[[अथ अष्टमप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
सु꣣नो꣡त꣢ सोम꣣पा꣢व्ने꣣ सो꣢म꣣मि꣡न्द्रा꣡य व꣣ज्रि꣡णे꣢। प꣡च꣢ता प꣣क्ती꣡रव꣢꣯से कृणु꣣ध्व꣢꣫मित्पृ꣣ण꣢न्नित्पृ꣢꣯ण꣣ते꣡ मयः꣢꣯ ॥ 43:0285 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सु꣣नो꣡त꣢। सो꣣मपा꣡व्ने꣢। सो꣣म। पा꣡व्ने꣢꣯। सो꣡म꣢꣯म्। इ꣡न्द्रा꣢꣯य। व꣣ज्रि꣡णे꣢। प꣡च꣢꣯त। प꣣क्तीः꣢। अ꣡व꣢꣯से। कृ꣣णुध्व꣢म्। इत्। पृ꣣ण꣢न्। इत्। पृ꣣णते꣢। म꣡यः꣢꣯। २८५।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र के लिए सोम अभिषुत करने की प्रेरणा दी गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मरणधर्मा मनुष्यो ! तुम (सोमपाव्ने) उपासकों के श्रद्धारस का पान करनेवाले, (वज्रिणे) पापाचारियों के प्रति दण्डधारी (इन्द्राय) जगदीश्वर के लिए (सोमम्) श्रद्धारस को (सुनोत) अभिषुत करो, (पक्तीः) ज्ञान, कर्म आदि के परिपाकों को (पचत) पकाकर तैयार करो और (अवसे) जगदीश्वर की प्रीति के लिए (कृणुध्वम् इत्) उन श्रद्धारसों और ज्ञान, कर्म आदि के परिपाकों को उसे समर्पित करो। (पृणते) समर्पण करनेवाले मनुष्य के लिए वह जगदीश्वर (मयः) सुख को (पृणन् इत्) अवश्य प्रदान करता है ॥३॥ इस मन्त्र में ‘समर्पण करनेवाले को सुख मिलता है’ इससे सोमसवन एवं पाकों के परिपाक के समर्पण रूप कार्य का समर्थन होता है, अतः अर्थान्तरन्यास अलङ्कार है। ‘सोम-सोम’ में लाटानुप्रास तथा ‘पृण-पृण’ में छेकानुप्रास है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सुखार्थी जनों को चाहिए कि परमेश्वर में श्रद्धा और अपनी अन्तरात्मा में ज्ञान, कर्म, सत्य, अहिंसा, ब्रह्मचर्य आदि का परिपाक अवश्य करें ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्राय सोममभिषोतुं प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मर्त्याः। यूयम् (सोमपाव्ने) सोमम् उपासकानां श्रद्धारसं पिबतीति सोमपावा तस्मै। पा पाने धातोः ‘छन्दसीवनिपौ च वक्तव्यौ, अ० ५।२।१२२’ वा० इति वनिप् प्रत्ययः। (वज्रिणे) पापाचारिणामुपरि दण्डधारिणे (इन्द्राय) जगदीश्वराय (सोमम्) श्रद्धारसं (सुनोत) अभिषुणुत। षुञ् अभिषवे, लोटि ‘तप्तनप्तनथनाश्च, अ० ७।१।४५’ इति तस्य तप्, तस्य च पित्त्वान्ङिद्वत्त्वाभावे गुणनिषधोऽपि न भवति। (पक्तीः) ज्ञानकर्मादीनां परिपाकान् (पचत) पक्त्वा सज्जीकुरुत, (अवसे२) जगदीश्वरस्य प्रीत्यै। अवतिरत्र प्रीतिकर्मा। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु। (कृणुध्वम् इत्) तान् श्रद्धारसान् ज्ञानकर्मादीनां परिपाकाँश्च तस्मै समर्पयत एव। (पृणते३) समर्पयते दानशीलाय जनाय। पृणातिः दानकर्मा। निघं० ३।२०। शतरि ‘शतुरनुमो नद्यजादी, अ० ६।१।१७३’ इति विभक्तिरुदात्ता। स जगदीश्वरः (मयः) सुखम्। मयस् इति सुखनाम। निघं० ३।६। (पृणन् इत्) प्रयच्छन्नेव भवतीति शेषः ॥३॥४ अत्र ‘पृणन्नित् पृणते मयः’ इति कारणेन सोमसवन-पक्तिपरिपाक-समर्पणरूपस्य कार्यस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः। ‘सोम, सोम’ इति लाटानुप्रासः ‘पृण पृण’ इति च छेकानुप्रासः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सुखार्थिभिर्जनैः परमेश्वरे श्रद्धा, स्वात्मनि ज्ञानकर्मसत्याहिंसाब्रह्मचर्यादीनां परिपाकश्चावश्यं कर्त्तव्यः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३२।८, अथ० ६।२।३। उभयत्र ‘सुनोत’ इत्यस्य स्थाने ‘सुनोता’ इति पाठः। २. अवसे तर्पणार्थमिन्द्रस्य। पक्त्वा च कृणुध्वम् अलङ्करणादिभिः संस्कारैः संस्कुरुध्वम्—इति वि०। अवसे तर्पयितुम् इन्द्रं कृणध्वमित् कुरुतैव कर्माणि। इन्द्रप्रियकराणि कर्माणि च कुरुतैव—इति सा०। ३. पृणते पूरयित्रे—इत वि०। हवींषि दत्तवते यजमानाय—इति भ०। कैश्चित्तु पृणते इति तिङन्तं व्याख्यातम्। तत्र स्वरो न सङ्गच्छते। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘राज्ञा वैद्यैः किं कारयितव्य’मिति विषये व्याख्यातः। ये वैद्याः स्युस्त उत्तमोत्तमान्यौषधानि सर्वान् मनुष्यान् प्रति शिक्षेरन् येन पूर्णं सुखं स्यादिति तदीयोऽभिप्रायः।
43_0285 सुनोत सोमपाव्ने - 01 ...{Loading}...
लिखितम्
२८५-१। गौरीविते द्वे॥ द्वयोर्गौरीवितिर्बृहतीन्द्रः॥
सु꣥नो꣯तसो꣯मपा꣯व्नाऽ६ए꣥॥ सो꣡꣯ममिन्द्राऽ२३। हो꣡वा꣢ऽ३हा꣢। यव꣡ज्राऽ२३इणा꣢इ। प꣡चता꣢꣯पक्ता꣡इरवसे꣢꣯कृ। णू꣡। ध्वा꣢ऽ१मीऽ२३द्धा꣢इ॥ पृ। णा꣡न्। आइत्पॄ꣢ऽ३हा꣢॥ णता꣡इमाऽ२३या꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
43_0285 सुनोत सोमपाव्ने - 02 ...{Loading}...
लिखितम्
२८५-२।सु꣤नो꣣꣯त꣤सो꣥꣯मपा꣯। आ꣣꣯व्ना꣢᳐ओ꣣ऽ२३४वा꣥। इ꣤याहा꣥इ॥ सो꣡꣯ममिन्द्राऽ᳒२᳒। हु꣡वेऽ᳒२᳒। हु꣡वेऽ᳒२᳒हो꣡। याव꣪ज्रिणाऽ᳒२᳒इ। प꣡चता꣯पक्ताइरवसे꣢꣯कृ। णू꣡। ध्वा꣢ऽ१मीऽ२३द्धा꣢इ॥ पृ। णा꣡न्। आइत्पॄ꣢ऽ३हा꣢॥ णता꣡इमाऽ२३या꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
यः꣡ स꣢त्रा꣣हा꣡ विच꣢꣯र्षणि꣣रि꣢न्द्रं꣣ त꣡ꣳ हू꣢महे व꣣य꣢म्। स꣡ह꣢स्रमन्यो तुविनृम्ण सत्पते꣣ भ꣡वा꣢ स꣣म꣡त्सु꣢ नो वृ꣣धे꣢ ॥ 44:0286 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् ।
सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
यः꣢। स꣣त्राहा꣢। स꣣त्रा। हा꣢। वि꣡च꣢꣯र्षणिः। वि। च꣣र्षणिः। इन्द्र꣣म्। तम्। हू꣣महे। वय꣢म्। स꣡ह꣢꣯स्रमन्यो। स꣡ह꣢꣯स्र। म꣣न्यो। तुविनृम्ण। तुवि। नृम्ण। सत्पते। सत्। पते। भ꣡व꣢꣯। स꣣म꣡त्सु꣢। स꣣। म꣡त्सु꣢꣯। नः꣣। वृधे꣢। २८६।
अधिमन्त्रम् (VC)
- इन्द्रः
- भरद्वाजो बार्हस्पत्यः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा गया है कि कैसे परमेश्वर और राजा को हम पुकारें और उससे क्या याचना करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यः) जो परमात्मा वा राजा (सत्राहा) सत्य से असत्य का हनन करनेवाला अथवा सत्य व्यवहार करनेवाला और (विचर्षणिः) विशेष रूप से द्रष्टा है, (तम्) उस (इन्द्रम्) दुःख, विघ्न आदि के विदारक तथा सुख एवं ऐश्वर्य के प्रदाता परमात्मा और राजा को (वयम्) हम प्रजाजन (हूमहे) पुकारते हैं। हे (सहस्रमन्यो) पापों और पापियों के विनाशार्थ अनन्त उत्साह को धारण करनेवाले, (तुविनृम्ण) बहुत बली तथा बहुत धनी, (सत्पते) सज्जनों के पालक ! तू (समत्सु) जीवन के संघषों में एवं देवासुरसंग्रामों में (नः) हमारी (वृधे) वृद्धि के लिए (भव) हो ॥४॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे ब्रह्माण्ड में परमेश्वर सत्य का हन्ता, सर्वद्रष्टा, पापों को सहन न करनेवाला, बहुत बलवान्, बहुत धनवान् और देवासुरसंग्रामों में देवपुरुषों को विजय दिलानेवाला तथा बढ़ानेवाला है, वैसे ही राष्ट्र में राजा हो ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशं परमेश्वरं राजानं च वयमाह्वयेम किं च तं याचेमहीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यः) परमात्मा राजा वा (सत्राहा२) सत्रा सत्येन असत्यं हन्ति इति तथाविधः यद्वा, सत्रा सत्येन हन्ति गच्छति व्यवहरतीति सः। सत्रा इति सत्यनाम। निघं० ३।१०। हन हिंसागत्योः। (विचर्षणिः) विशेषेण द्रष्टा च अस्ति। विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (तम् इन्द्रम्) विघ्नदुःखादिविदारकं सुखैश्वर्यप्रदं च परमात्मानं राजानं वा (वयम्) प्रजाजनाः (हूमहे) आह्वयामः। ह्वेञ् धातोः ‘बहुलं छन्दसि, अ० २।४।७३’ इति शपो लुकि ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे, पूर्वरूपे ‘हलः’ अ० ६।४।२ इति दीर्घत्वे रूपमिदम्। अत प्रत्यक्षकृतमाह। हे (सहस्रमन्यो३) पापानां पापिनां चोत्सादनार्थम् अनन्तोत्साहयुक्त ! (तुविनृम्ण) बहुबल ! बहुधन ! तुवि इति बहुनाम। निघं० ३।१। नृम्णम् इति बलनाम धननाम च। निघं० २।९, २।१०। (सत्पते) सतां पालक ! त्वम् (समत्सु४) जीवनसंघर्षेषु देवासुरसंग्रामेषु वा। समत्सु इति सङ्ग्रामनामसु पठितम्। निघं० २।१७। ‘समदः समदोः वाऽत्तेः, सम्मदो वा मदतेः’ इति निरुक्तम्। ९।१७। याः प्राप्य क्षत्रियाः संमाद्यन्ति हृष्यन्ति ताः समदः युद्धानि। (नः) अस्माकम् (वृधे) वर्धनाय (भव) वर्त्तस्व ॥४॥ अत्रार्थश्लेषालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा ब्रह्माण्डे परमेश्वरोऽसत्यस्य, हन्ता, सर्वद्रष्टा, पापानामसहनो, बहुबलो, बहुधनः, सतां पालको, देवासुरसंग्रामेषु देवानां विजयप्रदः वर्धयिता च वर्तते तथैव राष्ट्रे राजा भवेत् ॥४॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।४६।३, ऋषिः शंयुः। ‘सहस्रमन्यो’ इत्यत्र ‘सहस्रमुष्क’ इति पाठः। २. यः सत्येन असत्यं हन्ति। इति ऋ० ४।१७।८ भाष्ये द०। सत्राहा सत्येन हन्ता सर्वदा वा हन्ता शत्रुम्—इति वि०। सर्वेषां शत्रूणां हन्ता—इति भ०। महतां शत्रूणां हन्ता—इति सा०। ३. मन्युः मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वा, बहुदीप्ते बहुक्रोध वा—इति वि०। बहुकर्मन्—इति भ०। बहुविधं शत्रुनाशार्थं सहस्रसंख्याककोपयुक्तः, यद्वा मन्युः, क्रतुः सहस्रसंख्याकैः क्रतुभिः पूज्येन्द्र—इति सा०। ४. (समत्सु) धार्मिकाधार्मिकविरोधाख्येषु युद्धेषु इति ऋ० ३।४३।८ भाष्ये द०। ५. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ‘मनुष्याः संग्रामे कथं वर्तेरन्’ इति विषये व्याख्यातवान्।
44_0286 यः सत्राहा - 01 ...{Loading}...
लिखितम्
२८६-१। वामदेव्यम्॥ वामदेवो बृहतीन्द्रः॥
य꣣स्स꣤त्रा꣯हा꣣꣯विच꣤र्ष꣥णिः। इन्द्रन्ता꣢ऽ३ꣳहू꣤꣯म꣥हे꣤꣯वया꣥म्॥ इ꣡न्द्रन्तꣳहू꣯म꣢हे꣡꣯वाऽ२३या꣢म्। स꣡हस्रमन्यो꣯तुविनृम्ण꣢स꣡त्पाऽ२३ता꣢इ॥ भवा꣡꣯साऽ२३मा꣢॥ त्सू꣡नो꣯वृ꣢धे꣯। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣न꣡क्तं꣢ दिशस्यतम्। मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥ 45:0287 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम् ।
मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
श꣡ची꣢꣯भिः। नः꣣। शचीवसू। शची। वसूइ꣡ति꣢। दि꣡वा꣢꣯। न꣡क्त꣢꣯म्। दि꣣शस्यतम्। मा꣢। वा꣣म्। रातिः꣢। उ꣡प꣢꣯। द꣣सत्। कदा꣢। च꣣। न꣣। अ꣣स्म꣢त्। रा꣣तिः꣢। क꣣दा꣢। च꣣। न꣢। २८७।
अधिमन्त्रम् (VC)
- इन्द्रः
- परुच्छेपो दैवोदासिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में अश्वियुगल देवता हैं। उनसे याचना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (शचीवसू) कर्म-रूप धनवाले परमात्मा-जीवात्मा, गुरु शिष्य, अध्यापक-उपदेशक, वैद्य-शल्यचिकित्सक, राजा-राजमन्त्री, सभापति-सेनापति आदि अश्वीदेवो ! तुम (शचीभिः) अपने-अपने कर्मों से (नः) हमें (दिवा नक्तम्) दिन-रात (दिशस्यतम्) अपनी-अपनी देनें प्रदान करो। (वाम्) तुम्हारा (रातिः) दान (कदा च न) कभी (मा उपदसत्) समाप्त न हो, वैसे ही (अस्मत्) हमारे अन्दर से (रातिः) दान का गुण (कदा च न) कभी (मा उपदसत्) समाप्त न हो, अर्थात् हम भी निरन्तर दान में संलग्न रहें ॥५॥ इस मन्त्र में ‘शची, शची’, ‘राति, रातिः’, तथा ‘कदा च न, कदा च न’ में लाटानुप्रास अलङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उक्त अश्वी-युगल जैसे अपनी-अपनी आध्यात्मिक, वैयक्तिक, सामाजिक, राष्ट्रिय, शिल्पात्मक, चिकित्सात्मक आदि देनों से हमारा उपकार करते रहें, उसी प्रकार हम भी अपनी-अपनी योग्यता के अनुसार दूसरों का उपकार करें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथाश्विनौ देवते। तौ प्रार्थ्येते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (शचीवसू) कर्मधनौ अश्विनौ२ परमात्मजीवात्मानौ, गुरुशिष्यौ, अध्यापकोपदेशकौ, वैद्यशल्यचिकित्सकौ, राजामात्यौ, सभासेनेशौ च ! युवाम् (शचीभिः) स्वीयैः स्वीयैः कर्मभिः। शची इति कर्मनाम। निघं० २।१। (नः) अस्मभ्यम् (दिवा नक्तम्) अहनि रात्रौ चापि (दिशस्यतम्३) दानं प्रयच्छतम्। अयं दानार्थः दिशस् शब्दः कण्ड्वादिषु पठितव्यः। ‘कण्ड्वादिभ्यो यक्, अ० ३।१।२७’ इति यक्। (वाम्) युवयोः (रातिः) दानम् (कदा च न) कदाचित् (मा उपदसत्) न समाप्येत। उपपूर्वाद् दसु उपक्षये धातोर्लेटि रूपम् तथैव (अस्मत्) अस्मत्सकाशात् (रातिः) दानगुणः (कदा च न) कदाचित्, मा उपदसत् न नश्येत्। वयमपि सततदानरताः भवेमेत्यर्थः ॥५॥४ अत्र ‘शची, शची’ ‘राति, रातिः’, ‘कदा च न, कदा च न’ इति लाटानुप्रासः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उक्तौ अश्विनौ यथा स्वेन स्वेनाध्यात्मिकेन वा, वैयक्तिकेन वा, सामाजिकेन वा राष्ट्रियेण वा, शिल्पात्मकेन वा, चिकित्सात्मकेन वा दानेनास्मानुपकुर्युः, तथैव वयमपि स्वस्वयोग्यतानुसारमन्यानुपकुर्याम ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।१३९।५ ‘दिशस्यतम्’ इत्यत्र ‘दशस्यतम्’ इति पाठः। २. द्रष्टव्यं द० भा०—(अश्विनौ) व्याप्तसकलविद्यौ अध्यापकोपदेशकौ (ऋ० ३।५८।५), राजामात्यौ (ऋ० ४।४।५) वैद्यकविद्याव्यापिनौ भिषजौ (य० २१।३३), सभासेनेशौ (ऋ० १।१२०।१०), शिल्पविद्याध्येत्रध्यापकौ (ऋ० १।८९।४)। ३. ऋग्वेदवद् ‘दशस्यतम्’ इति पाठं मत्वा दशतेर्दानकर्मणः एतद् रूपम्। दत्तमित्यर्थः। यद्यद् वयं प्रार्थयामस्तत्तद् दत्तमित्यर्थः—इति वि०। दशस्यतं प्रयच्छतं धनानि—इति भ०। दिशस्यतं विसृजतम् अभिमतं दत्तमित्यर्थः—इति सा०। (दशस्यतम्) दद्यातम्, अयं दशस् शब्दः कण्ड्वादिषु द्रष्टव्यः इति ऋ० १।१३९।३ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयम् ‘अध्यापकोपदेशकौ सुशिक्षितया वाचाऽहर्निशं विद्या उपदिशेताम्’ इति विषये व्याख्यातः।
45_0287 शचीभिर्नः शचीवसू - 01 ...{Loading}...
