साहित करता है और अपनी सेना को हर्षित करता है, वैसे ही परमेश्वर वीरोचित बल, वेग आदि को धारण करता हुआ मानसिक देवासुरसंग्राम में मानो सेनानी बनकर दुर्विचाररूप शत्रुओं का संहार करने के लिए और दिव्य विचारों को बढ़ाने के लिए देवजनों को समुत्साहित करता है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
तत्रादौ सोमं परमात्मानं सेनानीत्वेन वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (सेनानीः) देवजनानां सेनापतिः (शूरः) वीरः सोमः परमेश्वरः (गव्यन्) गाः दिव्यान् प्रकाशकिरणान् प्रापयितुमिच्छन्। अत्र छन्दसि परेच्छायां क्यच्। (रथानाम्) शरीररथारोहिणां जीवात्मरूपाणां योद्धॄणाम्। अत्र लक्षणया रथैः रथारोहिणो गृह्यन्ते। (अग्रे२) अग्रपदे (प्र एति) प्रकृष्टतया याति, अतः (अस्य) सोमस्य परमेश्वरस्य (सेना) देवसेना (हर्षते) मोदते, उत्सहते। (सखिभ्यः) सुहृद्भ्यः स्वोपासकेभ्यः (इन्द्रहवान्) रक्षां प्राप्तुम् इन्द्रं वीरं सेनापतिं राजानं वा उद्दिश्य ये हवाः यानि आह्वानानि क्रियन्ते ते इन्द्रहवा इत्युच्यन्ते तान् (भद्रान्) सुखजनकान् (कृण्वन्) कुर्वन् तेषामाह्वानानि सफलयन्नित्यर्थः (सोमः) वीररसपूर्णः परमेश्वरः (रभसानि) बलवेगादीनि (वस्त्रा) वस्त्राणि इव इति लुप्तोपमम्, (आदत्ते) गृह्णाति, यथा कश्चिच्छरीरे वस्त्राणि धारयति तथा वीरः परमेश्वरो नायकत्वं निर्वोढुं स्वात्मनि बलवेगादीनि धारयतीत्यर्थः ॥१॥ अत्र वीरो रसः। सोमे परमात्मनि सेनानीत्वारोपाद् रूपकालङ्कारः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा कश्चिच्छूरः सेनापतिर्वीरोचितानि वस्त्राणि धारयन् रथारोहिणां सुभटानामग्रे गच्छंस्तान् प्रोत्साहयति स्वकीयां सेनां च हर्षयति तथैव परमेश्वरोऽपि वीरोचितानि बलवेगादीनि धारयन् मानसे देवासुरसंग्रामे सेनानीरिव भूत्वा दुर्विचाररूपान् शत्रून् हन्तुं दिव्यविचारांश्च वर्धयितुं देवजनान् समुत्साहयति ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९६।१। २. संहितायां केषुचित् पुस्तकेषु अ꣢ग्ने꣣ इति पाठः, तत्र स्वरो न संगच्छते।
47_0533 प्र सेनानीः - 01 ...{Loading}...
लिखितम्
५३३-१। कुत्सस्याधिरथीयानि त्रीणि॥ त्रयाणां कुत्सस्त्रिष्टुप्सोमः॥
हो꣣ऽ४वा꣥। उ꣣हुवा꣢ऽ३। हो꣤वा꣥। प्र꣢से꣡꣯ना꣢꣯ना꣡इः। शू꣯रो꣯आ꣢ऽ᳐३। ग्रा꣢इ᳐र꣣था꣤ना꣥म्॥ ग꣢व्य꣡न्ने꣢꣯ता꣡इ। हर्षता꣢ऽ᳐३इ। अ꣢स्य꣣से꣤ना꣥॥ भ꣢द्रा꣡꣯न्कृ꣢ण्वा꣡न्। इन्द्रहा꣢ऽ᳐३। वा꣢᳐न्त्स꣣खि꣤भ्याः꣥॥ आ꣢꣯सो꣡꣯मो꣢꣯वा꣡। स्त्रा꣢ऽ३र꣡भ। सा꣢᳐नि꣣द꣤त्ता꣥इ। हो꣣ऽ४वा꣥। उ꣣हुवा꣢ ऽ᳐३। हो꣤वा꣥ऽ६॥ हा꣥उवा॥
47_0533 प्र सेनानीः - 02 ...{Loading}...
लिखितम्
५३३-२।
औ꣥꣯हो꣤ऽ३वा꣢ऽ३꣡४꣡५꣡। प्र꣢से꣡꣯ना꣢꣯ना꣡इः। शू꣯रो꣯आ꣢ऽ᳐३। ग्रा꣢इ᳐र꣣था꣤ना꣥म्॥ ग꣢व्य꣡ न्ने꣢꣯ता꣡इ। हर्षता꣢ऽ᳐३इ। अ꣢स्य꣣से꣤ना꣥॥ भ꣢द्रा꣡꣯न्कृ꣢ण्वा꣡न्। इन्द्रहा꣢ऽ᳐३। वा꣢᳐न्त्स꣣ खि꣤भ्याः꣥॥ औ꣯हो꣤ऽ३वा꣢ऽ३꣡४꣡५꣡। आ꣢꣯सो꣡꣯मो꣢꣯वा꣡। स्त्रा꣢ऽ᳐३र꣡भ। सा꣢ऽ᳐३४३। नी꣢ऽ᳐३ दा꣤ऽ५त्ता"ऽ६५६इ॥
47_0533 प्र सेनानीः - 03 ...{Loading}...
