[[अथ नवमप्रपाठके प्रथमोऽर्धः]]
[[अथ एकादश खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
त्य꣢मू꣣ षु꣢ वा꣣जि꣡नं꣢ दे꣣व꣡जू꣢तᳱ
सहो꣣वा꣡नं꣢+++(→ऋचि सहावानं)+++ तरु꣢ता꣢र꣣ᳱ र꣡था꣢नाम्म् ।
अ꣡रि꣢ष्ट-नेमिं पृत꣣ना꣡ऽज꣢मा꣢शु꣣ᳱ
स्व꣣स्त꣢ये꣣ ता꣡र्क्ष्य꣢म् इ꣣हा꣡ हु꣢वेम ॥ 40:0332 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्यमू॒+++(=तं)+++ षु वा॒जिनं॑+++(=अन्नवन्तं बलवन्तं वा)+++ दे॒वजू॑तं +++(प्रेरितम् प्रीतं वा [सोमाहरणाय])+++
स॒हावा॑नं+++(=सहस्वन्तं)+++ तरु॒तारं॒+++(=तारकम्)+++ रथा॑नाम् ।
अरि॑ष्ट-नेमिं+++(=परिरेखाम्)+++ पृत॒ना+++(=[पर]सेना)++++ऽज॑मा॒शुं+++(←अज गति-क्षेपणयोः)+++
स्व॒स्तये॒ तार्क्ष्य॑म्+++(=तृक्षजम्)+++ इ॒हा हु॑वेम ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्य꣢म्। उ꣣। सु꣢। वा꣣जि꣡न꣢म्। दे꣣व꣡जू꣢तम्। दे꣣व꣢। जू꣣तम्। सहोवा꣡न꣢म्। त꣣रुता꣡र꣢म्। र꣡था꣢꣯नाम्। अ꣡रि꣢꣯ष्टनेमिम्। अ꣡रि꣢꣯ष्ट। ने꣣मिम्। पृतना꣡ज꣢म्। आ꣣शु꣢म्। स्व꣣स्त꣡ये꣢। सु꣣। अस्त꣡ये꣢। ता꣡र्क्ष्य꣢꣯म्। इ꣣ह꣢। हु꣣वेम। ३३२।
अधिमन्त्रम् (VC)
- इन्द्रः
- अरिष्टनेमिस्तार्क्ष्यः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में परमात्मा की स्तुति, सेनापतित्व और शिल्प विषय का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हम (त्यम् उ) उस (वाजिनम्) सब अन्नों वा धनों के स्वामी, (देवजूतम्) विद्वान् योगीजनों को प्राप्त अथवा प्रकाशक सूर्य, चाँद आदि तथा मन, चक्षु, श्रोत्र आदि में व्याप्त, (सहोवानम्) साहसी, बलवान् (रथानाम्) शरीररूप रथों के अथवा गतिशील पृथिवी, सूर्य, चन्द्र आदि लोकों के (तरुतारम्) चलानेवाले, (अरिष्टनेमिम्) अप्रतिहत दण्डशक्तिवाले, (पृतनाजम्) काम, क्रोध आदि की सेनाओं को परे फेंकने वा जीतनेवाले और सत्य, दया, उदारता आदि सद्गुणों की सेनाओं को प्राप्त करानेवाले, (आशुम्) शीघ्रकारी (तार्क्ष्यम्) विस्तीर्ण जगत् में निवास करनेवाले, सकलभुवनव्यापी, प्राप्तव्य परमात्मा को (इह) अपने इस जीवन में (स्वस्तये) कल्याण के लिए (सु हुवेम) भली-भाँति पुकारें ॥ द्वितीय—सेनापति के पक्ष में। हम (त्यम् उ) उस (वाजिनम्) अन्न आदि सात्त्विक आहार करनेवाले, बलवान्, संग्रामकारी, (देवजूतम्) राजा द्वारा युद्धार्थ प्रेरित, (सहोवानम्) क्षात्र-तेज से युक्त, (रथानाम्) युद्ध के विमानों को (तरुतारम्) उड़ानेवाले, (अरिष्टनेमिम्) अक्षत रथचक्रवाले, (पृतनाजम्) संग्राम में अपनी सेनाओं को भेजनेवाले, तथा शत्रु-सेनाओं को उखाड़ फेंकनेवाले, (आशुम्) शीघ्रकारी, आलस्यरहित (तार्क्ष्यम्) गरुड़ के समान आक्रमण करनेवाले अथवा वायु के समान स्वपक्ष को जीवन देनेवाले तथा परपक्ष का भञ्जन करनेवाले सेनापति को (इह) इस संग्रामकाल में (स्वस्तये) राष्ट्र के उत्तम अस्तित्व के लिए (सु हुवेम) भली-भाँति पुकारें अथवा उत्साहित करें ॥ तृतीय—वायु और विद्युत् के पक्ष में। हम (त्यम् उ) उस (वाजिनम्) अतिशय वेगवान्, (देवजूतम्) शिल्पविद्या के वेत्ता कुशल शिल्पियों द्वारा यान आदियों में प्रेरित, (सहोवानम्) अतिशय बलयुक्त, (रथानाम्) समुद्र, पृथिवी और अन्तरिक्ष में चलनेवाले वायु-यानों वा विद्युद्-यानों के (तरुतारम्) तराने या उड़ाने में साधनभूत, (पृतनाजम्) सांग्रामिक सेनाओं को देशान्तर में पहुँचाने में निमित्तभूत अथवा संग्राम को जीतने में साधनभूत, (आशुम्) यानों की तेज गति में निमित्तभूत, (तार्क्ष्यम्) अन्तरिक्षशायी वायु वा विद्युत् रूप अग्नि को (इह) इस शिल्पयज्ञ में (स्वस्तये) सुख के लिए (हुवेम) यान आदियों में प्रयुक्त करें ॥१॥ इस मन्त्र में श्लेषालङ्कार है। ‘तरु, तारं’ में छेकानुप्रास और वकार, रेफ आदि की आवृत्ति में वृत्त्यनुप्रास है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब मनुष्यों को चाहिए कि उपासना-यज्ञ में सकलजगद्व्यापी परमेश्वर का, राष्ट्रयज्ञ में गरुड़ के समान परपक्षाक्रान्ता सेनापति का और शिल्पयज्ञ में कलाकौशल के साधक वायु वा विद्युत् का ग्रहण और उपयोग करें ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मस्तुतिसैनापत्यशिल्पविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। वयम् (त्यम् उ) तम् (वाजिनम्) सर्वेषामन्नानां धनानां वा स्वामिनम्, (देवजूतम्२) देवैर्विद्वद्भिः योगिभिः जूतं प्राप्तम्, यद्वा देवान् प्रकाशकान् सूर्यचन्द्रादीन् मनश्चक्षुःश्रोत्रादीन् वा जूतं गतम्, (सहोवानम्) सहस्वन्तम् बलवन्तमित्यर्थः। सहस् शब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’। अ० ५।२।१०९ वा० इत्यनेन मत्वर्थीयो वनिप्। (रथानाम्) शरीररथानाम् यद्वा रंहणशीलानां पृथिवीसूर्यचन्द्रादीनां लोकानाम्। रथो रंहतेर्गतिकर्मणः। निरु० ८।११। (तरुतारम्३) गमयितारम्। तॄ प्लवनसंतरणयोः। ‘ग्रसितस्कभित०’ अ० ७।२।३४ इति उडागमो निपात्यते। (अरिष्टनेमिम्) अप्रतिहतदण्डम्। नेमिरिति वज्रनाम। निघं० २।२०। (पृतनाजम्)४ पृतनानां कामक्रोधादिसेनानाम् अजितारं प्रक्षेप्तारं जेतारं वा, यद्वा पृतनाः सत्यदयादाक्षिण्यादिसद्गुणानां सेनाः अजति प्रापयतीति तम् (आशुम्) शीघ्रकारिणम् (तार्क्ष्यम्) सकलभुवनव्यापिनम् अभिगमनीयं वा परमात्मानम्। तीर्णे विस्तीर्णे जगति क्षियति निवसतीति तार्क्ष्यः। यद्वा गत्यर्थात् तृक्षतेर्ण्यति तार्क्ष्यः, अभिगमनीयः परमात्मा। (इह) अस्माकम् अस्मिन् जीवने। संहितायां ‘निपातस्य च’ इति दीर्घः। (स्वस्तये) कल्याणार्थम् (सु हुवेम) सम्यग् आह्वयेम। तमूषु इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः। ‘सुञः अ० ८।३।१०७’ इति षत्वम् ॥ अथ द्वितीयः—सेनापतिपरः। वयम् (त्यम् उ) तम् (वाजिनम्) अन्नादिसात्त्विकाहारम्, बलवन्तम्, संग्रामकारिणं वा, (देवजूतम्) देवेन राज्ञा जूतं युद्धार्थं प्रेरितम्, (सहोवानम्) सहः शत्रुपराजयशीलं क्षात्रं तेजः तद्वन्तम्, (रथानाम्) युद्धे उपयुज्यमानानां विमानानाम् (तरुतारम्) प्लवयितारम्, (अरिष्टनेमिम्) अक्षतरथचक्रम्, (पृतनाजम्) संग्रामे स्वसेनानाम् प्रेरकम्, शत्रुसेनानां प्रक्षेप्तारं वा, (आशुम्) क्षिप्रकारिणम्, न त्वलसम्, (तार्क्ष्यम्) गरुडपक्षिवदाक्रान्तारम्, वायुवत् स्वपक्षीयाणां जीवनदायिनम् परपक्षीयाणां भञ्जकं वा सेनापतिम् (इह) अस्मिन् संग्रामकाले (स्वस्तये) राष्ट्रस्य पूजितास्तित्वाय। स्वस्तीत्यविनाशिनाम। अस्तिरभिपूजितः स्वस्तीति। निरु० ३।२०। (सु हुवेम) सम्यगाह्वयेम, सम्यगुत्साहयेम वा ॥ अथ तृतीयः—वायुविद्युत्परः। वयम् (त्यम् उ) तम् (वाजिनम्) तीव्रवेगम्, (देवजूतम्) देवैः शिल्पविद्यावेत्तृभिः कुशलैः शिल्पिभिः यानादिषु प्रेरितम्, (सहोवानम्) अतिशयबलयुक्तम्, (रथानाम्) समुद्रपृथिव्यन्तरिक्षयायिनां वायुरथानां विद्युद्यानानां वा (तरुतारम्) तरणसाधनभूतं प्लवनसाधनभूतं वा, (पृतनाजम्) सांग्रामिकसेनानां देशान्तरप्रापणे निमित्तभूतम्, संग्रामजयसाधनभूतं वा। पृतना इति संग्रामनाम। निघं० २।१७। सेनार्थे तु प्रसिद्धमेव। (आशुम्) यानानां क्षिप्रगमनहेतुभूतम् (तार्क्ष्यम्) अन्तरिक्षशायिनं वायुं विद्युदग्निं वा (इह) अस्मिन् शिल्पयज्ञे (स्वस्तये) सुखाय (हुवेम) यानादिषु प्रयुञ्जीमहि ॥१॥ यास्काचार्य इमामृचमेवं व्याचष्टे—तार्क्ष्यस्त्वष्ट्रा व्याख्यातः। तीर्णे अन्तरिक्षे क्षियति, तूर्णमर्थं रक्षति अश्नोतेर्वा। तं भृशमन्नवन्तम्। जूतिर्गतिः प्रीतिर्वा। देवजूतं देवगतं देवप्रीतं वा। सहस्वन्तम्। तारयितारं रथानाम्। अरिष्टनेमिम् पृतनाजितम्, आशुं स्वस्तये तार्क्ष्यमिह ह्वयेमेति कमन्यं मध्यमादेवमवक्ष्यत्—इति। निरु० १०।२७ ॥ अत्र श्लेषालङ्कारः। ‘तरु-तारं’ इत्यत्र छेकानुप्रासः। वकाररेफाद्यावृत्तौ च वृत्त्यनुप्रासः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वैर्जनैरुपासनायज्ञे सकलजगद्व्यापी तार्क्ष्यः परमेश्वरो, राष्ट्रयज्ञे गरुडवत् परपक्षाक्रान्ता सेनापतिः, शिल्पयज्ञे च कलाकौशलसाधको वायुर्विद्युदग्निर्वा ग्राह्य उपयोक्तव्यश्च ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।१७८।१ ‘सहावानं’ इति पाठः। अथ० ७।८५।१, ऋषिः अथर्वा, ‘पृतनाजि’ इति पाठः। २. देवजूतम्। देवैर्मरुदादिभिरनुगतम्—इति वि०। देवैः स्तोतृभिः प्रेरितम्—इति भ०। देवैः सोमाहरणाय प्रेरितम्। जु इति गत्यर्थः सौत्रो धातुः, अस्मात् क्तः, पूर्वपदप्रकृतिस्वरत्वम्। यद्वा देवैः प्रीयमाणं तर्प्यमाणम्—इति सा०। ३. तरुतारम् हन्तारम् रथानां शत्रूणां स्वभूतानाम्—इति वि०। हिंसितारं रथानां प्रतिरथानाम्। अथवा रथानां गन्तॄणां तरुतारं गन्तृतमम्। तरतिर्गतिकर्माणि—इति भ०। रथानाम् अन्यदीयानां तरुतारं संग्रामे तारकम्। यद्वा रंहणशीला अमी इमे लोका रथाः, तान् सोमाहरणसमये शीघ्रं तरीतारम्—इति सा०। ४. पृतनाजम्। पृतनेति संग्रामनाम। तस्मादुत्तरस्य जयतेर्ड प्रत्ययः। पृतनाजं संग्रामाणां जेतारमित्यर्थः—इति वि०। पृतनानाम् अजितारम् क्षेप्तारम्। अज गतिक्षेपणयोः—इति भ०। पृतनानां शत्रुसेनानाम् आजितारं प्रगमयितारं जेतारं वा। अज गतिक्षेपणयोः अस्मात् क्विप्—इति सा०।
40_0332 त्यमू षु - 01 ...{Loading}...
लिखितम्
३३२-१। तार्क्ष्यसामनी द्वे॥ तार्क्ष्यस्त्रिष्टुबिन्द्रः॥ (तार्क्ष्यो वा)।
त्य꣥मू꣯षू॥ वा꣢꣯जि। नाऽ३꣡४꣡५꣡म्। दे꣢꣯वजू꣯ता꣣ऽ२३४म्। स꣥हो꣯वा꣣꣯नं꣢ता꣡। रु꣢ताऽ३। र꣢ ꣳ᳐ र꣣था꣤ना꣥म्। अ꣢रिष्टना꣣ऽ२३४इमी꣥म्॥ पृ꣢तनाऽ३४३ज꣢मा꣣꣯शु꣥म्॥ स्व꣢स्त꣡। याइ॥ ता꣯र्क्ष्य꣢᳐मि꣣हा꣢ ऽ३४३। हू꣢ऽ३वा꣤ऽ५इमा"ऽ६५६॥
40_0332 त्यमू षु - 02 ...{Loading}...
लिखितम्
३३२-२।
ई꣢꣯यइयाऽ३हा꣢इ। त्य꣯मूषुवा꣯जिनाऽ३न्दे꣤ऽ३व꣢जू꣣꣯त꣥म्॥ ई꣣ऽ४य꣥इ꣤या꣥꣯। हा꣣ऽ२३४इ। स꣥हो꣯वा꣣꣯नं꣢ता꣡। रु꣢ताऽ३। र꣢ ꣳ᳐र꣣था꣤ना꣥म्॥ ई꣢꣯यइयाऽ३हा꣢इ। अरिष्टाऽ३। ना꣡इ। मी꣢ऽ३म्पृ꣡त। ना꣢᳐ज꣣मा꣤शू꣥म्॥ ई꣣ऽ४य꣥इ꣤या꣥꣯। हा꣣ऽ२३꣡४꣡५꣡इ। स्व꣢स्त꣡। याइ। ता꣯र्क्ष्य꣢मि꣣हा꣢ऽ३४३। हू꣢ऽ३वा꣤ऽ५इमा"ऽ६५६॥
योनि-प्रस्तुतिः ...{Loading}...