लिखितम्
२८७-१। अश्विनोस्साम॥ अश्विनौ बृहतीन्द्रः॥ (अश्विनौ)।
श꣤ची꣯भिर्नाऽ५श्शची꣯व꣤सू॥ दि꣡वा꣯नक्तंदि꣢श꣡स्यताम्। मावाऽ᳒२᳒म्। रा꣯ति꣡रुपदसत्क꣢दा꣡꣯चना॥ आस्माऽ᳒२᳒त्॥ रा꣡तिᳲक꣢दो꣡ऽ२३४वा꣥। चा꣤ऽ५नोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
य꣣दा꣢ क꣣दा꣡च꣢ मी꣣ढु꣡षे꣢ स्तो꣣ता꣡ ज꣢रेत꣣ म꣡र्त्यः꣢। आ꣡दिद्व꣢꣯न्देत꣣ व꣡रु꣢णं वि꣣पा꣢ गि꣣रा꣢ ध꣣र्त्ता꣢रं꣣ वि꣡व्र꣢तानाम् ॥ 46:0288 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣣दा꣢। क꣣दा꣢। च꣣। मीढु꣡षे꣢। स्तो꣣ता। ज꣣रेत। म꣡र्त्यः꣢꣯। आत्। इत्। व꣣न्देत। व꣡रु꣢꣯णम्। वि꣣पा꣢। गि꣣रा꣢। ध꣣र्त्ता꣡र꣢म्। वि꣡व्र꣢꣯तानाम्। वि। व्र꣣तानाम्। २८८।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में वरुण देवता है। उसकी उपासना के लिए प्रेरणा की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यदा कदा च) जब कभी (स्तोता) स्तोता (मर्त्यः) मनुष्य (मीढुषे) बादल के समान ऐश्वर्यवर्षक परमैश्वर्यशाली इन्द्र परमात्मा को अनुकूल करने के लिए (जरेत) उसकी अर्चना करे, (आत् इत्) उसके अनन्तर ही वह (विव्रतानाम्) व्रत-रहितों को (धर्तारम्) कर्म-पाशों से जकड़नेवाले, (वरुणम्) कर्मानुसार फल देकर पापों से निवारण करनेवाले वरुण परमात्मा की भी (विपा) मेधायुक्त (गिरा) वाणी से (वन्देत) वन्दना कर लिया करे ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - इन्द्र और वरुण दोनों ही परमेश्वर के नाम हैं। इन्द्र नाम से उसकी परमैश्वर्यवत्ता तथा ऐश्वर्यवर्षकता सूचित होती है और वरुण नाम से उसका पाशधारी होना तथा कर्म-पाशों से बाँधकर और दण्ड देकर पापनिवारक होना सूचित होता है। परमेश्वर के इन दोनों ही स्वरूपों के चिन्तन करने, स्मरण करने तथा सदा अपने सामने धारण रखने से मनुष्य अपने जीवन में सन्मार्गगामी होकर सफलता प्राप्त कर सकता है। ऐश्वर्य पाकर मनुष्य कुमार्ग में प्रवृत्त न हो जाए, इसके लिए परमेश्वर के वरुण स्वरूप को भी ध्यान में रखना आवश्यक है ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ वरुणो देवता। तमुपासितुं प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यदा कदा च) यस्मिन् कस्मिन्नपि काले (स्तोता) स्तुतिकर्ता (मर्त्यः) मनुष्यः (मीढुषे) पर्जन्यवत् ऐश्वर्यवर्षकाय इन्द्राय परमैश्वर्यवते परमात्मने, तमनुकूलयितुमित्यर्थः (जरेत) अर्चनां कुर्यात्। जरते अर्चतिकर्मा। निघं० ३।१४। (आत् इत्) तदनन्तरमेव सः (विव्रतानाम्२) विगता व्रतेभ्य इति विव्रतास्तेषाम् व्रतहीनानाम्। तत्पुरुषे अव्ययपूर्वपदप्रकृतिस्वरः। (धर्तारम्) कर्मपाशैः निग्रहीतारम् (वरुणम्) कर्मानुसारं दण्डयित्वा पापेभ्यो निवारकं परमात्मानम् अपि (विपा२) मेधावत्या। विप इति मेधाविनाम। निघं० ३।१५। (गिरा) वाचा (वन्देत) पूजयेत् ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - इन्द्रो वरुणश्चोभे अपि परमेश्वरस्य नाम्नी स्तः। इन्द्रनाम्ना तस्य परमैश्वर्यवत्त्वमैश्वर्यवर्षकत्वं च सूच्यते, वरुणनाम्ना तस्य पाशित्वं कर्मपाशैर्बद्ध्वा दण्डयित्वा पापनिवारकत्वं च सूच्यते। परमेश्वरस्योभयोरपि स्वरूपयोश्चिन्तनेन, स्मरणेन, सदा स्वसम्मुखं धारणेन च मनुष्यो जीवने सन्मार्गगामी भूत्वा साफल्यमधिगन्तुमर्हति। ऐश्वर्यं प्राप्य जनः कुमार्गे प्रवृत्तो न भवेदित्येतदर्थं परमेश्वरस्य वरुणस्वरूपस्यापि ध्यानमावश्यकम् ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. “वि शब्दः ‘छन्दसि परेऽपि’ पा० १।४।८१ इत्येवं परः प्रयुक्तः पूर्वो द्रष्टव्यः। विविधं धारयितारमित्यर्थः। केषाम् ? व्रतानां कर्मणाम्”। इति विवरणकृद्व्याख्यानं तु चिन्त्यं पदपाठे ‘विव्रतानाम्’ इति समस्तपाठात्। धर्तारं धारयितारं विव्रतानां विविधयज्ञादिकर्मणां जनानाम्—इति भ०। विव्रतानां विविधानां कर्मणां धर्तारं धारकम्—इति सा०। २. विपा गिरा विविधमिन्द्रगुणान् प्रति प्राप्तया गिरा। इन्द्रगुणप्रकाशिकया गिरेत्यर्थः—इति वि०। वेपयन्त्या कम्पयन्त्या दुःखानि, गिरा स्तुत्या—इति भ०। विशेषेण रक्षिकया गिरा स्तुत्या—इति सा०।
46_0288 यदा कदाच - 01 ...{Loading}...
लिखितम्
२८८-१। वसिष्ठस्य पज्राणि त्रीणि॥ त्रयाणां वसिष्ठो बृहतीन्द्रावरुणः॥
य꣥दा꣯कदा॥ चा꣡ऽ२᳐मा꣣ऽ२३४औ꣥꣯हो꣯वा। ढू꣣ऽ२३४षे꣥। स्तो꣢꣯ता꣡꣯जरे꣢꣯तम꣡र्ति꣢याऽ३ः। आ꣡दिद्वन्दे꣢। ता꣡व꣪रुणाऽ२३४म्। वि꣣पा꣢ऽ३४गि꣣रा꣢॥ धा꣡र्त्ता꣢꣯रां꣡वीऽ२३॥ व्रा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ ना꣣ऽ२३꣡४꣡५꣡म्॥
46_0288 यदा कदाच - 02 ...{Loading}...
लिखितम्
२८८-२।
य꣥दा꣯कदा꣯चमा꣯हाउ॥ ढू꣡षाऽ᳒२᳒इस्तो꣡ताऽ᳒२᳒। जराइ। तमर्ति꣡यः। आ꣯दिद्वन्दा꣢᳐॥ औ꣣꣯हो꣭ऽ३हा꣢ऽ३। हा꣢ऽ३इ। ता꣡वाऽ२᳐रू꣣ऽ२३४णा꣥म्। वि꣢पा꣯गि꣡रा॥ धर्त्ता꣯रंव्या꣢। औ꣣꣯हो꣭ऽ३हा꣢ऽ३। हा꣢इ॥ व्रा꣡ता꣯ना꣢꣯म्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
46_0288 यदा कदाच - 03 ...{Loading}...
लिखितम्
२८८-३। पज्रम्॥य꣤दा꣣ऽ४क꣥। दा꣣ऽ४च꣥मी꣯। ढु꣣षा꣢ऽ३इ। स्तो꣤ता꣥॥ ज꣢राइ। तमा꣡र्त्ताया꣢ऽ३ः। आ꣡दाइद्वन्दा꣢ऽ३इ। ता꣡वाऽ२᳐रू꣣ऽ२३४णा꣥म्॥ विपा꣯। गि꣣रौ꣢वा᳐ओ꣣ऽ२३४वा꣥। धर्त्ता꣯। रं꣣व्यौ꣢वा᳐ओ꣣ऽ२३४वा꣥॥ व्र꣤ताऽ५नाम्। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
पा꣣हि꣡ गा अन्ध꣢꣯सो꣣ म꣢द꣣ इ꣡न्द्रा꣢य मेध्यातिथे। यः꣡ सम्मि꣢꣯श्लो꣣ ह꣢र्यो꣣र्यो꣡ हि꣢र꣣ण्य꣢य꣣ इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥ 47:0289 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे ।
यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
पा꣣हि꣢। गाः। अ꣡न्ध꣢꣯सः। म꣡दे꣢꣯। इ꣡न्द्रा꣢꣯य। मे꣣ध्यातिथे। मेध्य। अतिथे। यः꣢। स꣡म्मि꣢꣯श्लः। सम्। मि꣣श्लः। ह꣡र्योः꣢꣯। यः। हि꣣रण्य꣡यः। इ꣡न्द्रः꣢꣯। व꣣ज्री꣢। हि꣣रण्य꣡यः꣢। २८९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र के आतिथ्य की प्रेरणा दी गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (मेध्यातिथे) पवित्र इन्द्र रूप अतिथिवाले स्तोता ! तू (अन्धसः) भक्तिरस के (मदे) आनन्द में विह्वल होकर (इन्द्राय) इन्द्र परमेश्वर के लिए, अर्थात् उसके आतिथ्य के लिए (गाः) स्तुतिवाणियों को (पाहि) पाल-पोसकर प्रवृत्त कर, (यः) जो इन्द्र परमेश्वर (हर्योः) मन-प्राणरूप घोड़ों को (संमिश्लः) शरीर में नियुक्त करनेवाला है, और (यः) जो (हिरण्ययः) ज्योतिर्मय तथा यशोमय है, और जो (इन्द्रः) परमेश्वर (वज्री) वज्र के समान विद्यमान आक्रामक तथा रक्षक बल से युक्त होकर दुर्जनों को दण्डित एवं सज्जनों को रक्षित करनेवाला और (हिरण्ययः) सत्यरूप स्वर्णालङ्कार से अलङ्कृत है ॥७॥ इस मन्त्र में इन्द्राय गाः पाहि’ इससे यह उपमालङ्कार ध्वनित होता है कि जैसे कोई गृहस्थ विद्वान् अतिथियों के सत्कार के लिए गाय पालता है। ‘इन्द्रा, इन्द्रे’ में छेकानुप्रास, ‘हर्यो र्योहि’ में वृत्त्यनुप्रास, तथा ‘हिरण्यय, हिरण्ययः’ में यमक अलङ्कार है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अतिथि-सत्कार मनुष्य का परम धर्म है। इन्द्र परमेश्वर भी मनुष्य के हृदय-गृह का अतिथि है। उसके आतिथ्य के लिए उसे श्रद्धारस में विभोर होकर स्तुतिवाणीरूप अर्घ्य प्रदान करना चाहिए। इन्द्र परमेश्वर एक विलक्षण अतिथि है, जो अपना आतिथ्य करनेवाले को ज्योति, यश एवं सत्यादिरूप सुवर्ण प्रदान करता है, अपने बल से उसकी रक्षा करता है, उसके शरीर में मन और प्राण को नियुक्त करके उसे लम्बी आयु और सामर्थ्य देता है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रस्यातिथ्याय प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (मेध्यातिथे२) मेध्यः पवित्रः इन्द्रः अतिथिर्यस्य तथाभूत स्तोतः त्वम् (अन्धसः) श्रद्धारसस्य (मदे) आनन्दे मग्नः सन् (इन्द्राय) परमेश्वराय, तस्य आतिथ्यार्थम् इत्यर्थः (गाः३) स्तुतिवाचः (पाहि) पालय। (यः) इन्द्रः परमेश्वरः (हर्योः) मनःप्राणरूपयोः अश्वयोः (संमिश्लः) संमिश्रः तव शरीरे नियोक्ताऽस्ति, (यः) यश्च परमेश्वरः, (हिरण्ययः) ज्योतिर्मयः यशोमयश्चास्ति। ‘ज्योतिर्वै हिरण्यम्’ तां० ब्रा० ६।६।१०। ‘यशो वै हिरण्यम्’ ऐ० ब्रा० ७।१८। यः (इन्द्रः) परमेश्वरः (वज्री) वज्रधरः, वज्रवद् विद्यमानेन आक्रामकेण रक्षकेण च बलेन युक्तः सन् दुर्जनानां दण्डयिता सज्जनानां च रक्षकः, (हिरण्ययः) सत्यरूपस्वर्णालङ्कारालंकृतश्च वर्तते। सत्यं वै हिरण्यम्। गो० उ० ३।१७ ॥७॥ अत्र ‘इन्द्राय गाः पाहि’ इत्यनेन यथा कश्चिद् गृहस्थः विदुषामतिथीनां सत्काराय धेनूः पालयति तथेति उपमालङ्कारो ध्वन्यते। ‘इन्द्रा, इन्द्रो’ इत्यत्र छेकानुप्रासः, ‘हर्यो-र्योहि’ इत्यत्र वृत्त्यनुप्रासः, ‘हिरण्ययं हिरण्ययः’ इति च यमकम् ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अतिथिसत्कारो मनुष्यस्य परमो धर्मः। इन्द्रः परमेश्वरोऽपि मनुष्यस्य हृदयगृहस्यातिथिः। तस्यातिथ्याय तेन श्रद्धारसनिर्भरेण सता स्ततिवाग्रूपोऽर्घ्यः प्रदेयः। स खलु विलक्षणोऽतिथिर्य आतिथेयाय ज्योतिर्यशः सत्यादिरूपं हिरण्यं प्रयच्छति, स्वबलेन तस्य रक्षां करोति, तच्छरीरे मनः प्राणं च संयोज्य तस्मै दीर्घमायुः सामर्थ्यं च ददाति ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३३।४ ‘गा अन्धसो’ इत्यत्र ‘गायान्धसो’, ‘र्यो हिरण्यय इन्द्रो वज्री’ इत्यत्र च ‘र्यः सुते सचा वज्री रथो’ इति पाठः। २. मेध्याः संगमनीयाः पवित्रा अतिथयो यस्य इति ऋ० १।३६।१७ भाष्ये, मेध्यैरतिथिभिर्युक्तोऽध्यापक इति च ऋ० १।३६।१० भाष्ये द०। मेधो यज्ञः, तस्मिन् भवः मेध्यः। मेध्यश्चासावतिथिश्च मेध्यातिथिः। यज्ञेन च अतिथिभूत इत्यर्थः—इति वि०। ३. गा इति गायतेः पञ्चमलकाररूपम्। गाय गीतिं कुरु इन्द्राय—इति भ०।
47_0289 पाहि गा - 01 ...{Loading}...
लिखितम्
२८९-१। सौभरे द्वे॥ सौभरिर्बृहतीन्द्रः॥
पा꣤꣯हि꣥गा꣯आ꣤॥ ध꣢सो꣡꣯माऽ२३दा꣢इ। आ꣡इन्द्रा꣯य꣢मे꣯। धिया꣡꣯ताऽ२३इथा꣢इ। यः꣡समिश्लो꣢꣯ह꣡रियो꣢꣯र्यः꣡। हाइर꣪ण्यायाऽ᳒२ः᳒। आ꣡इन्द्रोवा꣢ऽ३ज्री꣢ऽ३॥ हि꣢रो꣡ऽ२३४वा꣥। ण्या꣤ऽ५योऽ६"हा꣥इ॥
47_0289 पाहि गा - 02 ...{Loading}...
लिखितम्
२८९-२।
पा꣥꣯। ह्ये꣤पाही꣥॥ गा꣢꣯अन्धसो꣡꣯माऽ२३दा꣢इ। आ꣡इन्द्रा꣯य꣢मे꣯। धिया꣡꣯ताऽ२३इथा꣢इ॥ य꣡स्समिश्लो꣰꣯ऽ२ह꣡रियो꣯र्यः। हाइर꣪ण्यायाऽ᳒२ः᳒॥ आ꣡इन्द्रोवा꣢ऽ३ज्री꣢ऽ३॥ हि꣢रो꣡ऽ२३४वा꣥। ण्या꣤ऽ५योऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯। स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ ग꣢मत् ॥ 48:0290 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।
स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
उ꣣भ꣡य꣢म्। शृ꣣ण꣡व꣢त्। च꣣। नः। इ꣡न्द्रः꣢꣯। अ꣣र्वा꣢क्। इ꣣द꣢म्। व꣡चः꣢꣯। स꣣त्रा꣡च्या꣢। स꣣त्रा꣢। च्या꣣। मघ꣡वा꣢न्। सो꣡म꣢꣯पीतये। सो꣡म꣢꣯। पी꣣तये। धिया꣣। श꣡वि꣢꣯ष्ठः। आ। ग꣣मत्। २९०।
अधिमन्त्रम् (VC)
- इन्द्रः
- भर्गः प्रागाथः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि परमात्मा और राजा हमारे वचन को सुनें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रः) सुखप्रदाता, दुःखहर्ता जगदीश्वर एवं राजा (अर्वाक्) हमारे अभिमुख हो, (च) और (नः) हमारे (इदम्) इस (उभयम्) मानसिक तथा वाचिक अथवा लिखित एवं मौखिक दोनों प्रकार के (वचः) निवेदन को (शृणवत्) सुने। साथ ही (मघवान्) सकल ऐश्वर्य का स्वामी, (शविष्ठः) सबसे अधिक बली वह जगदीश्वर एवं राजा (सोमपीतये) मानस तथा बाह्य शान्ति की रक्षा के लिए (सत्राच्या) सत्य का अनुसरण करनेवाली (धिया) विचारशृङ्खला के साथ (आ गमत्) हमारे पास आये ॥८॥ इस मन्त्र में श्लेषालङ्कार है ॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे परमात्मा मनुष्यों के अन्तःकरण में भ्रातृभाव और शान्ति के विचारों को प्रेरित करता है, वैसे ही राजा लोग राष्ट्रों में और संसार में पारस्परिक विद्वेष को समाप्त करके शान्ति का विस्तार करें ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरो नृपश्चास्माकं वचः शृणुयादित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रः) सुखप्रदाता दुःखहर्ता जगदीश्वरः नृपतिश्च (अर्वाक्) अस्मदभिमुखं भवेत्, (च) किं च (नः) अस्माकम् (इदम्) एतत् (उभयम्२) मानसं वाचिकं च यद्वा लिखितं मौखिकं चोभयात्मकम् (वचः) निवेदनम् (शृणवत्) शृणुयात्। श्रु श्रवणे धातोर्लेटि रूपम्। अपि च (मघवान्) सकलैश्वर्यवान् (शविष्ठः३) सर्वाधिकबलशाली स परमेश्वरो नृपतिश्च (सोमपीतये) सोमस्य मानसशान्तेर्बाह्यशान्तेश्च पीतिः रक्षा तदर्थम् (सत्राच्या४) सत्यानुगामिन्या। सत्रा सत्यम् अञ्चति प्राप्नोतीति सत्राची तया। सत्रा इति सत्यनाम। निघं० ३।१०, अञ्चू गतौ। (धियाः) विचारशृङ्खलया सह (आ गतम्) अस्मदन्तिकं समागच्छेत्। आङ् पूर्वाद् गमेर्लिङर्थे लुङ् ‘बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडभावः ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमात्मा मनुष्याणामन्तःकरणे भ्रातृभावस्य शान्तेश्च विचारान् प्रेरयति तथैव राजानः राष्ट्रेषु संसारे च पारस्परिकं विद्वेषं समाप्य शान्तिं वितनुयुः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६१।१, अथ० २०।११३।१ उभयत्र ‘मघवान्त्सोमपीतये’ इत्यत्र ‘मघवा सोमपीतये’ इति पाठः। साम० १२३३। २. उभयं स्तुतिं प्रार्थनां च—इति वि०। उभयं स्तोत्रशस्त्रात्मकम् इदं वचः। अपर आह, उभयम् अस्मिन् अहनि क्रियमाणं पूर्वेद्युः कृतं च वचः अहर्गणेषु शृणवदिति। ‘यच्चेदमद्य यदु च ह्य आसीत्’ ऐ० ब्रा० ४।३१।५।१८ इति हि ऐतरेयकम्—इति भ०। ३. बहु शवो बलं विद्यते यस्य स शवस्वान्, सोऽतिशयितः। अत्र शवश्शब्दाद् भूम्न्यर्थे मतुप्, तत इष्ठन्, ‘विन्मतोर्लुक्’ अ० ५।३।६५ इति मतुपो लुक्, ‘टेः’ अ० ६।४।१५५ अनेन टिलोपः—इति य० ६।३७ भाष्ये द०। ४. सत्राच्या सदागत्या—इति वि०। बह्वञ्चन्त्या बहुविषयया धिया युक्तः—इति भ०। अस्माकं यज्ञं पूजयन्त्या धिया युक्तः—इति सा०।
48_0290 उभयं शृणवच्च - 01 ...{Loading}...