लिखितम्
५३३-३।
ओ꣥꣯हो꣤ऽ३वा꣢ऽ३꣡४꣡५꣡। प्र꣣से꣯ना꣢꣯ना꣡इः। शू꣯रो꣯आ꣢ऽ᳐३। ग्रा꣢इ᳐र꣣था꣤ना꣥म्॥ ग꣣व्य न्ने꣢꣯ता꣡इ। हर्षता꣢ऽ᳐३इ। अ꣢स्य꣣से꣤ना꣥॥ भ꣣द्रा꣯न्कृ꣢ण्वा꣡न्। इन्द्रहा꣢ऽ᳐३। वा꣢᳐न्त्स꣣ खि꣤भ्याः꣥॥ ओ꣯हो꣤ऽ३वा꣢ऽ३꣡४꣡५꣡। आ꣣꣯सो꣯मो꣢꣯वा꣡। स्त्रा꣢ऽ᳐३र꣡भ। सा꣢ऽ᳐३४३। नी꣢ऽ᳐३ दा꣤ऽ५॥ ता꣣ऽ२३꣡४꣡५꣡इ॥ दी-११। प-१६। मा-१०॥ १८ (कौ) १०३७॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृग्र꣣न्वा꣢रं꣣ य꣢त्पू꣣तो꣢ अ꣣त्ये꣡ष्यव्य꣢꣯म्। प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गो꣡नां꣢ ज꣣न꣢य꣣न्त्सू꣡र्य꣢मपिन्वो अ꣣र्कैः꣢ ॥ 48:0534 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् ।
पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। ते꣣। धा꣡राः꣢꣯। म꣡धु꣢꣯मतीः। अ꣣सृग्रन्। वा꣡र꣢꣯म्। यत्। पू꣣तः꣢। अ꣣त्ये꣡षि꣢। अ꣣ति। ए꣡षि꣢꣯। अ꣡व्य꣢꣯म्। प꣡व꣢꣯मान। प꣡व꣢꣯से। धा꣡म꣢꣯। गो꣡ना꣢꣯म्। ज꣣न꣡य꣢न्। सू꣡र्य꣢꣯म्। अ꣣पिन्वः। अर्कैः꣢। ५३४।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- पराशरः शाक्त्यः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पवमान सोम का कार्य वर्णित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे सोम ! हे रसमय परमात्मन् ! (ते) तेरी (मधुमतीः) मधुर (धाराः) धाराएँ (प्र असृग्रन्) प्रवाहित होती हैं, (यत्) जब (पूतः) पवित्र तू (अव्यम्) पार्थिव अर्थात् अन्नमय (वारम्) कोश को (अत्येषि) अतिक्रान्त करता है अर्थात् अन्नमयकोश को पार कर क्रमशः प्राणमय, मनोमय तथा विज्ञानमयकोश को भी पार करता हुआ जब तू आनन्दमयकोश में अधिष्ठित हो जाता है तब तेरी मधुर आनन्दधाराएँ शरीर, प्राण, मन और आत्मा में प्रवाहित होने लगती हैं। हे (पवमान) पवित्रकारी जगदीश्वर ! तू (गोनाम्) पृथिव्यादि लोकों के तुल्य इन्द्रिय, प्राण, मन, बुद्धि, आत्मा के (धाम) धाम को (पवसे) पवित्र करता है और (सूर्यम्) आकाशवर्ती सूर्य के समान अध्यात्मप्रकाश के सूर्य को (जनयन्) उत्पन्न करता हुआ, उसकी (अर्कैः) किरणों से (अपिन्वः) उपासक के आत्मा को सींचता है, अर्थात् उपासक के आत्मा को अध्यात्मसूर्य की किरणों से अतिशय भरकर शान्ति प्रदान करता है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे सोमरस जब भेड़ों के बालों से निर्मित दशापवित्र में से पार होता है तब उसकी मधुर धाराएँ द्रोणकलश की ओर बहती हैं, वैसे ही जब परमेश्वर अन्नमय आदि कोशों को पार कर आनन्दमयकोश में अधिष्ठित हो जाता है, तब उसकी मधुर आनन्दधाराएँ शरीर, प्राण, मन, बुद्धि और आत्मा के धामों को आप्लावित कर देती हैं ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पवमानस्य सोमस्य कृत्यं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे सोम ! रसमय परमात्मन् ! (ते) तव (मधुमतीः) मधुराः (धाराः) प्रवाहसन्ततयः (प्र असृग्रन्) प्रसृष्टाः भवन्ति। अत्र सृज विसर्गे धातोर्लडर्थे लङि ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः वर्णव्यत्ययेन जकारस्थाने गकारश्च। (यत्) यदा (पूतः) पवित्रः त्वम् (अव्यम्) पार्थिवम्, अन्नमयमित्यर्थः। इयं पृथिवी वा अविः। श० ६।१।२।३३। (वारम्) कोशम्। वारयति आवृणोतीति वारः कोशः, वृञ् आवरणे चुरादिः। (अत्येषि) अतिक्रामसि, अन्नमयकोशमतिक्रम्य क्रमेण प्राणमयं, मनोमयं, विज्ञानमयम् चापि कोशमतिक्राम्यन् आनन्दमयं कोशं यदाधितिष्ठसि, तदा ते मधुरा आनन्दधाराः शरीरे, प्राणे, मनसि, आत्मनि च प्रवहन्तीत्यर्थः। हे (पवमान) पावित्र्यसम्पादक जगदीश्वर ! त्वम् (गोनाम्) गवां पृथिव्यादिलोकानामिव इन्द्रियप्राणमनोबुद्ध्यात्मनाम् (धाम) स्थानम् (पवसे) पुनासि। पूङ् पवने, भ्वादिः। किञ्च (सूर्यम्२) गगनवर्तिनम् आदित्यमिव अध्यात्मप्रकाशस्य सूर्यम् (जनयन्) उत्पादयन्, तस्य (अर्कैः) किरणैः। सूर्यवाचकाः शब्दाः बहुवचने प्रयुक्ताः किरणार्थं गमयन्ति। (अपिन्वः) उपासकस्य आत्मानं सिञ्चसि। पिवि सेचने, लडर्थे लङ्। अत्र किरणैः सेचनासंभवात् पूरणार्थो लक्ष्यते, शान्तिप्रदत्वं च व्यङ्ग्यम्, उपासकस्यात्मानमध्यात्मसूर्यस्य किरणैर्निरतिशयं प्रपूर्य शान्तिं प्रयच्छसीत्यर्थः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा यदा सोमरसः अविबालमयं दशापवित्रम् अतिक्रामति तदा तस्य मधुरा धारा द्रोणकलशं प्रति प्रवहन्ति, तथैव यदा परमेश्वरोऽन्नमयादिकोशानतिक्रम्यानन्दमयकोशमधितिष्ठति तदा तस्य मधुरा आनन्दधाराः शरीरस्य प्राणमनोबुद्ध्यात्मधामान्याप्लावयन्ति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।३१ ‘वारान् यत्पूतो अत्येष्यव्यान्’ इति ‘जज्ञानः सूर्यमपिन्वो अर्कैः’ इति च पाठः। २. यद्यप्यस्य मन्त्रस्य सोमौषधिपरोऽप्यर्थः संभवति, तथापि मन्त्रेषु यत्र तत्र कानिचिदेवंविधानि पदानि वाक्यांशा वाक्यानि वा समागच्छन्ति यानि सूचयन्ति यन्मन्त्रः स्थूलार्थ एव न पर्यवस्यति। यथाप्रस्तुते मन्त्रे ‘जनयन् सूर्यम्’ इति वाक्यांशः परमात्मपरमर्थं सङ्केतयति, यत ओषध्यात्मके सोमे सूर्यजननसामर्थ्यं नास्ति। सायणस्तु ‘जनयन् जायमानः’ इत्यसंभाविनमर्थमाविष्करोति, परं तथा कृतेऽप्यसंगतिस्तदवस्थैव, यतः ‘जनयन् जायमानस्त्वम् अर्कैः स्वतेजोभिः सूर्यम् आदित्यम् अपिन्वः पूरयसि’ इति तदीयोऽप्यर्थः सोमौषधिपक्षे न संगच्छते।
48_0534 प्र ते - 01 ...{Loading}...