त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म्।
हु꣣वे꣢꣫+++(=ह्वयामि)+++ नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ
ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्व+++(=वैतु =भक्षयतु)+++ इ꣡न्द्रः꣢ ॥ 41:0333 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्रा॒तार॑म् इन्द्र॑म् अवि॒तार॑म् इन्द्रं
हवे॑हवेे+++(=ह्वाने ह्वाने)+++ सु॒हवं॒+++(=स्वाह्वेयं)+++ शूर॒म् इन्द्र॑म् ।
ह्वया॑मि श॒क्रम् पु॑रुहू॒तम् इन्द्रं॑
स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ।
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्रा꣣ता꣡र꣢म्। इ꣡न्द्र꣢꣯म्। अ꣣विता꣡र꣢म्। इ꣡न्द्र꣢꣯म्। ह꣡वे꣢꣯हवे। ह꣡वे꣢꣯। ह꣣वे। सुह꣡व꣢म्। सु꣣। हव꣢꣯म्। शू꣡र꣢꣯म्। इ꣡न्द्र꣢꣯म्। हु꣣वे꣢। नु। श꣣क्र꣢म्। पु꣣रुहूत꣢म्। पु꣣रु। हूत꣢म्। इ꣡न्द्र꣢꣯म्। इ꣣द꣢म्। ह꣣विः꣢। म꣣घ꣡वा꣢। वे꣣तु। इ꣡न्द्रः꣢꣯। ३३३।
अधिमन्त्रम् (VC)
- इन्द्रः
- भरद्वाजः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा और राजा आह्वान करने योग्य हैं, यह इन्द्र नाम से दर्शाया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - मैं (त्रातारम्) आपत्तियों से त्राण करनेवाले (इन्द्रम्) शत्रुविदारक जगदीश्वर वा राजा को (अवितारम्) सुखादि के प्रदान द्वारा पालना करनेवाले (इन्द्रम्) ऐश्वर्यशाली जगदीश्वर वा राजा को, (हवे हवे) प्रत्येक संग्राम में, प्रत्येक संकट में (सुहवम्) सरलता से पुकारने योग्य (शक्रम्) शक्तिशाली, (पुरुहूतम्) बहुत स्तुति किये गये अथवा बहुतों से बुलाये गये (इन्द्रम्) अविद्या, दुःख आदि के भञ्जक जगदीश्वर वा राजा को (नु) शीघ्र ही (हुवे) पुकारता हूँ। (सः) वह (मघवा) प्रशस्त धनवाला (इन्द्रः) जगदीश्वर वा राजा (इदम्) इस मेरे द्वारा दी जाती हुई (हविः) आत्मसमर्पण रूप अथवा राजकर रूप हवि को (वेतु) स्वीकार करे ॥२॥ इस मन्त्र में अर्थश्लेष अलङ्कार है, विशेषणों के साभिप्राय होने से परिकरालङ्कार भी है। इन्द्र शब्द की चार बार पुनरुक्ति उसकी बहुक्षमता को तथा अन्यों से विलक्षण आह्वानयोग्यता को द्योतित करती है। निरर्थक ‘तारमिन्द्रं’ की दो बार, ‘रमिन्द्रं’ की तीन बार, ‘मिन्द्र’ की चार बार आवृत्ति होने से यमक अलङ्कार है। इसी प्रकार ‘हवे, हवे, हवं, हवं हुवे, हवि’ में वृत्त्यनुप्रास है। ‘त्रातारम्, अवितारम्,’ में और ‘इन्द्रम्, शक्रम्, पुरुहूतम्’ में पुनरुक्तवदाभास है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सबको चाहिए कि विपत्त्राता, शुभ पालनकर्त्ता, सुख से आह्वान किये जाने योग्य, अनेक जनों से वन्दित, शूर परमेश्वर तथा राजा का आत्मकल्याण और जनकल्याण के लिए वरण करें। साथ ही परमेश्वर को आत्म-समर्पण और राजा को कर-प्रदान भी नियम से करना चाहिए ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमात्मनो नृपतेश्चाह्वानयोग्यत्वं दर्शयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - अहम् (त्रातारम्२) आपद्भ्यस्त्राणकर्तारम् (इन्द्रम्) शत्रुविदारकं जगदीश्वरं राजानं वा, (अवितारम्) सुखादिप्रदानेन पालयितारम् (इन्द्रम्) ऐश्वर्यशालिनं जगदीश्वरं राजानं वा, (हवेहवे) संग्रामे-संग्रामे संकटे-संकटे (सुहवम्) आह्वातुं सुशकम्, (शूरम्) शूरवीरम् (इन्द्रम्) सहायकं जगदीश्वरं राजानं वा, (शक्रम्) शक्तिशालिनम् (पुरुहूतम्) बहुस्तुतं बहुभिराहूतं वा (इन्द्रम्) अविद्यादिदुःखभञ्जकं जगदीश्वरं राजानंवा, (नु) क्षिप्रम् (हुवे) आह्वयामि। ह्वेञ् धातोश्छान्दसं सम्प्रसारणजं रूपम्। सः (मघवा) प्रशस्तधनः (इन्द्रः) जगदीश्वरो राजा वा (इदम्) मया दीयमानम् (हविः) आत्मसमर्पणरूपं राजदेयकररूपं वा हव्यम् (वेतु) व्याप्नोतु स्वीकरोतु। वी गतिव्याप्त्यादिषु पठितः। तस्येदं लोटि रूपम् ॥२॥३ अत्र अर्थश्लेषालङ्कारः। विशेषणानां साभिप्रायत्वात् परिकरालङ्कारोऽपि। ‘इन्द्रम्’ इत्यस्य चतुष्कृत्वः पुनरुक्तिरिन्द्रस्य बहुक्षमत्वम् अन्यविलक्षणतयाऽऽह्वानयोग्यत्वं च द्योतयति। निरर्थकस्य ‘तारमिन्द्रं’ इत्यस्य द्विशः, ‘रमिन्द्रं’ इत्यस्य त्रिशः, ‘मिन्द्र’ इत्यस्य चतुश्श आवृत्तेर्यमकालङ्कारः। ‘हवे, हवे, हवं, हवं, हुवे, हवि’ इति वृत्त्यनुप्रासः। ‘त्रातारम्, अवितारम्’, ‘इन्द्रम्, शक्रम्, पुरुहूतम्’ इत्यत्र च पुनरुक्तवदाभासः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वैर्विपत्त्राता सुपालकः सुखाह्वानो बहुजनवन्दितः शूरः परमेश्वरो नृपतिश्चात्मकल्याणाय जनकल्याणाय च वरणीयः। परमेश्वरायात्मसमर्पणं नृपतये च करप्रदानमपि नियमतो विधेयम् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।४७।११, य० २०।५० उभयत्र ऋषिः गर्गः, ‘ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः’ इति चोत्तरार्धपाठः। अथ० ७।८६।१, ऋषिः अथर्वा स्वस्त्ययनकामः, ‘स्वस्ति न इन्द्रो मघवान् कृणोतु’ इति चतुर्थः पादः। २. त्रातारमिन्द्रम् अवितारमिन्द्रमिति पुनरुक्तिः स्तोतृतमत्वख्यापनाय। त्राणं नाम उपस्थितेभ्यो भयेभ्यो रक्षणम्, अवनं तु द्वेष्यतानिरोध इति विशेषः। अथवा कामैस्तर्पणम् अवनम्—इति भ०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च राजप्रजापक्षे व्याख्यातः।
41_0333 त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे - 01 ...{Loading}...
लिखितम्
३३३-१। इन्द्रस्य त्रातम्॥ इन्द्रस्त्रिष्टुबिन्द्रः॥
त्रा꣢꣯ता꣡꣯रमिन्द्रमविता। र꣪मीऽ२३न्द्रा꣢म्॥ ह꣡वे꣯हवे꣯सुहवꣳशू। र꣪मीऽ२३न्द्रा꣢म्॥ हुवा꣡इनुशक्रंपुरुहू। त꣪मीऽ२३न्द्रा꣢म्॥ इदꣳ꣡ह꣢। वा꣡इः। म꣢घ꣡वा꣯। वा꣢ऽ३४३इ। तू꣢ऽ३वा꣤ऽ५इन्द्रा"ऽ६५६ः॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡जा꣢म꣣ह इ꣢न्द्रं꣣ व꣡ज्र꣢दक्षिण꣣ꣳ ह꣡री꣢णाꣳ र꣣थ्या꣢ऽ३ वि꣡व्र꣢तानाम्। प्र꣡ श्म श्रु꣢꣯भि꣣र्दो꣡धु꣢वदू꣣र्ध्व꣡धा꣢ भुव꣣द्वि꣡ सेना꣢꣯भि꣣र्भ꣡य꣢मानो꣣ वि꣡ राध꣢꣯सा ॥ 42:0334 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् ।
प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣡जा꣢꣯महे। इ꣡न्द्र꣢꣯म्। व꣡ज्र꣢꣯दक्षिणम्। व꣡ज्र꣢꣯। द꣣क्षिणम्। ह꣡री꣢꣯णाम्। र꣣थ्या꣢꣯म्। वि꣡व्र꣢꣯तानाम्। वि। व्र꣣तानाम्। प्र꣢। श्म꣡श्रु꣢꣯भिः। दो꣡धु꣢꣯वत्। ऊ꣣र्ध्व꣡धा꣢। भु꣣वत्। वि꣢। से꣡ना꣢꣯भिः। भ꣡य꣢꣯मानः। वि। रा꣡ध꣢꣯सा। ३३४।
अधिमन्त्रम् (VC)
- इन्द्रः
- विमद ऐन्द्रः, वसुकृद्वा वासुक्रः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि कैसे परमेश्वर और राजा का हम पूजन व सत्कार करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हम (वज्रदक्षिणम्) जिसका न्यायरूप दण्ड सदा जागरूक है ऐसे, (विव्रतानाम्) विविध कर्मों से युक्त (हरीणाम्) आकर्षणशक्तिवाले, गतिमय सूर्य, चन्द्र, नक्षत्र, पृथिवी आदि लोकों के (रथ्यम्) रथी (इन्द्रम्) सर्वद्रष्टा परमात्मा की (यजामहे) पूजा करते हैं। वह (श्मश्रुभिः) सूर्य-किरणों द्वारा (प्र दोधुवत्) रोग आदियों को अतिशय पुनः पुनः प्रकंपित कर देता है, (ऊर्ध्वधा) सर्वोन्नत वह (सेनाभिः) सेनाओं के समान विद्यमान अपनी शक्तियों से (भयमानः) दुर्जनों को भयभीत करता हुआ (वि भुवत्) वैभवशाली बना हुआ है, और (राधसा) ऐश्वर्य से (वि) वैभवशाली बना हुआ है ॥ द्वितीय—राजा-प्रजा के पक्ष में। हम राष्ट्रवासी प्रजाजन (वज्रदक्षिणम्) दाहिने हाथ में वज्रतुल्य दृढ शस्त्रास्त्रों को धारण करनेवाले (विव्रतानाम्) विविध कर्मोंवाले (हरीणाम्) अग्नि, वायु, विद्युत् और सूर्यकिरणों को (रथ्यम्) अग्नियानों, वायुयानों, विद्युद्यानों और सूर्यताप से चलनेवाले यानों में प्रयुक्त करनेवाले (इन्द्रम्) शूरवीर राजा वा सेनाध्यक्ष को (यजामहे) सत्कृत करते हैं। वह शत्रुओं की (श्मश्रुभिः दोधुवत्) मूछें नीची करता हुआ अर्थात् उनका गर्व चूर करता हुआ (ऊर्ध्वधा) उन्नत (भुवत्) होता है, तथा (सेनाभिः) अपनी दुर्दान्त सेनाओं से (भयमानः) शत्रुओं को भयभीत करता हुआ (वि भुवत्) विजयी होता है, और (राधसा) ऐश्वर्य से (वि) वैभवशाली होता है ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - दुष्टों और पापों के प्रति दण्डधारी, न्यायकारी, सब लोकों को नियम से अपनी-अपनी परिधि पर और सूर्य के चारों ओर घुमानेवाला, शौर्य आदि गुणों में सबसे बढ़ा हुआ परमेश्वर जैसे सब जनों से पूजनीय है, वैसे ही अनेक शस्त्रास्त्रों से युक्त, राष्ट्र में विमानादि यानों का प्रबन्धकर्ता, सेनाओं द्वारा शत्रुओं को पराजित करनेवाला सेनाध्यक्ष अथवा राजा भी सब प्रजाओं द्वारा सम्माननीय है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशं परमेश्वरं राजानं वा वयं यजामहे इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। वयम् (वज्रदक्षिणम्) वज्रः न्यायदण्डः दक्षिणः सततजागरूको यस्य तम्, (विव्रतानाम्) विविधकर्मणाम्। व्रतमिति कर्मनाम। निघं० २।१। (हरीणाम्) आकर्षणशक्तियुक्तानां गतिमतां सूर्यचन्द्रनक्षत्रपृथिव्यादिलोकानाम् (रथ्यम्) वोढारम्। रथं वहतीति रथ्यः। ‘तद्वहति रथयुगप्रासङ्गम्। अ० ४।४।७६’ इति यत्। (इन्द्रम्) सर्वद्रष्टारं परमात्मानम् (यजामहे) पूजयामः। सः (श्मश्रुभिः२) सूर्यकिरणैः। श्मश्रु लोम श्मनि श्रितं भवति इति निरुक्तम् ३।५। यथा श्मनि शरीरे श्रितत्वान्मुखलोमानि श्मश्रूण्युच्यन्ते, तथैव आदित्यशरीरे श्रितत्वात् तद्रश्मयोऽपि श्मश्रूणीत्यध्यवसेयम्। (प्र दोधुवत्) रोगादीन् भृशं पुनः पुनः प्रकम्पयन्। धूञ् कम्पने धातोर्यङ्लुगन्ताच्छतरि रूपम्। (ऊर्ध्वधा) सर्वत ऊर्ध्वः सः (सेनाभिः) चमूभिरिव विद्यमानाभिः स्वशक्तिभिः (भयमानः) दुर्जनान् भीषयन् बिभेतेरन्तर्णीतण्यर्थः प्रयोगोऽयं ज्ञेयः। (वि भुवत्) विभवति सर्वोत्कर्षेण वर्तते, किञ्च (राधसा) ऐश्वर्येण। राध इति धननाम, निघं० २।१०। (वि) विभुवत्, सर्वोत्कर्षेण वर्तते ॥ अथ द्वितीयः—राजप्रजापरः। (वयम्) राष्ट्रवासिनः प्रजाजनाः (वज्रदक्षिणम्) वज्रः वज्रवद् दृढानि शस्त्रास्त्राणि दक्षिणे हस्ते यस्य तम्। दक्षिणो हस्तो दक्षतेरुत्साहकर्मणः, निरु० १।७। वज्रशब्दो रन्प्रत्ययान्तत्वाद् नित्स्वरेणाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (विव्रतानाम्) विविधकर्मणाम् (हरीणाम्) अग्निवायुविद्युतां सूर्यरश्मीनां च (रथ्यम्) अग्नियानेषु वायुयानेषु विद्युद्यानेषु सौरयानेषु च प्रयोक्तारम् (इन्द्रम्) शूरं राजानं सेनाध्यक्षं वा (यजामहे) सत्कुर्महे। शत्रून् (श्मश्रुभिः३ दोधुवत्) मुखलोमभिः प्रकम्पयन्, शत्रून् पराजित्य तेषां मुखलोमानि अधः कुर्वन्, तद्गर्वं चूर्णयन्नित्यर्थः ‘अक्ष्णा काणयन्’ ‘पादेन खञ्जयन्’ इतिवत् प्रयोगोऽयम्। (ऊर्ध्वधा) ऊर्ध्वः (भुवत्) भवति। किञ्च (सेनाभिः) स्वकीयाभिर्दुर्दान्ताभिः चमूभिः (भयमानः) शत्रून् भीषयन् (वि भुवत्) विजयते, (राधसा) ऐश्वर्येण च (वि) विभुवत् वैभवयुक्तो जायते ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - दुष्टेषु पापेषु चोद्यतदण्डो, न्यायकारी, सर्वेषां लोकानां नियमेन स्वस्वपरिधौ सूर्यं परितश्च भ्रमयिता, शौर्यादिषु सर्वातिशायी परमेश्वरो यथा सर्वैर्जनैः पूजनीयस्तथैव बहुभिः शस्त्रास्त्रैर्युक्तो, राष्ट्रे विमानादियानानां प्रबन्धकर्ता, सेनाभिः शत्रूणां पराजेता सेनाध्यक्षो नृपतिश्चापि प्रजाभिः संमाननीयः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।२३।१, ‘प्र श्मश्रु दोधुवदूर्ध्वथा भूद् वि सेनाभिर्दयमानो विराधसा’ इत्युत्तरार्द्धपाठः। २. श्मश्रुभिः तेजोभिः। ऊर्ध्वधा उर्ध्व इत्यर्थः। भुवत् भवति, उद्युक्तो भवतीत्यर्थः—इति भ०। ३. श्मश्रूणि श्मश्रुग्रहणं चात्र प्रदर्शनार्थम्। सर्वरोमाणि शत्रूणाम्। प्र दोधुवत्, धू विधूनने इत्यस्येदं रूपम्, पुनः पुनः प्रकर्षेण धुवति। उद्धूपितरोमकूपान् शत्रून् करोतीत्यर्थः—इति वि०।
42_0334 यजामह इन्द्रम् - 01 ...{Loading}...