लिखितम्
२९०-१। इन्द्रस्य वैयश्वम्॥ व्यश्वो बृहतीन्द्रः॥
उ꣥भयꣳश्रृणवच्चनाऽ६ए꣥॥ आ꣡इन्द्रो꣰꣯ऽ२अर्वा꣡꣯गिदंवचाऽ२३ः। हो꣡वा꣢ऽ३हा꣢इ। सत्रा꣡꣯चिया꣢꣯मघ꣡वा꣰꣯ऽ२न्। सो꣡। मापा꣢ऽ३हा꣢इ᳐। ता꣣ऽ२३४या꣥इ॥ धि꣢या꣡꣯शविष्ठआऽ२३हो꣡इ॥ ग꣢मा꣡त्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
म꣣हे꣢ च꣣ न꣡ त्वा꣢द्रिवः꣣ प꣡रा꣢ शु꣣ल्का꣡य꣢ दीयसे। न꣢ स꣣ह꣡स्रा꣢य꣣ ना꣡युता꣢꣯ये वज्रिवो꣣ न꣢ श꣣ता꣡य꣢ शतामघ ॥ 49:0291 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयाम् ।
न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
म꣣हे꣢। च꣣। न꣢। त्वा꣣। अद्रिवः। अ। द्रिवः। प꣡रा꣢꣯। शु꣣ल्का꣡य꣢। दी꣣यसे। न꣢। स꣣ह꣡स्रा꣢य। न। अ꣣यु꣡ता꣢य। अ꣣। यु꣡ता꣢꣯य। व꣣ज्रिवः। न꣢। श꣣ता꣡य꣢। श꣣तामघ। शत। मघ। २९१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथि0मेध्यातिथी काण्वौ
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि परमेश्वर को हम बड़े-से-बड़े मूल्य पर भी न छोड़ें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अद्रिवः) आनन्दरूप मेघों के स्वामी, आनन्दरस-वर्षक इन्द्र परमात्मन् ! (त्वा) तुम (महे च) किसी बड़ी भी (शुल्काय) कीमत पर, हमसे (न) नहीं (परादीयसे) छोड़े जा सकते हो। हे (वज्रिवः) प्रशस्त विज्ञानमय नीति के अनुसार चलनेवाले ! (न) न (सहस्राय) हजार मुद्रा आदि का मूल्य लेकर, और (न) न ही (अयुताय) दस हजार मुद्रा आदि का मूल्य लेकर, छोड़े जा सकते हो। हे (शतामघ) अनन्त सम्पदावाले ! (न) न ही (शताय) दस हजार से भी सौ गुणा अधिक अर्थात् दस लाख मुद्रा आदि का मूल्य लेकर छोड़े जा सकते हो ॥९॥ इस मन्त्र में ‘अद्रिवः, वज्रिवः और शतामघ’ विशेषण साभिप्राय होने से परिकर अलङ्कार है। जो मेघ के समान सुखवर्षक, प्रशस्त नीति से चलनेवाला और अनन्त धनवान् है, वह भला किसी मूल्य पर कैसे छोड़ा जा सकता है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे राजराजेश्वर परमात्मन् ! तुम्हें हमने अपने प्रेम से वश में कर लिया है। अब तुम्हें सौ, हजार, दस हजार, लाख, दस लाख, करोड़, दस करोड़ मूल्य के बदले भी हम छोड़ने के लिए तैयार नहीं हैं ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अङ्गीकृतं परमेश्वरं महताऽपि मूल्येन न परादद्म इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अद्रिवः२) आनन्दमेघानां स्वामिन्, आनन्दरसवर्षक परमात्मन् ! अद्रिरिति मेघनाम। निघं० १।१० (त्वा) त्वम्। युष्मच्छब्दात् प्रथमैकवचने ‘सुपां सुलुक्०’, अ० ७।१।३९ इति विभक्तेराकारादेशः। (महे) महतेऽपि (शुल्काय) मूल्याय (न) नैव (परादीयसे) परित्यज्यसे। हे (वज्रिवः३) प्रशस्तविज्ञाननीतियुक्त ! (न) नैव (सहस्राय) सहस्रमुद्रादिमूल्याय, (न) नापि (अयुताय) दशसहस्रसमुद्रादिमूल्याय परादीयसे। हे (शतामघ) अनन्तधन ! पूर्वपदस्य दीर्घश्छान्दसः। (न) नैव (शताय) ततोऽपि शतगुणिताय दशलक्षमुद्रादिमूल्यायेत्यर्थः, परादीयसे ॥९॥ अत्र ‘अद्रिवः, वज्रिवः, शतामघ’ इत्येतेषां विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः४। यो हि सुखवर्षकः, शुभनीतिमान्, अपरिमितसम्पत्तियुक्तश्च वर्तते स केनापि मूल्येन कथं परित्यज्येत ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे राजराजेश्वर परमात्मन् ! त्वमस्माभिः प्रेम्णा वशीकृतोऽसि। साम्प्रतं त्वां शत-सहस्र-लक्ष-दशलक्ष-कोटि-दशकोटि-मूल्येनापि परिहर्तुं नोद्यताः स्मः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१।५ चन इति समस्तः पाठः। ‘दीयसे’ इत्यत्र च ‘देयाम्’ इति पाठः। २. द्रष्टव्यम्—१९४ संख्यकस्य मन्त्रस्य भाष्यम्। ३. (वज्रिवः) प्रशस्ता वज्रयो विज्ञानयुक्ता नीतयो विद्यन्तेऽस्य तत्सम्बुद्धौ। वज धातोरौणादिक इ प्रत्ययो रुडागमश्च, ततो मतुप्—इति ऋ० १।१२१।१४ भाष्ये द०। वज्रहस्त इति सा०। ४. उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः (सा० द० १०।५७) इति तल्लक्षणात्।
49_0291 महे च - 01 ...{Loading}...
लिखितम्
२९१-१। इन्द्रस्य सहस्रायुतीये॥ प्रजापतेर्महोविशीये वा द्वे। बृहतीन्द्रः॥ (इन्द्रो वा)।
म꣥हे꣯चनो꣤वा꣥॥ त्वा꣢अद्रा꣣ऽ२३४इवाः꣥। प꣢रा꣯शुल्का꣯। यऽ३दा꣡यासा꣢ऽ३इ। न꣤स꣥। ह꣣स्रा꣢ऽ३। या꣡ना꣯यु꣢ता꣯। यवा꣡ज्राइवो꣢ऽ३॥ न꣤श꣥। ता꣣꣯या꣢ऽ३॥ शा꣡ऽ२३ता꣤ऽ३। मा꣢ऽ३४५घोऽ६"हा꣥इ॥
49_0291 महे च - 02 ...{Loading}...
लिखितम्
२९१-२। म꣥हे꣯चा꣢ऽ३न꣤त्वा꣥꣯अ꣤द्रिवाः꣥॥ पा꣡रा꣯शु꣢ल्का꣯। यदा꣡या꣢ऽ१साऽ᳒२᳒इ। न꣡सहस्राऽ᳒२᳒। य꣡ना꣯युता꣯याव꣪ज्रिवाऽ᳒२ः᳒॥ नशा꣡ताऽ२३या꣢॥ शता꣡ऽ२३। मा꣡ऽ२᳐घा꣣ऽ२३४औ꣥꣯हो꣯वा॥ म꣢हो꣡꣯विशे꣢ऽ१॥
योनि-प्रस्तुतिः ...{Loading}...
व꣡स्या꣢ꣳ इन्द्रासि मे पि꣣तु꣢रु꣣त꣢꣫ भ्रातु꣣र꣡भु꣢ञ्जतः। मा꣣ता꣡ च꣢ मे छदयथः स꣣मा꣡ व꣢सो वसुत्व꣣ना꣢य꣣ रा꣡ध꣢से ॥ 50:0292 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः ।
मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
व꣡स्या꣢न्। इ꣢न्द्र। असि। मे। पितुः꣢। उ꣢त꣢। भ्रा꣡तुः꣢। अ꣡भु꣢ञ्जतः। अ। भु꣢ञ्जतः। माता꣢। च꣢। मे। छदयथः। समा꣢। स꣢। मा꣢। व꣢सो। वसुत्वना꣡य꣢। रा꣡ध꣢से। २९२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथि0मेध्यातिथी काण्वौ
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा की ज्येष्ठता और श्रेष्ठता का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमेश्वर ! आप (अभुञ्जतः) पालन न करनेवाले (मे) मेरे (पितुः) पिता से (उत) और (भ्रातुः) सगे भाई से (वस्यान्) अधिक निवासप्रद (असि) हो। हे (वसो) निवासक जगदीश्वर ! आप, (मे माता च) और मेरी माता (समा) दोनों समान हो, क्योंकि तुम दोनों ही (वसुत्वनाय) धन के लिए और (राधसे) सफलता के लिए (छदयथः) हमें अपनी शरण से सत्कृत करते हो ॥१०॥ इस मन्त्र में ‘अभुञ्जतः’ पद का अर्थ पिता और भ्राता की अपेक्षा इन्द्र के अधिक निवासक होने में तथा ‘वसुत्वनाय राधसे छदयथः’ इस वाक्य का अर्थ इन्द्र और माता के समान होने में हेतु होने से काव्यलिङ्ग अलङ्कार है। ‘तुरु, तुर,’ ‘वसो, वसु’ में छेकानुप्रास है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगदीश्वर सभी सांसारिक बन्धुबान्धवों की अपेक्षा सर्वाधिक प्रिय और श्रेष्ठ है। केवल माता से उसकी कुछ तुलना हो सकती है, क्योंकि माता भूमि से भी अधिक गौरवमयी है, ऐसा शास्त्रकार कहते हैं ॥१०॥ इस दशति में इन्द्र के गुणों का वर्णन तथा आह्वान होने से, उससे वृद्धि आदि की प्रार्थना होने से, उससे सम्बद्ध अश्विनों से दान की याचना होने से तथा इन्द्र नाम से राजा आदि का भी चरित्र वर्णित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ तृतीय प्रपाठक में द्वितीय अर्ध की पाँचवी दशति समाप्त ॥ यह तृतीय प्रपाठक समाप्त हुआ ॥ तृतीय अध्याय में छठा खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनो ज्यैष्ठ्यं श्रैष्ठ्यं चाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमेश्वर ! त्वम् (अभुञ्जतः) अपालयतः। भुज पालनाभ्यवहारयोः, परस्मैपदी पालनार्थः। (मे) मम (पितुः) जनकात्, (उत) अपि च (भ्रातुः) सहोदरात् (वस्यान्) वसीयान्, अधिकतरं निवासप्रदः। णिजर्थगर्भाद् वस्तृ शब्दाद् ईयसुनि, ‘तुरिष्ठेमेयस्सु। अ० ६।४।१५४’ इति तृचो लोपे ईकारलोपश्छान्दसः। (असि) विद्यसे। हे (वसो) निवासक जगदीश्वर ! त्वम् (मे माता च) मदीया जननी च (समा) समौ स्थः। ‘सुपां सुलुक्०’। अ० ७।१।३९ इति प्रथमाद्विवचनस्याकारादेशः। यतः उभावपि युवाम् (वसुत्वनाय) वसुत्वाय वसुप्रदानाय। नकारोपजनश्छान्दसः। यद्वा बाहुलकादौणादिकः त्वन प्रत्ययः. (राधसे) साफल्याय च। राध संसिद्धौ, औणादिकः असुन् प्रत्ययः। (छदयथः) शरणप्रदानेन सत्कुरुथः। छदयतिः अर्चनाकर्मा। निघं० ३।१४ ॥१०॥ अत्र ‘अभुञ्जतः’ इति पदस्यार्थः पितृभ्रात्रपेक्षया इन्द्रस्य वसीयस्त्वे हेतुः, ‘वसुत्वनाय राधसे छदयथः’ इति वाक्यस्यार्थश्च इन्द्रस्य मातुश्च समत्वे हेतुरिति काव्यलिङ्गमलङ्कारः१। ‘तुरु, तुर’, ‘वसो, वसु’ इत्यत्र छेकानुप्रासः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगदीश्वरः सर्वेभ्योऽपि सांसारिकेभ्यो बन्धुबान्धवेभ्यः प्रेष्ठः श्रेष्ठश्च विद्यते। केवलं माता तस्य कामपि तुलामर्हति, माता भूमेर्गरीयसीति स्मरणात् ॥१०॥ अत्रेन्द्रस्य गुणवर्णनाद्, आह्वानात्, ततो वृद्ध्यादिप्रार्थनात्, तत्सम्बद्धयोरश्विनोरपि सकाशात् तद्दानस्य याचनाद्, इन्द्रशब्देन राजादीनामपि चरितवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति ॥ इति तृतीये प्रपाठके द्वितीयार्धे पञ्चमी दशतिः। समाप्तश्चायं तृतीयः प्रपाठकः ॥ इति तृतीयाध्याये षष्ठः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते। सा० द० १०।६२ इति तल्लक्षणात्।
50_0292 वस्यां इन्द्रासि - 01 ...{Loading}...
लिखितम्
२९२-१। इन्द्राण्यास्साम॥ इन्द्राणी बृहतीन्द्रः॥
व꣤स्याꣳ꣥꣯इन्द्रा꣯सिमे꣯। हा꣤उपितूः꣥॥ उ꣣ता꣢᳐भ्रा꣣ऽ२३४तूः꣥। अ꣢भू꣡ञ्जातौ꣢। वा᳐ओ꣣ऽ२३४वा꣥। मा꣢꣯ता꣡चामौ꣢। वा᳐ओ꣣ऽ२३४वा꣥। छ꣢दयथः। साऽ३मा꣡वासौ꣢। वा᳐ओ꣣ऽ२३४वा꣥॥ व꣢सू꣡त्वानौ꣢। वा᳐ओ꣣ऽ२३४वा꣥॥ य꣢रो꣡ऽ२३४वा꣥। धा꣤ऽ५सोऽ६"हा꣥इ॥
[[अथ सप्तम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
इ꣣म꣡ इन्द्रा꣢꣯य सुन्विरे꣣ सो꣡मा꣢सो꣣ द꣡ध्या꣢शिरः। ता꣡ꣳ आ मदा꣢꣯य वज्रहस्त पी꣣त꣢ये꣣ हरि꣢भ्यां या꣣ह्यो꣢क꣣ आ꣢ ॥ 01:0293 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒म इन्द्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः ।
ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣मे꣢। इ꣡न्द्रा꣢꣯य। सु꣣न्विरे। सो꣡मा꣢꣯सः। द꣡ध्या꣢꣯शिरः। द꣡धि꣢꣯। आ꣣शिरः। ता꣢न्। आ। म꣡दा꣢꣯य। व꣣ज्रहस्त। वज्र। हस्त। पीत꣡ये꣢। ह꣡रि꣢꣯भ्याम्। या꣣हि। ओ꣡कः꣢꣯। आ। । २९३।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में इन्द्र को सोमपान के लिए बुलाया जा रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—अतिथि के पक्ष में। (इमे) ये (दध्याशिरः) दही के साथ मिलाये हुए (सोमासः) सोमादि ओषधियों के रस (इन्द्राय) तुझ विद्वान् अतिथि के लिए (सुन्विरे) तैयार रखे हैं। हे (वज्रहस्त) हमारे दोषों को नष्ट करने के लिए उपदेशवाणीरूप वज्र को धारण करनेवाले विद्वन् ! (तान्) उन दधिमिश्रित सोमरसों को (मदाय) तृप्त्यर्थ (पीतये) पीने के लिए (हरिभ्याम्) ऋक् और साम के ज्ञान के साथ अथवा दो घोड़ों से चलनेवाले रथ पर बैठकर, मुझ गृहस्थ के (ओकः) घर पर (आयाहि) आइए ॥ द्वितीय—परमात्मा के पक्ष में। (इमे) ये (दध्याशिरः) कर्मरूप दही के साथ मिलाये या पकाये हुए (सोमासः) हमारे श्रद्धा-रस (इन्द्राय) तुझ जगदीश्वर के लिए (सुन्विरे) तैयार किये हुए हैं। हे (वज्रहस्त) वज्र-धारी के समान दोषों को नष्ट करनेवाले परमेश्वर ! (तान्) उन कर्ममिश्रित श्रद्धारसों को (मदाय) तृप्त्यर्थ (पीतये) पान करने के लिए (हरिभ्याम्) जैसे कोई रथ में घोड़ों को नियुक्त करके वेगपूर्वक आता है, वैसे (ओकः) हमारे हृदय-सदन में (आयाहि) आइए ॥१॥ इस मन्त्र में श्लेषालङ्कार है, परमात्मपक्ष में लुप्तोपमा भी है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे दही में मिलाकर सोमादि ओषधियों का रस अतिथियों को समर्पित किया जाता है, वैसे ही श्रद्धारस को कर्म के साथ मिलाकर ही परमेश्वर को अर्पित करना चाहिए, क्योंकि कर्महीन भक्ति कुछ भी लाभ नहीं पहुँचाती है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रः सोमपानायाहूयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—अतिथिपरः। (इमे) एते (दध्याशिरः) दध्ना सह मिश्रिताः (सोमासः) सोमाद्योषधीनां रसाः (इन्द्राय) विदुषे अतिथये तुभ्यम् (सुन्विरे) अभिषुताः सज्जीकृताः सन्ति। हे (वज्रहस्त) अस्मद्दोषान् नाशयितुं वाग्रूपवज्रधर विद्वन् ! वाग् हि वज्रः। ऐ० ब्रा० ४।१। वज्रः उपदेशवाग् हस्ते पाणौ इव समीपे यस्य स वज्रहस्तः। (तान्) दधिमिश्रितान् सोमरसान् (मदाय) तृप्तये (पीतये) पानाय (हरिभ्याम्) ऋक्सामभ्याम् सह। ऋक्सामे वा इन्द्रस्य हरी। षड्विंश० १।१, यद्वा (हरिभ्याम्) यानहारकाभ्याम् अश्वाभ्याम्, अश्वद्वयनियुक्तं रथमारुह्येत्यर्थः। (ओकः) गृहस्थस्य मम गृहम् (आयाहि) आगच्छ ॥ अथ द्वितीयः—परमात्मपरः। (इमे) एते (दध्याशिरः) कर्मरूपेण दध्ना आशिरः मिश्रिताः परिपक्वा वा। दधाति पुष्णातीति दधि कर्म घनीभूतं पयो वा। डुधाञ् धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इति किः। ‘आशीः आश्रयणाद्वा आश्रपणाद् वा’ इति निरुक्तम् (६।८)। (सोमासः) अस्माकं श्रद्धारसाः (इन्द्राय) जगदीश्वराय तुभ्यम् (सुन्विरे) अभिषुताः सन्ति। हे (वज्रहस्त) वज्रपाणिः इव अस्मद्दोषाणां नाशक परमेश्वर ! (तान्) कर्ममिश्रितान् कर्मभिः परिपक्वान् वा श्रद्धारसान् (मदाय) तृप्त्यर्थम् (पीतये) पानाय (हरिभ्याम्) अश्वाभ्यामिव इति लुप्तोपमम्, यथा रथे अश्वौ नियुज्य वेगेन कश्चिदागच्छति तथेत्यर्थः। (ओकः) अस्मदीयं हृदयरूपं सदनम् (आयाहि) आगच्छ ॥१॥२ अत्र श्लेषालङ्कारः, परमात्मपक्षे लुप्तोपमापि ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा दध्ना संमिश्र्य सोमाद्योषधिरसोऽतिथिभ्यः समर्प्यते तथैव श्रद्धारसः कर्मणा संमिश्र्य परमेश्वराय समर्पणीयः, यतः कर्महीना भक्तिरकिञ्चित्करी खलु ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३२।४। २. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये राजादयः किमाचरेयुरिति विषये व्याख्यातः।
01_0293 इम इन्द्राय - 01 ...{Loading}...
लिखितम्
२९३-१। सौभरम्॥ सुभरिर्बृहतीन्द्रः॥
इ꣣मा꣢ऽ३४इ। इमइ। द्रा꣥꣯यसुन्वाऽ६इरा꣥इ॥ सो꣡꣯मा꣯सो꣯दध्या꣯शिराः। ताꣳ꣢꣯आ꣡꣯मदा꣯यवज्रहस्तपी꣯तायाइ॥ हराऽ२३हो꣡। भ्यां꣯याऽ२३हो꣡॥ हि꣢यो꣡ऽ२३। का꣡ऽ२᳐आ꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣म꣡ इ꣡न्द्र꣣ म꣡दा꣢य ते꣣ सो꣡मा꣢श्चिकित्र उ꣣क्थि꣡नः꣢। म꣡धोः꣢ पपा꣣न꣡ उप꣢꣯ नो꣣ गि꣡रः꣢ शृणु꣣ रा꣡स्व꣢ स्तो꣣त्रा꣡य꣢ गिर्वणः ॥ 02:0294 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣मे꣢। इ꣣न्द्र। म꣡दा꣢꣯य। ते꣣। सो꣡माः꣢꣯। चि꣣कित्रे। उक्थि꣡नः꣢। म꣡धोः꣢꣯। प꣣पानः꣢। उ꣡प꣢꣯। नः꣣। गि꣡रः꣢꣯। शृ꣣णु। रा꣡स्व꣢꣯। स्तो꣣त्रा꣡य꣢। गि꣣र्वणः। गिः। वनः। २९४।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इमे) ये (उक्थिनः) स्तोत्रयुक्त (सोमाः) हमारे श्रद्धारस, हे (इन्द्र) परमेश्वर ! (ते) आपकी (मदाय) तृप्ति के लिए (चिकित्रे) जाने गये हैं, सर्वविदित हैं। हमारे (मधोः) मधुर श्रद्धारस का (पपानः) पान करते हुए (नः) हमारी (गिरः) प्रार्थना-वाणियों को (उप शृणु) समीपता से सुनिए। हे (गिर्वणः) वाणियों द्वारा सेवन करने अथवा याचना करने योग्य परमात्मन् ! आप (स्तोत्राय) मुझ स्तुतिकर्ता को (रास्व) अभीष्ट फल प्रदान कीजिए ॥ अतिथि के पक्ष में भी अर्थयोजना कर लेनी चाहिए। उस पक्ष में ‘उक्थिनः सोमाः’ से प्रशंसित सोमादि ओषधियों के रस अभिप्रेत हैं। उनसे सत्कृत होकर वह गृहस्थों की प्रार्थना को सुनकर उन्हें अभीष्ट उपदेश आदि प्रदान करे ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर और अतिथि हमारी प्रार्थना को सुनकर अभीष्ट फल हमें प्रदान करें ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रं प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इमे) एते परिदृश्यमानाः (उक्थिनः) उक्थवन्तः स्तोत्रयुक्ताः (सोमाः) अस्माकं श्रद्धारसाः, हे (इन्द्र) परमेश्वर ! (ते) तव (मदाय) तृप्त्यर्थम् (चिकित्रे) चिकितिरे, सर्वैः ज्ञायन्ते, सर्वविदिताः सन्तीत्यर्थः। कित ज्ञाने, लिटि ‘इरयो रे। अ० ६।४।७६’ अनेन इरे इत्यस्य रेभावः। (मधोः) मधुरस्य श्रद्धारसस्य (पपानः) पानं कुर्वन्। पा पाने धातोः, लिटः कानच्। (नः) अस्माकम् (गिरः) प्रार्थनावाचः (उप शृणु) सामीप्येन आकर्णय। हे (गिर्वणः१) गीर्भिः सेवनीय याचनीय वा देव ! वन संभक्तौ, (वनु) याचने। गिर्वणा देवो भवति, गीर्भिरेनं वनयन्ति। निरु० ६।१५। त्वम् (स्तोत्राय२) स्तुतिकर्त्रे मह्यम्। अत्र ष्टुञ् स्तुतौ धातोः ‘दाम्नीशसयुयुजस्तु०। अ० ३।३।१८२’ इति करणे विहितः ष्ट्रन् प्रत्ययः कर्तरि ज्ञातव्यः। (रास्व) अभिलषितं फलं प्रदेहि। रा दाने, आत्मनेपदं छान्दसम् ॥ अतिथिपक्षेऽपि योज्यम्। तत्र उक्थिनः प्रशंसिताः सोमाः सोमाद्योषधीनां रसाः, तैः सत्कृतः स गृहस्थानां प्रार्थनां श्रुत्वाऽभीष्टमुपदेशादिकं प्रयच्छेदिति दिक् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरोऽतिथिश्चाऽस्माकं प्रार्थनामुपश्रुत्याभीष्टं फलं नः प्रयच्छेताम् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. द्रष्टव्यम्—१६५ संख्यकमन्त्रस्य भाष्यम्। २. स्तोत्राय स्तोत्रे—इति वि०, भ०। स्तोत्राय स्तोत्रकर्त्रे मह्यम्—इति सा०।
02_0294 इम इन्द्र - 01 ...{Loading}...