लिखितम्
५३४-१। वैश्वज्योतिषाणि त्रीणि॥ त्रयाणां विश्वज्योतिस्त्रिष्टुप्सूर्यः॥
हा꣢꣯उहो꣯वाऽ३᳐हा꣢इ। प्रते꣯धा꣯रा꣯मधुमऽ३ता꣡इर꣪सृग्राऽ२३꣡४꣡५꣡न्॥ हा꣢꣯उहो꣯वा ऽ᳐३हा꣢इ। वा꣯रंयत्पू꣯तो꣯अतिऽ३या꣡इषि꣪आव्याऽ२३꣡४꣡५꣡म्॥ हा꣢꣯उहो꣯वाऽ᳐३हा꣢इ। पवमा꣯नपवसे꣯ऽ३धा꣡म꣪गोनाऽ२३꣡४꣡५꣡म्॥ हा꣢꣯उहो꣯वाऽ᳐३हा꣢इ। जनयन्त्सू꣯र्यमऽ३ पा꣡इन्वो꣪अर्काऽ२३꣡४꣡५꣡इः। हा꣢꣯उहो꣯वाऽ᳐३हा꣢उ। वाऽ३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ गा꣢यता꣣꣬भ्य꣢꣯र्चाम दे꣣वा꣡न्त्सोम꣢꣯ꣳ हिनोत मह꣣ते꣡ धना꣢꣯य। स्वा꣣दुः꣡ प꣢वता꣣मति꣣ वा꣢र꣣म꣢व्य꣣मा꣡ सी꣢दतु क꣣ल꣡शं꣢ दे꣣व꣡ इन्दुः꣢꣯ ॥ 49:0535 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्सोमं॑ हिनोत मह॒ते धना॑य ।
स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। गा꣣यता। अभि꣢। अ꣣र्चाम। देवा꣢न्। सो꣡म꣢꣯म्। हि꣣नोत। महते꣢। ध꣡ना꣢꣯य। स्वा꣣दुः꣢। प꣣वताम्। अ꣡ति꣢꣯। वा꣡र꣢꣯म्। अ꣡व्य꣢꣯म्। आ। सी꣣दतु। कल꣡श꣢म्। दे꣣वः꣢। इ꣡न्दुः꣢꣯। ५३५।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- इन्द्रप्रमतिर्वासिष्ठः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम के प्रति मनुष्यों को प्रेरित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—सोम ओषधि के पक्ष में। हे साथियो ! तुम (प्र गायत) वेदमन्त्रों का गान करो। हम (देवान्) यज्ञ में आये हुए विद्वानों को (अभ्यर्चाम) सत्कृत करें। तुम (महते) महान् (धनाय) यज्ञफल-रूप धन के लिए (सोमम्) सोम ओषधि के रस को (हिनोत) प्रेरित करो। (स्वादुः) स्वादु सोमरस (अव्यम्) भेड़ के बालों से बने हुए (वारम्) दशापवित्र में से (अति पवताम्) छनकर पार हो। (देवः) द्युतिमान्, वह (इन्दुः) सोमरस (कलशम्) द्रोणकलश में (आ सीदतु) आकर स्थित हो ॥ द्वितीय—परमात्मा के पक्ष में। हे उपासको ! तुम (प्र गायत) रसागार सोम परमात्मा को लक्ष्य करके गीत गाओ। तुम और हम मिलकर हृदय में आये हुए (देवान्) सत्य, अहिंसा आदि दिव्य गुणों को (अभ्यर्चाम) सत्कृत करें। तुम (महते) महान् (धनाय) दिव्य-धन की प्राप्ति के लिए (सोमम्) रसागार परमेश्वर को (हिनोत) अपने अन्तः- करण में प्रेरित करो। (स्वादुः) मधुर रसवाला वह परमेश्वर (अव्यं वारम्) पार्थिव अन्नमय कोश को (अति) पार करके (पवताम्) प्राणमय, मनोमय, विज्ञानमय, आनन्दमय कोशों में प्रवाहित हो। (देवः) दानादिगुणविशिष्ट वह (इन्दुः) रस से आर्द्र करनेवाला परमेश्वर (कलशम्) सोलह कलाओं से युक्त आत्मा को (आ सीदतु) प्राप्त हो ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे यजमान लोग सोमलता को यज्ञिय सिल-बट्टों पर पीसकर, रस को दशापवित्रों से छानकर, मधुर सोमरस को द्रोणकलशों में भरते हैं, उसी प्रकार परमात्मा के आराधक लोग मधुर ब्रह्मानन्द-रस को आत्मा-रूप कलश में प्रविष्ट करायें ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमं प्रति जनान् प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—सोमौषधिपरः। हे सखायः ! यूयम् (प्र गायत) वेदमन्त्रान् प्रकर्षेण गायत। वयम् (देवान्) यज्ञे समागतान् विदुषः (अभ्यर्चाम) सत्कुर्याम। यूयम् (महते) विपुलाय (धनाय) ऐश्वर्याय, यज्ञेन प्राप्तव्याय फलायेत्यर्थः (सोमम्) सोमरसम् (हिनोत) प्रेरयत। (स्वादुः) मधुरः सोमः (अव्यम्) अविजनितम् (वारम्) बालमयं दशापवित्रम् (अति पवताम्) अतिक्रम्य क्षरतु। (देवः) द्योतमानः सः (इन्दुः) सोमरसः (कलशम्) द्रोणकलशम् (आ सीदतु) आ तिष्ठतु ॥ अथ द्वितीयः—परमात्मपरः। हे उपासकाः ! यूयम् (प्र गायत) रसागारं सोमनामकं परमेश्वरमुद्दिश्य गीतानि प्रकर्षेण गायत। यूयं वयं च संभूय हृदि समागतान् (देवान्) सत्याहिंसादीन् दिव्यगुणान् (अभ्यर्चाम) सत्कुर्याम। यूयम् (महते) विपुलाय (धनाय) दिव्यैश्वर्यस्य प्राप्तये (सोमम्) रसागारं परमेश्वरम् (हिनोत) स्वान्तःकरणे प्रेरयत। (स्वादुः) मधुररसः स परमेश्वरः (अव्यं वारम्) पार्थिवम् अन्नमयकोशम् (अति) अतिक्रम्य (पवताम्) प्राणमयमनोमयविज्ञानमयानन्दमयकोशेषु प्रवहतु। (देवः) दानादिगुणविशिष्टः सः (इन्दुः) आनन्दरसेनार्द्रीकर्ता परमेश्वरः। इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१। (कलशम्) षोडशकलम् आत्मानम्। कलशः कस्मात् ? कला अस्मिन् शेरते मात्राः इति निरुक्तम्। ११।१२। (आ सीदतु) प्राप्नोतु ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा यजमानैः सोमलतां ग्रावसु सम्पिष्य रसं दशापवित्रैः क्षारयित्वा मधुरः सोमरसो द्रोणकलशे निवेश्यते तथैव परमात्माराधकैर्मधुरो ब्रह्मानन्दरस आत्मरूपे कलशे प्रवेशनीयः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।४ ‘स्वादुः पवाते अति वारमव्यया सीदाति कलशं देवयुर्नः’ इति पाठः।
49_0535 प्र गायताभ्यर्चाम - 01 ...{Loading}...