लिखितम्
३३४-१। वार्त्रतुरम्॥ वृत्रतुरस्त्रिष्टुबिन्द्रः॥
य꣥जा꣯महो꣤वा꣥॥ आ꣡इन्द्रंव꣢ज्र। द꣡क्षाऽ२३इणा꣢म्। ह꣡री꣯णाꣳ꣢꣯रथ्यं꣡वि। व्रताऽ२३ना꣢म्। प्र꣡श्मश्रु꣢भिर्दो꣡꣯धु꣢वत्। ऊ꣡। ध्वाधा꣢᳐भू꣣ऽ२३४वा꣥त्॥ वि꣡साइ। ना। भि꣢र्भय꣡मानाऽ२३ः॥ वा꣡ऽ२३इरा꣤ऽ३। धा꣢ऽ३४५सोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
स꣣त्राह꣢णं꣣ दा꣡धृ꣢षिं꣣ तु꣢म्र꣣मि꣡न्द्रं꣢ म꣣हा꣡म꣢पा꣣रं꣡ वृ꣢ष꣣ भ꣢ꣳ सुवज्रम्। ह꣢न्ता꣣ यो꣢ वृ꣣त्र꣡ꣳ सनि꣢꣯तो꣣त꣢꣫ वाजं꣣ दा꣡ता꣢ म꣣घा꣡नि꣢ म꣣घ꣡वा꣢ सु꣣रा꣡धाः꣢ ॥ 43:0335 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र॑म् ।
हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
स꣣त्राह꣡ण꣢म्। स꣣त्रा। ह꣡न꣢꣯म्। दा꣡धृ꣢꣯षिम्। तु꣡म्रम्। इ꣡न्द्र꣢꣯म्। म꣣हा꣢म्। अ꣣पार꣢म्। अ꣣। पार꣢म्। वृ꣢षभम्। सु꣣व꣡ज्र꣢म्। सु꣣। व꣡ज्र꣢꣯म्। ह꣡न्ता꣢꣯। यः। वृ꣣त्र꣢म्। स꣡नि꣢꣯ता। उ꣣त꣢। वा꣡ज꣢म्। दा꣡ता꣢꣯। म꣣घा꣡नि꣢। म꣣घ꣡वा꣢। सु꣣रा꣡धाः꣢। सु꣣। रा꣡धाः꣢꣯। ३३५।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
पुनः वह परमेश्वर और राजा कैसा है, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हम (सत्राहणम्) सत्य से असत्य का खण्डन करनेवाले, (दाधृषिम्) पापों व पापियों का अतिशय धर्षण करनेवाले अथवा अत्यन्त प्रगल्भ, (तुम्रम्) शुभ कर्मों में प्रेरित करनेवाले, (महाम्) महान्, (अपारम्) अपार अर्थात् अनन्त विद्या वा पराक्रमवाले, (वृषम्) सुखों की वर्षा करनेवाले, (सुवज्रम्) उत्कृष्ट दण्डशक्तिवाले (इन्द्रम्) अधर्म, अविद्या आदि के विदारक परमात्मा वा राजा का (यजामहे) पूजन वा सत्कार करते हैं, (मघवा) ऐश्वर्यवान् (सुराधाः) उत्कृष्ट न्याय व धर्म रूप धनवाला (यः) जो परमात्मा वा राजा (वृत्रम्) विघ्नभूत शत्रु को (हन्ता) मारता है, (उत) और (वाजम्) अन्न, बल, विज्ञान आदि को (सनिता) बाँटता है तथा (मघानि) धनों को (दाता) देता है ॥४॥ इस मन्त्र में ‘यजामहे’ क्रियापद पूर्व मन्त्र से आया है। अर्थश्लेष और परिकर अलङ्कार है। ‘न्ता, निता’ और ‘मघा, मघ’ में छेकानुप्रास, तथा मकार, तकार की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब राष्ट्रवासी प्रजाजनों को चाहिए कि मन्त्रोक्त गुणों से विभूषित परमात्मा की पूजा और राजा का सत्कार करें ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
पुनः स परमेश्वरो राजा वा कीदृशोऽस्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - वयम् (सत्राहणम्२) सत्येन असत्यस्य हन्तारम्। सत्रा इति सत्यनाम। निघं० ३।१०। (दाधृषिम्) भृशं पापानां पापिनां च धर्षकम्, भृशं प्रगल्भं वा। अत्र धृष प्रसहने, ञिधृषा प्रागल्भ्ये इति वा धातोः ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। अ० ३।२।१७१’ वा० इत्यनेन किन् प्रत्ययो लिड्वच्च। नित्त्वादाद्युदात्तत्वम्। (तुम्रम्३) शुभकर्मसु प्रेरकम्, (महाम्) महान्तम्, (अपारम्) अनन्तविद्यम् अनन्तपराक्रमं वा, (वृषभम्) सुखवर्षकम् (सुवज्रम्४) उत्कृष्टदण्डम् (इन्द्रम्) अधर्माविद्यादिविदारकं परमात्मानं राजानं वा (यजामहे) पूजयामः सत्कुर्मो वा। (मघवा) ऐश्वर्यवान्, (सुराधाः) उत्कृष्टन्यायधर्मधनः (यः) परमात्मा राजा वा (वृत्रम्) विघ्नभूतं शत्रुम् (हन्ता) हिंसिता, (उत) अपि च (वाजम्) अन्नबलविज्ञानादिकम् (सनिता) संविभक्ता, (मघानि) धनानि च, (दाता) दानकर्ता भवति। अत्र हन्ता, सनिता, दाता इत्येतेषां तृन्नन्तत्वात् वृत्रं, वाजं, मघानि इत्यत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्। अ० २।३।६९’ इति षष्ठ्यभावे द्वितीयैव भवति। नित्त्वादेवाद्युदात्तः स्वरः ॥४॥५ अत्र ‘यजामहे’ इति पूर्वस्मान्मन्त्रादाकृष्यते। अर्थश्लेषोऽलङ्कारः परिकरश्च। ‘न्ता, नितो’ ‘मघा, मघ’ इत्यत्र छेकानुप्रासः। मकारस्य तकारस्य चासकृदावृत्तौ वृत्त्यनुप्रासः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वै राष्ट्रवासिभिः प्रजाजनैर्मन्त्रोक्तगुणविभूषितः परमात्मा पूजनीयो राजा च सत्कर्त्तव्यः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ४।१७।८। २. सत्राशब्दः सदाशब्दपर्यायः। सदा हन्तारं शत्रूणाम्। अथवा सत्रेति सत्यनाम। सत्येन असत्यानामसुराणां हन्तारम्—इति वि०। बहूनां हन्तारम्। सत्रेति बहुनाम—इति भ०। ३. तुम्रं प्रेरकम्। तुमिः प्रेरणकर्मा—इति भ०। शत्रूणां प्रेरकम्—इति सा०। तुम्रम्, लुप्तोपममिदं द्रष्टव्यम्। तुम्रसदृशम्, स्थूलमित्यर्थः—इति वि०। ४. (सुवज्रम्) शोभनशस्त्रास्त्राणां प्रयोक्तारमिति ऋ० ४।१७।८ भाष्ये द०। ५. ऋग्भाष्ये दयानन्दर्षिरिमं मन्त्रं राजपक्षे व्याख्यातवान्। एष च तत्र तत्कृतो भावार्थः—‘यः पूर्णविद्यः सत्यवादी प्रगल्भो बलिष्ठः शस्त्रास्त्रप्रयोगविदभयदाता पुरुषो भवेत्तमेव राज्यायाधिकुरुत’ इति।
43_0335 सत्राहणं दाधृषिम् - 01 ...{Loading}...
लिखितम्
३३५-१। मारुतस्य धृषतः सामनी द्वे॥ द्वयोः धृषत्स्त्रिष्टुबिन्द्रः॥
स꣥त्रा꣯। ह꣣णा꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥॥ दा꣡꣯धृ꣢षिन्तू꣡। म्रमिन्द्रा꣢᳐ओ꣣ऽ२३४वा꣥। म꣢हा꣡꣯मपा꣢꣯रँ꣡ वृष꣢भꣳ꣡सु꣢व꣡ज्राऽ२३म्॥ ह꣡न्ताऽ२᳐यो꣣ऽ२३४वॄ꣥॥ त्राꣳ꣡सनि। तो꣢ऽ३४३। ता꣢ऽ३वा꣤ऽ५जाऽ ६५६म्॥ दा꣡꣯ता꣢꣯मघा꣡꣯निम꣢घ꣡वा꣰꣯ऽ२सुरा꣡꣯धा꣣ऽ२३꣡४꣡५ः꣡॥
43_0335 सत्राहणं दाधृषिम् - 02 ...{Loading}...
लिखितम्
३३५-२।
स꣤त्रा꣯ह꣣ण꣤न्दा꣣꣯धृ꣤षि꣥म्। तू꣢ऽ३४३म्म्र꣢᳐मि꣣न्द्र꣥म्॥ म꣢हा꣡꣯मपा꣢꣯रं꣡वृष꣢भꣳ꣡सु꣢व꣡ज्राऽ२३म्॥ ह꣢᳐न्तायो꣣ऽ२३४वॄ꣥॥ त्राꣳ꣡सनि। तो꣢ऽ३४३। ता꣢ऽ३वा꣤ऽ५जाऽ६५६म्॥ दा꣡꣯ता꣢꣯ मघा꣡꣯नि म꣢घ꣡वा꣰꣯ऽ२सुरा꣡꣯धा꣣ऽ२३꣡४꣡५ः꣡॥
योनि-प्रस्तुतिः ...{Loading}...
यो꣡ नो꣢ वनु꣣ष्य꣡न्न꣢भि꣣दा꣢ति꣣ म꣢र्त꣣ उ꣡ग꣢णा वा꣣ म꣡न्य꣢मानस्तु꣣रो꣡ वा꣡। क्षि꣣धी꣢ यु꣣धा꣡ शव꣢꣯सा वा꣣ त꣡मि꣢न्द्रा꣣भी꣡ ष्या꣢म वृषमण꣣स्त्वो꣡ताः꣢ ॥ 44:0336 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
यः꣢। नः꣣। वनुष्य꣢न्। अ꣣भिदा꣡ति꣢। अ꣣भि। दा꣡ति꣢꣯। म꣡र्तः꣢꣯। उ꣡ग꣢꣯णा। उ। ग꣣णा। वा। म꣡न्य꣢꣯मानः। तु꣣रः꣢। वा꣣। क्षिधी꣢। यु꣣धा꣢। श꣡व꣢꣯सा। वा꣣। त꣢म्। इ꣣न्द्र। अभि꣢। स्या꣣म। वृषमणः। वृष। मनः। त्वो꣡ताः꣢꣯। त्वा। ऊ꣣ताः। ३३६।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि परमात्मा और राजा की सहायता से हम क्या करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यः मर्तः) जो मनुष्य (वनुष्यन्) क्रोध करता हुआ (उगणा वा) और सैन्यगणों अथवा आयुध गणों को तैयार किये हुए (मन्यमानः) अभिमान करता हुआ, अथवा (उगणा) अपनी शस्त्रास्त्रों से सज्जित सेनाओं को (मन्यमानः) बहुत मानता हुआ (तुरः) शीघ्रकारी यमराज भी होकर (नः) हमारी (अभिदाति) हिंसा पर उतारू होता है, हे (इन्द्र) शत्रुविदारक परमात्मन् वा राजन् ! (तम्) उस मनुष्य को (त्वम्) आप (युधा) युद्ध से (शवसा वा) और बल से (क्षिधि) विनष्ट कर दो। हे (वृषमणः) बलवान् मनवाले परमात्मन् वा राजन् ! (त्वोताः) आप से रक्षित हम, उसे (अभिस्याम) परास्त कर दें ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो वैरी शत्रु विशाल सेना लेकर अपने बल का अभिमान करता हुआ सज्जनों को उद्विग्न करे, उसे वे परमात्मा से पुरुषार्थ की प्रेरणा लेकर और राजा की सहायता से युद्ध में पराजित कर दें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनो नृपतेश्च साहाय्येन वयं किं कुर्यामेत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यः मर्तः) यो मनुष्यः (वनुष्यन्) क्रुध्यन्। वनुष्यतिः क्रुध्यतिकर्मा। निघं० २।१२। अपि च (उगणा१ वा) उद्यतसैन्यो वा उद्यतायुधगणो वा। उगणा उद्यतगणः ? उ इति उत् इत्यर्थे वर्तते। पृषोदरादित्वान्मध्यमपदलोपः। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति प्रथमैकवचनस्याकारादेशः। (मन्यमानः) अभिमन्यमानो वा। यद्वा (उगणा) स्वकीया उद्यतायुधगणाः सेनाः (मन्यमानः) बहु मन्यमानः इति व्याख्येयम्। याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त। ये स्ते॒ना ये च॒ तस्क॑रास्ताँस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये॑। य० ११।७७ इति प्रामाण्यात्।(तुरः२) सत्वरो यमोऽपि भूत्वा। तुर त्वरणे। तुर इति यमनाम, तरतेर्वा त्वरतेर्वा, त्वरया तूर्णगतिर्यमः। निरु० १२।१४। (नः) अस्मान् (अभिदाति३) हिनस्ति। दाप् लवने अदादिः। हे (इन्द्र) शत्रुविदारक परमात्मन् राजन् वा ! (तम्) मनुष्यम्, त्वम्, (युधा) युद्धेन (शवसा वा) बलेन वा। शव इति बलनाम। निघं० २।९। (क्षिधि) क्षपय।४ क्षि क्षये इत्यस्य छान्दसं रूपमिदम्। अङितश्च अ० ६।४।१०३ इति हेर्धिः। अन्येषामपि दृश्यते अ० ६।३।१३७ इति दीर्घः। पादादित्वान्निघाताभावः। हे (वृषमणः५) वृषं बलवद् मनो यस्य तादृश परमात्मन् राजन् वा ! (त्वोताः) त्वद्रक्षिताः वयम् तम् (अभिस्याम) अभिभवेम, पराजयेमहि। संहितायाम् अभी इत्यत्र ‘निपातस्य च। अ० ६।३।१३६’ इति दीर्घः। ‘ष्याम’ इत्यत्र ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः। अ० ८।३।८७’ इति षत्वम् ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यो रिपुर्महतीं सेनामादाय स्वबलमभिमन्यमानः सन् सज्जनानुद्वेजयेत् तं ते परमात्मनः पुरुषार्थप्रेरणया नृपस्य साहाय्येन च युद्धे पराभवेयुः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १-३. उगणाः उरुगणाः। तुरः तुर्वतेर्वधकर्मण एतद् रूपम्, हिनस्ति—इति वि०। उगणा वा उद्गूर्णा वा । तुर इति तुर्वतेः हिंसाकर्मणो रूपम्। वृत्रतुरितिवत्। हन्त्री वा शत्रूणाम् अस्मदीयाः प्रजा अभिदासति—इति भ०। तुरः इति ‘तुर’ शब्दस्य शसि रूपं चेदङ्गीक्रियते तदा स्वरो न सङ्गच्छेत इत्यस्माभिरकारान्तस्य तुर शब्दस्य प्रथमैकवचनत्वेन व्याख्यातम्। ४. क्षिधी। क्षि क्षये इत्यस्येदं रूपम्। उपक्षपय इत्यर्थः—इति वि०। क्षिधिः क्षयस्य निधिः। क्षिधि शब्दात् तृतीयैकवचने पूर्वसवर्णदीर्घः। क्षयकरेण युधा संप्रहारेण—इति भ०। क्षिः क्षयो धीयते म्रियते अनेनेति क्षिधिः। तृतीयैकवचनस्य पूर्वसवर्णदीर्घः। क्षयकरेण युधा संप्रहारेण—इति भ०। क्षिः क्षयो धीयते भ्रियते अनेनेति क्षिधिः। तृतीयैकवचनस्य पूर्वसवर्णः। क्षयकरेण युधा आयुधेन—इति सा०। ५. सायणस्तु ‘वृषमणः वृषा इवाचरन्तो वयम्’ इत्याह। तत्र स्वरो न सङ्गच्छते।
44_0336 यो नो - 01 ...{Loading}...