लिखितम्
२९४-१। गार्त्समदम्॥ गृत्समदो बृहतीन्द्रः॥
इ꣤मइन्द्राऽ५मदा꣯य꣤ताइ॥ सो꣡꣯मा꣯श्चिकित्रउक्थिनाः। मा꣢ऽ१धोऽ᳒२ᳲ᳒पा꣡पाऽ᳒२᳒। न꣡उपनो꣯गिराश्शा꣢ऽ१र्णूऽ᳒२᳒॥ रा꣯स्व꣡स्तोऽ२३त्रा꣢॥ यगि꣡र्वाऽ२३णा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
आ꣡ त्वा꣢ऽ३द्य꣡ स꣢ब꣣र्दु꣡घा꣢ꣳ हु꣣वे꣡ गा꣢य꣣त्र꣡वे꣢पसम्। इ꣡न्द्रं꣢ धे꣣नु꣢ꣳ सु꣣दु꣢घा꣣म꣢न्या꣣मि꣡ष꣢मु꣣रु꣡धा꣢रामर꣣ङ्कृ꣡त꣢म् ॥ 03:0295 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् ।
इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। तु। अ꣣द्य꣢। अ꣣। द्य꣢। स꣣ब꣡र्दुघाम्। स꣣बः। दु꣡घा꣢꣯म्। हु꣣वे꣢। गा꣣यत्र꣡वे꣢पसम्। गा꣣यत्र꣢। वे꣣पसम्। इ꣡न्द्र꣢꣯म्। धे꣣नु꣢म्। सु꣣दु꣡घा꣣म्। सु꣣। दु꣡घा꣢꣯म्। अ꣡न्या꣢꣯म्। इ꣡ष꣢꣯म्। उ꣣रु꣡धा꣢राम्। उ꣣रु꣢। धा꣣राम्। अरङ्कृ꣡त꣢म्। अ꣣रम्। कृ꣡त꣢꣯म्। २९५।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथि0मेध्यातिथी काण्वौ विश्वामित्र इत्येके
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में दूध देनेवाली गाय के रूप में इन्द्र की स्तुति की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अद्य) आज (तु) शीघ्र ही (सबर्दुघाम्) ज्ञानरूप दूध को देनेवाली, (गायत्र-वेपसम्) जिसके कर्मों का सर्वत्र गान हो रहा है ऐसी, (सुदुघाम्) भली-भाँति कामनाओं को पूर्ण करनेवाली, (अन्याम्) विलक्षण, (इषम्) चाहने योग्य, (उरुधाराम्) बड़ी-बड़ी धारोंवाली, (अरंकृतम्) अलङ्कृत करनेवाली (इन्द्रं धेनुम्) परमेश्वररूप गाय को (आहुवे) पुकारता हूँ ॥३॥ इस मन्त्र में परमेश्वर में गाय का आरोप होने से रूपक अलङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे गाय दूध देती है, वैसे परमेश्वर ज्ञान-रस देता है। गाय और परमेश्वर दोनों के यज्ञ-साधकत्व रूप कर्म का गान किया जाता है। दोनों ही मनोरथों को पूर्ण करनेवाले हैं। गाय अन्य पशुओं से विलक्षण है, परमेश्वर अन्य चेतन-अचेतनों से विलक्षण है। गाय दूध की बड़ी-बड़ी धारों को देती है, परमेश्वर आनन्द की धारें बरसाता है। गाय पुष्टि और आरोग्य देकर मनुष्यों को शोभित करती है, परमेश्वर अध्यात्मबल से शोभित करता है। इस प्रकार दोनों की समता होने से परमेश्वर की गाय के समान सेवा और पूजा करनी योग्य है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रं धेनुरूपेण स्तौति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अद्य) अस्मिन् दिने (तु) क्षिप्रम् (सबर्दुघाम्२) ज्ञानरूपस्य पयसो दोग्ध्रीम् (गायत्रवेपसम्३) गीयमानकर्माणम्। गायत्रं गायतेः स्तुतिकर्मणः। निरु० १।८। वेपस् इति कर्मनाम। निघं० २।१। (सुदुघाम्) सुष्ठु कामस्य प्रपूरिकाम्। सु पूर्वाद् दुह प्रपूरणे धातोः ‘दुहः कब् घश्च। अ० ३।२।७०’ इति कप् घादेशश्च। (अन्याम्) सामान्यविलक्षणाम् (इषम्) एषणीयाम्। इषु इच्छायाम् धातोः क्विपि रूपम्। (उरुधाराम्) विस्तीर्णधाराम् (अरंकृतम्) अलंकरोतीति अलंकृत्, रलयोरभेदात् अरंकृत् ताम् (इन्द्रं धेनुम्) परमेश्वररूपां गाम्, अहम् (आहुवे४) आह्वयामि ॥३॥ अत्र परमेश्वरे धेन्वारोपाद् रूपकालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा धेनुर्यज्ञियं पयो दोग्धि तथा परमेश्वरो ज्ञानरसं दोग्धि। धेनोः परमेश्वरस्य चोभयोरपि यज्ञसाधकत्वरूपं कर्म गीयते। उभावपि मनोरथप्रपूरकौ। गौरितरपशुविलक्षणा, परमेश्वर इतरचेतनाचेतनविलक्षणः। गौर्दुग्धस्य विस्तीर्णा धाराः प्रयच्छति, परमेश्वर आनन्दधारा वर्षति। गौः पुष्ट्यारोग्यदानेन जनान् शोभयति, परमेश्वरोऽध्यात्मशक्त्या शोभयति। एवमुभयोः साम्यात् परमेश्वरो गौरिव सेवनीयः पूजनीयश्च ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ८।१।१०। २. सबर्दुघाम्। सबः अमृतं या दुह्यति सा सबर्दुघा ताम्—इति वि०। अमृतदोग्ध्रीम् इति माधवभरतयोराशयः। पयसो दोग्ध्रीमिति सायणः। ‘सबर्’ इति रेफान्तं प्रातिपादिकं क्षीरवाची इति सम्प्रदायविदः—इति ऋ० १।२०।३ भाष्ये सा०। ‘बर्बति येन ज्ञानेन तद् बः समानं बरं दोग्धि प्रपूरयति या ताम्। अत्र बर्ब गतौ इत्यस्माद्धातोः ‘कृतो बहुलम्’ इति करणे क्विप्। राल्लोप इति बकारलोपः, ‘समानस्य छन्दस्य०’ अनेन समानस्य सकारादेशः, ततः ‘दुहः कब् घश्च’ अ० ३।२।७० इति दुहः कप् प्रत्ययो हस्य स्थाने घादेशश्च—इति च तत्रैव द०। ३. गायत्रं स्तोत्रम् तस्य वेपसं कर्मभूतम्। स्तुत्यमित्यर्थः—इति वि०। गायत्र स्तुत्यं वेपसं वेपः कर्म यस्य तम्—इति भ०। प्रशस्यवेगाम्—इति सा०। ४. इन्द्रं धेनुं हुवे याचे—इति विवरणकृदभिप्रायः। अनया धेनुरूपेण वृष्टिरूपेण च इन्द्रं निरूपयन् स्तौतीति भरतसायणौ।
03_0295 आ त्वाऽ३द्य - 01 ...{Loading}...
लिखितम्
२९५-१। वाचस्साम॥ वाग्बृहतीन्द्रः॥
आ꣥꣯त्वद्या꣯साऽ६ब꣥र्दुघाम्॥ हु꣢वा꣡इगा꣰꣯ऽ२यत्र꣡वे꣰꣯ऽ२पसम्। आ꣡इन्द्रान्धे꣢ऽ३नू꣢म्। सुदु꣡घा꣢꣯म्। आ꣡। नि꣪याऽ२᳐मा꣣ऽ२३४इषा꣥म्॥ उ꣢रु꣡धाऽ२३रा꣢म्॥ अरं꣡काऽ२३र्ता꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
न꣡ त्वा꣢ बृ꣣ह꣢न्तो꣣ अ꣡द्र꣢यो꣣ व꣡रन्त इन्द्र वी꣣ड꣡वः꣢। य꣡च्छिक्ष꣢꣯सि स्तुव꣣ते꣡ माव꣢꣯ते꣣ व꣢सु꣣ न꣢ कि꣣ष्ट꣡दा मि꣢꣯नाति ते ॥ 04:0296 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळवः॑ ।
यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
न꣢। त्वा꣣। बृह꣡न्तः꣢। अ꣡द्र꣢꣯यः। अ। द्र꣢यः। व꣡र꣢꣯न्ते। इ꣣न्द्र। वीड꣡वः꣢। यत्। शि꣡क्ष꣢꣯सि। स्तु꣣वते꣢। मा꣡व꣢꣯ते। व꣡सु꣢꣯। न। किः꣣। तत्। आ। मि꣣नाति। ते। २९६।
अधिमन्त्रम् (VC)
- इन्द्रः
- नोधा गौतमः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर का दान करने का धर्म वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमेश्वर ! (बृहन्तः) विशाल (वीडवः) दृढ (अद्रयः) पर्वत भी (त्वा) तुझे (न) नहीं (वरन्त) रोक सकते हैं, (यत्) जब कि तू (मावते) मुझ जैसे (स्तुवते) स्तोता जन के लिए (वसु) आध्यात्मिक और भौतिक धन (शिक्षसि) देता है। (तत्) उस तेरे दानरूप कर्म को (न किः) कोई भी नहीं (आ मिनाति) नष्ट कर सकता है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर का जो गुण-कर्म-स्वभाव है, उसके फलीभूत होने में संसार की कोई भी बाधा रुकावट नहीं डाल सकती ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरस्य दानधर्मत्वं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमेश्वर ! (बृहन्तः) विशालाः (वीडवः) दृढाः (अद्रयः) पर्वता अपि (त्वा) त्वाम् (न) नैव (वरन्ते) निवारयितुं शक्नुवन्ति, (यत्) यदा, त्वम् (मावते) मत्सदृशाय। अस्मच्छब्दात् ‘युष्मदस्मदोः सादृश्ये वतुब् वाच्यः’ वा० इति सादृश्यार्थे वतुप्। (स्तुवते) स्तोत्रे जनाय (वसु) आध्यात्मिकं भौतिकं च धनम् (शिक्षसि) प्रयच्छसि। शिक्षतिः दानकर्मा। निघं० ३।२०। (तत्) तत् ते दानरूपं कर्म (न किः) न कश्चित् (आ मिनाति) हिनस्ति। मीञ् हिंसायाम्। ‘मीनातेर्निगमे। अ० ७।३।८’ इति धातोर्ह्रस्वत्वम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरस्य यो गुणकर्मस्वभावोऽस्ति तं फलीभवन्तं संसारस्य कापि बाधा न निरोद्धुं शक्नोति ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।८८।३ ‘यच्छिक्षसि’ इत्यत्र ‘यद्दित्ससि’ इति पाठः।
04_0296 न त्वा - 01 ...{Loading}...
लिखितम्
२९६-१। बार्हदुक्थम्॥ बृहदुक्थो बृहतीन्द्रः॥
न꣤त्वा꣥꣯बृह꣤। तोऽ५द्रयाः꣤॥ व꣡रन्तइन्द्र꣢वी꣡꣯डाऽ२३वाः꣢। या꣡च्छि꣪क्षासीऽ᳒२᳒। स्तू꣡व꣪ताइमाऽ᳒२᳒। वते꣡꣯वसू॥ नकिष्टाऽ२३दा꣢॥ मिना꣡꣯ताऽ२३इता꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
क꣡ ईं꣢ वेद सु꣣ते꣢꣫ सचा꣣ पि꣡ब꣢न्तं꣣ क꣡द्वयो꣢꣯ दधे। अ꣣यं꣡ यः पुरो꣢꣯ विभि꣣न꣡त्योज꣢꣯सा मन्दा꣣नः꣢ शि꣣प्र्य꣡न्ध꣢सः ॥ 05:0297 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे ।
अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
कः꣢। ई꣣म्। वेद। सुते꣢। स꣡चा꣢꣯। पि꣡ब꣢꣯न्तम्। कत्। व꣡यः꣢꣯। द꣣धे। अय꣢म्। यः। पु꣡रः꣢꣯। वि꣣भिन꣡त्ति꣢। वि꣣। भिन꣡त्ति꣢। ओ꣡ज꣢꣯सा। म꣣न्दानः꣢। शि꣣प्री꣢। अ꣡न्ध꣢꣯सः। २९७।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा गया है कि स्तुति किया हुआ जगदीश्वर क्या करता है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (सुते) उपासना-यज्ञ में (सचा) एक-साथ (पिबन्तम्) यजमान के श्रद्धारस का पान करते हुए (ईम्) इस इन्द्र परमेश्वर को (कः वेद) कौन जानता है? (कत्) कब वह (वयः) उपासक के जीवन को (दधे) सहारा दे देता है, इसे भी कौन जानता है? अर्थात् यदि कोई जानता है तो उपासक ही जानता या अनुभव करता है। कैसे परमेश्वर को? इसका उत्तर देते हैं—(अयम्) यह (यः) जो (शिप्री) प्रशस्त स्वरूपवाला परमेश्वर (अन्धसः) यजमान के श्रद्धारस से (मन्दानः) प्रसन्न होता हुआ (ओजसा) बलपूर्वक (पुरः) उसकी मनोभूमि में दृढ़ता के साथ जमी हुई काम-क्रोधादि असुरों की नगरियों को (विभिनत्ति) तोड़-फोड़ देता है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर की उपासना का यही लाभ है कि वह उपासक के मन में सब शत्रुओं को पराजित कर सकनेवाले पुरुषार्थ को उत्पन्न करके उसे समरभूमि में विजयी बना देता है ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ स्तुतो जगदीश्वरः किं करोतीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (सुते) उपासनायज्ञे (सचा) युगपत् (पिबन्तम्) यजमानस्य श्रद्धारसम् आस्वादयन्तम् (ईम्) एतम् इन्द्रम् परमेश्वरम् (कः वेद) को जानाति। (कत्) कदा, सः (वयः) उपासकस्य जीवनम्, (दधे) दधाति इत्यपि को वेद ? यदि कश्चिज्जानाति उपासक एव जानाति अनुभवति वा, नान्यः कश्चनेत्यर्थः। कीदृशम् इन्द्रम् इत्याह—(अयम्) एषः (यः शिप्री) सुमुखः प्रशस्तस्वरूपः इन्द्रः परमेश्वरः प्रशस्ते शिप्रे हनू नासिके वा यस्य सः, प्रशंसार्थे मत्वर्थे इनिः। शिप्राभ्यां मुखमुपलक्ष्यते। मुखेन च स्वरूपमभिप्रेतम्, निरवयवत्वात् परमेश्वरस्य। (अन्धसः) अन्धसा श्रद्धारूपेण सोमरसेन। तृतीयार्थे षष्ठी। (मन्दानः) मोदमानः सन्। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, शानच्, छान्दसो मुगागमनिषेधः। (ओजसा) बलेन (पुरः) तस्य मनोभूमौ दृढं बद्धाः कामक्रोधाद्यसुराणां नगरीः (विभिनत्ति) विदारयति ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरस्योपासनाया अयमेव लाभो यत् स उपासकस्य मनसि समस्तशत्रुपराजयसमर्थं पुरुषार्थमुत्पाद्य समराङ्गणे तं विजेतारं करोति ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३३।७, साम० १९९६, अथ० २०।५३।१, २०।५७।११ सर्वत्र ऋषिः मेध्यातिथिः।
05_0297 क ईम् - 01 ...{Loading}...
लिखितम्
२९७-१। नैपातिथम्॥ वाशम् वा। निपातिथिर्बृहतीन्द्रः॥
क꣥ई꣯म्वे꣯दा॥ सु꣢ता꣡इसा꣢ऽ१चाऽ᳒२᳒। पि꣡बन्तङ्कद्वायो꣢ऽ१दाधाऽ᳒२᳒इ। अयं꣡यᳲपुरो꣯विभिनत्ताओ꣢ऽ१जासाऽ᳒२᳒॥ मन्दा꣡꣯नाऽ२३श्शी꣢ऽ३॥ प्रा꣡ऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा॥ धा꣣ऽ२३४साः꣥॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡दि꣢न्द्र꣣ शा꣡सो꣢ अव्र꣣तं꣢ च्या꣣व꣢या꣣ स꣡द꣢स꣣स्प꣡रि꣢। अ꣣स्मा꣡क꣢म꣣ꣳशुं꣡ म꣢घवन्पुरु꣣स्पृ꣡हं꣢ व꣣स꣢व्ये꣣ अ꣡धि꣢ बर्हय ॥ 06:0298 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣢त्। इ꣣न्द्र। शा꣡सः꣢꣯। अ꣣व्रत꣢म्। अ꣣। व्रत꣢म्। च्या꣣व꣡य꣢। स꣡द꣢꣯सः। प꣡रि꣢꣯। अ꣣स्मा꣡क꣢म्। अँ꣣शु꣢म्। म꣣घवन्। पुरुस्पृ꣡ह꣢म्। पु꣣रु। स्पृ꣡ह꣢꣯म्। व꣣स꣡व्ये꣢। अ꣡धि꣢꣯। ब꣣र्हय। २९८।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमेश्वर और राजा को सम्बोधित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमेश्वर के पक्ष में। (यत्) क्योंकि, हे (इन्द्र) दुर्गुणनिवारक जगदीश्वर ! आप (शासः) शासक और नियामक हैं, इस कारण (अव्रतम्) व्रतहीन और कर्महीन मनुष्य को (सदसः परि) सज्जनों के समाज से (च्यावय) निकाल दीजिए। हे (मघवन्) सद्गुणरूप धनों के धनी ! (अस्माकम्) हमारे (पुरुस्पृहम्) बहुत अधिक प्रिय (अंशुम्) मन को (वसव्ये अधि) आध्यात्मिक एवं आधिभौतिक दोनों प्रकार के धन-समूह की प्राप्ति के निमित्त से (बर्हय) श्रेष्ठ बना दीजिए ॥ द्वितीय—राजा के पक्ष में। (यत्) क्योंकि, हे (इन्द्र) पाप और पापियों के विनाशक राजन् ! आप (शासः) शासक हैं, इस कारण (अव्रतम्) वर्णाश्रम की मर्यादा का पालन न करनेवाले मनुष्य को (सदसः परि) राष्ट्ररूप यज्ञगृह से (च्यावय) निष्कासित कर दो। अथवा (अव्रतम्) राष्ट्रसेवा के व्रत से रहित मनुष्य को (सदसः परि) संसत् की सदस्यता से (च्यावय) च्युत कर दो। हे (मघवन्) धनों के स्वामिन् ! (अस्माकम्) हमारे (पुरुस्पृहम्) अतिशय प्रिय (अंशुम्) प्रदत्त कर-रूप अंशदान को (वसव्ये अधि) राष्ट्रहित के कार्यों में (बर्हय) व्यय करो ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वे ही राष्ट्रपरिषद् के सदस्य होने योग्य हैं, जो राष्ट्रसेवा के व्रत में दीक्षित हों। प्रजाजनों को भी वर्णाश्रम की मर्यादा का पालन करनेवाला और कर्मपरायण होना चाहिए। प्रजाओं को चाहिए कि स्वेच्छा से राजा को कर प्रदान करें और राजा को चाहिए कि कर द्वारा प्राप्त धन को राष्ट्रहित के कार्यों में व्यय करे ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमेश्वरं राजानं च सम्बोधयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। (यत्) यस्मात्, हे (इन्द्र) दुर्गुणविदारक जगदीश्वर ! त्वम् (शासः) शासकः नियामकः असि, तस्मात् (अव्रतम्१) व्रतहीनं कर्महीनं वा जनम्। व्रतं दीक्षा। यद्वा, व्रतमिति कर्मनाम। निघं० २।१। तद्रहितम्। ‘अव्रतम्’ इत्यत्र बहुव्रीहौ ‘नञ्सुभ्याम्’ अ० ६।२।१७२ इत्यन्तोदात्तत्वम्। (सदसः परि) सज्जनसमाजात् (च्यावय) निर्गमय। हे (मघवन्) सद्गुणधन ! (अस्माकम्) नः (पुरुस्पृहम्) बहुस्पृहायुक्तम्। पुरु स्पृहयतीति पुरुस्पृक् तम्। ‘गतिकारकोपपदात् कृत्’ अ० ६।२।१३९ इत्युत्तरपदस्य प्रकृतिस्वरः। (अंशुम्) मनः। मनो ह वा अंशुः। श० ११।५।९।२। (वसव्ये अधि२) आध्यात्मिकाधिभौतिकोभयविधधनसमूहप्राप्तिनिमित्तम्। निमित्तार्थे सप्तमी ‘वसोः समूहे च’ अ० ४।४।१४० इति समूहार्थे यत्। (बर्हय) श्रेष्ठतामापादय। बर्ह प्राधान्ये भ्वादिः, णिजन्तं रूपम् ॥ अथ द्वितीयः—राजन्यपरः। (यत्) यस्मात्, हे (इन्द्र) पापस्य पापिनां च विद्रावक राजन् ! त्वम् (शासः) शासकः असि, तस्मात् (अव्रतम्) वर्णाश्रममर्यादापालनव्रतरहितं जनम् (सदसः परि) राष्ट्ररूपात् यज्ञगृहात् (च्यावय) पृथक् कुरु। यद्वा (अव्रतम्) राष्ट्रसेवाव्रतहीनं जनम् (सदसः परि) संसदः सदस्यतायाः (च्यावय) बहिष्कुरु। हे (मघवन्) धनानां स्वामिन् ! (अस्माकम् पुरुस्पृहम्) अतिशयस्पृहणीयम् (अंशुम्) अंशदानम्, प्रदत्तं करम् (वसव्ये अधि) राष्ट्रहितकार्येषु। वसवे राष्ट्राय हितं वसव्यम्, हितार्थे यत्। (बर्हय) व्ययीकुरु। बर्ह हिंसायाम्, चुरादिः ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - त एव राष्ट्रपरिषदः सदस्या भवितुमर्हन्ति ये राष्ट्रसेवाव्रते दीक्षिता भवेयुः। प्रजाजनैरपि वर्णाश्रममर्यादापालकैः कर्मपरायणैश्च भाव्यम्। प्रजाभिः स्वेच्छया राज्ञे करः प्रदेयः, राज्ञा च करद्वारा प्राप्तं धनं राष्ट्रहितकार्येषु व्ययितव्यम् ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. व्रतरहितं यज्ञे अप्रवृत्तम्—इति वि०। अकर्माणं अस्तोतारम् अयज्वानं च—इति भ०। अकर्माणं यागविरोधिनम् इत्यर्थः—इति सा०। २. वसव्ये यजमाने यज्ञानां वासयितरि—इति वि०। वसव्येवास्तुनि यज्ञगृहे—इति भ०।
06_0298 यदिन्द्र शासो - 01 ...{Loading}...