लिखितम्
५३५-१। अस्य देवा देवता॥
प्र꣢गा꣡꣯यता। अ꣢भि꣡य। चा꣢᳐म꣣दे꣤वा꣥न्॥ सो꣢꣯मꣳ꣡हिनो। ता꣢ऽ᳐३म꣡ह। ते꣢᳐ध꣣ना꣤या꣥॥ स्वा꣢꣯दुᳲ꣡पवा। ता꣢ऽ᳐३म꣡ति। वा꣢᳐र꣣म꣤व्या꣥म्॥ आ꣢꣯सी꣡꣯दतू। क꣢ल꣡शम्। दा꣢ऽ᳐३४३इ। वा꣢ऽ᳐३आ꣤ऽ५इन्दू"ऽ६५६ः॥ दी-५। प-१३। मा-७॥ २० (बे) १०३९॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ हि꣢न्वा꣣नो꣡ ज꣢नि꣣ता꣡ रोद꣢꣯स्यो꣣ र꣢थो꣣ न꣡ वाज꣢꣯ꣳ सनि꣣ष꣡न्न꣢यासीत्। इ꣢न्द्रं꣣ ग꣢च्छ꣣न्ना꣡यु꣢धा स꣣ꣳशि꣡शा꣢नो꣣ वि꣢श्वा꣣ व꣢सु꣣ ह꣡स्त꣢योरा꣣द꣡धा꣢नः॥ 50:0536 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् ।
इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। हि꣣न्वानः꣢। ज꣣निता꣢। रो꣡द꣢꣯स्योः। र꣡थः꣢꣯। न। वा꣡ज꣢꣯म्। स꣣निष꣢न्। अ꣣यासीत्। इ꣡न्द्र꣢꣯म्। ग꣡च्छ꣢꣯न्। आ꣡यु꣢꣯धा। सँ꣣शि꣡शा꣢नः। स꣣म्। शि꣡शा꣢꣯नः। वि꣡श्वा꣢꣯। व꣡सु꣢꣯। ह꣡स्त꣢꣯योः। आ꣣द꣡धा꣢नः। आ꣣। द꣡धा꣢꣯नः। ५३६।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (रोदस्योः) द्यावापृथिवी का (जनिता) उत्पादक और (हिन्वानः) द्यावापृथिवी को गति देता हुआ सर्वप्रेरक सोम परमात्मा (वाजम्) आत्मबल को (सनिषन्) देना चाहता हुआ (प्र अयासीत्) प्रवृत्त होता है, (रथः न) जैसे रथ, मानो (वाजम्) अन्न को (सनिषन्) देने के लिए (प्र अयासीत्) चलता है। वह (इन्द्रम्) जीवात्मा के प्रति (गच्छन्) जाता हुआ, उसके (आयुधा) हथियारों को अर्थात् शम, दम आदि शत्रुपराजय के साधनों को (सं शिशानः) भली-भाँति तीक्ष्ण करता हुआ (विश्वा वसु) सब आध्यात्मिक ऐश्वर्यों को (हस्तयोः) उसके हाथों में (आदधानः) थमा देता है ॥४॥ इस मन्त्र में ‘रथो न वाजम्’ आदि में श्लिष्टोपमालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - रथ जैसे प्रचुर अन्नादि की प्राप्ति का साधन बनता है, वैसे ही परमात्मा जीवात्मा के लिए प्रचुर बल, वेग आदि की प्राप्ति का साधन बनता है ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमं परमात्मानं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (रोदस्योः२) द्यावापृथिव्योः (जनिता) जनयिता। जनयिता इति प्राप्ते ‘जनिता मन्त्रे’ अ० ६।४।५३ इति निपातनम्। (हिन्वानः) द्यावापृथिव्यौ गमयंश्च सोमः सर्वेषां प्रेरकः परमेश्वरः। हि गतौ वृद्धौ च, शानच्। (वाजम्) आत्मबलम् (सनिषन्) दातुमिच्छन्। षणु दाने सनि शतरि सिषनिषन् इति प्राप्ते द्वित्वाभावश्छान्दसः। (प्र अयासीत्) प्र याति, प्रवर्तते इत्यर्थः। या प्रापणे धातोः सामान्यार्थे लुङ्। (रथः न) रथो यथा (वाजम्) अन्नम् (सनिषन्) प्रदास्यन् (प्र अयासीत्) प्र याति। किञ्च (इन्द्रम्) जीवात्मानम् (गच्छन्) व्रजन्, तस्य (आयुधा) आयुधानि शत्रुपराजयसाधनानि शमदमादीनि (सं शिशानः) सम्यक् तीक्ष्णीकुर्वन्, (विश्वा वसु) विश्वानि वसूनि आध्यात्मिकानि ऐश्वर्याणि (हस्तयोः) तस्य पाण्योः (आदधानः) धारयन्, भवतीति शेषः ॥४॥ अत्र ‘रथो न वाजम्’ इत्यादौ श्लिष्टोपमालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - रथो यथा प्रचुरान्नादिप्राप्तिसाधनं भवति तथा परमेश्वरो जीवात्मने विपुलबलवेगादिप्राप्तिसाधनं जायते ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९०।१ ‘सनिषन्’ इत्यत्र ‘सनिष्यन्’ इति पाठः। २. यथा प्रस्तुताया दशतेर्द्वितीये मन्त्रे ‘जनयन्त्सूर्यम्’ इति वाक्यांशो मन्त्रस्य परमात्मपरत्वं सङ्केतयति तथैवात्र ‘जनिता रोदस्योः’ इति वाक्यांशोऽपि सूचयति यदेते सोमदेवताका मन्त्राः सोमौषध्यामेव न पर्यवस्यन्तीति।
50_0536 प्र हिन्वानो - 01 ...{Loading}...
लिखितम्
५३६-१। इन्द्रोऽस्य देवता॥
हा꣢꣯उहो꣯वाऽ३हा꣢इ। प्रहिन्वा꣯नो꣯जनिता꣯रोऽ३४३द꣢सी꣣꣯योः꣥꣯॥ हा꣢꣯उहो꣯वाऽ३ हा꣢इ। रथो꣯नवा꣯जꣳसनिषाऽ३४३न꣢या꣣꣯सी꣥꣯त्॥ हा꣢꣯उहो꣯वाऽ३हा꣢इ। इन्द्रङ्गच्छ न्ना꣯युधा꣯साऽ३४३ꣳशि꣢शा꣣꣯नः꣥॥ हा꣢꣯उहो꣯वाऽ३हा꣢इ। विश्वा꣯वसुहस्तयो꣯राऽ३४३ द꣢धा꣣꣯नः꣥। द꣤धाऽ५नाउ॥ वा॥ दी-२३। प-१०। मा-१३॥ २१ (णि) १०४०॥
योनि-प्रस्तुतिः ...{Loading}...
त꣢क्ष꣣द्य꣢दी꣣ म꣡न꣢सो꣣ वे꣡न꣢तो꣣ वा꣡ग्ज्येष्ठ꣢꣯स्य꣣ ध꣡र्मं꣢ द्यु꣣क्षो꣡रनी꣢꣯के। आ꣡दी꣢माय꣣न्व꣢र꣣मा꣡ वा꣢वशा꣣ना꣢꣫ जुष्टं꣣ प꣡तिं꣢ क꣣ल꣢शे꣣ गा꣢व꣣ इ꣡न्दु꣢म् ॥ 51:0537 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के ।
आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इन्दु॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त꣡क्ष꣢꣯त्। य꣡दि꣢꣯। म꣡न꣢꣯सः। वे꣡न꣢꣯तः। वाक्। ज्ये꣡ष्ठ꣢꣯स्य। ध꣡र्म꣢꣯न्। द्यु꣣क्षोः꣢। द्यु꣣। क्षोः꣢। अ꣡नी꣢꣯के। आत्। ई꣣म्। आयन्। व꣡र꣢꣯म्। आ। वा꣣वशानाः꣢। जु꣡ष्ट꣢꣯म्। प꣡ति꣢꣯म्। क꣣ल꣡शे꣢। गा꣡वः꣢꣯। इ꣡न्दु꣢꣯म्। ५३७।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- कर्णश्रुद्वासिष्ठः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि कब स्तोताजन जीवात्मा को परमात्मा में ले जाते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यदि) जब (वेनतः) कामना करनेवाले अर्थात् संकल्पवान् (मनसः) मन की (वाक्) संकल्परूप वाणी, स्तोता को (ज्येष्ठस्य) सबसे महान् परमात्मा के (धर्मन्) धर्म में अर्थात् गुण-समूह में, और (द्युक्षोः) दीप्ति के निवासक उस परमात्मा के (अनीके) समीप (तक्षत्) करती है, (आत्) उसके अनन्तर ही (आ वावशानाः) अतिशय पुनः-पुनः प्रीति करते हुए (गावः) स्तोता जन (ईम्) इस (वरम्) वरणीय वा श्रेष्ठ, (जुष्टम्) प्रिय (पतिम्) शरीर के पालनकर्ता अथवा स्वामी (इन्दुम्) तेजोमय अथवा चन्द्रतुल्य जीवात्मा को (कलशे) सोलह कलाओं से युक्त परमात्मा रूप द्रोणकलश में (आयन्) पहुँचाते हैं ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मन का संकल्प सहायक होने पर जीवात्मा परमात्मा को प्राप्त कर सकता है ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कदा स्तोतारो जीवात्मानं परमात्मनि नयन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यदि) यदा। संहितायां ‘निपातस्य च। अ० ६।३।१३६’ इति दीर्घः। (वेनतः) कामयमानस्य, संकल्पवतः इत्यर्थः। वेनतिः कान्तिकर्मा। निघं० २।६। (मनसः) मननसाधनस्य मनोनामकस्य अन्तरिन्द्रियस्य (वाक्) संकल्पलक्षणा वाणी, स्तोतारम् (ज्येष्ठस्य) महत्तमस्य परमात्मनः (धर्मन्) धर्मणि गुणग्रामे इत्यर्थः। अत्र ‘सुपां सुलुक्० अ० ७।१।३९’ इति सप्तम्या लुक्। (द्युक्षोः) दीप्तिनिवासकस्य तस्य परमात्मनः। दिवं दीप्तिं क्षाययति निवासयतीति द्युक्षुः तस्य। क्षि निवासगत्योः। (अनीके) समीपे च (तक्षत्) करोति, स्थापयतीत्यर्थः। तक्षतिः करोतिकर्मा। निरु० ४।१९। तस्य लेटि रूपम्। (आत्) तदनन्तरम् एव (आ वावशानाः) समन्ततः अतिशयेन पुनः पुनः कामयमानाः। वष्टेः कान्तिकर्मणो यङ्लुगन्तस्य शानचि रूपम्। (गावः) स्तोतारः। गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६। (ईम्) एनम् (वरम्) वरणीयं श्रेष्ठं वा, (जुष्टम्) प्रियम्, (पतिम्) शरीरस्य पालकं स्वामिनं वा (इन्दुम्) दीप्तं चन्द्रतुल्यं वा जीवात्मानम्। इन्दुः इन्धेरुनत्तेर्वेति निरुक्तम् १०।४०। (कलशे) षोडशकले परमात्मरूपे द्रोणकलशे (आयन्) प्रापयन्ति। इण् गतौ धातोर्णिजर्थगर्भस्य लङि रूपम् ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनसः संकल्पे सहायके सत्येव जीवात्मा परमात्मानं प्राप्तुमर्हति ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।१२ ‘ज्येष्ठस्य वा धर्मणि क्षोरनीके’ इति पाठः।
51_0537 तक्षद्यदी मनसो - 01 ...{Loading}...
लिखितम्
५३७-१। वाचस्सामनी द्वे॥ द्वयोः वाक्त्रिष्टुप्वाक्सोमौ॥
त꣣क्ष꣤द्यदी꣥꣯। हो꣣ऽ२३꣡४꣡५꣡इ॥ म꣣न꣤सो꣯वे꣣꣯न꣤तः꣥। वा꣣ऽ२३꣡४꣡५꣡क्॥ ज्ये꣣꣯ष्ठ꣤ स्य꣥धा। हो꣣ऽ२३꣡४꣡५꣡॥ म꣤न्द्युक्षो꣣꣯र꣤नी꣥꣯। का꣣ऽ२३꣡४꣡५꣡इ॥ आ꣣꣯दी꣤꣯मा꣥꣯यन्। हो꣣ऽ २३꣡४꣡५꣡इ॥ व꣣र꣤मा꣣꣯वा꣤꣯व꣥शा꣯। ना꣣ऽ२३꣡४꣡५ः꣡॥ जु꣣ष्ट꣤म्पति꣥म्। हो꣣ऽ२३꣡४꣡५꣡इ॥ क꣤लशे꣯गाऽ५वः। इ। दाउ॥ वा॥
51_0537 तक्षद्यदी मनसो - 02 ...{Loading}...
लिखितम्
५३७-२।
त꣢क्ष꣡द्यदा꣢ऽ᳐३१२३४इ। म꣣न꣤सो꣯वे꣣꣯न꣤तः꣥। वा꣣ऽ२३꣡४꣡५꣡क्॥ ज्ये꣢꣯ष्ठ꣡स्यधा꣢ ऽ᳐३१२३४।
योनि-प्रस्तुतिः ...{Loading}...
सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः। ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥ 52:0538 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।
हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सा꣣कमु꣡क्षः꣢। सा꣣कम्। उ꣡क्षः꣢꣯। म꣣र्जयन्त। स्व꣡सा꣢꣯रः। द꣡श꣢꣯। धी꣡र꣢꣯स्य। धी꣣त꣡यः꣢। ध꣡नु꣢꣯त्रीः। ह꣡रिः꣢꣯। प꣡रि꣢꣯। अ꣣द्रवत्। जाः꣢। सू꣡र्य꣢꣯स्य। सु। ऊ꣣र्यस्य। द्रो꣡णं꣢꣯। न꣣नक्षे। अ꣡त्यः꣢꣯। न। वा꣣जी꣢। ५३८।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- नोधा गौतमः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णित है कि कब जीवात्मा परमात्मा को प्राप्त करता है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—सोम ओषधि के पक्ष में। (धीरस्य) बुद्धिमान् यजमान के (साकमुक्षः) साथ मिलकर सोमरस को निचोड़नेवाली, (धनुत्रीः) प्रेरक, (दश) दस (धीतयः) अंगुलियाँ जब सोमरस को (मर्जयन्ति) शुद्ध करती हैं, तब (सूर्यस्य) सूर्य का (जाः) पुत्र (हरिः) हरे रंग का सोमरस (पर्यद्रवत्) चारों ओर फैल जाता है। (न) जैसे (वाजी) वेगवान् (अत्यः) घोड़ा (द्रोणम्) लकड़ी से बने रथ को (ननक्षे) व्याप्त करता है अर्थात् रथ में नियुक्त होता है, वैसे ही सोमरस (द्रोणम्) द्रोणकलश में (ननक्षे) व्याप्त होता है ॥ द्वितीय—परमात्मा के पक्ष में। (धीरस्य) ध्यान में स्थित योगी की (साकमुक्षः) साथ मिलकर ज्ञानों और कर्मों से सींचनेवाली, (स्वसारः) बहिनों के समान परस्पर सहायता करनेवाली, (धनुत्रीः) प्रेरक (दश) दस (धीतयः) यम-नियम-भावनाएँ, जब (मर्जयन्त) आत्मा को शुद्ध करती हैं, तब (सूर्यस्य) परमात्मा का (जाः) पुत्र (हरिः) उन्नति के मार्ग पर जानेवाला आत्मा (पर्यद्रवत्) क्रियाशील हो जाता है, और (न) जैसे (वाजी) वेगवान् (अत्यः) घोड़ा (द्रोणम्) लकड़ी से बने रथ को (ननक्षे) प्राप्त करता है, अर्थात् उसमें जुड़ता है, वैसे ही वह आत्मा (द्रोणम्) क्रियाशील परमात्मा-रूप द्रोणकलश को (ननक्षे) प्राप्त कर लेता है ॥६॥ इस मन्त्र में श्लेषालङ्कार है। ‘द्रोणं ननक्षे अत्यो न वाजी’ में श्लिष्टोपमा है। सकार-धकार-नकार तथा रेफ की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अंगुलियों से परिशुद्ध सोमरस जैसे द्रोणकलश को प्राप्त करता है, वैसे ही यम-नियम की भावनाओं से परिशुद्ध हुआ जीवात्मा परमात्मा को प्राप्त करता है ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कदा जीवात्मा परमात्मानं प्राप्नोतीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—सोमौषधिपरः। (धीरस्य) धीमतो यागकर्तुः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति निश्च्योतयन्ति सोमरसं यास्ताः (स्वसारः) भगिन्यः, भगिनीवत् सह मिलिताः, (धनुत्रीः२) धनुत्र्यः प्रेरयित्र्यः। धिन्वन्ति प्रीणयन्ति यास्ताः। धिवि प्रीणने, जसि पूर्वसवर्णदीर्घः। (दश) दशसंख्यकाः (धीतयः) अङ्गुलयः। स्वसारः, धीतयः इत्युभयमपि अङ्गुलिनामसु पठितम्। निघं० २।५। यदा सोमम् (मर्जयन्त) शोधयन्ति। मृजू शौचालङ्कारयो चुरादिः। लडर्थे लङ्। अमार्जयन्त इति प्राप्ते अडागमाभावश्छान्दसः, वृद्धिस्थाने गुणश्च। तदा (सूर्यस्य) आदित्यस्य (जाः३) अपत्यम्। जाः इत्यपत्यनाम। निघं० २।२। (हरिः) हतिवर्णः सोमरसः। हरिः सोमो हरितवर्णः इति निरुक्तम् ४।१९। (पर्यद्रवत्) परितो विस्तीर्यते। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा। अत्यः, वाजी इत्युभयमपि अश्वनामसु पठितम्। निघं० १।१४। अत्र वाजी इति अत्यः इत्यस्य विशेषणत्वेन प्रयुक्तः सन् योगार्थं प्रयच्छति। यः अतति सततं व्याप्नोति अध्वानं सोऽत्यः। अत सातत्यगमने। (द्रोणम्) द्रुमयं रथम्। द्रोणं द्रुममयं भवति इति निरुक्तम् ५।२६। (ननक्षे) व्याप्नोति, तत्र युज्यते, तथैव सोमरसः (द्रोणम्) द्रोणकलशम् (ननक्षे) व्याप्नोति। नक्षतिर्व्याप्तिकर्मा। निघं० २।१८ ॥ अथ द्वितीयः—परमात्मपरः। (धीरस्य) ध्यानस्थस्य योगिनः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति ज्ञानैः कर्मभिश्च यास्ताः, (स्वसारः) भगिनीवत् परस्परं सहकारिण्यः, (धनुत्रीः) धनुत्र्यः प्रेरयित्र्यः (दश) दशसंख्यकाः (धीतयः) यम-नियम-भावनाः, यदा (मर्जयन्त) जीवात्मानं शोधयन्ति, तदा (सूर्यस्य) परमात्मनः (जाः) पुत्रः (हरिः) उन्नतिपथे यः ह्रियते स जीवात्मा (पर्यद्रवत्) परिद्रवति, समन्ततः क्रियाशीलो भवति। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा (द्रोणम्) द्रुमयं रथम् (ननक्षे) प्राप्नोति, तत्र युज्यते इत्यर्थः, तथैव स जीवात्मा (द्रोणम्) क्रियाशीलं परमात्मानम्। गत्यर्थाद् द्रवतेः ‘कृवृजृसि’ उ० ३।१० इति नः प्रत्ययः। (ननक्षे) प्राप्नोति ॥६॥ अत्र श्लेषालङ्कारः। ‘द्रोणं ननक्षे अत्यो न वाजी’ इत्यत्र श्लिष्टोपमा। सकार-धकार-नकार-रेफाणामसकृदावर्तनाद् वृत्त्यनुप्रासः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - दशाङ्गुलिभिः परिशोधितः सोमरसो यथा द्रोणकलशं व्याप्नोति तथैव यमनियमभावनाभिः परिशोधितो जीवात्मा परमात्मानं प्राप्नोति ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९३।१, साम० १४१८। २. धनुत्रीः धनुः त्रायन्त्यः—इति वि०। धिनोतेर्धनुत्र्यः प्रीणयित्र्यः धन्वतेर्वा गतिकर्मणः, प्राप्नुवन्त्यः प्राप्तव्यानि—इति भ०। ३. जाः जनयिता सूर्यस्य। जन जनने इत्यस्माद् धातोर्विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ इति आकारः। जनिताग्नेर्जनिता सूर्यस्य (ऋ० ६।९६।५) इति च भवति—इति भ०।
52_0538 साकमुक्षो मर्जयन्त - 01 ...{Loading}...
लिखितम्
५३८-१। दाशस्पत्ये द्वे॥ द्वयोर्दशस्पतिस्त्रिष्टुप्सूर्यः॥
सा꣤का꣥म्॥ उ꣡क्षो꣯मर्जयन्तस्व꣢सा꣡ऽ२३राः꣢। दा꣡शाऽ᳒२᳒। धी꣡꣯रस्यधी꣯तयो꣯ ध꣢नू꣡ऽ२३त्रीः꣢। हा꣡रीऽ᳒२ः᳒। प꣡र्यद्रवज्जा꣯स्सूरि꣪याऽ२३स्या꣢। द्रो꣡णाऽ᳒२᳒म्। न꣡नक्षे꣯ अत्यो꣯नवाऽ२३। हा꣢उवाऽ᳐३। जीऽ२३꣡४꣡५꣡॥ दी-११। प-१४। मा-७॥ २४ (ञे) १०४३॥
52_0538 साकमुक्षो मर्जयन्त - 02 ...{Loading}...