लिखितम्
३३६-१। आत्रम्॥ अत्रिस्त्रिष्टुबिन्द्रः॥
यो꣣꣯नो꣤꣯वनुष्य꣣न्न꣤भि꣥दा꣯। ति꣣मा꣢᳐ऽ३२३४र्ताः꣥॥ उ꣡गणा꣯वा꣯मन्यमा꣯नस्तु꣢रो꣡ऽ२३वा꣢। क्षिधी꣡꣯युधा꣯शवसा꣯वा꣯त꣢मा꣡ऽ२३इन्द्रा꣢। अ꣡भाइष्या꣢ऽ३मा꣢॥ वृ꣡षामा꣢ऽ३णा꣢ऽ३ः। त्वो꣡ऽ२३ ता꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
यं꣢ वृ꣣त्रे꣡षु꣢ क्षि꣣त꣢य꣣ स्प꣡र्ध꣢माना꣣ यं꣢ यु꣣क्ते꣡षु꣢ तु꣣र꣡य꣢न्तो꣣ ह꣡व꣢न्ते। य꣡ꣳ शूर꣢꣯सातौ꣣ य꣢म꣣पा꣡मुप꣢꣯ज्म꣣न्यं꣡ विप्रा꣢꣯सो वा꣣ज꣡य꣢न्ते꣣ स꣡ इन्द्रः꣢꣯ ॥ 45:0337 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣢म्। वृ꣣त्रे꣡षु꣢। क्षि꣣त꣡यः꣣। स्प꣡र्ध꣢꣯मानाः। यम्। यु꣣क्ते꣡षु꣢। तु꣣र꣡य꣢न्तः। ह꣡व꣢꣯न्ते। यम्। शू꣡र꣢꣯सातौ। शू꣡र꣢꣯। सा꣣तौ। य꣢म्। अ꣣पा꣢म्। उ꣡प꣢꣯ज्मन्। उ꣡प꣢꣯। ज्म꣣न्। य꣢म्। वि꣡प्रा꣢꣯सः। वि। प्रा꣣सः। वाज꣡य꣢न्ते। सः। इ꣡न्द्रः꣢꣯। ३३७।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र का परिचय प्रस्तुत किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—राजा के पक्ष में। (वृत्रेषु) अविद्या, भ्रष्टाचार आदियों के व्याप्त हो जाने पर (स्पर्धमानाः) उन पर विजय पाना चाहते हुए (क्षितयः) प्रजाजन (यं हवन्ते) जिस जननायक को पुकारते हैं, (युक्तेषु) किन्हीं महान् कर्मों के प्रारम्भ करने पर (तुरयन्तः) कार्यसिद्धि के लिए शीघ्रता करते हुए प्रजाजन (यं हवन्ते) जिस कार्यसाधक को पुकारते हैं, (शूरसातौ) शूरों को विजयोपलब्धि करानेवाले संग्राम में (यं हवन्ते) जिस वीर को पुकारते हैं, (अपाम्) सरोवर, नहर आदियों के (उपज्मन्) निर्माण के लिए (यं हवन्ते) जिस राष्ट्रनिर्माता को पुकारते हैं, (विप्रासः) ज्ञानी ब्राह्मण लोग (यं वाजयन्ते) जिसे अपना परामर्श देकर बलवान् करते हैं, (सः) वह दुःखविदारक, सुखप्रदाता राजा (इन्द्रः) इन्द्र कहाता है ॥ द्वितीय—परमात्मा के पक्ष में। (वृत्रेषु) योगमार्ग में व्याधि, स्त्यान, संशय, प्रमाद, आलस्य आदि विघ्नों के उपस्थित होने पर (स्पर्धमानाः) उन्हें जीतने की इच्छावाले योगीजन (यं हवन्ते) जिस सहायक को पुकारते हैं, (युक्तेषु) इन्द्रिय, मन, प्राण आदियों के योग में लग जाने पर (तुरयन्तः) योगसिद्धि पाने के लिए शीघ्रता करते हुए योगीजन (यं हवन्ते) जिस सिद्धिप्रदाता को पुकारते हैं, (शूरसातौ) आन्तरिक देवासुर-संग्राम के उपस्थित होने पर (यं हवन्ते) जिस विजयप्रदाता को पुकारते हैं, (अपाम्) प्राणों के (उपज्मन्) उपरले-उपरले चक्र में चंक्रमण करने के निमित्त (यं हवन्ते) जिस योगक्रियाओं में सहायक को पुकारते हैं, (यम्) और जिसकी (विप्रासः) ज्ञानी योगीजन (वाजयन्ते) अर्चना करते हैं, (सः) वह धारणा-ध्यान-समाधि से प्राप्तव्य परमेश्वर (इन्द्रः) इन्द्र कहलाता है ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वेदों में इन्द्र नाम से जिसका बहुत स्थानों पर वर्णन है, वह विघ्नविदारक, आरम्भ किये कार्यों में सिद्धिप्रदायक, देवासुरसंग्रामों में विजयप्रदाता, जलधाराओं को प्रवाहित करानेवाला, ज्ञानीजनों की स्तुति का पात्र ब्रह्माण्ड में परमेश्वर तथा राष्ट्र में राजा है। उनकी यथायोग्य उपासना प्रार्थना और सत्कार से अभीष्ट लाभ सबको उनसे प्राप्त करने चाहिएँ ॥६॥ इस मन्त्र पर विवरणकार ने यह अपनी कल्पना से ही घड़ा हुआ इतिहास लिखा है कि इन्द्र के अत्यन्त भक्त होने के कारण इन्द्र का रूप धारण किये हुए वामदेव ऋषि को जब असुर पकड़कर मारने लगे तब वह इस मन्त्र को कह रहा है कि इन्द्र मैं नहीं हूँ, इन्द्र तो ऐसा-ऐसा है। इसी प्रकार का इतिहास ‘स जनास इन्द्रः’ इस प्रकार इन्द्र का परिचय देनेवाले, गृत्समद ऋषि से दृष्ट ऋग्वेदीय द्वितीय मण्डल के १२वें सूक्त पर गृत्समद के नाम से किन्हीं लोगों ने कल्पित कर लिया था, जो सायण के ऋग्वेदभाष्य में उद्धृत है। यह सब प्रामाणिक नहीं है, किन्तु कथाकारों का लीलाविलास है ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रस्य परिचयः प्रस्तूयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—राजपरः। (वृत्रेषु) अविद्याभ्रष्टाचारादिषु व्याप्तेषु (स्पर्द्धमानाः) विजिगीषमाणाः (क्षितयः) प्रजाजनाः। क्षितय इति मनुष्यनामसु पठितम्। निघं० २।३। (यं हवन्ते) यं जननायकम् आह्वयन्ति, (युक्तेषु) आरब्धेषु केषुचिन्महत्सु कर्मसु (तुरयन्तः१) कार्यसिद्ध्यर्थं त्वरमाणाः प्रजाजनाः (यं हवन्ते) यं कार्यसाधकम् आह्वयन्ति, (शूरसातौ) शूराणां वीरक्षत्रियाणां सातिः विजयप्राप्तिर्यस्मिन् तस्मिन् संग्रामे उपस्थिते सति। शूरसातौ इति संग्रामनामसु पठितम्। निघं० २।१७। (यम् हवन्ते) यं वीरम् आह्वयन्ति, (अपाम्) कुल्यासरोवरादीनाम् (उपज्मन्२) उपज्मनि उपप्राप्तौ। उप पूर्वाज्जमतेर्गतिकर्मण एतद् रूपम्। निमित्तार्थे सप्तमी। ‘सुपां सुलुक्। अ० ७।१।३९’ इति सप्तम्या लुक्। (यं हवन्ते) यं राष्ट्रनिर्मातारम् आह्वयन्ति, (विप्रासः) ज्ञानिनो ब्राह्मणाः (यं वाजयन्ते) यं स्वपरामर्शदानेन बलिनं कुर्वन्ति। (सः) असौ दुःखविदारकः सुखप्रदो राजा (इन्द्रः) इन्द्रः प्रोच्यते ॥ अथ द्वितीयः—परमात्मपरः। (वृत्रेषु) योगमार्गे व्याधिस्त्यानसंशय- प्रमादालस्यादिषु विघ्नेषु उपस्थितेषु (स्पर्द्धमानाः) तान् विजिगीषमाणाः योगिजनाः (यं हवन्ते) यं सहायकम् आह्वयन्ति, (युक्तेषु) इन्द्रियमनः—प्राणादिषु योगयुक्तेषु सत्सु (तुरयन्तः) योगसिद्ध्यर्थं त्वरमाणाः योगिनः (यं हवन्ते) यं सिद्धिप्रदातारम् आह्वयन्ति, (शूरसातौ) आभ्यन्तरे देवासुरसंग्रामे उपस्थिते (यं हवन्ते) यं विजयप्रदातारम् आह्वयन्ति, (अपाम्) प्राणानाम्। प्राणा वा आपः। तै० ३।२।५।२, तां ब्रा० ९।९।४। आपो वै प्राणाः। श० ब्रा० ३।८।२।४ इति प्रामाण्यात्। (उपज्मन्) ऊर्ध्वोर्ध्वचक्रचङ्क्रमणनिमित्ताय (यं हवन्ते) यं योगक्रियासु सहायकम् आह्वयन्ति, (यम्) यं च (विप्रासः) ज्ञानिनो योगिजनाः (वाजयन्ते) अर्चन्ति। वाजयतिः अर्चतिकर्मा। निघं० ३।१४। (सः) असौ धारणाध्यानसमाधिलभ्यः परमेश्वरः (इन्द्रः) इन्द्रः उच्यते ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वेदेष्विन्द्रनाम्ना यस्य बहुशो वर्णनं वर्वर्ति स खलु विघ्नविदारकः, प्रारब्धकार्येषु सिद्धिप्रदायको, देवासुरसंग्रामेषु विजयप्रदाता, जलधाराणां प्रवाहयिता, विप्राणां स्तुतिपात्रभूतो ब्रह्माण्डे परमेश्वरो राष्ट्रे वा राजा विद्यते। तयोर्यथायोग्यमुपासनया प्रार्थनया सत्कारेण चाभीष्टलाभाः सर्वैः ताभ्यां प्राप्तव्याः ॥६॥ अत्र इन्द्रस्यातिभक्ततया इन्द्ररूपमास्थितः असुरैर्गृहीतो हन्यमानः वामदेवः आह इति विवरणकृत् स्वकल्पनाप्रसूतमितिवृत्तं प्रोवाच। तादृशमेवेतिवृत्तं गृत्समदेन ऋषिणा दृष्टस्य ऋग्वेदीयस्य ‘स जनास इन्द्रः’ इतीन्द्रपरिचयं प्रस्तुवानस्य द्वितीयमण्डलस्थद्वादशसूक्तस्य विषये गृत्समदनाम्मा कैश्चित् कल्पितमस्ति, यत् सायणीये ऋग्वेदभाष्ये समुद्धृतं विलोक्यते। तत्सर्वं न प्रामाणिकं, किन्तु कथाकाराणां लीलाविलसितमेवेति मन्तव्यम् ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. तुरयन्तः त्वरमाणाः हिंसन्तो वा शत्रून्—इति वि०। २. अपाम् उपज्मन्। उप पूर्वस्य अज गतिक्षेपणयोरित्यस्येदं रूपम्। आपः समीपे यस्मिन् काले आगच्छन्ति सः अपामुपज्मा वर्षाकालः तस्मिन् अपाम् उपज्मे। उदकार्थं वर्षाकाले यमाह्वयन्तीत्यभिप्रायः—इति वि०। अपाम् उपज्मन् उपगमने प्राप्तौ, वृष्ट्यर्थमित्यर्थः—इति भ०।
45_0337 यं वृत्रेषु - 01 ...{Loading}...
लिखितम्
३३७-१। गृत्समदस्य मदौ द्वौ गार्त्समदे वा द्वे॥ द्वयोः गृत्समदस्त्रिष्टुबिन्द्रः॥
हा꣥꣯उयंवृत्रे꣯षू। क्षि꣢तयाऽ३ः। स्प꣢᳐र्ध꣣मा꣤नाः꣥। ध꣡मा꣯ना꣢ऽ३ः। ई꣡ऽ२३४यइया꣯॥ हा꣥꣯उयंयुक्ते꣯षू। तु꣢रयाऽ३। तो꣢᳐ह꣣व꣤न्ता꣥इ। ह꣡वन्ता꣢ऽ३इ। ई꣡ऽ२३४यइया꣯॥ हा꣥꣯उयꣳशू꣯रसा। ता꣤ऽ३उय꣢म꣣। पा꣢᳐मु꣣प꣤ज्मा꣥न्। उ꣡पज्मा꣢ऽ३न्। ई꣡ऽ२३४यइया꣯॥ हा꣥꣯उयंविप्रा꣯साः। वा꣤ऽ३ज꣢य꣣। ता꣢᳐इस꣣इ꣤न्द्राः꣥। स꣡इन्द्रा꣢ऽ३ः। ई꣡ऽ२३४य। इ꣥याऽ६। हा꣥उवा॥ ई꣣ऽ२३꣡४꣡५꣡॥
45_0337 यं वृत्रेषु - 02 ...{Loading}...
लिखितम्
३३७-२।
यं꣥यंया꣯। हा꣯उयंवृत्रे꣯षू। क्षि꣢तयाऽ३ः। स्प꣢᳐र्ध꣣मा꣤नाः꣥। ध꣡मा꣯नाः꣢꣯। यंयं꣡य꣰ऽ२०या꣡म्॥ यं꣥यंया꣯। हा꣯उयंयुक्ते꣯षू। तु꣢रयाऽ३। तो꣢᳐ह꣣व꣤न्ता꣥इ। ह꣡वन्ते꣢꣯। यंयं꣡य꣰ऽ२०या꣡म्॥ यं꣥यंया꣯। हा꣯उयꣳशू꣯रसा। ता꣤ऽ३उय꣢म꣣। पा꣢᳐मु꣣प꣤ज्मा꣥न्। उ꣡पज्म꣢न्। यंयं꣡य꣰ऽ२०या꣡म्॥ यं꣥यंया꣯। हा꣯उयंविप्रा꣯साः। वा꣤ऽ३ज꣢य꣣। ता꣢᳐इस꣣इ꣤न्द्राः꣥। स꣡इन्द्रः꣢। यंयं꣡य꣰ऽ२०या꣡म्। यं꣥यंयाऽ६। हा꣥उवा। ई꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣡न्द्रा꣢पर्वता बृह꣣ता꣡ रथे꣢꣯न वा꣣मी꣢꣯रिष꣣ आ꣡ व꣢हतꣳ सु꣣वी꣡राः꣢। वी꣣त꣢ꣳ ह꣣व्या꣡न्य꣢ध्व꣣रे꣡षु꣢ देवा꣣ व꣡र्धे꣢थां गी꣣र्भी꣡रिड꣢꣯या꣣ म꣡द꣢न्ता ॥ 46:0338 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।
वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्रा꣢꣯पर्वता। बृ꣣हता꣢। र꣡थे꣢꣯न। वा꣣मीः꣢। इ꣡षः꣢। आ। व꣣हतम्। सुवी꣡राः꣢। सु꣣। वी꣡राः꣢꣯। वी꣣त꣢म्। ह꣣व्या꣡नि꣢। अ꣣ध्वरे꣡षु꣢। दे꣣वा। व꣡र्धे꣢꣯थाम्। गी꣣र्भिः꣢। इ꣡ड꣢꣯या। म꣡द꣢꣯न्ता। ३३८।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रो गाथिनः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में देवता ‘इन्द्र-पर्वत’ हैं। इन नामों से जीवात्मा-प्राण के युगल की स्तुति की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्रापर्वता) जीवात्मा और प्राण ! तुम दोनों (बृहता) महान् (रथेन) शरीर-रूप रथ द्वारा (सुवीराः) उत्तम वीर सन्तानों से अथवा वीर भावों से युक्त (वामीः) प्रशस्त वा संभजनीय (इषः) अभीष्ट आध्यात्मिक और भौतिक सम्पदाएँ (आ वहतम्) प्राप्त कराओ। हे (देवा) दिव्य गुण-कर्मोंवाले जीवात्मा और प्राण ! तुम दोनों (अध्वरेषु) शरीरधारणरूप यज्ञों में (हव्यानि) भोज्य, पेय आदि हवियों का (वीतम्) आस्वादन करो। (गीर्भिः) वाणियों से, और (इडया) अन्न तथा गोदुग्ध आदि से (मदन्ता) तृप्त होते हुए (वर्द्धेथाम्) वृद्धि को प्राप्त करो ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जीवात्मा संचित कर्मों के फलभोग के लिए तथा नवीन कर्म करने के लिए मन, इन्द्रिय आदियों से युक्त प्राण के साथ सर्वश्रेष्ठ शरीर-रूप रथ में बैठता है। वे दोनों जीवात्मा और प्राण शरीर के माध्यम से उत्कृष्ट सन्तान और विविध दिव्य तथा भौतिक सम्पदा को प्राप्त कराने की योग्यता रखते हैं। यथायोग्य खाद्य, पेय, ज्ञान, कर्म, प्राणायाम आदि की हवि देकर उनकी शक्ति सबको बढ़ानी चाहिए ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
इन्द्रापर्वतौ देवते। इन्द्रपर्वतनाम्ना जीवात्मप्राणयोर्युगलं स्तौति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्रापर्वता२) जीवात्मप्राणौ ! इन्द्रो ज्ञानाद्यैश्वर्यवान् जीवात्मा, पर्वतः पर्ववान् प्राणः, स हि अपानव्यानादिभिः इन्द्रियरूपैश्च पर्वभिः सह देहे तिष्ठति। ‘पर्ववान् पर्वतः’ इति निरुक्तम् १।२०। ‘इन्द्रापर्वता’ इत्यत्र ‘देवताद्वन्द्वे च।’ अ० ६।३।२६ इति पूर्वपदस्यानङ्। युवाम् (बृहता) महता (रथेन) शरीररथेन। ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ इति प्रामाण्यात् (कठ० १।३।३)। (सुवीराः) शोभना वीराः वीरभावा वीरसन्ताना वा यासु ताः (वामीः) प्रशस्ताः संभजनीयाः वा। वाम इति प्रशस्यनामसु पठितम्। निघं० ३।८। (वामस्य) वननीयस्य इति निरुक्तम् ४।२६। (इषः) अभीष्टा आध्यात्मिकभौतिकसम्पदः। इषु इच्छायाम्। इष्यन्ते इति इषः। (आवहतम्) प्रापयतम्। हे (देवा) देवौ दिव्यगुणकर्मवन्तौ ! युवाम् (अध्वरेषु) शरीरधारणरूपयज्ञेषु (हव्यानि) समर्पितानि हवींषि भोज्यपेयादीनि (वीतम्) आस्वादयतम्। वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु। (गीर्भिः) वाग्भिः, (इडया) अन्नेन गोदुग्धादिना च। इडेति अन्ननाम गोनाम च, निघं० २।७, २।११। (मदन्ता) तृप्यन्तौ (वर्द्धेथाम्) उत्कर्षं प्राप्नुतम्। इन्द्रापर्वता, देवा, मदन्ता इति सर्वत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इत्यौकारस्याऽऽकारादेशः ॥७॥३
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जीवात्मा सञ्चितकर्मफलभोगाय नूतनकर्मकरणाय च मनइन्द्रियादियुक्तेन प्राणेन सह श्रेष्ठं शरीररथमारोहति। तौ जीवात्मप्राणौ शरीरमाध्यमेन श्रेष्ठां सन्ततिं विविधामभीष्टां दिव्यां च भौतिकीं च सम्पदं प्रापयितुमर्हतः। यथायोग्यखाद्यपेयज्ञानकर्मप्राणायामादिहविरर्पणेन तयोः शक्तिः सर्वैर्वर्धनीया ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।५३।१। २. इन्द्रापर्वतौ। पर्वतो नाम देवर्षिः इन्द्रस्य सखा—इति भ०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजाध्याक्षसेनाध्यक्षविषये व्याख्यातः। (इन्द्रापर्वता) विद्युन्मेघाविव राज्यसेनाधीशौ इत्यादि। तेन सूच्यते यन्मन्त्रोऽयं विद्युन्मेघपक्षेऽपि व्याख्यातुं शक्यत इति। विद्युन्मेघावपि मरुद्रूपेण बृहता रथेन वृष्टिद्वारा प्रशस्ता इषः अन्नानि प्रापयतः, येषां भक्षणेन सन्ततिर्वीरा जायते। किं च शिल्पिनावपि इन्द्रापर्वतौ उच्येते। यानचालकः शिल्पी इन्द्रः, याननिर्माता शिल्पी पर्वतः, स हि पर्वाणि संयोज्य पर्ववन्ति विविधयन्त्रकलासहितानि यानानि रचयतीति। तावपि बृहता रथेन भूजलान्तरिक्षगमनसमर्थेन विमानादियानेन बहुवीरजनसहितान् प्रशस्तान् अन्नादिपदार्थान् वहतः देशान्तरं प्रापयत इति दिक्।
46_0338 इन्द्रापर्वता बृहता - 01 ...{Loading}...