लिखितम्
२९८-१। तौरश्रवसम्॥ तुरश्रवा बृहतीन्द्रः॥
य꣢दि꣡न्द्राऽ२३शा꣤꣯सो꣯अ꣥व्रताम्॥ च्या꣢꣯वया꣯स। दाऽ३सा꣡स्पारौ꣢। वाऽ३२। अस्मा꣡कामौ꣢। वाऽ३२। शुं꣡मघ꣢वन्। पुरू꣡स्पॄहौ꣢। वाऽ३२॥ वसा꣡व्यायौ꣢। वाऽ३२३॥ धि꣢बो꣡ऽ२३४वा꣥। हा꣤ऽ५योऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
त्व꣡ष्टा꣢ नो꣣ दै꣢व्यं꣣ व꣡चः꣢ प꣣र्ज꣢न्यो꣣ ब्र꣡ह्म꣢ण꣣स्प꣡तिः꣢। पु꣢त्रै꣡र्भ्रा꣢꣯तृ꣣भि꣣र꣡दि꣢ति꣣र्नु꣡ पा꣢तु नो दु꣣ष्ट꣢रं꣣ त्रा꣡म꣢णं꣣ व꣡चः꣢ ॥ 07:0299 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्व꣡ष्टा꣢꣯। नः꣣। दै꣡व्य꣢꣯म्। व꣡चः꣢꣯। प꣣र्ज꣡न्यः꣢। ब्र꣡ह्म꣢꣯णः। प꣡तिः꣢꣯। पु꣣त्रैः꣢। पु꣣त्। त्रैः꣢। भ्रा꣡तृ꣢भिः। अ꣡दि꣢꣯तिः। अ। दि꣣तिः। नु꣢। पा꣣तु। नः। दुष्ट꣡र꣢म्। दुः꣣। त꣡र꣢꣯म्। त्रा꣡म꣢꣯णम्। व꣡चः꣢꣯। २९९।
अधिमन्त्रम् (VC)
- त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः
- वामदेवो गौतमः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
इस मन्त्र के देवता मन्त्रोक्त त्वष्टा, पर्जन्य, ब्रह्मणस्पति और अदिति हैं। इन्द्र के प्रकरण में उनसे भी रक्षा आदि की याचना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्वष्टा) दोषनिवारक, तेजस्वी, दुःखच्छेदक विद्वान् मनुष्य, (पर्जन्यः) बादल के समान उपदेश की वर्षा करनेवाला संन्यासी, और (ब्रह्मणः पतिः) ज्ञान का अधिपति आचार्य (नः) हमारे लिए (दैव्यं वचः) ईश्वरीय वेदवचन का उपदेश करें। (पुत्रैः) पुत्रों सहित, और (भ्रातृभिः) भाई-बन्धुओं सहित (नः) हमें (अदितिः) जगन्माता (नु) शीघ्र ही (पातु) रक्षा प्रदान करती रहे। हमारा (वचः) वचन (दुष्टरम्) दुस्तर, अकाट्य तथा (त्रामणम्) दूसरों की रक्षा करनेवाला होवे ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - विद्वानों के उपदेश से पुत्र, पौत्र, बन्धु, बान्धव आदि सहित सब लोग वेद के ज्ञाता, सत्कर्मों में संलग्न और परमेश्वर-प्रेमी होते हुए व्यवहार में सत्य, मधुर, प्रभावजनक तथा कुतर्कों से अकाट्य वचन बोला करें ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ मन्त्रोक्तास्त्वष्टृपर्जन्यब्रह्मणस्पत्यदितयो देवताः। इन्द्रप्रकरणे तेऽपि रक्षादिकं याच्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्वष्टा) दोषाणां तनूकर्ता, तेजसा दीप्तः, दुःखच्छेदको विद्वान् जनः, त्वक्ष तनूकरणे। यद्वा त्विष दीप्तौ, ‘त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च’ अ० ३।२।१३५ वा० अनेन त्विषधातोस्तृन्, उपधाया अकारः, इडभावश्च। (पर्जन्यः) पर्जन्यवद् उपदेशवर्षकः संन्यासी, (ब्रह्मणः पतिः) ज्ञानस्य अधिपतिः आचार्यश्च। संहितायां ‘षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (नः) अस्मभ्यम् (दैव्यं वचः) ईश्वरीयं वेदवचनम्, उपदिशन्तु इति शेषः। देवात् परमेश्वराद् आगतं दैव्यम्। ‘देवाद्यञञौ’ अ० ४।१।८५ वा इति यञ् प्रत्ययः। किञ्च, (पुत्रैः) तनयैः (भ्रातृभिः) बन्धुभिश्च साकम् (नः) अस्मान् (अदितिः) जगन्माता। अदितिर्माता। ऋ० १।८९।१० इति प्रामाण्याद् माता अदितिरुच्यते। (नु) सद्यः एव (पातु) रक्षतु। अस्माकम् (वचः) वचनम् (दुष्टरम्) अनतिक्रमणीयम्, अकाट्यम् (त्रामणम्२) परेषां पालकं च, भूयाद् इति शेषः। त्रैङ् पालने, मनिन्। त्रामन् शब्दान्नपुंसि प्रथमैकवचने ‘त्राम’ इति प्राप्ते अमो लुगभावश्छान्दसः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - विदुषामुपदेशेन पुत्रपौत्रबन्धुबान्धवादिसहिताः सर्वे वेदज्ञाः सत्कर्मपरायणाः परमेश्वरप्रियाश्च सन्तो व्यवहारे सत्यं मधुरं प्रभावजनकं कुतर्कैरकाट्यं च वचनं ब्रूयुः॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. अथ० ६।४।१ अथर्वा ऋषिः। ‘नो’ इत्यत्र ‘मे’ इति, ‘त्रामणं वचः’ इत्यत्र च ‘त्रायमाणं सहः’ इति पाठः। २. त्रामणं रक्षासाधनम्। रक्षणं फलप्रदानम्—इति भ०। त्रामणं रक्षणीयं वचः पातु—इति सा०।
07_0299 त्वष्टा नो - 01 ...{Loading}...
लिखितम्
२९९-१। त्वाष्ट्र्यास्साम॥ त्वाष्ट्री बृहतीन्द्रो, विश्वोदेवाः॥
त्व꣣ष्टा꣢ऽ३४। नो꣯दै꣯वि꣥यम्। व꣤चाः꣥॥ प꣢र्ज꣡न्यो꣯ब्रह्म꣢ण꣡स्पाऽ२३तीः꣢। पुत्रै꣡꣯र्भ्रा꣯तृभिरदितिर्न्नु꣢पा꣡꣯तूऽ२३नाः꣢॥ दुष्टा꣡राऽ२३न्त्रा꣢॥ मणं꣡वाऽ२३चा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
क꣣दा꣢ च꣣न꣢ स्त꣣री꣡र꣢सि꣣ ने꣡न्द्र꣢ सश्चसि दा꣣शु꣡षे꣢। उ꣢पो꣣पे꣡न्नु म꣢꣯घ꣣वन्भू꣢य꣣ इ꣢꣯न्नु ते꣣ दा꣡नं꣢ दे꣣व꣡स्य꣢ पृच्यते ॥ 08:0300 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
क॒दा च॒न स्त॒रीर्(=वन्ध्या गौः) अ॑सि॒?
नेन्द्र॑, सश्चसि(=संगच्छसे) दा॒शुषे॑ ।
उपो॒प+ इन् नु म॑घव॒न्, भूय॒ इन् नु ते॒
दानं॑ दे॒वस्य॑ (उप+उप-)पृच्यते(←पृची सम्पर्के) ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
क꣣दा꣢। च꣣। न꣢। स्त꣣रीः꣢। अ꣣सि। न꣢। इ꣣न्द्र। सश्चसि। दाशु꣡षे꣢। उ꣡पो꣢꣯प। उ꣡प꣢꣯। उ꣣प। इ꣢त्। नु। म꣣घवन्। भू꣡यः꣢꣯। इत्। नु। ते꣣। दा꣡न꣢꣯म्। दे꣣व꣡स्य꣢। पृ꣣च्यते। ३००।
अधिमन्त्रम् (VC)
- इन्द्रः
- श्रुष्टिगुः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा गया है कि परमेश्वर की अर्चना कभी निष्फल नहीं होती।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) सुखप्रदाता परमेश्वर ! आप (कदाचन) कभी (स्तरीः) वन्ध्या गौ के समान निष्फल (न असि) नहीं होते, प्रत्युत (दाशुषे) आत्मदान करनेवाले उपासनायज्ञ के यजमान को फल देने के लिए (सश्चसि) प्राप्त होते हो। हे (मघवन्) धनों के स्वामी ! (देवस्य ते) तुझ दानादिगुणयुक्त का (दानम्) दान (इत् नु) निश्चय ही (भूयः इत्) पुनः-पुनः (उप-उप पृच्यते) यजमान को प्राप्त होता है, अवश्य प्राप्त होता है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो स्वयं को परमेश्वर के लिए समर्पित कर देता है, उसे वह दुधारू गाय के समान सदा फल प्रदान करता रहता है ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
परमेश्वरस्यार्चनं कदापि निष्फलं न भवतीत्युच्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) सुखप्रदातः परमेश्वर ! त्वम्, (कदाचन) कदाचित्, (स्तरीः२) निवृत्तप्रसवा गौरिव निष्फलः (न असि) न भवसि, प्रत्युत (दाशुषे) आत्मसमर्पकाय अन्तर्यज्ञस्य यजमानाय, तस्मै फलम् दातुमित्यर्थः। दाशृ दाने धातोः क्वसुप्रत्यये चतुर्थ्येकवचने रूपम्। ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ अ० २।३।१४ इति चतुर्थी। (सश्चसि) प्राप्नोषि। सश्चतिः गतिकर्मा। निघं० २।१४। हे (मघवन्) धनपते ! (देवस्य) दानादिगुणयुक्तस्य (ते) तव (दानम्) दीयमानमैश्वर्यम् (इत् नु) अवश्यमेव (भूयः इत्) पुनः पुनरपि (नु) क्षिप्रमेव (उप-उप पृच्यते) यजमानेन संसृज्यते, संसृज्यते। ‘प्रसमुपोदः पादपूरणे’ अ० ८।१।६ इति उपोपसर्गस्य पादपूरणे द्वित्वमुक्तम्। वस्तुतस्तु उपपृच्यते उपपृच्यते इति द्विरुक्त्यात्र संसर्गस्य क्षिप्रत्वमाधिक्यं च द्योत्यते ॥८॥३
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यः परमेश्वरायात्मानं समर्पयति तत्कृते स सेविता दोग्ध्री गौरिव सद्यः फलं प्रयच्छति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।५१।७, ऋषिः श्रुष्टिगुः काण्वः। य० ३।३४, ऋषिः मघुच्छन्दाः। २. स्तरीति निवृत्तप्रसवा गौः। तन्न भवसि। धुक्षसे एव सदा कामानिति—इति भ०। स्तरीः हिंसको नासि। यद्वा स्तरीर्निवृत्तप्रसवा गौस्तथाविधो न भवसि। सा यथा वत्साभावात् गृहं प्रति नागच्छति न तथा करोषीत्यर्थः—इति सा०। न स्तृणासि न क्रुध्यसि—इति य० ३।३४ भाष्ये उवटः, ‘स्तृञ् हिंसायाम्’, स्तृणातीति स्तरीः, हिंसको नासि—इति च महीधरः। ३. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरस्य कर्मफलदातृत्वविषये व्याख्यातः।
08_0300 कदा चन - 01 ...{Loading}...
लिखितम्
३००-१। अदितेस्साम॥ अदितिः बृहतीन्द्रः॥
क꣥दा꣯चना꣯स्ताऽ६री꣥꣯रसाइ॥ ने꣢न्द्रा᳐सा꣣ऽ२३४श्चा꣥। सा꣢इदा᳐शू꣣ऽ२३४षा꣥इ। उ꣣पो꣤꣯पे꣣꣯न्नुम꣤घ꣥वन्भू꣣꣯य꣤इ꣥त्। हा꣡ऽ२᳐इनू꣣ऽ२३४ता꣥इ॥ दा꣢न᳐न्दा꣣ऽ२३४इवा꣥॥ स्य꣢पो꣡ऽ२३४वा꣥। च्या꣤ऽ५तोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
यु꣣ङ्क्ष्वा꣡ हि वृ꣢꣯त्रहन्तम꣣ ह꣡री꣢ इन्द्र परा꣣व꣡तः꣢। अ꣣र्वाचीनो꣡ म꣢घव꣣न्त्सो꣡म꣢पीतय उ꣣ग्र꣢ ऋ꣣ष्वे꣢भि꣣रा꣡ ग꣢हि ॥ 09:0301 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वतः॑ ।
अ॒र्वा॒ची॒नो म॑घव॒न्त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
यु꣣ङ्क्ष्व꣢। हि। वृ꣣त्रहन्तम। वृत्र। हन्तम। ह꣢री इ꣡ति꣢। इ꣣न्द्र। पराव꣡तः꣢। अ꣣र्वाचीनः꣢। अ꣣र्वा। अचीनः꣢। म꣣घवन्। सो꣡म꣢꣯पीतये। सो꣡म꣢꣯। पी꣣तये। उग्रः꣢। ऋ꣣ष्वे꣡भिः꣢। आ। ग꣣हि। ३०१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमात्मा और सेनाध्यक्ष को सम्बोधित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (वृत्रहन्तम) पापरूप वृत्रासुरों का अतिशय वध करनेवाले (इन्द्र) परमात्मन् ! (परावतः) अपने परम स्वरूप में स्थित होकर आप (हरी) हमारे ज्ञानेन्द्रिय-कर्मेन्द्रियरूप घोड़ों को (युङ्क्ष्व हि) कार्य में प्रवृत्त कीजिए, अर्थात् हमें ज्ञानवान् और कर्मवान् बनाइए। (उग्रः) तीक्ष्ण बलवाले आप (अर्वाचीनः) हमारे अभिमुख होते हुए (सोमपीतये) हमारे आत्मा के रक्षणार्थ (ऋष्वेभिः) महान्, वीरता, दया, उदारता आदि गुणों के साथ अर्थात् हमारे लिए उनका उपहार लेकर (आगहि) आइए ॥ द्वितीय—राष्ट्र के पक्ष में। राष्ट्र में शत्रु का संकट आ जाने पर प्रजा द्वारा सेनाध्यक्ष को सैनिकों के साथ बुलाया जा रहा है। हे (वृत्रहन्तम) शत्रुओं का अत्यधिक संहार करनेवाले (इन्द्र) सेनाध्यक्ष ! आप (परावतः) अपने उत्कृष्ट सैन्यावास से (हरी) संकटों को हरनेवाले अपने आक्रामक और रक्षक दोनों सेना-दलों को (युङ्क्ष्व हि) शत्रुओं के उच्छेद और राष्ट्र के रक्षण के लिए नियुक्त कीजिए। हे (मघवन्) वीरतारूप धन के धनी ! (उग्रः) प्रचण्ड आप (सोमपीतये) शान्ति के रक्षणार्थ (ऋष्वेभिः) अपने महाबली सैनिकों के साथ (अर्वाचीनः) रणभूमि की ओर (आगहि) आइए ॥९॥ इस मन्त्र में श्लेषालङ्कार है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - देहधारी जीवात्मा के ज्ञान एवं पौरुष से रहित तथा पापग्रस्त हो जाने पर जैसे परमेश्वर का आह्वान श्रेयस्कर होता है, वैसे ही राष्ट्र जब शत्रुओं से आक्रान्त हो जाता है तब सेनाध्यक्ष का आह्वान श्रेयस्कर होता है ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमात्मा सेनाध्यक्षश्च सम्बोध्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (वृत्रहन्तम) पापरूपवृत्रासुराणाम् अतिशयेन हन्तः (इन्द्र) परमात्मन् ! (परावतः) स्वकीये परमे स्वरूपे स्थित्वा त्वम्। अत्र आसनात् प्रेक्षते इतिवत् ‘अधिकरणे चोपसंख्यानम्’ अ० २।३।२८ वा० इति पञ्चमी। (हरी) अस्माकं ज्ञानेन्द्रियकर्मेन्द्रियरूपी अश्वौ (युङ्क्ष्व हि) प्रवर्त्तय खलु, अस्मान् ज्ञानवतः कर्मवतश्च कुर्वित्यर्थः। (उग्रः) उद्गूर्णबलः त्वम् (अर्वाचीनः) अस्मदभिमुखः सन्। अर्वाग् अञ्चतीति अर्वाचीनः (सोमपीतये२) सोमस्य अस्मदीयात्मनः पीतये रक्षणाय (ऋष्वेभिः) महद्भिर्वीरत्वदयादाक्षिण्यादिभिर्गुर्णैः सह, तेषामुपहारं गृहीत्वेत्यर्थः। ऋष्व इति महन्नाम। निघं० ३।३। (आगहि) आगच्छ ॥ अथ द्वितीयः—राष्ट्रपरः। राष्ट्रे शत्रुसंकटापन्ने सति प्रजाभिः सेनाध्यक्षः सैनिकैः सहाहूयते। हे (वृत्रहन्तम) अतिशयेन शत्रूणां हन्तः (इन्द्र) सेनाध्यक्ष ! त्वम् (परावतः) स्वकीयात् उत्कृष्टात् सैन्यावासात् (हरी) संकटहरणशीले स्वकीये आक्रामक-रक्षक-सैन्ये (युङ्क्ष्व हि) शत्रूच्छेदाय राष्ट्ररक्षणाय च नियोजय खलु। हे (मघवन्) वीरताधनयुक्त ! (उग्रः) प्रचण्डः त्वम् (सोमपीतये) शान्तिरक्षणाय (ऋष्वेभिः) स्वकीयैः महाबलैः सैनिकैः सह (अर्वाचीनः) रणाङ्गणाभिमुखः (आगहि) आयाहि ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - देहधारिणि जीवात्मनि ज्ञानपौरुषहीने पापग्रस्ते च सति तद्रक्षणार्थं परमेश्वरस्याह्वानमिव राष्ट्रे शत्रुभिरभिद्रुते सति सेनाध्यक्षस्याह्वानं श्रेयस्करम् ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३।१७। २. दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वमिति सायणः।
09_0301 युङ्क्ष्वा हि - 01 ...{Loading}...