लिखितम्
५३८-२।
सा꣥꣯कमुक्षाऽ६ए꣥॥ ए꣢ऽ᳐३१२३४। मर्ज꣥यन्तस्व꣤सा꣥꣯रः। दशधी꣯राऽ६ए꣥। ए꣢ऽ३१२३४। स्यधी꣥꣯त꣤यो꣥꣯ध꣤नु꣥त्रीः꣯॥ हरिᳲपर्याऽ६ए꣥। ए꣢ऽ᳐३१२३४। द्रव꣥ज्जा꣤꣯ स्सू꣯र्य꣥स्य॥ द्रो꣯णन्ननाऽ६ए꣥। ए꣢ऽ᳐३१२३४। क्षे꣯अत्यो꣥꣯न꣤वा꣥ऽ६। हा꣥उवा॥ जी꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣢धि꣣ य꣡द꣢स्मिन्वा꣣जि꣡नी꣢व꣣ शु꣢भः꣣ स्प꣡र्ध꣢न्ते꣣ धि꣢यः꣣ सू꣢रे꣣ न꣡ विशः꣢꣯। अ꣣पो꣡ वृ꣢णा꣣नः꣡ प꣢वते꣣ क꣡वी꣢यन्व्र꣣जं꣡ न प꣢꣯शु꣣व꣡र्ध꣢नाय꣣ म꣡न्म꣢॥ 53:0539 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्ध॑न्ते॒ धियः॒ सूर्ये॒ न विशः॑ ।
अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡धि꣢꣯। यत्। अ꣣स्मिन्। वाजि꣡नि꣢। इ꣣व। शु꣡भः꣢꣯। स्प꣡र्ध꣢꣯न्ते। धि꣡यः꣢꣯। सू꣡रे꣢꣯। न। वि꣡शः꣢꣯। अ꣣पः꣢। वृ꣣णानः꣢। प꣣वते। क꣡वी꣢꣯यान्। व्र꣣ज꣢म्। न। प꣣शुव꣡र्ध꣢नाय। प꣣शु। व꣡र्ध꣢꣯नाय। म꣡न्म꣢꣯। ५३९।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- कण्वो घौरः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा कब क्या करता है, इसका वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यत्) जब (अस्मिन्) इस सोमनामक परमात्मा में (धियः) उपासक की ध्यानवृत्तियाँ (अधि स्पर्धन्ते) मानो मैं पहले प्रवेश करूँ-मैं पहले करूँ इस प्रकार स्पर्धा-सी करती हैं, किस प्रकार? (वाजिनि इव) जैसे घोड़े पर (शुभः) शोभाकारक अलङ्कार मानो उसे शोभित करने की स्पर्धा करते हैं, अथवा (वाजिनि इव) जैसे बलवान् पुरुष में (शुभः) शोभाकारी गुण निवास करने की स्पर्धा करते हैं, और (सूरे न) जैसे सूर्य में (विशः) उसकी प्रजाभूत किरणें व्याप्त होने की स्पर्धा करती हैं, तब (कवीयान्) अतिशय मेधावी सोम परमेश्वर (अपः) उपासक के प्राणों को (वृणानः) वरण करता हुआ, उसके (मन्म) मन को (पवते) पवित्र करता है, (न) जैसे, गोपालक मनुष्य (पशुवर्धनाय) गाय आदि पशुओं के पोषण के लिए (व्रजम्) गोशाला को स्वच्छ-पवित्र करता है ॥७॥ इस मन्त्र में ‘वाजिनीव शुभः’, ‘सूरे न विशः’, ‘व्रजं न पशुवर्धनाय’ ये तीन उपमाएँ हैं। चेतन के धर्म स्पर्धा का अलङ्कार, शुभगुण और ध्यानवृत्ति रूप अचेतनों के साथ योग में मानो स्पर्धा करते हैं यह अर्थ द्योतित होने से व्यङ्ग्योत्प्रेक्षा है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जब साधक लोग परमात्मा में ध्यान केन्द्रित करते हैं, तब परमात्मा उनके हृदयों को पवित्र करके उनकी सब प्रकार से वृद्धि करता है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमः परमात्मा कदा किं कुरुत इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यत्) यदा (अस्मिन्) सोमनाम्नि परमात्मनि (धियः) उपासकस्य ध्यानवृत्तयः (अधि स्पर्धन्ते) अहमहमिकया प्रवेष्टुमुत्सहन्ते इव। कथमित्याह—(वाजिनि इव) अश्वे यथा (शुभः) अलङ्काराः। शोभयन्तीति शुभः, अलङ्काराः। यद्वा (वाजिनि इव) बलवति पुरुषे यथा (शुभः) शोभयितारो गुणाः व्याप्तुमुत्सहन्ते इव, (सूरे न) सूर्ये च यथा (विशः) प्रजाभूताः रश्मयः अधि स्पर्धन्ते अहमहमिकया व्याप्तुमुत्सहन्ते इव, तदा (कवीयान्) कवितरः अतिशयेन प्राज्ञः सः सोमः परमेश्वरः। अतिशयेन कविः कवीयान्, कविशब्दादतिशायने ईयसुन् प्रत्ययः। (अपः) उपासकस्य प्राणान्। प्राणा वा आपः। तै० ब्रा० ३।२।५।२, आपो वै प्राणाः। श० ३।८।२।४। (वृणानः) वृण्वन् तस्य (मन्म) मनः। मन्म मनः इति निरुक्तम् ६।२२। (पवते) पुनाति। षूङ् पवने, भ्वादिः। तत्रोपमामाह—गोपालः (पशुवर्धनाय) गवादिपशूनां पोषणाय (व्रजं२ न) गोष्ठं यथा पुनाति स्वच्छं रक्षति तद्वत् ॥७॥ अत्र ‘वाजिनीव शुभः’, ‘सूरे न विशः’, ‘व्रजं न पशुवर्धनाय’ इति तिस्र उपमाः। स्पर्धायाश्च चेतनधर्मस्य अलङ्कार-शुभगुण-ध्यानवृत्तिभिरचेतनैर्योगे स्पर्धन्ते इव इत्यर्थद्योतनाद् व्यङ्ग्योत्प्रेक्षा ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यदा साधकैः परमात्मनि ध्यानं केन्द्रितं क्रियते तदा परमात्मा तेषां हृदयानि पवित्रीकृत्य तान् सर्वात्मना वर्धयति ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९४।१ ‘सूरे’, ‘कवीयान्’ इत्यत्र क्रमेण ‘सूर्ये’, ‘कवीयन्’ इति पाठः। २. व्रजन् न इति पदपाठः। तत्पक्षे तु ‘अपो वृणानः प्राणान् वृण्वन् कवीयान् मेधावितरः सोमः परमात्मा मन्म मननशीलं जीवात्मानं पवते गच्छति (पवते गतिकर्मा। निघं० २।१४)।’ तत्रोपमामाह—पशूनां वर्धनाय व्रजन् न गच्छन्निव गोपालकः। स यथा पशुवर्धनाय गोष्ठं गच्छति तद्वदित्यर्थः।
53_0539 अधि यदस्मिन्वाजिनीव - 01 ...{Loading}...
लिखितम्
५३९-१। कश्यपस्य शोभनम्॥ कश्यपस्त्रिटुप्सूर्यः॥
अ꣤धि꣥यदा꣤॥ स्मा꣡इन्वा꣰꣯ऽ२जि꣡नी꣰꣯ऽ२वशु꣡। भाः। स्पर्द्ध꣢न्ते꣯धि꣡यस्सू꣯। रा꣢इ᳐न꣣वि꣤शाः꣥। अ꣢पो꣡꣯वृणा꣯नᳲपवताइ। क꣪वीऽ२३या꣢न्। व्रज꣡न्न। पा। शु꣢व꣡र्द्ध। ना꣢ऽ᳐३४३। या꣢ऽ᳐३मा꣤ऽ५न्मा"ऽ६५६॥ दी-६। प-१२। मा-६॥ २६ (खू) १०४५॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣡न्दु꣢र्वा꣣जी꣡ प꣢वते꣣ गो꣡न्यो꣢घा꣣ इ꣢न्द्रे꣣ सो꣢मः꣣ स꣢ह꣣ इ꣢न्व꣣न्म꣡दा꣢य। ह꣢न्ति꣣ र꣢क्षो꣣ बा꣡ध꣢ते꣣ प꣡र्यरा꣢꣯तिं꣣ व꣡रि꣢वस्कृ꣣ण्व꣢न्वृ꣣ज꣡न꣢स्य꣣ रा꣡जा꣢ ॥ 54:0540 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्दु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा॑य ।
हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्दुः꣢꣯। वा꣣जी꣢। प꣣वते। गो꣡न्यो꣢꣯घाः। गो। न्यो꣣घाः। इ꣡न्द्रे꣢꣯। सो꣡मः꣢꣯। स꣡हः꣢꣯। इ꣡न्व꣢꣯न्। म꣡दा꣢꣯य। ह꣡न्ति꣢꣯। र꣡क्षः꣢꣯। बा꣡ध꣢꣯ते। प꣡रि꣢꣯। अ꣡रा꣢꣯तिम्। अ। रा꣣तिम्। व꣡रि꣢꣯वः। कृ꣣ण्व꣢न्। वृ꣣ज꣡न꣢स्य। रा꣡जा꣢꣯। ५४०।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- मन्युर्वासिष्ठः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा के कर्मों का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (गोन्योघाः) गो-रसों के समान मधुर आनन्दरसों के समूह का स्वामी, (वाजी) वेगवान् (इन्दुः) तेजस्वी और रस से आर्द्र करनेवाला परमात्मा (पवते) उपासक के अन्तःकरण को पवित्र करता है। (सोमः) शान्तिदायक वह परमात्मा (मदाय) आनन्द देने के लिए (इन्द्रे) जीवात्मा में (सहः) बल को (इन्वन्) प्रेरित करता है। (वृजनस्य) बल का (राजा) राजा वह परमात्मा, अपने उपासकों को (वरिवः) शुभगुणों का अथवा योग-सिद्धियों का ऐश्वर्य (कृण्वन्) प्रदान करता हुआ (रक्षः) पापरूप राक्षस को (हन्ति) विनष्ट करता है, (अरातिम्) अदानभाव को (परि बाधते) सर्वथा दूर कर देता है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर उपासकों को गाय के दूध के समान मधुर आनन्दरसों को, आत्मबल को, सद्गुणों को एवं अणिमा आदि योगसिद्धियों को प्रदान करता हुआ उनके हृदय से अदानवृत्ति को बाधित करता हुआ और उनके पापरूप शत्रु का संहार करता हुआ उन्हें विजयी बनाता है ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमस्य परमात्मनः कर्माण्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (गोन्योघाः२) गवां गोपयोवन्मधुराणाम् आनन्दरसानां न्योघाः समूहा यस्य सः। अत्र समासान्तः असच् प्रत्ययः। (वाजी) वेगवान् (इन्दुः) प्रदीप्तः, रसेन आर्द्रीकर्ता च परमात्मा (पवते) उपासकस्य अन्तःकरणं पवित्रीकरोति। (सोमः) शान्तिदायकः स परमेश्वरः (मदाय) आनन्दाय (इन्द्रे) जीवात्मनि (सहः) बलम् (इन्वन्) प्रेरयन्, भवतीति शेषः। इन्वतिः गतिकर्मा। निघं० २।१४। किञ्च (वृजनस्य३) बलस्य। वृजनमिति बलनाम। निघ० २।९। (राजा) अधिपतिः स परमेश्वरः, स्वोपासकानाम् (वरिवः) गुणगणैश्वर्यं योगसिद्ध्यैश्वर्यं वा। वरिवः इति धननाम। निघं० २।१०। (कृण्वन्) प्रयच्छन् सन् (रक्षः) पापरूपं राक्षसम् (हन्ति) हिनस्ति, (अरातिम्) अदानभावं च (परि बाधते) सर्वथा निरस्यति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर उपासकानां गोपयोवन्मधुरानानन्दरसान्, आत्मबलं, सद्गुणान्, अणिमादियोगसिद्धीश्च प्रयच्छन् तेषां हृदयाददानवृत्तिं बाधमानस्तेषां पापरूपं शत्रुं संहरंश्च तान् विजयिनः करोति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।१० ‘पर्यरातीर्वरिवः कृण्वन्’ इति पाठः। २. गोन्योघाः गवां न्योघाः सङ्घाः—इति वि०। गमनशीलः नीचीनोऽवाङ्मुखः ओघः प्रवाहः यस्य स गोन्योघाः—इति भ०। गमनशीलनीचीनाग्ररससङ्घातः—इति सा०। यत्तु ‘गोनीशब्दो गमनशीलार्थेऽपभ्रंश इत्युदाजहार च पस्पशे पतञ्जलिः’ इत्याह सत्यव्रतः सामश्रमी, तत्त्वत्र न समञ्जसम्, पदपाठे ‘गो न्योघाः’ इति पदच्छेदात्, पतञ्जलिना चापि अपभ्रंशशब्दस्यैवोल्लेखाद् न तु वैदिकशब्दस्येत्यवधेयम्। ३. वृजनस्य बलस्य यज्ञस्य वा—इति भ०।
54_0540 इन्दुर्वाजी पवते - 01 ...{Loading}...
लिखितम्
५४०-१। दाशस्पत्यानि चत्वारि॥ चतुर्णां दशस्पतिस्त्रिष्टुप्सूर्यसोमेन्द्राः सोमेन्द्रौ वा॥
इ꣢न्दुऽ३र्वा꣡जीऽ᳒२᳒। प꣡वते꣯गो꣯नियोघाः꣢॥ इन्द्रा꣡इसोऽ२३४माः꣥। सा꣡हइन्व न्मदाया꣢॥
54_0540 इन्दुर्वाजी पवते - 02 ...{Loading}...
लिखितम्
५४०-२।
इ꣤न्दु꣥र्वा꣯जी꣤꣯प꣥वतौ꣯। हौ꣤꣯होवाहा꣥इ॥ गो꣡नि꣪योघौ꣢। वा᳐ओ꣣ऽ२३४वा꣥। इ꣡न्द्रे꣰꣯ ऽ२सो꣡꣯मा꣰꣯ऽ२स्स꣡ह꣢इ꣡। न्वान्म꣪दायौ꣢। वा᳐ओ꣣ऽ२३४वा꣥॥ ह꣡न्ति꣢र꣡क्षो꣢꣯बा꣡꣯ध꣢ते꣯। पा꣡र्य꣪ रातौ꣢। वा᳐ओ꣣ऽ२३४वा꣥॥ व꣡रिव꣢स्कृण्व꣡न्वृजना꣢ऽ᳐३। स्या꣡। रा꣭ऽ३जौ꣢वा᳐ ओ꣣ऽ२३४वा꣥। हो꣤ऽ५इ॥ डा॥ दी-१०। प-१५। मा-७॥ २८ (मे) १०४७॥
54_0540 इन्दुर्वाजी पवते - 03 ...{Loading}...
लिखितम्
५४०-३। दाशस्पत्यम्॥
इ꣥न्दुरौ꣯हो꣯वा꣯हा꣯ई꣤या꣥॥ वा꣢꣯जाउ। वाऽ᳐३। हा꣢उवा। पवते꣯गो꣯नि꣡योघा꣢उ। वाऽ᳐३। हा꣢उवा। इन्द्रा꣡इसोमः꣢। सह꣡इन्वा꣢उ। वाऽ᳐३। हा꣢उवा᳐ऽ३। मा꣡ऽ२᳐ दा꣣ऽ२३४औ꣥꣯हो꣯वा। या꣣ऽ२३꣡४꣡५꣡॥ ह꣢न्ता꣡इरक्षो꣢। बा꣯धा꣡ताइपा꣢उ। वाऽ᳐३। हा꣢उवा᳐ऽ३। र्या꣡ऽ२᳐रा꣣ऽ२३४औ꣥꣯हो꣯वा। ती꣣ऽ२३꣡४꣡५꣡म्॥ व꣢रा꣡इवस्कृ꣢। ण्व꣡न्वृज ना꣢उ। वाऽ᳐३। हा꣢उवा᳐ऽ३॥ स्या꣡ऽ२᳐रा꣣ऽ२३४औ꣥꣯हो꣯वा॥ जा꣣ऽ२३꣡४꣡५꣡॥
54_0540 इन्दुर्वाजी पवते - 04 ...{Loading}...
लिखितम्
५४०-४।
इ꣥न्दुर्वा꣯जी꣯पवते꣯गो꣯नियो꣤घाः꣥॥ इन्द्रे꣯सो꣯मस्सहइन्वन्मदा꣤या꣥॥ हन्ति रक्षो꣯बा꣯धते꣯पर्यरा꣤ती꣥म्॥ वरिवस्कृण्वन्वृजनस्यरा꣤जा꣥। रा꣣꣯जा꣢ऽ३४औ꣥꣯हो꣯वा॥ ए꣢ऽ᳐३। स्य꣢रा꣡꣯जा꣣ऽ२३꣡४꣡५꣡॥ दी-१३। प-७। मा-४॥ ३० (ठी) १०४९॥