लिखितम्
३३८-१। वैश्वामित्रम्॥ विश्वामित्रस्त्रिष्टुबिन्द्रः॥ (इन्द्रापर्वतौ वा)।
इ꣤न्द्राहा꣥उ। हा꣢꣯हो꣡इ। पर्वता꣯बृहता꣯रथाऽ२᳐इना꣣ऽ२उवाऽ३। ऊ꣢ऽ᳐३४पा꣥॥ वा꣤꣯मीर्हा꣥उ। हा꣢꣯हो꣡इ। इषआ꣯वहतꣳसुवाऽ२᳐इरा꣣ऽ२उवाऽ३। ऊ꣢ऽ᳐३४पा꣥॥ वी꣤꣯तꣳहा꣥उ। हा꣢꣯हो꣡इ। हव्या꣯न्यध्वरे꣯षुदाऽ२᳐इवा꣣ऽ२उवाऽ३। ऊ꣢ऽ᳐३४पा꣥॥ व꣤र्द्धाहा꣥उ। हा꣢꣯हो꣡। था꣯ङ्गी꣯र्भिर्डया꣯ मदाऽ२᳐न्ता꣣ऽ२उवाऽ३॥ ऊ꣢ऽ᳐३२᳐३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣡न्द्रा꣢य꣣ गि꣢रो꣣ अ꣡नि꣢शितसर्गा अ꣣पः꣡ प्रैर꣢꣯य꣣त्स꣡ग꣢रस्य꣣ बु꣡ध्ना꣢त्। यो꣡ अक्षे꣢꣯णेव च꣣क्रि꣢यौ꣣ श꣡ची꣢भि꣣र्वि꣡ष्व꣢क्त꣣स्त꣡म्भ꣢ पृथि꣣वी꣢मु꣣त꣢ द्याम् ॥ 47:0339 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्रा꣢꣯य। गि꣡रः꣢꣯। अ꣡नि꣢꣯शितसर्गाः। अ꣡नि꣢꣯शित। स꣣र्गाः। अपः꣢। प्र। ऐ꣣रयत्। स꣡ग꣢꣯रस्य। स। ग꣣रस्य। बु꣡ध्ना꣢꣯त्। यः। अ꣡क्षे꣢꣯ण। इ꣣व। चक्रि꣡यौ꣢। श꣡ची꣢꣯भिः। वि꣡ष्व꣢꣯क्। वि। स्व꣣क्। तस्त꣡म्भ꣢। पृ꣣थि꣢वीम्। उ꣣त꣢। द्याम्। ३३९।
अधिमन्त्रम् (VC)
- इन्द्रः
- रेणुर्वैश्वामित्रः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र परमात्मा की महिमा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्राय) परमैश्वर्यवान् जगदीश्वर के लिए अर्थात् उसकी महिमा का गान करने के लिए (अनिशितसर्गाः) अतीक्ष्ण प्रयोगवाली अर्थात् मधुर (गिरः) मेरी स्तुतिवाणियाँ प्रवृत्त हों। जो जगदीश्वर (सगरस्य) अन्तरिक्ष के (बुध्नात्) शीर्षस्थान से (अपः) मेघ-जलों को (प्रैरयत्) भूमि की ओर प्रेरित करता अर्थात् भूमि पर बरसाता है। (यः) जो (विष्वक्) विविध कर्मों में संलग्न होता हुआ अथवा विशेषरूप से सर्वान्तर्यामी होता हुआ (शचीभिः) अपने बुद्धिकौशल से व जगद्धारण की क्रियाओं से (पृथिवीम्) भूमि को (उत) और (द्याम्) द्यौ लोक को (तस्तम्भ) थामे हुए है, परस्पर सन्तुलित कर रहा है, (इव) जैसे (अक्षेण) रथ के बीच में पड़ी हुई कीली के द्वारा (चक्रियौ) दोनों रथचक्रों को रथचालक थामे रखता है ॥८॥ इस मन्त्र में उपमालङ्कार है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा की ही यह विलक्षण महिमा है कि वह अन्तरिक्ष से वर्षा करता है और द्यावापृथिवी में परस्पर सामञ्जस्य स्थापित करता है ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रस्य परमात्मनो महिमानं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्राय) परमैश्वर्यवते जगदीश्वराय, तन्महिमानं गातुमित्यर्थः (अनिशितसर्गाः२) अतीक्ष्णप्रयोगाः, मधुरा इत्यर्थः। शो तनूकरणे। अनिशितः अतनूकृतः अतीक्ष्णः सर्गो व्याहरणं यासां ताः। (गिरः) मदीयाः स्तुतिवाचः, प्रवृत्ताः सन्त्विति शेषः। यः (सगरस्य) अन्तरिक्षस्य। सगर इत्यन्तरिक्षनाम। निघं० १।३। गृणाति शब्दं करोतीति गरो मेघः, गरेण मेघेन सहितः इति सगरोऽन्तरिक्षम्। (बुध्नात्) शीर्षस्थानात् (अपः) मेघस्थानि उदकानि (प्रैरयत्) भुवं प्रति प्रेरयति। (विष्वक्३) विविधकर्मरतः विशेषेण सर्वान्तर्यामी वा सन्। वि-सु-उपपदात् अञ्चतेः क्विपि रूपम्, यद्वा यो विशेषेण स्वजते आलिङ्गति सर्वान् पदार्थान् स विष्वक् सर्वान्तर्यामी, ष्वज परिष्वङ्गे। (यः) यश्च (शचीभिः) प्रज्ञाभिः जगद्धारणक्रियाभिश्च। शचीति प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) द्युलोकम् (तस्तम्भ) स्तभ्नाति, परस्परं सन्तुलिते करोति। (अक्षेण इव) मध्यकीलकेन यथा (चक्रियौ४) उभे रथचक्रे रथचालकः स्तभ्नाति तद्वत्। चक्रवाचिनः चक्रिशब्दस्य द्वितीयाद्विवचने चक्री इति प्राप्ते छान्दस इयङादेशः ॥८॥ अत्रोपमालङ्कारः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मन एवैष विलक्षणो महिमा यत् सोऽन्तरिक्षाद् वृष्टिं करोति, द्यावापृथिव्योश्च परस्परं सामञ्जस्यं स्थापयति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।८९।४, ‘प्रैरयत्’, ‘चक्रियौ’ इत्यत्र क्रमेण ‘प्रैरयं’, ‘चक्रिया’ इति पाठः। २. अनिशितसर्गाः। शो तनूकरणे इत्यस्येदं रूपम्। निष्ठाप्रत्यये ‘निष्ठाशीङ्स्विदि० (पा० १।२।१९)’ इत्येतद् भवति। सर्गः संसर्गः सङ्घातः। निशितः सङ्घातो यासां ताः निशितसर्गाः तनूकृतसङ्घाताः। अनिशितसर्गाः अतनूकृतसङ्घाताः। बह्वीरित्यर्थः—इति वि०। अतनूकृतप्रयोगाः—इति भ०। अतनूकृतविसर्गाः उपर्युपरि वर्तमानाः—इति सा०। ३. प्रायशः ‘विषु शब्दाद् अञ्चेः क्विप्’ इति साधुत्वप्रकारमाहुर्व्याख्यातारः। किन्तु ‘वि-स्वक्’ इति पदपाठात् पदकारस्य वि-सु-पूर्वोऽञ्चतिरत्राभिप्रेत इत्यस्माभिस्तथा व्याख्यातम्। यद्वा ‘स्वक्’ इत्यस्य ‘सु-अक्’ इति रूपेण विभागाकरणात् विपूर्वः स्वञ्ज परिष्वङ्गे धातुरत्राभिप्रेतः स्यात्। ४. चक्रियौ चक्रे, यथा कश्चिद् रथकारः अक्षेण चक्रे स्तम्भयति तद्वत्—इति वि०। य इन्द्रः अक्षेणेव चक्र्यौ रथचक्रे। ‘ऋणोरक्षं न चक्र्योः’ ऋ० १।३०।१४ इत्यत्र चक्रिशब्दः चक्रे दृष्टः—इति भ०। चक्रियौ रथचक्राणि—इति सा०। ‘इयाडियाजीकाराणामुपसंख्यानम् ७।१।३९’ वा० इति इय्भावे, लिङ्गव्यत्यये च (३।१।८५) रूपं चक्रियौ इति सत्यव्रतसामश्रमी।
47_0339 इन्द्राय गिरो - 01 ...{Loading}...
लिखितम्
३३९-१। सावित्राणि षट्सामानि॥ षण्णां सविता त्रिष्टुबिन्द्रः॥
हा꣢ऽ३। हा꣢इ। इन्द्रा꣡꣯यगाइ। रा꣢ऽ३अ꣡नि। शी꣢᳐त꣣स꣤र्गाः꣥॥१॥ अ꣢साउ। असाउ। इन्द्रा꣡꣯यगाइ। रा꣢ऽ३अ꣡नि। शी꣢᳐त꣣स꣤र्गाः꣥॥२॥ कु꣢वा। कुवा। इन्द्रा꣡꣯यगाइ। रा꣢ऽ३अ꣡नि। शी꣢᳐ त꣣स꣤र्गाः꣥॥३॥ अ꣢याम्। अयाम्। अपᳲ꣡प्रै꣯रा। या꣢ऽ३त्स꣡ग। र꣢᳐स्य꣣बु꣤ध्ना꣥त्॥४॥ अ꣡विदा꣢ऽ३त्। अ꣡विद꣢त्। यो꣯अ꣡क्षे꣯णाइ। वा꣢ऽ३च꣡क्रि। यौ꣢᳐श꣣ची꣤भीः꣥॥५॥ इ꣢हा꣡ऽ२३। ई꣢ऽ᳐३४हा꣥। वि꣢ष्व꣡क्तस्ता। भा꣢ऽ३पृ꣡थि। वी꣢ऽ३४३म्। ऊ꣢ऽ३ता꣤ऽ५द्याऽ६५६म्॥६॥
योनि-प्रस्तुतिः ...{Loading}...
आ꣢ त्वा꣣ स꣡खा꣢यः स꣣ख्या꣡ व꣢वृत्युस्ति꣣रः꣢ पु꣣रू꣡ चि꣢दर्ण꣣वां꣡ ज꣡गम्याः। पि꣣तु꣡र्नपा꣢꣯त꣣मा꣡ द꣢धित वे꣣धा꣢ अ꣣स्मि꣡न्क्षये꣢꣯ प्रत꣣रां꣡ दीद्या꣢꣯नः ॥ 48:0340 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् ।
पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। त्वा꣣। स꣡खा꣢꣯यः। स। खा꣣यः। सख्या꣢। स꣣। ख्या꣢। व꣣वृत्युः। तिरः꣢। पु꣣रु꣢। चि꣣त्। अर्णवा꣢न्। ज꣣गम्याः। पितुः꣢। न꣡पा꣢꣯तम्। आ। द꣣धीत। वेधाः꣢। अ꣣स्मि꣢न्। क्ष꣡ये꣢꣯। प्र꣣तरा꣢म्। दी꣡द्या꣢꣯नः। । ३४०।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र की मित्रता का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमेश्वर ! (सखायः) आपके सखा स्तोता लोग सदा ही (त्वा) आपको (सख्या) सखिभाव से (आ ववृत्युः) स्वीकार करें। (तिरः) उनको प्राप्त होकर आप (पुरु चित्) बहुत अधिक (अर्णवान्) आनन्द के सागरों को (जगम्याः) प्राप्त कराओ। (वेधाः) स्तुति और पुरुषार्थ का कर्ता वह आपका सखा (अस्मिन् क्षये) इस घर में, गृहस्थाश्रम में (प्रतराम्) अत्यधिक (दीद्यानः) तेज और यश से प्रदीप्त होता हुआ (पितुः) अपने पिता के, वैसे ही तेजस्वी और यशस्वी (नपातम्) पौत्र को अर्थात् अपने पुत्र को (आदधीत) उत्पन्न करे ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो जगदीश्वर से मित्रता जोड़ता है, उसे वह आनन्द-सागर में निमग्न कर देता है। जगदीश्वर का वह सखा शास्त्रोक्त विधि से गृहस्थाश्रम का पालन करता हुआ अपने अनुरूप तेजस्वी और यशस्वी पुत्र का पिता बनता है ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रसख्यविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमेश्वर ! (सखायः) तव सहचराः स्तोतृजनाः सदैव (त्वा) त्वाम् (सख्या) सख्येन। सख्यशब्दात् तृतीयैकवचने ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेराकारादेशः। (आ ववृत्युः) स्वीकुर्युः। आङ् पूर्वात् वृतु वर्तने धातोश्छन्दसि शपः श्लौ लिङि रूपम्। (तिरः) तान् प्राप्तः, त्वम्। तिरः सतः इति प्राप्तस्य। निरु० ३।२०। (पुरु चित्) बहु यथा स्यात् तथा (अर्णवान्) आनन्दसागरान् (जगम्याः) प्रापय। गम्लृ गतौ धातोर्यङ्लुगन्तस्य लिङि रूपम्। अभ्यासस्य छान्दसो नुमभावः। (वेधाः) स्तुतेः पुरुषार्थस्य च विधाता स तव सखा (अस्मिन् क्षये) एतस्मिन् गृहे गृहस्थाश्रमे इत्यर्थः (प्रतराम्) अत्यधिकं (दीद्यानः) तेजसा यशसा च दीप्यमानः सन्। दीदयतिः ज्वलतिकर्मा। निघं० १।१६। (पितुः) स्वजनकस्य (नपातम्२) तादृशमेव तेजस्विनं यशस्विनं च नप्तारं, स्वकीयं पुत्रम् इत्यर्थः। (आदधीत) उत्पादयेत् ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो जगदीश्वरेण सख्यं बध्नाति तं स आनन्दसागरे निमग्नं करोति। जगदीश्वरस्य स सखा शास्त्रोक्तविधिना गृहस्थाश्रमं पालयन् स्वानुरूपस्य तेजस्विनो यशस्विनश्च तनयस्य पिता जायते ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. मन्त्रोऽयमृग्वेदे पाठान्तरेण यमयमीसंवादे ऋ० १०।१०।१ इत्यत्र पठितः। तत्रेदं यम्या यमं प्रति वचनम्। तत्र ऋषिका यमी, देवता च यमः। न तत्र ‘इन्द्रेण’ कश्चित् सम्बन्धः। एष तावत् तत्रत्यः पाठः—‘ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्। पितुर्नपातमादधीत वेधा अधि क्षमि प्रतरं दीध्यानः’ इति। अथर्ववेदे १८।१।१ इत्यत्रापि स एव पाठः, तत्र ऋषिः अथर्वा, देवता च यमः। २. पितुर्न….पितुरिव पातं रक्षणम्। यथा कश्चित् पितुः रक्षणम् आधत्ते तद्वत् भवानपि अस्माकम् आदधीत आदधातु करोत्वित्यर्थः इति विवरणकृद्व्याख्यानं तु पदकारविरुद्धं, तत्र ‘नपातम्’ इत्येकपदत्वेन ग्रहणात्। ‘पितुर्मदीयस्य नपातं पौत्रं, मम पुत्रमित्यर्थः, आदधीत वेधाः विधाता इन्द्रः’—इति भ०। सायणस्यापि स एवाशयः।
48_0340 आ त्वा - 01 ...{Loading}...