लिखितम्
३०१-१। आजीगर्तम्॥ अजीगर्तिर्बृहतीन्द्रः॥
आ꣡इहीऽ᳒२᳒। आ꣡इहि꣢हा꣡इ। युं꣢क्ष्वा꣯हिवाऽ३र्त्रा꣤ऽ३ह꣢᳐न्त꣣म꣥॥ हा꣡री꣯इ꣢न्द्र। परा꣡वा꣢ऽ१ताऽ२३४ः। अ꣣र्वा꣢ऽ३४ची꣣꣯नाः꣢। मा꣡घ꣢वन्त्सो꣡꣯। मपाइता꣢ऽ१याऽ२३४इ॥ उ꣣ग्रा꣢ऽ३४ऋ꣣ष्वा꣢ऽ३इ॥ भि꣢रो꣡ऽ२३४वा꣥। गा꣤ऽ५होऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः। स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣡ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥ 10:0302 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्वाम् इ॒दा(=अद्य) ह्यो(च) नरो(=कर्मणां नेतारोयजमाना)
(सोमम्) ऽपी॑प्यन्(=अपाययन्) वज्रि॒न्भूर्ण॑यः(=हविर्भिर् भरणशीलाः) ।
स इ॑न्द्र॒ स्तोम॑(=स्तोत्र) वाहसाम्(=वाहकानां) इ॒ह श्रु॒ध्य्(=शृणु) उप॒ स्वस॑र॒म्(=गृहं)आ ग॑हि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्वा꣢म्। इ꣣दा꣢। ह्यः। न꣡रः꣢꣯। अ꣡पी꣢꣯प्यन्। व꣣ज्रिन्। भू꣡र्ण꣢꣯यः। सः। इ꣣न्द्र। स्तो꣡म꣢꣯वाहसः। स्तो꣡म꣢꣯। वा꣣हसः। इह꣢। श्रु꣣धि। उ꣡प꣢꣯। स्व꣡स꣢꣯रम्। आ। ग꣣हि। ३०२।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेध आङ्गिरसः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर वा राजा का आह्वान किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वज्रिन्) वज्रधारी अर्थात् दुर्जनों के दलन और सज्जनों के रक्षण की शक्ति से युक्त परमात्मन् वा राजन् ! (त्वाम्) आपको (भूर्णयः) लोगों का भरण-पोषण करनेवाले (नरः) नेताजन (इदा) इस समय, तथा (ह्यः) भूतकाल में (अपीप्यन्) बढ़ाते हैं और बढ़ाते रहे हैं, अर्थात् सदा आपका प्रचार करते हैं। (सः) वह आप (इन्द्र) हे दुर्मति के विदारक और सुमति के दाता परमात्मन् वा राजन् ! (स्तोमवाहसः) स्तुति करनेवाले हम लोगों को अर्थात् हमारे निवेदनों को (इह) यहाँ (श्रुधि) सुनिए और (स्वसरम्) हमारे हृदयसदन में अथवा प्रजा के सभागृह में (उप आ गहि) आइए ॥१०॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - समाज में जो नेताजन होते हैं, उन्हें चाहिए कि सर्वत्र परमात्मा वा प्रजारञ्जक राजा का प्रचार करें, जिससे राष्ट्र के सब लोग आस्तिक तथा राजभक्त हों ॥१०॥ इस दशति में इन्द्र के प्रति सोमरस अर्पित होने, गाय के रूप में इन्द्र का स्मरण करके उसका आह्वान होने, इन्द्र से सम्बन्ध रखनेवाले त्वष्टा, पर्जन्य, बृहस्पति एवं अदिति का आह्वान होने और इन्द्र नाम से राजा, सेनापति आदि का भी वर्णन होने से इस दशति के विषय की पूर्वदशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में प्रथम अर्ध की प्रथम दशति समाप्त ॥ तृतीय अध्याय में सप्तम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरो नृपतिश्चाहूयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वज्रिन्) वज्रधर ! दुर्जनदलनसज्जनरक्षणशक्तियुक्त परमात्मन् राजन् वा ! (त्वाम्) भवन्तम् (भूर्णयः) जनानां भरणपोषणतत्पराः। डुभृञ् धारणपोषणयोः, ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५२ इति निः प्रत्ययः। (नरः) नेतारो जनाः (इदा) अस्मिन् काले। ‘सर्वैकान्यकिंयत्तदः काले दा’ अ० २।३।१५ इति इदम् शब्दाद् दा प्रत्ययः। (ह्यः) गते च काले (अपीप्यन्२) वर्द्धयन्ति वर्द्धितवन्तश्च, वर्द्धनं चात्र प्रचारो ज्ञेयः। (सः) तादृशः त्वम्, हे (इन्द्र) दुर्मतिविदारक सुमतिप्रदायक परमात्मन् राजन् वा ! (स्तोमवाहसः) स्तुतिवाहकान् अस्मान्, अस्माकं निवेदनानीत्यर्थः (इह) अत्र (श्रुधि) शृणु, अस्माकम् (स्वसरम्) गृहम्, हृदयसदनम् सभागृहं वा। स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४। (उप आ गहि) उपागच्छ ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - समाजे ये नेतारो भवन्ति तैः सर्वत्र परमात्मा प्रजारञ्जको राजा च प्रचारणीयः, येन राष्ट्रस्य सर्वे जना आस्तिका राजभक्ताश्च भवेयुः ॥१०॥ अथेन्द्रं प्रति सोमरसार्पणाद्, धेनुरूपेणेन्द्रं स्मृत्वा तदाह्वानात्, तत्सम्बन्धित्वष्टृपर्जन्यबृहस्पत्यदितीनामाह्वानाद्, इन्द्रनाम्ना नृपसेनापत्यादीनां चापि वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम्। इति चतुर्थे प्रपाठके प्रथमार्धे प्रथमा दशतिः। इति तृतीयाध्याये सप्तमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९९।१ ‘वाहस इह’ इत्यत्र ‘वाहसामिह’ इति पाठः। साम० ८१३। २. ओप्यायी वृद्धौ इत्यस्येदं रूपम्। वर्धयन्तीत्यर्थः। आप्यायितवन्तः—इति भ०। सोममपाययन्—इति सा०।
10_0302 त्वामिदा ह्यो - 01 ...{Loading}...
लिखितम्
३०२-१। माधुच्छन्दसम्॥ मधुच्छन्दा बृहतीन्द्रः॥
त्वा꣣꣯मि꣤दा꣥꣯। हो꣢᳐इ। हि꣣यो꣤꣯नरा꣥ऽ६ए꣥॥ अ꣢पा꣡इप्य꣢न्वा꣡। ज्राइन्भू꣢᳐र्णा꣣ऽ२३४याः꣥। स꣡इन्द्र꣢स्तो꣡꣯मवा꣢꣯हसः। इहा꣡श्रूधा꣢᳐। औ꣣꣯हो꣢ऽ३४वा꣣꣯हा꣢इ॥ उपा꣡स्वासा꣢᳐। औ꣣꣯हो꣢ऽ३४वा꣣꣯हा꣢॥ रमा꣡꣯गाऽ२३हा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
[[अथ अष्टम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡त्यु꣢ अदर्श्याय꣣त्यू꣢ऽ३च्छ꣡न्ती꣢ दुहि꣣ता꣢ दि꣣वः꣢। अ꣡पो꣢ म꣣ही꣡ वृ꣢णुते꣣ च꣡क्षु꣢षा꣣ त꣢मो꣣ ज्यो꣡ति꣢ष्कृणोति सू꣣न꣡री꣢ ॥ 11:0303 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छन्ती॑ दुहि॒ता दि॒वः ।
अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣡ति꣢꣯। उ꣣। अदर्शि। आयती꣢। आ꣣। यती꣢। उ꣣च्छ꣡न्ती꣢। दुहि꣣ता꣢। दि꣣वः꣢। अ꣡प꣢꣯। उ꣣। मही꣢। वृ꣣णुते। च꣡क्षु꣢꣯षा। त꣡मः꣢। ज्यो꣡तिः꣢꣯। कृ꣣णोति। सून꣡री꣢। सु꣣। न꣡री꣢꣯। ३०३।
अधिमन्त्रम् (VC)
- उषाः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र का देवता उषा है। इसमें उषा के आविर्भाव का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (आयती) आती हुई, (उच्छन्ती) उदित होती हुई (दिवः दुहिता) द्यौ-लोक की पुत्री उषा (प्रति अदर्शि उ) दिखाई दी है। (मही) महती यह उषा (चक्षुषा) दर्शनप्रदान से (तमः) अन्धकार को (अप उ वृणुते) दूर कर रही है। (सूनरी) सुनेत्री यह उषा (ज्योतिः) ज्योति को (कृणोति) उत्पन्न कर रही है ॥१॥ इस मन्त्र में स्वभावोक्ति अलङ्कार है और प्राकृतिक उषा के वर्णन से आध्यात्मिक उषा का वर्णन ध्वनित हो रहा है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे सूर्योदय से पूर्व व्याप्त घने रात्रि के अन्धकार को विच्छिन्न करता हुआ प्राकृतिक उषा का प्रकाश सर्वत्र फैल जाता है, वैसे ही परमात्मारूप सूर्य के उदय से पूर्व मनोभूमि में व्याप्त तामसिक वृत्तियों के जाल को विच्छिन्न कर आध्यात्मिक उषा का प्रकाश आत्मा में फैलता है। यह उषा योगमार्ग में ऋतम्भरा प्रज्ञा के नाम से प्रसिद्ध है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ प्रथमाया उषा देवता। उषस आविर्भावं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (आयती) आगच्छन्ती (उच्छन्ती) उदयं भजमाना। उछी विवासे, भ्वादिस्तुदादिश्च। (दिवः दुहिता) द्युलोकस्य पुत्री उषाः (प्रति अदर्शि उ) प्रतिदृष्टास्ति खलु। (मही) महती एषा उषाः (चक्षुषा) दर्शनप्रदानेन। चष्टे पश्यतिकर्मा। निघं० ३।११। (तमः) अन्धकारम् (अप उ वृणुते) अपाकरोति। (सूनरी२) सुनेत्री इयम् उषाः। सूनरी इति उषर्नामसु पठितम्। निघं० १।८। (ज्योतिः) प्रकाशम् (कृणोति) जनयति। कृवि हिंसाकरणयोः इत्यस्य रूपम् ॥१॥ अत्र स्वभावोक्तिरलङ्कारः। प्राकृतिक्या उषसो वर्णनाच्चाध्यात्मिकी उषा व्यज्यते ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा सूर्योदयात् प्राग् व्याप्तं निविडं नैशं तमो व्युदस्यन् प्राकृतिक्या उषसः प्रकाशः सर्वत्र प्रसरति, तथैव परमात्मरूपस्य सूर्यस्योदयात् प्राङ्मनोभूमौ व्याप्तं तामसवृत्तीनां जालं विच्छिन्दन्नाध्यात्मिक्या उषसः प्रकाशो जीवात्मानं व्याप्नोति। सेयमुषा योगमार्गे ऋतम्भरा प्रज्ञेति३ नाम्ना ख्याता ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ७।८१।१ ‘अपो महि व्ययति चक्षसे’ इति पाठः। साम० ७५१। २. सूनरी। शोभना नराः यस्याः स्तावकत्वेन भवन्ति सा सुनरी। सुनर्येव सूनरी—इति वि०। शोभनाः नराः स्तोतारः यस्याः सा सूनरी। सु सुष्ठु नयति प्राणिनः इति वा सूनरी—इति भ०। जनानां सुष्ठु नेत्री—इति सा०। सुष्ठु नयतीति सूनरी। नॄ नये। ‘अच इः’ इति इ प्रत्ययः। गतिसमासे ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ (परिभा० २८) इति वचनात् ‘कृदिकारादक्तिनः’ (पा० ४।१।४५ ग०) इति ङीष्। ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदातत्त्वम्। ‘निपातस्य च’ इति पूर्वपदस्य दीर्घः। इति ऋ० १।४८।५ भाष्ये सायणः। ३. योग० १।४८।
11_0303 प्रत्यु अदर्श्यायत्यूऽ३च्छन्ती - 01 ...{Loading}...
लिखितम्
३०३-१। उषसस्साम॥ उषा बृहतीन्द्रः॥ उषा।
प्र꣢ता꣡इ। इ꣣हा꣢। आ꣡इ। इ꣣हा꣢। उवद। शिऽ३आ꣡यती꣢। आ꣡यती꣢॥ उच्छा꣡। इ꣣हा꣢। आ꣡। इ꣣हा꣢। ती꣯दु। हिऽ३ता꣡दि꣪वाऽ᳒२ः᳒। आ꣡दि꣪वाऽ᳒२ः᳒॥ अपो꣡। इ꣣हा꣢। ओ꣡। इ꣣हा꣢। मा꣡ही꣯वृ꣢णुते꣯च। क्षुषा꣡त꣪माऽ᳒२ः᳒। आ꣡त꣪माऽ᳒२ः᳒॥ ज्यो꣯ता꣡इ। इ꣣हा꣢। आ꣡इ। इ꣣हा꣢। कृणो꣯। तिऽ३सू꣡न꣪रीऽ᳒२᳒। ओ꣡न꣪रीऽ२३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣मा꣡ उ꣢ वां꣣ दि꣡वि꣢ष्टय उ꣣स्रा꣡ ह꣢वन्ते अश्विना। अ꣣यं꣡ वा꣢म꣣ह्वे꣡ऽव꣢से शचीवसू꣣ वि꣡शं꣢विश꣣ꣳ हि꣡ गच्छ꣢꣯थः ॥ 12:0304 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना ।
अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣माः꣢। उ꣣। वाम्। दि꣡वि꣢꣯ष्टयः। उ꣣स्रा꣢। उ꣣। स्रा꣢। ह꣣वन्ते। अश्विना। अय꣢म्। वा꣣म्। अह्वे। अ꣡व꣢꣯से। श꣣चीवसू। शची। वसूइ꣡ति꣢। वि꣡शं꣢꣯विशम्। वि꣡श꣢꣯म्। वि꣣शम्। हि꣢। ग꣡च्छ꣢꣯थः। ३०४।
अधिमन्त्रम् (VC)
- अश्विनौ
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले दो मन्त्रों का देवता ‘अश्विनौ’ है। इस मन्त्र में अश्विनौ के नाम से परमात्मा-जीवात्मा और अध्यापक-उपदेशक की स्तुति की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अश्विनौ) परमात्मा और जीवात्मा अथवा अध्यापक-उपदेशको ! (उस्रा वाम्) आप निवासकों को (इमाः उ) ये (दिविष्टयः) ज्ञान-प्रकाश को चाहनेवाली प्रजाएँ (हवन्ते) पुकार रही हैं। हे (शचीवसू) कर्मरूप और प्रज्ञारूप धनवालो ! (अयम्) यह मैं भी (अवसे) रक्षा के लिए (वाम्) तुम्हें (अह्वे) पुकार रहा हूँ, (हि) क्योंकि, तुम (विशं विशम्) प्रत्येक प्रजा के पास (गच्छथः) जाते हो ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे परमात्मा और जीवात्मा मनुष्यों का मार्गदर्शन करते हैं, वैसे ही अध्यापक और उपदेशक भी शिक्षा और उपदेश के द्वारा सदाचार का मार्ग दर्शाते हैं। अतः उनकी संगति सबको करनी चाहिए ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ द्वयोरश्विनौ देवते। अश्विनोर्नाम्ना परमात्मजीवात्मानौ अध्यापकोपदेशकौ च स्तौति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अश्विना) अश्विनौ परमात्मजीवात्मानौ अध्यापकोपदेशकौ वा ! (उस्रा२ वाम्) उस्रौ निवासकौ युवाम्। वस निवासे धातोः ‘स्फायितञ्चि’ उ० २।१३ इति रक्, धातोः वकारस्य सम्प्रसारणम्। (इमाः उ) एताः खलु (दिविष्टयः) दिवं ज्ञानप्रकाशमिच्छन्तीति ताः विशः प्रजाः। दिवुपपदात् इषु इच्छायामिति धातोः कर्त्तरि क्तिन्। (हवन्ते) आह्वयन्ति। हे (शचीवसू) कर्मधनौ प्रज्ञाधनौ वा ! शची इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (अयम्) एषः अहमपि (अवसे) रक्षणाय (वाम्) युवाम् (अह्वे) आह्वयामि। ह्वेञ् स्पर्धायां शब्दे च, लुङि उत्तमैकवचने रूपम्। (हि) यतः युवाम् (विशं विशं) प्रजां प्रजाम् (गच्छथः) प्राप्नुथः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमात्मजीवात्मानौ जनानां मार्गदर्शनं कुरुतस्तथैवाध्यापकोपदेशकावपि शिक्षणेनोपदेशेन च सदाचारमार्गं दर्शयतः। अतस्तयोः संगतिः सर्वैः करणीया ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।७४।१, साम० ७५३। २. उस्रेति गोनाम, लुप्तोपमं चेदं द्रष्टव्यम्। उस्रा इव। यथा गावः स्वान् वत्सकान् हवन्ते आह्वयन्ति, तद्वदाह्वयन्ति युवां, हे अश्विनौ—इति वि०। तत्तु पदपाठविरुद्धम्। उस्रा उस्रौ वासकौ—इति भ०, सा०।
12_0304 इमा उ - 01 ...{Loading}...