लिखितम्
३४०-१। कुतीपादस्य वैरूपस्य साम॥ विरूपस्त्रिष्टुबिन्द्रः॥
आ꣤꣯त्वा꣥꣯स꣤खा꣥꣯यस्सख्या꣤꣯व꣥वृत्यूः꣤॥ ति꣢रᳲ꣡पुरू꣯चिदर्णवां꣯जगाऽ२म्यौ꣯। हौ꣯होऽ३वा꣢॥ पितु꣡र्नपा꣯तमा꣯दधी꣯तवाऽ२इधौ꣯। हौ꣯होऽ३वा꣢॥ अस्मि꣡न्क्षये꣯प्रतरां꣯दी꣯दियाऽ२नौ꣯। हौ꣯होऽ३वा꣢। औ꣯होऽ᳒२᳒। इ꣡हा꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
को꣢ अ꣣द्य꣡ यु꣢ङ्क्ते धु꣣रि꣢꣫ गा ऋ꣣त꣢स्य꣣ शि꣡मी꣢वतो भा꣣मि꣡नो꣢ दुर्हृणा꣣यू꣢न्। आ꣣स꣡न्ने꣢षामप्सु꣣वा꣡हो꣢ मयो꣣भू꣡न्य ए꣢꣯षां भृ꣣त्या꣢मृ꣣ण꣢ध꣣त्स꣡ जी꣢वात् ॥ 49:0341 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
कः꣢। अ꣣द्य꣢। अ꣣। द्य꣢। यु꣣ङ्क्ते। धुरि꣢। गाः। ऋ꣣त꣡स्य꣢। शि꣡मी꣢꣯वतः। भा꣣मि꣡नः꣢। दु꣣र्हृणायू꣢न्। दुः꣣। हृणायू꣢न्। आ꣣स꣢न्। ए꣣षाम्। अप्सुवा꣡हः꣢। अ꣣प्सु। वा꣡हः꣢꣯। म꣣योभू꣢न्। म꣣यः। भू꣢न्। यः। ए꣣षाम्। भृत्या꣢म्। ऋ꣣ण꣡ध꣢त्। सः। जी꣣वात्। ३४१।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोतमो राहूगणः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
इन्द्र देवतावाले भी अगले मन्त्र में इन्द्र को क्योंकि सत्य प्रिय है, अतः सत्य का विषय वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—अध्यात्म पक्ष में। (कः) कौन मनुष्य (अद्य) आज (शिमीवतः) कर्मवान्, आलस्यरहित, (भामिनः) तेजस्वी, (दुर्हृणायून्) दुष्पराजेय, (अप्सुवाहः) नदी की धाराओं के सदृश बाधाओं के बीच से भी वहन कर ले जानेवाले, (मयोभून्) सुखप्रापक (गाः) ज्ञानेन्द्रिय-कर्मेन्द्रिय-प्राण-मन-बुद्धि रूप बैलों को (ऋतस्य) सत्यरूप रथ के (धुरि) धुरे में (युङ्क्ते) जोड़ेगा। (एषाम्) गतिशील (एषाम्) इन पूर्वोक्त इन्द्रियादिरूप बैलों के (आसन्) मुख में (यः) जो मनुष्य (भृत्याम्) उन-उनके उत्कृष्ट ग्राह्यविषयरूप जीविकाद्रव्य को (ऋणधत्) वृद्धि के साथ प्रदान करेगा, (सः) वह (जीवात्) प्रशस्त जीवन से युक्त होगा ॥ यहाँ ‘सत्य के धुरे में’ इस कथन से सत्य में रथ का आरोप ध्वनित होता है। सत्य के धुरे में सामान्य बैल क्योंकि नहीं जोड़े जा सकते, अतः आरोप के विषय बैलों में आरोप्यमाण इन्द्रियादि गृहीत होते हैं। इन्द्रियादि में बैलों का आरोप होने से ही उनके मुख की भी कल्पना कर ली गयी है। अतिशयोक्ति अलङ्कार है ॥ द्वितीय—राष्ट्र के पक्ष में। (कः) कौन मनुष्य (अद्य) आज, संकट के समय (शिमीवतः) कर्मशूर, (भामिनः) क्षात्र तेज से युक्त, (दुर्हृणायून्) दुष्पराजेय, (अप्सुवाहः) युद्धयात्रा में नदी, समुद्र आदि के जलों में युद्धपोत को खेकर ले जानेवाले, (मयोभून्) शत्रुओं को जीतकर राष्ट्रवासियों को सुख देनेवाले (गाः) गतिशील सैनिकों को (ऋतस्य) राष्ट्ररूप यज्ञ के (धुरि) रक्षा के धुरे में (युङ्क्ते) नियुक्त करेगा? राजा ही नियुक्त करेगा, यह अभिप्राय है। (आसन्नेषाम्) जिनके तरकस में बाण हैं अर्थात् जिन्होंने प्रचुर शस्त्रास्त्रों का संचय किया हुआ है, ऐसे (एषाम्) इन सैनिकों के (यः) जो राजा (भृत्याम्) वेतन को (ऋणधत्) समय-समय पर बढ़ायेगा (सः) वह राजा (जीवात्) शत्रु-विजय करके प्रजाओं के साथ चिरकाल तक जीवित रहेगा ॥१०॥ इस मन्त्र में अध्यात्म और अधिराष्ट्र उभयविध अर्थ वाच्य होने से श्लेषालङ्कार है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सत्य के ज्ञानार्थ तथा प्रचारार्थ आत्मा, मन, बुद्धि, प्राण एवं इन्द्रियों का यथोचित उपयोग मनुष्यों को करना चाहिए, और राष्ट्र के शासक राजा को चाहिए कि राष्ट्र के रक्षक सैनिकों का भरपूर वेतन-प्रदान आदि से सत्कार करे ॥१०॥ इस दशति में तार्क्ष्य नाम से परमेश्वर का स्मरण करने, इन्द्र-पर्वत के युगल की स्तुतिपूर्वक इन्द्र का स्तवन करने, उसके सख्य की याचना करने, इन्द्रिय-रूप गौओं का महत्त्व वर्णन करने तथा राजा, सैनिक आदि अर्थों के भी सूचित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में प्रथम अर्ध की पाँचवीं दशति समाप्त ॥ चतुर्थ प्रपाठक का प्रथम अर्ध समाप्त ॥ तृतीय अध्याय में ग्यारहवाँ खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रदेवताकेऽपि मन्त्रे ऋतप्रियत्वादिन्द्रस्य ऋतविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—अध्यात्मपरः। (कः) को जनः (अद्य) अस्मिन् दिने (शमीवतः) कर्मवतः, न तु अलसान्। शिमीति कर्मनाम। निघं० २।१। (भामिनः) तेजस्विनः, (दुर्हृणायून्२) दुष्टप्रसह्यान्, (अप्सुवाहः) अप्सु नदीधारासु इव बाधासु अपि ये वहन्ति तान्। अत्र ‘तत्पुरुषे कृति बहुलम्। अ० ६।३।१४’ इति सप्तम्या अलुक्। कृदुत्तरपदप्रकृतिस्वरः। (मयोभून्) सुखप्रापकान्। मयः इति सुखनाम। मयः भावयन्ति ये तान्। (गाः) ज्ञानेन्द्रिय-कर्मेन्द्रिय-प्राण-मनोबुद्धिरूपान् वृषभान् (ऋतस्य३) सत्यरूपस्य रथस्य (धुरि) धुरायाम् (युङ्क्ते) योजयिष्यति। (एषाम्) गतिशीलानाम्। एषन्ति गच्छन्तीति एषः तेषाम्, एष गतौ प्रयत्ने चेति धातोः क्विपि रूपम्। (एषाम्) एतेषां पूर्वोक्तानां इन्द्रियादिरूपाणां बलीवर्दानाम् (आसन्) आस्ये। ‘पद्दन्नोमास्० अ० ६।१।६३’ इति आस्यशब्दस्य आसन्नादेशः। ‘सुपां सुलुक्० अ० ७।१।३९’ इति सप्तम्या लुक्। (यः) यो जनः (भृत्याम्) भृतिम्। भृञ् भरणे धातोः ‘संज्ञायां समजनिपदनिषद०। अ० ३।३।९९’ इति उदात्तः क्यप्। (ऋणधत्४) ऋध्नोति, एतेषां पुष्ट्यै यथायोग्यम् उत्कृष्टं ग्राह्यविषयरूपं भोजनं प्रयच्छति। ऋध्नोतेः वृद्ध्यर्थाद् व्यत्ययेन श्नम्, लेटि रूपम्। (सः) असौ (जीवात्) प्रशस्तजीवनयुक्तो भविष्यति। जीवधातोर्लेटि रूपम् ॥ अत्र सत्यस्य धुरि इति वचनात् सत्ये रथारोपो व्यज्यते। सत्यरूपस्य रथस्य धुरि च सामान्या गावः बलीवर्दाः न योजयितुं शक्यन्ते इति गोरूपेषु आरोपविषयेषु आरोप्यमाणानि इन्द्रियादीनि गृह्यन्ते। इन्द्रियादिषु गोत्वारोपादेव तेषां मुखमपि कल्प्यते। अतिशयोक्तिरलङ्कारः ॥ अथ द्वितीयः—राष्ट्रपरः। (कः) को जनः (अद्य) संकटमये दिवसे (शिमीवतः) कर्मशूरान्, (भामिनः) क्षात्रतेजोयुक्तान्, (दुर्हृणायून्) दुष्प्रधृष्यान्, (अप्सुवाहः) युद्धयात्रायां नदीसागरादीनांजले रथवहनशीलान्, (मयोभून्) शत्रून् विजित्य राष्ट्रवासिभ्यः सुखप्रदायकान् (गाः) गतिशीलान् सैनिकान् (ऋतस्य) राष्ट्रयज्ञस्य (धुरि) रक्षाधुरि (युङ्क्ते) नियोजयिष्यति ? जनराड् नृपतिरेव नियोजयिष्यतीति भावः। (आसन्नेषाम्) आसनि तूणीररूपे आस्ये एषः इषवो येषां ते आसन्नेषाः, तेषाम् सञ्चितप्रभूतशस्त्रास्त्राणामित्यर्थः। ऋग्वेदे ‘आसन्निषून्५’ इति पाठादयमर्थः पदपाठमननुसरन्नपि कृतः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। (एषाम्) एतेषां सैनिकानाम् (यः) राजा (भृत्याम्) वेतनम् (ऋणधत्) काले काले वर्द्धयेत् (सः) असौ राजा (जीवात्) प्रजाभिः सह चिरं जीवेत् शत्रुविजयेन ॥१०॥ मन्त्रेऽस्मिन्नध्यात्माधिराष्ट्ररूपोभयविधार्थयोर्वाच्यत्वाच्छ्लेषालङ्कारः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सत्यस्य ज्ञानार्थं प्रसारार्थं चात्ममनोबुद्धिप्राणेन्द्रियाणां यथायोग्यमुपयोगो जनैः कार्यः। किञ्च राष्ट्रशासकेन नृपतिना राष्ट्ररक्षकाः सैनिकाः पुष्कलवेतनप्रदानादिना सत्कार्याः ॥१०॥ अत्र तार्क्ष्यनाम्ना परमेश्वरादेः स्मरणाद्, इन्द्रपर्वतयुगलस्य स्तुतिपूर्वकं चेन्द्रस्य स्तवनात्, तत्सखित्वयाचनाद्, इन्द्रियरूपाणां गवां महत्त्ववर्णनाद्, नृपसैनिकाद्यर्थानां चापि सूचनाद् एतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम्॥ इति चतुर्थे प्रपाठके प्रथमार्द्धे पञ्चमी दशतिः ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धः ॥ इति तृतीयेऽध्याये एकादशः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।८४।१६ ‘आसन्निषून् हृत्स्वसो’ इति पाठः। अथ० १८।१।६ ऋषिः अथर्वा, देवता यमः, पाठः ऋग्वेदवत्। २. शत्रुभिर्दुर्लभं हृणं प्रसह्यकरणं येषां ते दुर्हृणास्त इवाचरन्तीति दुर्हृणायवस्तान्। ‘क्याच्छन्दसि’ इत्युः प्रत्ययः—इति ऋ० १।८४।१६ भाष्ये द०। ३. ऋतस्य सत्यस्य सर्वगतस्य वा इन्द्रस्य—इति वि०। ऋतस्य सत्यस्य इन्द्रस्य—इति भ०। ऋतस्य गच्छतः इन्द्रसम्बन्धिनो रथस्य—इति सा०। ४. ऋणधत्, ऋण वृद्धौ इत्यस्येदं रूपम्—इति वि०। ऋध्यात् समर्धयेत्—इति भ०। ५. आ॒सन्ऽइ॑षून्—इति पदपाठः। ‘आसन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान्’—इति ऋ० १।८४।१६ भाष्ये सा०।
49_0341 को अद्य - 01 ...{Loading}...
लिखितम्
३४१-१। आमहीयवम्॥ अमहीयुस्त्रिष्टुबिन्द्रः॥
को꣥꣯अद्य युङ्क्ते꣯ धुरि गा꣯ ऋतस्याऽ६ए꣥॥ शि꣡मी꣯वतो꣯ भा꣯मिनो꣯ दुर्हृ꣢णा꣡ऽ२३यू꣢न्॥ आ꣯स꣡न्ने꣯षा꣯मप्सु वा꣯हो꣯म꣢यो꣡ऽ२३भू꣢न्। य꣡ ए꣯षां꣯ भृत्या꣯मृणधत्सजा इवा꣭ऽ३उवा꣢ऽ३॥ ऊ꣢ऽ᳐३४पा꣥॥
[[अथ द्वादश खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢। ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥ 01:0342 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
गाय॑न्ति त्वा गाय॒त्रिणो
ऽर्च॑न्त्य् अ॒र्कम् अ॒र्किणः॑+++(←ऋक्)+++ ।
ब्र॒ह्माण॑स् त्वा शतक्रत॒
उद् वं॒शम् इ॑व येमिरे +++(←यम्)+++॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
गा꣡य꣢꣯न्ति। त्वा꣣। गायत्रि꣡णः꣢। अ꣡र्च꣢꣯न्ति। अ꣣र्क꣢म्। अ꣣र्कि꣡णः꣢। ब्र꣣ह्मा꣡णः꣢। त्वा꣣। शतक्रतो। शत। क्रतो। उ꣢त्। वँ꣣श꣢म्। इ꣣व। येमिरे। ३४२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दा वैश्वामित्रः
- अनुष्टुप्
- गान्धारः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में यह विषय है कि इन्द्र की महिमा का सब गान करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (शतक्रतो) बहुत बुद्धिमान् तथा बहुत कर्मों को करनेवाले परमैश्वर्यवान् परमात्मन् ! (गायत्रिणः) सामगान करनेवाले गायक जन अथवा यज्ञ के उद्गाता नामक ऋत्विज् (त्वा) तेरा (गायन्ति) गान करते हैं। (अर्किणः) वेदमन्त्रार्थों का अध्ययन करनेवाले जन अथवा पूजक होता और अध्वर्यु नामक ऋत्विज् (त्वा) तेरी (अर्चन्ति) स्तुति करते हैं। (ब्राह्मणाः) ब्रह्मोपासक ब्राह्मण अथवा यज्ञ के ब्रह्मा नामक ऋत्विज् (त्वा) तुझे (वंशम् इव) ध्वजदण्ड के समान (उद्येमिरे) ऊपर उठाते हैं, अर्थात् जैसे पताकाधारी लोग पताका के डण्डे को ऊँचा उठाकर आकाश में पताका को फहराते हैं, वैसे ही ब्राह्मण जन और यज्ञ के ब्रह्मा लोग तेरी कीर्ति को सर्वत्र फहराते हैं ॥१॥ इस मन्त्र में उपमालङ्कार है। ‘गाय, गाय’ में यमक है। द्वितीय पाद में अनुप्रास है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि साङ्गोपाङ्ग वेदों को पढ़कर, यज्ञ आदि में मन्त्रोच्चारणपूर्वक और सामगानसहित परमेश्वर की अर्चना करते हुए उसकी महिमा को गगन में ऊँची उठायी हुई, हवा से लहराती हुई ध्वजा के समान सर्वत्र प्रसारित करें ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
तत्रादौ इन्द्रस्य महिमानं सर्वे गायन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (शतक्रतो) बहुप्रज्ञ बहुकर्मन् इन्द्र परमैश्वर्यवन् परमात्मन् ! (गायत्रिणः) गायत्रं साम, तद्गानकर्तारः गायकाः, यद्वा यज्ञे उद्गातारो नाम ऋत्विजः (त्वा) त्वाम् (गायन्ति) गानविषयीकुर्वन्ति। (अर्किणः) वेदमन्त्रार्थाध्येतारो जनाः, यद्वा अर्चकाः होतारः अध्वर्यवश्च ऋत्विजः। अर्को देवो भवति यदेनमर्चन्ति। अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।४। अर्को देवो मन्त्रो वा येषामस्तीति ते अर्किणः। (त्वा) त्वाम् (अर्चन्ति) स्तुवन्ति। (ब्रह्माणः) ब्रह्मोपासकाः ब्राह्मणाः, यद्वा ब्रह्माणो नाम ऋत्विजः (त्वा) त्वाम् (वंशम् इव२) ध्वजदण्डमिव, (उद्येमिरे) उद्यच्छन्ति, उद्गमयन्ति, ध्वजवंशमुन्नयन्तः पताकिनः पताकां यथा वियति दोधूयन्ते तथा ते त्वत्कीर्तिं सर्वत्र प्रसारयन्तीत्यर्थः। उत्-पूर्वाद् यम उपरमे धातोः कालसामान्ये लिट् ॥१॥ यास्काचार्य इमं मन्त्रमेवं व्याख्यातवान्—गायन्ति त्वा गायत्रिणः, प्रार्चन्ति तेऽर्कमर्किणो, ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव। वंशो वनशयो भवति, वननाच्छ्रूयत इति वेति। निरु० ५।४ ॥ अत्रोपमालङ्कारः, ग्रहीतृभेदादेकस्यानेकधोल्लेखे उल्लेखालङ्कारश्च३। ‘गाय, गाय’ इति यमकम्, द्वितीये पादेऽनुप्रासः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - साङ्गोपाङ्गं वेदानधीत्य यज्ञादिषु मन्त्रोच्चारणपूर्वकं सामगानसहितं च परमेश्वरं समभ्यर्चद्भिर्जनैस्तन्महिमा गगने प्रोत्तोलितः पवनान्दोलितो ध्वज इव सर्वत्र प्रसारणीयः ॥१॥४
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।१०।१, साम० १३४४। २. यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति, यथा वा सन्मार्गवर्तिनः पुत्राः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत्—इति सा०। यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशमुद्यमवन्तं कुर्वन्ति तथेति ऋग्भाष्ये द०। ३. क्वचिद् भेदाद् ग्रहीतॄणां विषयाणां तथा क्वचित्। एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते। सा० द० १०।३७ इति तल्लक्षणात्। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरार्चनविषय एव व्याख्यातवान्।
01_0342 गायन्ति त्वा - 01 ...{Loading}...
लिखितम्
३४२-१। शैखण्डिने द्वे॥ द्वयोः शिखण्ड्यनुष्टुबिन्द्रः॥
गा꣣꣯या꣢ऽ३१। ति꣣त्वा꣢ऽ३१२३४। गा꣯य꣥। त्रा꣢ऽ३इणाः꣢᳐॥ अ꣣र्चा꣢ऽ३१। ति꣣या꣢ऽ३१२३४। कम꣥। का꣢ऽ३इणाः꣢॥ ब्र꣣ह्मा꣢ऽ३१। ण꣣स्त्वा꣢ऽ३१२३४। शत꣥। क्रा꣢ऽ३ता꣢᳐ उ॥ उ꣣द्वा꣢ऽ३१। श꣣मा꣢ऽ३१२३इ। व꣤याऽ५इमिराइ। हो꣤ऽ५इ॥ डा॥
01_0342 गायन्ति त्वा - 02 ...{Loading}...
लिखितम्
३४२-२।
गा꣥꣯यन्तित्वो꣤हा꣥इ॥ गा꣣꣯या꣢᳐त्री꣣ऽ२३४णाः꣥। अ꣡र्चन्त्यर्कमा꣢ऽ१र्की꣢ऽ३णाः꣢। अर्चन्तियो꣣ ऽ२३४हा꣥। क꣣मा꣢᳐र्की꣣ऽ२३४णाः꣥॥ ब्र꣢ह्मा꣡꣯णस्त्वा꣯शता꣢ऽ१क्रा꣢ऽ३तो꣢। ब्रह्मा꣯णस्त्वो꣣ऽ२३४ हा꣥इ॥ श꣣ता꣢᳐क्रा꣣ऽ२३४ता꣥उ। उ꣡द्वꣳशमिवया꣢ऽ१इमी꣢ऽ३रे꣢। उद्वꣳश᳐मो꣣ऽ२३४ हा꣥इ। व꣣या꣢ऽ३इमा꣤ऽ५ इरा"ऽ६५६इ॥
01_0342 गायन्ति त्वा - 03 ...{Loading}...