लिखितम्
३०४-१। अश्विनोस्साम॥ अश्विनौ बृहतीन्द्रः॥ (अश्विनौ वा)।
इ꣢मा꣯उवां꣯दिविष्ट᳐या꣣ऽ२३४ऐ꣥꣯ही॥ उ꣢स्रा꣯हवन्ते꣯अश्विना꣣ऽ२३४ऐ꣥꣯ही॥ अ꣢यंवा꣯मह्वे꣯वसे꣯शची꣯व᳐सू꣣ऽ२३४ऐ꣥꣯ही॥ वि꣢शंविशंहिगच्छथा꣣ऽ२३४ऐ꣥꣯ही। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
कु꣢ष्ठः꣣ को꣡ वा꣢मश्विना तपा꣣नो꣡ दे꣢वा꣣ म꣡र्त्यः꣢। घ्न꣣ता꣡ वा꣢मश्म꣣या꣡ क्षप꣢꣯माणो꣣ꣳशु꣢ने꣣त्थ꣢मु꣢ आ꣢दु꣣न्य꣡था꣢ ॥ 13:0305 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
कु꣢। स्थः꣣। कः꣢। वा꣣म्। अश्विना। तपानः꣢। दे꣢वा। म꣡र्त्यः꣢꣯। घ्न꣣ता꣢। वा꣣म्। अश्नया꣢। क्ष꣡प꣢꣯माणः। अं꣣ऽशु꣡ना꣢। इ꣣त्थ꣢म्। उ꣣। आ꣢त्। उ꣣। अन्य꣡था꣢। अ꣣न्। य꣡था꣢꣯। ३०५।
अधिमन्त्रम् (VC)
- अश्विनौ
- अश्विनौ वैवस्वतौ
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह बताया है कि किस कारण से उक्त अश्वी तप्त या रुष्ट होते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (देवा) दानादि गुणों से युक्त, तेज से प्रकाशमान (अश्विना) परमात्मा-जीवात्मा और अध्यापक-उपदेशको ! (युवाम्) तुम (कु) कहाँ (स्थः) हो? (कः मर्त्यः) कौन मनुष्य (वाम्) तुम्हें (तपानः) संतप्त करनेवाला है? तुम कहाँ हो? प्रेरणा, शिक्षण या उपदेश क्यों नहीं करते हो? क्या रुष्ट हो? तुम्हारे रोष का क्या कारण है? आगे स्वयं ही उत्तर देता है—प्रथम—परमात्मा-जीवात्मा के पक्ष में—(अश्नया) मन में व्याप्त, (वाम् घ्नता) तुम्हारे पास पहुँचनेवाले (अंशुना) ज्ञान-कर्म-श्रद्धारूप सोमरस से (क्षपमाणः) तुम्हें वंचित करनेवाला ही तुम्हारा संतापक है । द्वितीय—अध्यापक-उपदेशक के पक्ष में। (अश्नया) भूख से (घ्नता) पीड़ित (वाम्) तुम्हें (अंशुना) भोजन, वस्त्र, वेतन आदि देयांश से (क्षपमाणः) वंचित करनेवाला ही तुम्हारा संतापक है। आगे अभयपक्ष में—(इत्थम् उ) ऐसा ही है न? (आत् उ) अथवा (अन्यथा) इससे भिन्न अन्य ही कोई तुम्हारे संताप और रोष का कारण है? अभिप्राय यह है कि अन्य कोई कारण नहीं हो सकता ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा और जीवात्मा रूप अश्वी सदा मनुष्यों के हृदय में बैठे हुए हैं। जो ज्ञान, कर्म, श्रद्धा, भक्ति आदि का सोमरस यथायोग्य उन्हें अर्पित करता है, उसे वे सदा सत्प्रेरणा देते रहते हैं। पर जो उनकी उपेक्षा करता है उससे वे रुष्ट के समान हो जाते हैं। उसी प्रकार जो शिक्षण और उपदेशों से उपकार करनेवाले अध्यापक और उपदेशक को दक्षिणारूप में भोजन-वस्त्र आदि अथवा निश्चित वेतन नहीं देता, वह उनके प्रति अपराध करता है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ केन हेतुना तावश्विनौ तप्तौ रुष्टौ वा भवत इत्याह१।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (देवा) देवौ दानादिगुणयुक्तौ, तेजसा दीप्यमानौ (अश्विना) अश्विनौ परमात्मजीवात्मानौ अध्यापकोपदेशकौ वा ! उभयत्र ‘सुपां सुलुक्०’—अ० ७।१।३९ अनेन औ इत्यस्य आकारः। युवाम् (कु२) कुह। कु तिहोः। अ० ७।२।१०४ इति किमः कुः आदेशः, प्रत्ययस्य छान्दसो लुक्। (स्थः) वर्तेथे ? संहितायाम् पूर्वपदात् अ० ८।३।१०६ इति सकारस्य मूर्धन्यादेशः। (कः मर्त्यः) को मनुष्यः (वाम्) युवाम् (तपानः३) सन्तापयन् भवतीति शेषः ? युवां कुत्र स्थः किमिति प्रेरणां शिक्षणमुपदेशं च न प्रयच्छथः ? किमु रुष्टौ स्थः ? किं वां रोषहेतुः ? अथ स्वयमेवोत्तरति। प्रथमं परमात्मजीवात्मपक्षे—(अश्नया) अश्नेन मनसि व्याप्तेन। अशूङ् व्याप्तौ। ‘सुपां सुलुक्०’ इति तृतीयैकवचनस्य या आदेशः। (वाम् घ्नता) युवां प्रतिगच्छता। हन हिंसागत्योः, शतरि रूपम्. (अंशुना) ज्ञान-कर्म-श्रद्धारूपेण सोमरसेन, युवाम् (क्षपमाणः४) वञ्चितं कुर्वन् एव वां तपानोऽस्ति इत्यहमवैमि। अथ अध्यापकोपदेशकपक्षे—(अश्नया५) अशनया बुभुक्षया। अकारलोपश्छान्दसः, यद्वा अशनाया अर्थे अश्ना शब्दः स्वतन्त्रो वेदे प्रयुक्त इति ज्ञेयम्। (घ्नता) घ्नतौ हतौ। द्वितीया-द्विवचनस्य ‘सुपां सुलुक्’ इति आकारादेशः। (वाम्) युवाम् (अंशुना) भोजनाच्छादनवेतनादिना देयांशेन (क्षपमाणः) वञ्चितं कुर्वन् जन एव वां संतापकोऽस्ति। क्षप प्रेरणे चुरादिः, शानच्। अथ उभयपक्षे—(इत्थम् उ) एवमेव विद्यते, ममानुमानं सत्यमस्ति ? (आत् उ६) यद्वा (अन्यथा) एतद्भिन्नम्, युवयोः तापस्य रोषस्य च कारणं किमप्यन्यदेवास्ति ? न किमप्यन्यत् संभवतीति भावः ॥३॥ अत्र श्लेषालङ्कारः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मजीवात्मरूपौ अश्विनौ सदा जनानां हृदये संनिविष्टौ स्तः। यो ज्ञानकर्मश्रद्धादिरूपं सोमरसं यथायोग्यं ताभ्यामर्पयति, तस्मै तौ सदा सत्प्रेरणां प्रयच्छतः। परं यस्तयोरुपेक्षां करोति तं प्रति तौ रुष्टाविव तिष्ठतः। तथैव यो शिक्षणोपदेशैरुपकुर्वद्भ्यामध्यापकोपदेशकाभ्यां दक्षिणारूपेण भोजनाच्छादनादिकं निश्चितं वेतनं वा नार्पयति स ताभ्यामपराध्यति ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. अश्विनोः स्तूयमानयोः आगमनविलम्बात् विचिकित्सेयम्—इति भ०। २. कु ष्ठः कुत्र स्थो युवाम्—इति भ०। विवरणकृता सायणेन च ‘कुष्ठः’ इति समस्तपदत्वेन व्याख्यातम्। ‘कुः पृथिवी तस्यां स्थितः कुस्थः’—इति वि०। कौ पृथिव्यां वर्तमानः को मर्त्यः—इति सा०। ३. कः वां युवां हे अश्विनौ तपानः तापयमानः—इति वि०। को मर्त्यः वां युवां क्षपमाणः भवति अस्मान् प्रहापयन् भवति। तपानः तप आचरन्—इति भ०। ४. क्षयमाणः इति पाठान्तरम्। सायणेन तदनुसृत्यैव व्याख्यातम्। ५. अश्नया क्षुधा—इति वि०। अश्नया अश्न शब्दाद् द्वितीयाद्विवचनस्य या आदेशः। अश्नौ व्यापकौ युवाम्। अश्नोतेरश्नौ। ‘तस्य भ्राता मध्यमोऽस्त्यश्नः’ ऋ० १।१६४।१ इति हि निगमः। अथवा अश्नया अशनया फलेच्छयेति—भ०। ६. सायणेन ‘आद्वन्’ इत्येकं पदं स्वीकृत्य अभिमतान्नरसादिभक्षणवान् राजादिरिवेति व्याख्यातम्। तत्तु पदकारविरुद्धम्, तत्र ‘आत् उ अन्यथा’ इति पाठात्।
13_0305 कुष्ठः को - 01 ...{Loading}...
लिखितम्
३०५-१। अश्विनोस्संयोजनम्॥ अश्विनौ बृहतीन्द्रः॥ (अश्विनौ वा)।कु꣤ष्ठᳲ꣥को꣤꣯वा꣥꣯मश्विना꣯आ꣤॥ ता꣡पा꣯नो꣢꣯दे꣯। वा꣡म꣪र्ताया꣢ऽ३ः। हो꣡वा꣢ऽ३हा꣢ऽ३४इ। घ्न꣣ता꣢ऽ३४वा꣣꣯मा꣢ऽ१। श्नाया꣢ऽ३। हो꣡वा꣢ऽ३हा꣢ऽ३४इ॥ क्ष꣣पा꣢ऽ३४मा꣣꣯णाः꣢। आꣳ꣡शूना꣢ऽ३। हो꣡वा꣢ऽ३हा꣢ऽ३४इ। इ꣣त्था꣢ऽ३४मु꣣वा꣢ऽ३त्। उ꣡वाऽ२᳐न्। य꣣था꣢ऽ३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣यं꣢ वां꣣ म꣡धु꣢मत्तमः सु꣣तः꣢꣫ सोमो꣣ दि꣡वि꣢ष्टिषु। त꣡म꣢श्विना पिबतं ति꣣रो꣡ अ꣢ह्न्यं ध꣣त्त꣡ꣳरत्ना꣢꣯नि दा꣣शु꣡षे꣢ ॥ 14:0306 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा ।
तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣य꣢म्। वा꣣म्। म꣡धु꣢꣯मत्तमः। सु꣣तः꣢। सो꣡मः꣢꣯। दि꣡वि꣢꣯ष्टिषु। तं। अ꣣श्विना। पिबतम्। तिरो꣡अ꣢ह्न्यम्। ति꣣रः꣢। अ꣣ह्न्यम्। धत्त꣢म्। र꣡त्ना꣢꣯नि। दा꣣शु꣡षे꣢। ३०६।
अधिमन्त्रम् (VC)
- इन्द्रः
- प्रस्कण्वः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र परमात्मा से अधिष्ठित आत्मा और मनरूप अथवा इन्द्र राजा से अधिष्ठित अध्यापक और उपदेशकरूप अश्विनों से याचना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अश्विना) आत्मा और मन रूप अथवा अध्यापक और उपदेशक रूप अश्वी देवो ! (दिविष्टिषु) अध्यात्म-दीप्ति के यज्ञों में अथवा व्यवहार-यज्ञों में (अयम्) यह (मधुमत्तमः) अत्यन्त मधुर (सोमः) ज्ञान, कर्म, श्रद्धा, शान्ति आदि का रस अथवा सोमादि ओषधियों का रस (वाम्) तुम्हारे लिए (सुतः) मैंने तैयार किया है। (तिरोअह्न्यम्) पवित्रता में दिन को भी तिरस्कृत करनेवाले अर्थात् उज्ज्वल दिन से भी अधिक पवित्र (तम्) उस रस को, तुम (पिबतम्) पान करो, और (दाशुषे) देनेवाले मुझ यजमान के लिए (रत्नानि) उत्कृष्ट प्रेरणा, उत्कृष्ट संकल्प, उत्कृष्ट शिक्षा, उत्कृष्ट उपदेश आदि बहुमूल्य रमणीय धन (धत्तम्) प्रदान करो ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मन के शिवसंकल्पपूर्वक जीवात्मा जिस ज्ञान, कर्म, श्रद्धा, भक्ति आदि को परमात्मा के प्रति अर्पण की बुद्धि से करता है, वह बहुत फलदायक होता है। उसी प्रकार राष्ट्र में अध्यापक और उपदेशक के यथायोग्य सत्कार से उनके पास से बहुत अधिक ज्ञान, विज्ञान आदि प्राप्त किया जा सकता है ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रेण परमात्मनाऽधिष्ठितौ आत्ममनोरूपौ, इन्द्रेण राज्ञाऽधिष्ठितौ अध्यापकोपदेशकरूपौ वाऽश्विनौ प्रार्थ्येते।१
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अश्विना) अश्विनौ, आत्ममनसी अध्यापकोपदेशकौ वा। (दिविष्टिषु३) अध्यात्मद्युतियज्ञेषु व्यवहारयज्ञेषु वा। दिवुरत्र द्युत्यर्थो व्यवहारार्थश्च, तदर्थेष्वेतयोरर्थयोरपि परिगणनात्। ‘दिविष्टिषु दिव एषणेषु’, इति निरुक्तम् ६।२२। (अयम्) एषः (मधुमत्तमः) अतिशयमधुरः (सोमः) ज्ञान-कर्म-श्रद्धा-शान्त्यादिरसः सोमाद्योषधिरसो वा (वाम्) युवाभ्याम् (सुतः) मयाऽभिषुतः अस्ति। (तिरोअह्न्यम्४) पवित्रतायाम् अह्नोऽपि तिरस्कर्तारम्, उज्ज्वलाद् दिवसादप्यधिकं पवित्रम्। तिरस्करोति अहः यः स तिरोअहः, स एव तिरोअह्न्यः। स्वार्थे यत्। ‘प्रकृत्यान्तः पादमव्यपरे’ अ० ६।१।११५ इति प्रकृतिभावः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। (तम्) रसम्, युवाम् (पिबतम्) आस्वादयतम्, (दाशुषे) दत्तवते च मह्यं यजमानाय (रत्नानि) सत्प्रेरणसत्संकल्पसच्छिक्षणसदुपदेशादिरूपाणि महार्घाणि रमणीयानि धनानि। रत्नानां रमणीयानां धनानाम् इति निरुक्तम्। ७।१५। (धत्तम्) प्रयच्छतम् ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनसः शिवसंकल्पपूर्वकं जीवात्मना यज्ज्ञानकर्मश्रद्धाभक्त्यादिकं परमात्मार्पणबुद्ध्या क्रियते तद् बहुफलदायकं जायते। तथैव राष्ट्रेऽध्यापकोपदेशकयोर्यथायोग्यसत्कारेण तत्सकाशाद् बहुज्ञानविज्ञानादिकं प्राप्तुं शक्यते ॥४॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. एषापि ऋग् यद्यप्यश्विसम्बद्धा, तथाप्यस्या देवता इन्द्रः परिगणितः। इन्द्राधीनत्वादश्विनोः तयोः स्तुत्यापीन्द्र एव स्तुतः इति समाधेयम्। ऋग्वेदे त्वस्या ऋचः साक्षाद् अश्विनावेव देवते पठिते। २. ऋ० १।४७।१ देवते अश्विनौ। ‘सोमो दिविष्टिषु’ इत्यत्र ‘सोम ऋतावृधा’ इति पाठः। ३. दिवं याभिर्गम्यते ता दिविष्टयः स्वर्गफलाः ज्योतिष्टोमाद्याः। यागसंयोगसंपत्तिरित्यर्थः—इति वि०। दिविष्टिषु यज्ञेषु—इति भ०। दिव एषणेषु यज्ञेषु—इति सा०। ४. तिरोअह्न्यम् तृतीयसवनिकम्। अथवा तिर इति प्राप्तनाम। अहनि भवः अह्न्यः। प्राप्ते यागाहनि भवः तिरोअह्न्यः—इति वि०। तिरः सतः इति प्राप्तस्य नामनी। प्राप्ते सुत्याहे भवः तम्—इति भ०। तिरो अह्न्यम् तिरोभूते पूर्वस्मिन् दिनेऽभिषुतम्—इति सा०। ऋ० १।४५।१० भाष्ये सायण एवमाह—“पूर्वस्मिन् अह्नि अभिषुतो यः सोमः उत्तरेऽहनि हूयते तस्यैतन्नामधेयम्” इति। “तिरश्च तदहश्च तिरोहः तस्मिन् भवम्”, इति ऋ० १।४७।१ भाष्ये द०। ५. ऋग्वेदभाष्ये दयानन्दर्षिर्मन्त्रमेतं सभासेनाधीशयोः पक्षे व्याख्यातवान्।
14_0306 अयं वाम् - 01 ...{Loading}...
लिखितम्
३०६-१। अश्विनोस्साम॥ अश्विनौ बृहतीन्द्रः॥ (अश्विनौ वा)।
अ꣣या꣢ऽ३४म्। अयंवां꣥꣯म꣤। धु꣥मत्ताऽ६माः꣥॥ सु꣢त꣡स्सो꣯मो꣰꣯ऽ२दि꣡विष्टि꣢षु। ओ꣭ऽ३हा꣢। ओ꣭ऽ३हा꣢ऽ३४। ओ꣣꣯हा꣢। ता꣡मश्विना꣯पिबतंतिरो꣯अन्हि꣢यम्। ओ꣭ऽ३हा꣢। ओ꣭ऽ३हा꣢ऽ३४। ओ꣣꣯हा꣢॥ ध꣡त्ताꣳरा꣢ऽ१त्नाऽ᳒२᳒। ओ꣭ऽ३हा꣢। ओ꣭ऽ३हा꣢ऽ३४। ओ꣣꣯हा꣢॥ निदा꣡ऽ२३। शू꣡ऽ२᳐षा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
आ꣢ त्वा꣣ सो꣡म꣢स्य꣣ ग꣡ल्द꣢या꣣ स꣢दा꣣ या꣡च꣢न्न꣣हं꣡ ज्या꣢। भू꣡र्णिं꣢ मृ꣣गं꣡ न सव꣢꣯नेषु चुक्रुधं꣣ क꣡ ईशा꣢꣯नं꣣ या꣢चिषत् ॥ 15:0307 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।
भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। त्वा꣣। सो꣡म꣢꣯स्य। ग꣡ल्द꣢꣯या। स꣣दा꣢꣯। या꣡च꣢꣯न्। अ꣣हम्। ज्या꣣। भू꣡र्णि꣢꣯म्। मृ꣣ग꣢म्। न। स꣡व꣢꣯नेषु। चु꣣क्रुधम्। कः꣢। ई꣡शा꣢꣯नम्। न। या꣣चिषत्। ३०७।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथि0मेध्यातिथी काण्वौ
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगला मन्त्र इन्द्र परमात्मा को सम्बोधित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमात्मन् ! (सोमस्य) शान्तरस के (गल्दया) प्रवाह के साथ (ज्या) जिह्वा द्वारा (त्वा) तुझसे (सदा) हमेशा (याचन्) याचना करता हुआ (अहम्) मैं (सवनेषु) बहुत से घृत द्वारा सिद्ध होनेवाले यज्ञों में (भूर्णिम्) अपने दूध-घी से भरण-पोषण करनेवाले (मृगम् न) गाय पशु के समान (सवनेषु) जीवन-यज्ञों में (भूर्णिम्) भरण-पोषण-कर्ता तथा (मृगम्) मन को शुद्ध करनेवाले तुझे मैं (न आचुक्रुधम्) क्रुद्ध न करूँ। सदा याचना से दाता क्रुद्ध क्यों न हो जाएगा, इसका उत्तर देते हैं— (ईशानम्) स्वामी से (कः) कौन (न याचिषत्) याचना नहीं करता ॥५॥ इस मन्त्र में ‘भूर्णिं मृगं न सवनेषु’ में श्लिष्टोपमालङ्कार है। ‘न’ उपमार्थक तथा निषेधार्थक दोनों है। जब ‘मृगं’ से सम्बद्ध होता है तब बाद में प्रयुक्त होने के कारण उपमार्थक है, और जब ‘सवनेषु’ से सम्बद्ध होता है तब पहले प्रयुक्त होने के कारण निषेधार्थक है। अभिप्राय यह है कि जैसे यज्ञ में बार-बार दूध-घी माँगने पर भी गाय क्रुद्ध नहीं होती, ऐसे ही मेरे बार-बार माँगने से आप क्रुद्ध न हों। ‘कः ईशानम् न याचिषत्-स्वामी से कौन नहीं माँगता’ इस सामान्य से अपने माँगने रूप विशेष का समर्थन होने से यहाँ अर्थान्तरन्यास अलङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - बार-बार भी याचना करके जगदीश्वर से सद्गुण, सदाचार आदि सबको प्राप्त करने चाहिएँ ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रं परमात्मानं प्रत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमात्मन् ! (सोमस्य) शान्तरसस्य (गल्दया) गालनेन, स्रावणेन सह। गल स्रवणे, चुरादिः, भावे बाहुलकादौणादिको दा प्रत्ययः। ‘गालनेन’ इति निरुक्तम् ६।२४। (ज्या२) ज्यया जिह्वया। ‘सुपां सुलुक्०’ अ० ७।१।३९ इति तृतीयैकवचनस्य आकारादेशः। प्रजावयति शब्दानिति ज्या जिह्वा, तथा च निरुक्ते प्रत्यञ्चार्थे ‘प्रजावयती इषून्’ इति ज्याशब्दस्य निरुक्तिः प्रदर्शिता। (निरु० ९।१८)। अथ च श्रूयते ‘जि॒ह्वा ज्या भव॑ति॒’ इति अथ० ५।१८।८। (त्वा) त्वाम् (सदा) सर्वदा (याचन्) प्रार्थयमानः (अहम्) स्तोता (सवनेषु) बहुघृतसाध्येषु यज्ञेषु (भूर्णिम्) भरणपोषणकर्त्तारम्। बिभर्तीति भूर्णिः, डुभृञ् धारणपोषणयोः धातोः ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५३ इति निपातनाद् निःप्रत्ययः धातोरुत्वं च। (मृगम् न) गवादिपशुम् इव (सवनेषु) जीवनयज्ञेषु (भूर्णिम्) भरणपोषणकर्त्तारम् (मृगम्) मनसः शोधयितारम् त्वाम्। मार्ष्टि इति मृगः, मृजूष् शुद्धौ अदादिः। (न आ चुक्रुधम्) न समन्ततः कोपयेयम्। क्रुध क्रोधे धातोर्णिजन्तस्य लुङि रूपम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि अ० ६।४।७५’ इत्यडागमाभावः। ननु सदा याचनेन दाता किमिति न कोपिष्यतीत्याह—(कः) को जनः (ईशानम्) स्वामिनम् (न याचिषत्) न याचते ? सर्वोऽपि याचत एव इति काक्वा व्यज्यते, अतो ममापि याचने कोऽपराध इति भावः। याचिषत् इति याच् धातोर्लेटि रूपम् ॥ ऋचोऽस्या ऋग्वेदीयः पाठो यास्केनैवं व्याख्यातः—मा चुक्रुधं त्वां सोमस्य गालनेन सदा याचन्नहं गिरा गीत्या स्तुत्या। भूर्णिमिव मृगं न सवनेषु चुक्रुधम्। क ईशानं न याचिष्यत इति। निरु० ६।२५ ॥५॥ अत्र ‘भूर्णिं मृगं न सवनेषु’ इत्यत्र श्लिष्टोपमालङ्कारः। नकार उपमार्थीयः निषेधकश्च। ‘मृगं न’ इति मृगशब्देन सम्बद्धः उपरिष्टादुपचारत्वादुपमार्थीयः, ‘न सवनेषु’ इति सवनशब्देन सम्बद्धः पुरस्तादुपचारत्वान्निषेधार्थकः। ‘भूर्णिं मृगं न इव भूर्णिं मृगं त्वां सवनेषु न चुक्रुधम्’ इति वाक्ययोजना। यथा यज्ञेषु पुनः पुनर्घृतार्थं पयो याच्यमानोऽपि गवादिपशुर्न क्रुध्यति तद्वत् त्वमपि भूयो भूयो याच्यमानोऽपि क्रुद्धो मा भूरिति भावः। ‘क ईशानं न याचिषत्’ इति सामान्येन विशेषस्य स्वकीययाचनस्य समर्थनाद् अर्थान्तरन्यासोऽलङ्कारः३ ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पुनः पुनरपि याचनेन जगदीश्वरात् सद्गुण-सद्वृत्तादिकं सर्वैः प्राप्तव्यम् ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१।२०, ‘आ’ इत्यत्र ‘मा’ इति, ‘ज्या’ इत्यत्र च ‘गिरा’ इति पाठः। २. ज्या गिरा स्तुत्या च—इति वि०। ज्या स्तुत्या—इति भ०। सोमस्य गल्दया गालनेन आस्रावणेन, ज्या जयशीलया स्तुत्या च—इति सा०। ३. सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥—का० प्र० १०।१०९ इति तल्लक्षणात्।
15_0307 आ त्वा - 01 ...{Loading}...