लिखितम्
३४२-३। उद्वꣳशीयम्॥ विश्वेदेवानुष्टुबिन्द्रः॥
गा꣤꣯य꣥न्तित्वा꣯गा꣯यत्रि꣤ण꣥आ꣤॥ अ꣡र्चन्त्यर्कमर्काऽ२३इणाः꣢। ब्रह्मा꣡꣯णस्त्वाऽ᳒२᳒होऽ१इ। शतक्राऽ२३ता꣢उ। उ꣡द्वꣳशमिवया꣢ऽ१इमी꣢ऽ३रे꣢॥ उद्वꣳ᳐शा꣣ऽ२३४मी꣥॥ वा꣡या꣭ऽ३उवा꣢ऽ३। उ꣢प्। मा꣡ऽ२꣮इरोऽ३५"हा꣢इ॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢। रथी꣣त꣢म꣢ꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥ 02:0343 ॥ 02:0343.3.12.3 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्र꣢꣯म्। वि꣡श्वाः꣢। अ꣣वीवृधन्। समुद्र꣡व्य꣢चसम्। स꣣मुद्र꣢। व्य꣣चसम्। गि꣡रः꣢꣯। र꣣थी꣡त꣢मम्। र꣣थी꣡नाम्। वा꣡जा꣢꣯नाम्। स꣡त्प꣢꣯तिम्। सत्। प꣣तिम्। प꣡ति꣢꣯म्। ३४३।
अधिमन्त्रम् (VC)
- इन्द्रः
- जेता माधुच्छन्दसः
- अनुष्टुप्
- गान्धारः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पुनः इन्द्र की महिमा का विषय वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमेश्वर के पक्ष में। (विश्वाः) सब (गिरः) स्तुति-वाणियाँ वा वेद-वाणियाँ (समुद्र-व्यचसम्) सागर और अन्तरिक्ष के समान व्याप्तिवाले, (रथीनाम्) रथवालों में (रथीतमम्) सबसे बढ़कर रथवाले अर्थात् पृथिवी, सूर्य, चन्द्र आदि अनेक रथसदृश गतिशील लोकों के सर्वोच्च स्वामी, (वाजानाम्) सब बलों के (पतिम्) अधीश्वर, (सत्पतिम्) सज्जनों, सद्गुणों व सदाचारों के रक्षक (इन्द्रम्) परमैश्वर्यवान् परमात्मा का (अवीवृधन्) वर्धन अर्थात् महिमागान द्वारा प्रचार-प्रसार करती हैं ॥ द्वितीय—राजा के पक्ष में। (विश्वाः) सब (गिरः) राष्ट्रवासी प्रजाजनों की वाणियाँ (समुद्रव्यचसम्) जलपोतों से सागर में और विमानों से अन्तरिक्ष में व्याप्त, (रथीनाम्) यान-स्वामियों में (रथीतमम्) भूयान, जलयान और विमानों के सबसे बड़े स्वामी, (वाजानाम्) दैहिक, मानसिक और आत्मिक बलों, अन्नों वा युद्धों के (पतिम्) अधीश्वर, (सत्पतिम्) सज्जनों वा सत्कर्मों के रक्षक (इन्द्रम्) शत्रुविदारक तथा सुखप्रद राजा को (अवीवृधन्) बढ़ायें, उत्साहित करें ॥२॥ इस मन्त्र में श्लेषालङ्कार है। ‘रथी, रथी’ में लाटानुप्रास और ‘पतिम् पतिम्’ में यमक है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब वेदवाणियाँ और स्तोताओं की वाणियाँ परमेश्वर की ही महिमा का गान करती हैं। वैसे ही राष्ट्र में प्रजाओं की वाणियाँ प्रजावत्सल राजा की महिमा का गान करें ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुनरिन्द्रस्य महिम्नो विषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपक्षे। (विश्वाः) सर्वाः (गिरः) वेदवाचः स्तुतिवाचो वा (समुद्रव्यचसम्) अब्धिवद् अन्तरिक्षवद् वा व्यचाः व्याप्तिर्यस्य तम्। समुद्र इत्यन्तरिक्षनामसु पठितम्। निघं० १।३। स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद् वर्ष्या अभि। ऋ० १०।९८।५ इति प्रामाण्यात् अब्धिराकाशश्चोभयमपि समुद्रशब्देनोच्यते। व्यचस् इति व्यचितिर्व्याप्तिकर्मणोऽसुन् प्रत्ययान्तम्। रक्-प्रत्ययान्तः समुद्रशब्दः प्रत्ययस्वरेणान्तोदात्तः, बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (रथीनाम्) रथवताम् (रथीतमम्) रथवत्तमम् पृथिवीसूर्यचन्द्रादीनाम् अनेकेषां रंहणवतां लोकानां सर्वातिशायिनमधीश्वरम् इत्यर्थः। रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१२२ वा० इति मतुबर्थे ई प्रत्ययः। (वाजानाम्) सर्वेषां बलानाम् (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां सज्जनानां सद्गुणानां सदाचाराणां वा रक्षकम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अवीवृधन्) वर्द्धयन्ति, प्रचारयन्तीत्यर्थः ॥२ अथ द्वितीयः—राजपक्षे। (विश्वाः) सर्वाः (गिरः) राष्ट्रवासिनां प्रजाजनानां वाचः (समुद्रव्यचसम्) जलपोतैः सागरे विमानैश्चान्तरिक्षे व्यचाः व्याप्तिर्यस्य तम्, (रथीनाम्) यानस्वामिनां मध्ये (रथीतमम्) अतिशयेन भूजलान्तरिक्षयानस्वामिनम्, (वाजानाम्) दैहिकमानसाऽऽत्मिकबलानाम् अन्नानां, युद्धानां वा (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां सत्पुरुषाणां सत्कर्मणां च रक्षकम् (इन्द्रम्) शत्रुविदारकं प्रजानां सुखप्रदं राजानम् (अवीवृधन्) वर्द्धयन्तु, उत्साहयन्तु। अत्र लोडर्थे लुङ् ॥२॥३ अत्र श्लेषालङ्कारः। ‘रथी-रथी’ इत्यत्र लाटानुप्रासः। ‘पतिम्-पतिम्’ इत्यत्र यमकम् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वा वेदवाचः स्तुतिवाचश्च परमेश्वरस्यैव महिमानं गायन्ति। तथैव राष्ट्रे प्रजानां वाचः प्रजावत्सलस्य नृपतेर्महिमानं गायन्तु ॥२॥४
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।११।१। य० १२।५६, १७।६१ उभयोः ऋषिः सुतजेतृमधुच्छन्दाः; १५।६१ ऋषिः मधुच्छन्दाः। साम० ८२७। २. (समुद्रव्यचसम्) समुद्रेऽन्तरिक्षे व्यचा व्याप्तिर्यस्य तं सर्वव्यापिनमीश्वरम्। (रथीतमम्) बहवो रथा रमणाधिकरणाः पृथिवीसूर्यादयो लोका विद्यन्ते यस्मिन् स रथीरीश्वरः सोऽतिशयितस्तम्। (सत्पतिम्) यः सतां नाशरहितानां प्रकृत्यादिकारणद्रव्याणां पतिः स्वामी तमीश्वरम् (पतिम्) यः पाति रक्षति चराचरं जगत् तमीश्वरम्। इति ऋ० १।११।१ भाष्ये द०। ३. (समुद्रव्यचसम्) समुद्रे नौकादिविजयगुणसाधनव्यापिनं शूरवीरम्। (रथीतमम्) रथाः प्रशस्ता रणविजयहेतवो विमानादयो विद्यन्ते यस्य सोऽतिशयितः शूरस्तम्—इति तत्रैव द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्वेदभाष्ये परमेश्वरविषये शूरविषये च, य० १२।६१ भाष्ये कुमारकुमारीणां कर्त्तव्यविषये, य० १५।६१ भाष्ये राजप्रजाविषये, य० १७।६१ भाष्ये च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान्।
02_0343 इन्द्रं विश्वा - 01 ...{Loading}...
लिखितम्
३४३-१। शैखण्डिनानि त्रीणि॥ त्रयाणां शिखण्ड्यनुष्टुबिन्द्रः॥
इ꣥न्द्रंविश्वाः॥ आ꣡वीऽ᳒२᳒वृधा꣡न्। सामुद्र꣢व्या꣡। चासं꣢गिराः꣡। राथी꣯त꣢माऽ३१उवाऽ᳒२᳒। रथा꣡इनाऽ᳒२᳒म्॥ वा꣯जा꣡꣯नाऽ२३ꣳसा꣢त्॥ पा꣡तिंप꣢तिम्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
02_0343 इन्द्रं विश्वा - 02 ...{Loading}...
लिखितम्
३४३-२।ओ꣢इ꣣न्द्रं꣤वि꣥श्वाः॥ अ꣢वी꣯। वृ꣡धान्। सा꣢ऽ१मूऽ᳒२᳒द्रा꣡व्याऽ᳒२᳒। चसम्। गि꣡राः॥ रा꣢ऽ१थीऽ᳒२᳒ता꣡माऽ᳒२᳒म्। रथी꣡꣯। नाम्। वाजाऽ᳒२᳒नाꣳ꣡साऽ᳒२᳒त्॥ पतिं꣡पाऽ२३ती꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
02_0343 इन्द्रं विश्वा - 03 ...{Loading}...
लिखितम्
३४३-३।
इ꣣न्द्रँ꣤ वि꣣श्वा꣤꣯अ꣥वी꣯वृधन्। स꣢मू᳐द्रा꣣ऽ२३४व्या꣥॥ चा꣢ऽ३सां꣡गी꣢ऽ३राः꣢। रा꣡थी꣢꣯तमाऽ᳒२᳒म्। ऊऽ᳒२᳒। हाऽ᳒२᳒इ। ऊऽ᳒२᳒। रथा꣡इनाम्॥ वाजा꣢꣯नाꣳ꣯साऽ᳒२᳒। ऊऽ᳒२᳒। हाऽ᳒२᳒इ। ऊऽ᳒२᳒॥ पतिं꣡पाऽ२३ती꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
02_0343 इन्द्रं विश्वा - 04 ...{Loading}...
लिखितम्
३४३-४। आष्टादꣳष्ट्रे द्वे॥ द्वयोरष्टादꣳष्ट्रोऽनुष्टुबिन्द्रः॥ पूर्वम्।
इ꣤न्द्रँ꣥ वि꣤श्वा꣥꣯अवी꣯वृधन्। ऐ꣤याहा꣥इ॥ स꣢मू꣡द्रा꣢ऽ१व्याऽ᳒२᳒। चसां꣡गा꣢ऽ१इराऽ२३ः। ऐ꣡꣯याऽ२३हा꣢इ॥ रथा꣡इता꣢ऽ१माऽ᳒२᳒म्। रथा꣡इनाऽ२३म्। ऐ꣡꣯याऽ२३हा꣢इ॥ वा꣯जा꣡ना꣢ऽ१ꣳसाऽ᳒२᳒त्। पता꣡इंपा꣢ऽ१तीऽ२३म्। ऐ꣡꣯याऽ२३हा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
02_0343 इन्द्रं विश्वा - 05 ...{Loading}...
लिखितम्
३४३-५। आष्टादꣳष्ट्रोत्तरम्॥
इ꣤न्द्रँ꣥ वि꣤श्वा꣥꣯अवी꣯वृधन्नै꣤꣯या꣥꣯दौ꣤꣯। हो꣥ऽ६वा꣥॥ स꣢मुद्र꣡व्यच꣢सम्। गा꣡इराऽ२३ः। ऐ꣡꣯याऽ२३त्। औ꣡ऽ२३हो꣯वा꣢॥ रथा꣡इतमꣳ꣢र। था꣡इनाऽ२३म्। ऐ꣡꣯याऽ२३त्। औ꣡ऽ२३हो꣯वा꣢॥ वा꣡꣯जा꣯नाꣳ꣢꣯स꣡त्पति꣢म्। पा꣡तीऽ२३म्। ऐ꣡꣯याऽ२३त्। औ꣡ऽ२३हो꣯वा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
02_0343 इन्द्रं विश्वा - 06 ...{Loading}...
लिखितम्
३४३-६। महावैश्वामित्रे द्वे॥ द्वयोः विश्वामित्रोऽनुष्टुबिन्द्रः॥
ह꣢याइ। हयाऽ३। ओ꣤हा꣥ओ꣤हा꣥।(त्रीणि-त्रिः)। इ꣢न्द्रंविश्वाः᳐। अ꣣वी꣢꣯वा꣡र्द्धाऽ᳒२᳒न्॥ समुद्रव्या᳐। च꣣सं꣢गा꣡इराऽ᳒२ः᳒॥ रथी꣯तमम्। रथा꣡इनाऽ᳒२᳒म्॥ वा꣯जा꣯नाꣳ꣯सात्। प꣣तिं꣢पा꣡तीऽ᳒२᳒म्। हयाइ। हयाऽ३। ओ꣤हा꣥ओ꣤हा꣥॥(त्रीणि-त्रिः)। हो꣣ऽ४इडा꣥। हो꣣ऽ४इडा꣥। हो꣣ऽ२३४५इ॥ डा॥
02_0343 इन्द्रं विश्वा - 07 ...{Loading}...
लिखितम्
३४३-७।ह꣢या꣡ये꣢ऽ३। ह꣢या꣡ये꣢ऽ३। हयाऽ२३꣡४꣡५꣡। हꣳ꣣ऽ२३। आ꣡ऽ२३४इ। द्रंवि꣣श्वा꣤꣯अ꣥वी꣯। वृ꣣धा꣢ऽ३न्॥ सा꣡ऽ२३४। मुद्र꣣व्य꣤च꣥सम्। गि꣣रा꣢ऽ३ः॥ रा꣡ऽ२३४। थी꣣꣯त꣤मꣳ꣥रथी꣯। ना꣢ऽ३म्॥ वा꣡ऽ२३४। जा꣯नाꣳ꣯स꣣त्प꣤ति꣥म्। प꣣ता꣢ऽ३इम्। ह꣢या꣡ये꣢ऽ३। ह꣢या꣡ये꣢ऽ३। हयाऽ२३꣡४꣡५꣡। हꣳ꣣ऽ२३꣡४꣡५꣡। हो꣣ऽ४इडा꣥। हो꣣ऽ४इडा꣥। हो꣣ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म्। शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य सा꣡द꣢ने ॥ 03:0344 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣म꣢म्। इ꣣न्द्र। सुत꣢म्। पि꣣ब। ज्ये꣡ष्ठ꣢꣯म्। अ꣡म꣢꣯र्त्यम्। अ। म꣣र्त्यम्। म꣡द꣢꣯म्। शु꣣क्र꣡स्य꣢। त्वा꣣। अभि꣢। अ꣣क्षरन्। धा꣡राः꣢꣯। ऋ꣣त꣡स्य꣢। सा꣡द꣢꣯ने। ३४४।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोतमो राहूगणः
- अनुष्टुप्
- गान्धारः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि इन्द्र सोमरस का पान करे।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) अध्यात्मसम्पत्ति के प्रदाता परमैश्वर्यवन् परमात्मन् ! तुम (इमम्) इस (ज्येष्ठम्) अतिशय प्रशंसनीय, (अमर्त्यम्) दिव्य, (मदम्) स्तोता को आनन्द देनेवाले (सुतम्) तैयार किये हुए हमारे श्रद्धारसरूप सोम का (पिब) पान करो। (ऋतस्य) ध्यान-यज्ञ के (सादने) सदनभूत हृदय में (शुक्रस्य) दीप्त, पवित्र श्रद्धारस की (धाराः) धाराएँ (त्वा अभि) तुम्हारे प्रति (अक्षरन्) बह रही हैं ॥ द्वितीय—गुरु-शिष्य पक्ष में। शिष्य के प्रति यह आचार्य की उक्ति है। हे (इन्द्र) जिज्ञासु एवं विद्युत् के समान तीव्रबुद्धिवाले मेरे शिष्य ! तू (इमम्) मेरे द्वारा दिये जाते हुए इस (ज्येष्ठम्) श्रेष्ठ (अमर्त्यम्) चिर-स्थायी, (मदम्) तृप्तिप्रद, (सुतम्) अध्ययन-अध्यापन-विधि से निष्पादित ज्ञानरस को (पिब) पान कर, जिस ज्ञानरस को (शुक्रस्य) पवित्र (ऋतस्य) अध्ययन-अध्यापन-रूप यज्ञ के (सादने) सदन में, अर्थात् गुरूकुल में (धाराः) मेरी वाणियाँ (त्वा अभि) तेरे प्रति (अक्षरन्) सींच रही हैं ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब लोग दुःखविदारक, आनन्द के सिन्धु परमेश्वर के प्रति श्रद्धा को हृदय में धारण कर उसकी उपासना करें और गुरुजन शिष्यों के प्रति प्रेम से प्रभावी शिक्षा-पद्धति द्वारा विद्या प्रदान करें ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रः सोमरसं पिबेदित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (इन्द्र) अध्यात्मसम्पत्प्रदातः परमैश्वर्यवन् परमात्मन् ! त्वम् (इमम्) प्रत्यक्षम् (ज्येष्ठम्) अतिशयेन प्रशस्यम्। इष्ठन् प्रत्यये ‘ज्य च। अ० ५।३।६१’ इति प्रशस्यस्य ज्यादेशः। (अमर्त्यम्२) दिव्यम्, (मदम्) स्तोतुरानन्दप्रदम् (सुतम्) अभिषुतमस्माकं श्रद्धारसरूपं सोमम् (पिब) आस्वादय। (ऋतस्य३) ध्यानयज्ञस्य। ऋतम् इति यज्ञनाम। निरु० ६।२२। (सादने) सदने, हृदये इत्यर्थः (शुक्रस्य) दीप्तस्य पवित्रस्य च श्रद्धारसस्य। शुच दीप्तौ, शुचिर् पूतीभावे। ऋजेन्द्र० उ० २।२९ इति रन् प्रत्यये नित्त्वादाद्युदात्ते प्राप्ते निपातनादन्तोदात्तत्वम्। (धाराः) प्रवाहसन्ततयः (त्वा अभि) त्वां प्रति (अक्षरन्) स्रवन्ति ॥ अथ द्वितीयः—गुरुशिष्यपरः। शिष्यं प्रति आचार्यस्योक्तिरियम्। हे (इन्द्र४) जिज्ञासो, विद्युद्वत् तीव्रबुद्धे मदीय शिष्य ! त्वम् (इमम्) मया प्रदीयमानम्, (ज्येष्ठम्) श्रेष्ठम्, (अमर्त्यम्) चिरस्थायिनम्। अमरमिति वाच्यार्थः, चिरस्थायिनमिति लक्ष्यार्थः, तेन अतिशयरूपोऽर्थो द्योत्यते। (मदम्) तृप्तिप्रदम् (सुतम्) अध्ययनाध्यापनविधिना निष्पादितम् ज्ञानरसम् (पिब) आस्वादय। यं ज्ञानरसम् (शुक्रस्य) पवित्रस्य (ऋतस्य) अध्ययनाध्यापनयज्ञस्य (सादने) गृहे, गुरुकुले इत्यर्थः (धाराः) मदीयाः वाचः। धारा इति वाङ्नाम। निघं० १।११। (त्वा अभि) त्वां प्रति (अक्षरन्) क्षारयन्ति, सिञ्चन्ति ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वे दुःखविदारकमानन्दसिन्धुं परमेश्वरं प्रति श्रद्धां हृदि निधाय तमुपासीरन्, गुरवश्च शिष्यान् प्रति प्रेम्णा प्रभाविशिक्षापद्धत्या विद्यां प्रदद्युः ॥३॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।८४।४; साम० ९४९। २. अमर्त्यम् दिव्यम्—इति ऋ० १।८४।४ भाष्ये द०। अमर्त्यम् अमर्त्यताहेतुम्—इति भ०। अस्माकम् सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः—इति सा०। ३. ऋतस्य यज्ञस्य सादने गृहे यज्ञवास्तुनि—इति भ०। ४. (इन्द्र) योगैश्वर्यजिज्ञासो इति ऋ० १।१७६।६ भाष्ये, (इन्द्रम्) विद्युद्वत्तीव्रबुद्धिम् इति च ऋ० ६।४८।१४ भाष्ये द०। ५. एतन्मन्त्रव्याख्याने दयानन्दर्षिर्ऋग्भाष्ये “कश्चिदपि विद्यासुभोजनैर्विना वीर्यं प्राप्तुं न शक्नोति, तेन विना सत्यस्य विज्ञानं विजयश्च न जायते” इति भावार्थे प्राह।
03_0344 इममिन्द्र सुतम् - 01 ...{Loading}...
लिखितम्
३४४-१। वसिष्ठस्य प्रियाणि चत्वारि॥ वसिष्ठोऽनुष्टुबिन्द्रः॥
इ꣢म꣡माऽ२३४इन्द्रा꣥॥ सु꣢त꣡म्। पाऽ२᳐इबा꣣ऽ२३४औ꣥꣯हो꣯वा। ज्ये꣡꣯ष्ठ꣢म꣡मा꣰꣯ऽ२र्तियंम꣡द꣢म्। शुक्रा॥ स्यत्वा꣯भिऽ३या꣡ऽ२३॥ क्षा꣡ऽ२᳐रा꣣ऽ२३४औ꣥꣯हो꣯वा॥ धा꣡꣯रा꣰꣯ऽ२ऋत꣡स्य꣢ सा꣡꣯दने꣣ऽ २३꣡४꣡५꣡॥
03_0344 इममिन्द्र सुतम् - 02 ...{Loading}...
लिखितम्
३४४-२। गौतमम्॥ गोतमोऽनुष्टुबिन्द्रः॥
इ꣥ममि꣣न्द्र꣢᳐सु꣣तं꣤पि꣥बा॥ ज्ये꣢꣯ष्ठा꣡म꣢मा꣡। ति꣢यंम꣡दाऽ२᳐म्। शु꣣क्रा꣢᳐। औ꣣꣯होऽ२३४वा꣥। स्य꣢त्वा꣯भ्य꣡क्ष꣢र᳐न्॥ धा꣣꣯रा꣢᳐। औ꣣꣯होऽ२३४वा꣥। ऋ꣣ता꣢᳐। औ꣣꣯होऽ२३४वा꣥॥ स्य꣤साऽ५दनाइ। हो꣤ऽ५इ॥ डा॥
03_0344 इममिन्द्र सुतम् - 03 ...{Loading}...
लिखितम्
३४४-३। वसिष्ठस्य प्रिये द्वे॥ द्वयोर्वसिष्ठोऽनुष्टुबिन्द्रः॥
इ꣤ममिन्द्राऽ५सुतंपि꣤बा॥ ज्ये꣢꣯ष्ठममाऽ३र्त्ता꣡य꣪म्मादाऽ᳒२᳒म्। औऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाइ। औ꣢ऽ३होऽ२३४वा꣥। शु꣢क्रस्यत्वा꣯ऽ३भा꣡य꣪क्षाराऽ᳒२᳒न्। औऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाइ। औ꣢ऽ३होऽ२३४वा꣥॥ धा꣡रा꣢ऽ१ऋताऽ᳒२᳒। औऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाइ। औ꣢ऽ३होऽ२३४वा꣥। स्य꣢सा꣡꣯दाऽ२३ना꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
03_0344 इममिन्द्र सुतम् - 04 ...{Loading}...
लिखितम्
३४४-४। वसिष्ठस्यप्रियम्॥
इ꣢म꣡मीऽ२३। द्र꣤सु꣥तं꣤पि꣥ब। ज्ये꣤ष्ठा꣥म्॥ अ꣢मऽ३र्त्ता꣡यं꣪मादाऽ᳒२᳒म्। शुक्रा꣡स्यत्वा꣢ऽ३। भि꣡याऽ२᳐क्षा꣣ऽ२३४रा꣥न्॥ धा꣡रा꣢᳐ओ꣣ऽ२३४वा꣥। आ꣡र्त्ता꣢᳐ओ꣣ऽ२३४वा꣥॥ स्य꣤साऽ५दनाइ। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡दि꣢न्द्र चित्र म इ꣣ह꣢꣫ नास्ति꣣ त्वा꣡दा꣢तमद्रिवः। रा꣢ध꣣स्त꣡न्नो꣢ विदद्वस उभयाह꣣स्त्या꣡ भ꣢र ॥ 04:0345 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।
राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣢त्। इ꣣न्द्र। चित्र। मे। इह꣢। न। अ꣡स्ति꣢। त्वा꣡दा꣢꣯तम्। त्वा। दा꣣तम्। अद्रिवः। अ। द्रिवः। रा꣡धः꣢꣯। तत्। नः꣣। विदद्वसो। विदत्। वसो। उभयाहस्ति꣢। आ। भ꣣र। ३४५।
अधिमन्त्रम् (VC)
- इन्द्रः
- अत्रिर्भौमः
- अनुष्टुप्
- गान्धारः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र से धन के दान की प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (चित्र) अद्भुतगुणकर्मस्वभाववाले, (अद्रिवः) वज्रधारी के समान दुष्कर्मों का दण्ड देनेवाले (इन्द्र) जगदीश्वर ! (यत्) जो आध्यात्मिक और भौतिक धन, हमारे कर्मों के परिपाक के कारण अथवा हमारी पौरुषहीनता के कारण (त्वादातम्) तेरे द्वारा काटा या रोका हुआ (मे) मुझे (इह) यहाँ (नास्ति) नहीं मिल रहा है। (तत् राधः) वह धन, हे (विदद्वसो) ज्ञात अथवा प्राप्त धनवाले परमेश्वर ! तू (उभयाहस्ति) दोनों हाथों को प्रवृत्त करके (आ भर) मुझे प्रदान कर ॥ यहाँ निराकार भी परमेश्वर के विषय में दोनों हाथों से दान का वर्णन दान की प्रचुरता को द्योतित करने के लिए आलङ्कारिक जानना चाहिए ॥ द्वितीय—राजा-प्रजा के पक्ष में। दुर्भिक्ष, महामारी, नदियों में बाढ़ आदि विपत्तियों से पीड़ित प्रजा राजा से याचना कर रही है। हे (चित्र) अद्भुत दानी, (अद्रिवः) मेघोंवाले सूर्य के समान राष्ट्र में धन आदि की वृष्टि करनेवाले (इन्द्र) विपत्तियों के विदारक राजन् ! (त्वादातम्) आपके द्वारा देय (यत्) जो धन (मे) मुझे (इह) इस संकटकाल में, अब तक (नास्ति) नहीं मिला है, (तत् राधः) वह धन, हे (विदद्वसो) धन का संचय किये हुए राजन् ! आप (उभयाहस्ति) दोनों हाथों से भर-भर कर (आभर) मुझे दीजिए, देकर मुझ विपत्तिग्रस्त की सहायता कीजिए ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आध्यात्मिक और भौतिक धन से रहित लोग पुरुषार्थ करते हुए यदि परमेश्वर से धन माँगते हैं, तो उसकी कृपा से उनके ऊपर धन की वर्षा अवश्य होती है। इसी प्रकार राजा को भी संकटग्रस्त प्रजाओं की रक्षा के लिए पुष्कल धन देकर उनकी सहायता अवश्य करनी चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रो धनदानाय प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (चित्र२) अद्भुतगुणकर्मस्वभाव (अद्रिवः) वज्रिन्, वज्रधर इव दुष्कर्मणां दण्डप्रदातः (इन्द्र) जगदीश्वर ! (यत्) आध्यात्मिकं भौतिकं च धनम् (त्वादातम्३) अस्मत्कर्मपरिपाकवशाद्वा अस्माकं पौरुषहीनत्वाद्वा त्वया छिन्नम् अवरुद्धं सत्। दातमिति दैप् लवने धातोर्निष्ठायां रूपम्। त्वया दातं त्वादातम्। (मे) मम (इह) अत्र (नास्ति) न विद्यते (तत् राधः) तद् धनम्, हे (विदद्वसो४) ज्ञानधन, लब्धधन वा परमेश्वर ! त्वम् (उभयाहस्ति५) उभये हस्ताः प्रवर्तन्ते यथा तथा। ‘द्विदण्डादिभ्यश्च। अ० ५।४।१२८’ इति इच् प्रत्ययान्तोऽयं निपातः। चित्त्वादन्तोदात्तत्वम्। (आ भर) मह्यम् आहर ॥ निराकारस्यापि परमेश्वरस्य विषये उभयहस्ताभ्यां दानवर्णनं दानस्य प्रचुरत्वद्योतनार्थम् आलङ्कारिकं विज्ञेयम् ॥ अथ द्वितीयः—राजप्रजापरः। दुर्भिक्षमहाव्याधिनदीपूरादिविपत्पीडितो जनो राजानं याचते। हे (चित्र) अद्भुतदानशौण्ड, (अद्रिवः६) मेघवान् सूर्य इव राष्ट्रे धनादीनां वृष्टिकर्तः, अद्रिरिति मेघनाम। निघं० १।१०। (इन्द्र) विपद्विदारक राजन् ! (त्वादातम्) त्वया दातव्यम्। द्रष्टव्यम् अधः प्रदत्तं निरुक्तव्याख्यानम्। (यत्) यद् धनम् (मे) मम (इह) अस्मिन् संकटकाले (नास्ति) इदानीं यावत् त्वत्सकाशाद् न प्राप्तमस्ति, (तत् राधः) तद् धनम्, हे (विदद्वसो) सञ्चितधन राजन् ! त्वम् (उभयाहस्ति) उभयैरपि हस्तैः (आभर) मह्यं देहि, दत्त्वा च विपद्ग्रस्तस्य मम सहायतां कुरु ॥४॥७ यास्काचार्य इमामृचमेवं व्याख्यातवान्—यदिन्द्र चित्रं चायनीयं मंहनीयं धनमस्ति। यन्म इह नास्तीति वा त्रीणि मध्यमानि पदानि। त्वया नस्तद् दातव्यम्। अद्रिवन्, अद्रिरादृणात्येतेन, अपि वाऽत्तेः स्यात् ‘ते सोमादः’ इति ह विज्ञायते। राध इति धननाम राध्नुवन्त्येतेन। तन्नस्त्वं वित्तधन, उभाभ्यां हस्ताभ्याम् आहर। उभौ समुब्धौ भवतः इति। (निरु० ४।४) ॥ अत्र श्लेषालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आध्यात्मिकभौतिकधनविहीना जनाः पुरुषार्थं कुर्वन्तश्चेत् परमेश्वरं धनं याचन्ते तदा तत्कृपातस्तेषामुपरि धनवृष्टिरवश्यं भवति। एवं नरेश्वरेणापि संकटग्रस्तानां प्रजानां त्राणाय पुष्कलधनदानेन तेषां साहाय्यमवश्यं विधेयम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ५।३९।१ ‘म इह नास्ति’ इत्यत्र ‘मेहनास्ति’ इति पाठः। २. चित्र विचित्र पूज्य वा—इति वि०। पूजनीय—इति भ०। चायनीय—इति सा०। अद्भुतगुणकर्मस्वभाव—इति ऋ० ५।३९।१ भाष्ये द०। ३. त्वया दातव्यम्—इति वि०, सा०। त्वया देयम्—इति भ०। त्वया शोधितम्—इति ऋग्भाष्ये द०। दयानन्देन दैप् शोधने इत्यस्य क्तान्तं रूपं मत्वेदं व्याख्यातम्। ४. लब्धधन—इति वि०, सा०। वेदयति लम्भयति वसूनीति विदद्वसुः—इति भ०। ५. उभया, उभयशब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्० (अ० ७।१।३९)’ इति या आदेशः। उभाभ्यामित्यर्थः। हस्त्या, हस्त शब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्०’ इति या आदेशः। हस्ताभ्यामित्यर्थः—इति वि०। उभया हस्त्या उभाभ्यां हस्ताभ्यां संगृहीतम्—इति भ०। उभया हस्त्या उभाभ्यां हस्ताभ्याम्—इति सा०। एतत्सर्वम् ‘उभया उभये हस्ताः प्रवर्तन्ते यस्मिंस्तत्’—इति ऋग्भाष्ये द०। ६. (अद्रिवः) सूर्य इव विद्याप्रकाशक—इति ऋ० ५।३९।१ भाष्ये द०। ७. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं राजप्रजाविषये व्याख्यातवान्।
04_0345 यदिन्द्र चित्र - 01 ...{Loading}...
लिखितम्
३४५-१। वींकानि चत्वारि, वीङ्के द्वे॥ द्वयोः गृत्समदोऽनुष्टुबिन्द्रः॥य꣤दि꣥न्द्रो꣤हाइ॥ चि꣢त्रमइह꣡नाऽ२३। आ꣡ऽ२३४। स्तित्वा꣯दा꣥꣯। हा꣢ऽ३इ। त꣢मद्रा꣡इवाऽ२३ः॥ रा꣡ऽ२३४। धस्त꣣न्नो꣤꣯वि꣥दा। हा꣢ऽ३। वा꣡। साउ॥ उभया꣯हाऽ२३॥ स्तिया꣢उवाऽ३४३। भा꣢ऽ३४५रोऽ६"हा꣥इ॥
04_0345 यदिन्द्र चित्र - 02 ...{Loading}...
लिखितम्
३४५-२।
य꣥दिन्द्रचित्रमौ꣯हो꣤वा꣥॥ हा꣣ऽ२३४ना꣥। अ꣡स्तित्वा꣯दा꣯तमोवा꣢ऽ३। ओ꣡वा꣢᳐। द्रा꣣ऽ२३४इवाः꣥॥ रा꣡꣯धस्तन्नो꣯विदोवा꣢ऽ३। ओ꣡वा꣢᳐। वा꣣ऽ२३४सा꣥उ॥ उ꣡भया꣯हस्तियोवा꣢ऽ३।ओ꣡वा꣢ऽ३४३। भा꣢ऽ३४५रोऽ६"हा꣥इ॥
04_0345 यदिन्द्र चित्र - 03 ...{Loading}...
लिखितम्
३४५-३। आकूपारं वा॥ अकूपारोऽनुष्टुबिन्द्रः॥
य꣢दि꣡न्द्राऽ२३चि꣤त्र꣥। म꣢इहा꣣ऽ२३४ना꣥॥ अ꣡स्ताऽ᳒२᳒इत्वा꣡꣯दा। त꣢मद्रा꣡इवो। रा꣢꣯धस्ता꣡न्नाऽ᳒२ः᳒। विदद्व꣡साउ॥ उ꣢भया꣡हाऽ२३। स्ता꣡ऽ२३या꣤ऽ३। भा꣢ऽ३४५रोऽ६"हा꣥इ॥
04_0345 यदिन्द्र चित्र - 04 ...{Loading}...
लिखितम्
३४५-४। वीङ्कम्॥
य꣣दि꣤न्द्र꣥चित्रमइ। ह꣣ना꣢ऽ३। आ꣤स्ती꣥॥ त्वा꣡꣯दा꣯तमद्रिवः॥ रा꣯धस्ताऽ२३न्नाः꣢। वी꣡वीऽ᳒२᳒। द꣡द्वसाउ॥ उभयाऽ२३हा꣢। स्ता꣡याऽ२३। भा꣡ऽ२३रा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