लिखितम्
३०७-१। सोमसाम॥ सोमो बृहतीन्द्रः॥ (सोमो वा)।
आ꣥꣯त्वा꣯सो꣯मा॥ स्य꣢। ग꣡ल्दाऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा। स꣡दा꣰꣯ऽ२या꣡꣯चन्न꣢हं꣡जियाऽ२३। भू꣡र्णा꣢᳐ओ꣣ऽ२३४वा꣥। मृ꣢ग꣡न्नसवने꣢꣯षुचुक्रुधम्॥ कई꣡꣯शाऽ२३ना꣢म्॥ ना꣡या꣯चि꣢षत्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡ध्व꣢र्यो द्रा꣣व꣢या꣣ त्व꣢꣫ꣳ सोम꣣मि꣡न्द्रः꣢ पिपासति। उ꣡पो꣢ नू꣣नं꣡ यु꣢युजे꣣ वृ꣡ष꣢णा꣣ ह꣢री꣣ आ꣡ च꣢ जगाम वृत्र꣣हा꣢ ॥ 16:0308 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति ।
उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡ध्व꣢꣯र्यो। द्रा꣣व꣡य꣢। त्वम्। सो꣡म꣢꣯म्। इ꣡न्द्रः꣢꣯। पि꣣पासति। उ꣡प꣢꣯। उ꣣। नून꣢म्। यु꣣युजे। वृ꣡ष꣢꣯णा। हरी꣢꣯इ꣡ति꣢। आ। च꣣। जगाम। वृत्रहा꣢। वृ꣣त्र। हा꣢। ३०८।
अधिमन्त्रम् (VC)
- इन्द्रः
- देवातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में जीवात्मा के लिए शान्तरस को प्रवाहित करने के लिए कहा गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अध्वर्यो) अध्यात्म-यज्ञ के अध्वर्यु मेरे मन ! (त्वम्) तू (सोमम्) शान्तरस को (आ द्रावय) चारों ओर से प्रवाहित कर, (इन्द्रः) आत्मा (पिपासति) उसका प्यासा है। (नूनम्) मानो, (वृत्रहा) शान्ति के बाधक अशान्त विचारों के हन्ता परमात्मा ने भी, तेरे अध्यात्म-यज्ञ में आने के लिए (वृषणा) बलवान् (हरी) वेग से ले जानेवाले घोड़ों को (उपो युयुजे) रथ में नियुक्त कर लिया है, और साथ ही साथ (आजगाम च) वह आ भी गया है ॥६॥ इस मन्त्र में उत्प्रेक्षालङ्कार है। ‘नूनम्’ शब्द उत्प्रेक्षावाचक है। कहा भी है—‘मन्ये, शङ्के, ध्रुवम्, प्रायः, नूनम्, इव आदि शब्द उत्प्रेक्षावाचक होते हैं।’ शरीररहित परमात्मा का रथ में घोड़ों को नियुक्त करना असंभव होने से ‘मानो घोड़ों को नियुक्त किया है’ इस रूप में उत्प्रेक्षा की गयी है। साथ ही ‘आत्मा शान्तिरस का प्यासा है’ इस कारण द्वारा शान्तरस-प्रवाह करने रूप कार्य का समर्थन होने से अर्थान्तरन्यास अलङ्कार भी है। इसके अतिरिक्त ‘घोड़ों को नियुक्त करते ही आ पहुँचा है’ इस प्रकार कारण-कार्य की एक-साथ प्रतीति होने से अतिशयोक्ति अलङ्कार भी है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जीवात्मा को शान्तरस से तृप्त करने के लिए अपने मन को अध्वर्यु बनाकर सबको आन्तरिक शान्तियज्ञ का विस्तार करना चाहिए, क्योंकि शान्त आत्मा में ही परमात्मा का निवास होता है ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ जीवत्मने शान्तरसं प्रवाहयितुमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अध्वर्यो) अध्यात्मयज्ञस्य ऋत्विग्भूत मम मानस ! अध्वर्युः अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयते वा। अपि वाऽधीयाने युरुपबन्धः। निरु० १।७। मनो वा अध्वर्युः। श० १।५।१।२१। (त्वम् सोमम्) शान्तरसम् (आ द्रावय) समन्तात् प्रवाहय। द्रु गतौ धातोर्णिजन्तस्य रूपम्। संहितायां ‘अन्येषामपि दृश्यते’ इति दीर्घः। (इन्द्रः) जीवात्मा (पिपासति) पातुमिच्छति। (नूनम्) मन्ये, (वृत्रहा) शान्तिबाधकानाम् अशान्तविचाराणां हन्ता परमात्मापि त्वदध्यात्मयज्ञमागन्तुम् (वृषणा) वृषाणौ बलवन्तौ। वृषन् शब्दाद् द्वितीयाद्विवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इति आकारादेशः। ‘वा षपूर्वस्य निगमे’ अ० ६।४।९ इति विकल्पनाद् उपधाया दीर्घाभावः। (हरी) वेगेन हर्तारौ अश्वौ (उपो युयुजे) उपनियुक्तवान् अस्ति, तत्समकालमेव (आजगाम च) आयातोऽप्यस्ति ॥६॥ अत्रोत्प्रेक्षालङ्कारः। ‘नूनम्’ इत्युत्प्रेक्षावाचकम्। “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः। उत्प्रेक्षावाचकाः शब्दा इव शब्दोऽपि तादृशः” इत्युक्तेः। अशरीरस्य परमात्मनो रथेऽश्वनियोजनासंभवात् ‘मन्ये हरी युयुजे’ इत्युत्प्रेक्षते। किञ्च ‘इन्द्रः पिपासति’ इति कारणेन सोमाद्रावणरूपकार्यस्य समर्थनादर्थान्तरन्यासः। अपि च हरियोजन-आगमनरूप कारणकार्ययोर्युगपत् प्रतीतेरतिशयोक्तिरपि२ ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जीवात्मानं शान्तिरसेन तर्पयितुं स्वकीयं मानसम् अध्वर्युं विधाय सर्वैराभ्यन्तरः शान्तियज्ञो विस्तारणीयः, यतः शान्त एवात्मनि परमात्मनो निवासः संजायते ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।४।११। २. “पौर्वापर्यात्ययः कार्यहेत्वोः”। कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति। कारणात् प्रथमं कार्यस्य भावे, द्वयोः समकालत्वे च। सा० द० १०।४७, कारिका वृत्तिश्च।
16_0308 अध्वर्यो द्रावया - 01 ...{Loading}...
लिखितम्
३०८-१। आजमायवम्॥ अजमायुर्बृहतीन्द्रः॥
अ꣤ध्वर्यो꣯द्राऽ५वया꣯तु꣤वाम्॥ सो꣡꣯ममिन्द्राऽ᳒२ः᳒। पिपा꣡सा꣢ऽ१तीऽ᳒२᳒। उ꣡पो꣰꣯ऽ२नू꣯नं꣡युयु꣢जे꣯वृ। षा꣡णा꣢ऽ१हारीऽ᳒२᳒॥ आ꣯चा꣡जाऽ२३गा꣢᳐॥ म꣣वृत्र꣢हा꣡। औ꣢ऽ३᳐हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣भी꣢ ष꣣त꣢꣫स्तदा भ꣣रे꣢न्द्र꣣ ज्या꣢यः꣣ क꣡नी꣢यसः। पु꣣रूव꣢सु꣣र्हि꣡ म꣢घवन्ब꣣भू꣡वि꣢थ꣣ भ꣡रे꣢भरे च꣣ ह꣡व्यः꣢ ॥ 17:0309 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्यायः॒ कनी॑यसः ।
पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्यः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣भि꣢। स꣣तः꣢। तत्। आ। भ꣣र। इ꣡न्द्र꣢꣯। ज्या꣡यः꣢꣯। क꣡नी꣢꣯यसः। पु꣣रूव꣡सुः꣢। पु꣣रु। व꣡सुः꣢꣯। हि। म꣣घवन्। बभू꣡वि꣢थ। भ꣡रे꣢꣯भरे। भ꣡रे꣢꣯। भ꣣रे। च। ह꣡व्यः꣢꣯। ३०९।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम द्वारा परमेश्वर, गुरु, राजा आदि से ऐश्वर्य की याचना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—उपास्य-उपासक के पक्ष में। हे (इन्द्र) परमेश्वर ! (कनीयसः सतः) आपकी अपेक्षा अल्प शक्ति और अल्प धन आदिवाले मुझे (तत्) वह आपके पास विद्यमान (ज्यायः) अत्यधिक प्रशस्त तथा अधिक महान् आध्यात्मिक एवं भौतिक धन और बल (अभि आ भर) प्राप्त कराओ। हे (मघवन्) प्रशस्त ऐश्वर्यवाले परमात्मन् ! आप (पुरूवसुः) बहुत धनी (बभूविथ) हो, (भरे-भरे च) और प्रत्येक अन्तर्द्वन्द्व में, प्रत्येक देवासुर-संग्राम में, प्रत्येक संकट में विजयप्रदानार्थ (हव्यः) पुकारे जाने योग्य हो ॥ द्वितीय—गुरु-शिष्य के पक्ष में। हे (इन्द्र) दोषविदारक तथा उपदेशप्रदायक आचार्यवर ! (कनीयसः सतः) आयु और विद्या में आपसे अत्यल्प मुझ अपने शिष्य को आप (तत्) उस अपने पास विद्यमान (ज्यायः) प्रशंसनीय तथा विशाल विद्या और व्रतपालन के भण्डार को (अभि आ भर) प्रदान करो, (हि) क्योंकि (मघवन्) हे ज्ञान-धन के धनी ! आप (पुरूवसुः) अनेक विद्याओं में विशारद (बभूविथ) हो, (भरे-भरे च) और शिष्यों का प्रत्येक भार उठाने के निमित्त (हव्यः) ग्रहण करने योग्य हो ॥ तृतीय—राजा-प्रजा के पक्ष में। हे (इन्द्र) शत्रुविदारक सुखादिप्रदायक राजन् ! (कनीयसः सतः) धन, शूरवीरता आदि में आपकी अपेक्षा बहुत कम मुझ प्रजाजन को (तत्) वह स्पृहणीय, प्रसिद्ध (ज्यायः) प्रशस्यतर तथा विशालतर, धन-धान्य, शस्त्रास्त्र, कला-कौशल, सुराज्य आदि ऐश्वर्य (अभि आ भर) प्रदान कीजिए। हे (मघवन्) ऐश्वर्यशालिन् ! आप (पुरूवसुः) बहुत-सी प्रजाओं को बसानेवाले (बभूविथ) हो, (भरे-भरे च) और राष्ट्र के अन्दर तथा बाहर जो शत्रु हैं, उनके साथ होनेवाले प्रत्येक संग्राम में (हव्यः) पुकारे जाने योग्य हो ॥७॥ नन्हे पात्र में बड़ी वस्तु नहीं समा सकती, अतः ‘ज्यायः कनीयसः’ में वैषम्य प्रतीत होने के कारण विषमालङ्कार व्यङ्ग्य है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा के पास अत्यन्त प्रशस्त और अत्यन्त विशाल भौतिक तथा आध्यात्मिक धन, गुरु के पास प्रचुर विद्याधन तथा सच्चारित्र्य का धन और राजा के पास प्रभूत, चाँदी, सोने, धान्य, शस्त्रास्त्र, कलाकौशल, चिकित्सा-साधन आदि का धन है। वे अपने-अपने धन से हमें धनी करें ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमेश्वर-गुरु-नृपादीनैश्वर्यं याचते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—उपास्योपासकपरः। हे (इन्द्र) परमेश्वर ! (कनीयसः सतः) त्वदपेक्षयाऽल्पशक्तेरल्पधनादिकस्य च सतो मम (तत्) भवदधिकारे विद्यमानम् (ज्यायः२) प्रशस्यतरं विपुलतरं च आध्यात्मिकं भौतिकं च धनं बलं वा। प्रशस्यशब्दाद् वृद्धशब्दाच्च ईयसुनि क्रमेण ‘ज्य च’, ‘वृद्धस्य च’ अ० ५।३।६१, ६२ इति ज्यादेशे रूपम्। (अभि आ भर) मदभिमुखम् आहर, (हि) यस्मात् हे (मघवन्) प्रशस्तैश्वर्यशालिन् ! त्वम् (पुरूवसुः) बहुधनः (बभूविथ) विद्यसे, (भरे भरे च) अन्तर्द्वन्द्वे-अन्तर्द्वन्द्वे, संग्रामे-संग्रामे, संकटे-संकटे च, बलप्रदानार्थम्। ‘भर इति संग्रामनाम। भरतेर्वा हरतेर्वा’। निरु० ४।२४। (हव्यः) आह्वातव्यः बभूविथ। ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे रूपम्। संहितायाम् ‘अभि’ इत्यत्र ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। ‘सतः’ इति सकारस्य ‘पूर्वपदात्’ अ० ८।३।१०६ इत्यनेन मूर्धन्यादेशः ॥ अथ द्वितीयः—आचार्यशिष्यपरः। हे (इन्द्र) दोषविदारक सद्गुणसदाचरणोपदेशप्रदायक आचार्यवर ! (कनीयसः सतः) आयुषि ज्ञानेन च अल्पीयसः सतो मम भवदीयशिष्यस्य (तत्) भवदन्तिके विद्यमानम् (ज्यायः) प्रशस्यतरं विपुलतरं च विद्याधनं व्रतपालनधनं च (अभि आ भर) मदभिमुखं प्रापय। (हि) यस्मात्, हे (मघवन्) सच्चरित्रधनाधिपते ! त्वम् (पुरूवसुः) पुरूणि बहूनि वसूनि विद्याधनानि यस्य तादृशः विविधविद्याविशारदः (बभूविथ) विद्यसे, (भरे भरे च) शिष्याणां प्रत्येकभारवहननिमित्ताय च (हव्यः) आदातुं योग्यः बभूविथ। हु दानादनयोः आदाने चेत्येके ॥ अथ तृतीयः—राजप्रजापरः। हे (इन्द्र) शत्रुविदारक सुखादिप्रदायक राजन् ! (कनीयसः सतः) धनशौर्यादौ त्वदपेक्षया अल्पीयसः सतो मम प्रजाजनस्य (तत्) स्पृहणीयं प्रसिद्धम् (ज्यायः) प्रशस्यतरं विपुलतरं च धनधान्य-शस्त्रास्त्र-कला-कौशल-सुराज्यादिकमैश्वर्यम् (अभि आ भर) मां प्रजाजनं प्रति प्रापय, (हि) यस्मात् हे (मघवन्) ऐश्वर्यशालिन् ! त्वम् (पुरूवसुः) बह्वीनां प्रजानां वासयिता (बभूविथ) विद्यसे, (भरे भरे च) राष्ट्राभ्यन्तरे बहिश्च ये शत्रवः सन्ति तैः सह संग्रामे-संग्रामे च (हव्यः) आह्वातव्यः बभूविथ ॥७॥ अत्र कनीयसि पात्रे ज्यायो वस्तु कथं समेयादिति वैषम्यप्रतीतेर्विषमालङ्कारो व्यङ्ग्यः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मनः पार्श्वे प्रशस्तप्रशस्तं विपुलविपुलं भौतिकमाध्यात्मिकं च धनम्, गुरोः पार्श्वे प्रभूतं विद्याधनं सच्चारित्र्यधनं च, नृपस्य च पार्श्वे प्रभूतं रजतसुवर्णधान्यशस्त्रास्त्रकलाकौशलचिकित्सासाधनादिरूपं धनं विद्यते। ते स्वस्वधनैरस्मान् धनिकान् कुर्वन्तु ॥७॥३
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३२।२४, ‘मघवन् बभूविथ’ इत्यत्र ‘मघवन्त्सनादसि’ इति पाठः। २. ज्यायः प्रशस्यतरं धनम्। सम्बुद्ध्यन्तं वा हे ज्यायः इति। आमन्त्रितं पूर्वमविद्यमानवत् (अ० ८।१।७२) इति इन्द्रपदस्य पादादौ विद्यमानस्य विद्यमानत्वाभावात् ज्यायः इत्यस्य सर्वानुदात्तत्वाभावः, नकारस्य रुत्वं व्यत्ययात्—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरः कीदृशोऽस्तीति विषये व्याख्यातः।
17_0309 अभी षतस्तदा - 01 ...{Loading}...
लिखितम्
३०९-१। समुद्रप्रैयमेधम्॥ प्रियमेधा बृहतीन्द्रः॥
अ꣥भी꣯षतस्तदा꣯हाउ॥ भ꣡रा। इन्द्रज्या꣯यᳲक꣢नी꣡꣯याऽ२३साः꣢। पुरू꣯व꣡सुर्हिमघवन्ब꣢भू꣡꣯वाऽ२३इथा꣢॥ भ꣡राइभाऽ२३रे꣢॥ चह꣡व्यः꣢। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡दि꣢न्द्र꣣ या꣡व꣢त꣣स्त्व꣢मे꣣ता꣡व꣢द꣣ह꣡मीशी꣢꣯य। स्तो꣣ता꣢र꣣मि꣡द्द꣢धिषे रदावसो꣣ न꣡ पा꣢प꣣त्वा꣡य꣢ रꣳसिषम् ॥ 18:0310 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।
स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣢त्। इ꣣न्द्र। या꣡व꣢꣯तः। त्वम्। ए꣣ता꣡व꣢त्। अ꣣ह꣢म्। ई꣡शी꣢꣯य। स्तो꣣ता꣡र꣢म्। इत्। द꣣धिषे। रदावसो꣣। रद। वसो। न꣢। पा꣣पत्वा꣡य꣢। रं꣣ऽसिषम्। ३१०।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णित है कि धनस्वामियों को धन का व्यय कहाँ करना चाहिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमात्मन् ! (यत्) यदि (यावतः) जितने धन के (त्वम्) आप स्वामी हैं, (एतावत्) उतने धन का (अहम्) मैं (ईशीय) स्वामी हो जाऊँ, तो हे (रदावसो) पवित्रताकारक धनवाले, अथवा दानियों को वसानेवालेपरमात्मन् ! मैं (स्तोतारम्) आपके स्तोता, पुण्यकर्ता मनुष्य को (इत्) ही (दधिषे) धन-दान से धारण करूँ, (पापत्वाय) पाप के लिए कभी (न) नहीं (रंसिषम्) दान करूँ ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - धन पाकर किसी को कंजूस नहीं होना चाहिए, किन्तु उस धन का यथायोग्य सत्पात्रों में दान करना चाहिए। पर पाप-कार्य के लिए कभी धन-दान नहीं करना चाहिए ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ धनस्वामिभिर्धनं कुत्र व्ययितव्यमित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमात्मन् ! (यत्) यदि (यावतः) यत्परिमाणस्य धनस्य (त्वम्) त्वम् ईशिषे अधीश्वरोऽसि (एतावत्) एतावतः धनस्य। ‘सुपां सुलुक्। अ० ७।१।३९’ इति षष्ठ्या लुक्। (अहम्) त्वदुपासकः (ईशीय) अधीश्वरो भवेयम् तर्हि, हे (रदावसो२) रदति विलिखतीति रदं पावकं वसु धनं यस्य स रदवसुः, रदवसुरेव रदावसुः तादृश ! रद विलेखने, पूर्वपदस्य दीर्घश्छान्दसः। यद्वा, रदान् दातॄन् वासयतीति रदावसुः तथाविध ! अत्र रदधातुर्दानार्थो बोध्यः। अहम् (स्तोतारम्) तव स्तुतिकर्तारम्, पुण्यकर्तारम् (इत्) एव (दधिषे) धनप्रदानेन धारयेयम्। दध धारणे, लेटि उत्तमैकवचने ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिपि रूपम्। (पापत्वाय) पापाय (न) नैव कदापि (रंसिषम्३) दद्याम्। रमु क्रीडायाम्। अत्र दानार्थः, ऋग्वेदे ‘रासीय’ इति पाठात्। लिङर्थे लुङ्, परस्मैपदं छान्दसम्, ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडागमो न ॥८॥४
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - धनं प्राप्य केनापि कृपणेन न भाव्यम्, किन्तु तद्धनं यथायोग्यं सत्पात्रेषु दातव्यम्। परं पापकार्याय कदापि धनं न देयम् ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३२।१८, अथ० २०।८२।१। उभयत्र ‘दधिषे’ ‘रंसिषम्’ इत्यत्र क्रमेण ‘दिधिषेय’ ‘रासीय’ इति पाठः। साम० १७९६। २. रदावसो। रदिरत्र दानकर्मा। रदति वसूनीति रदावसुः—इति भ०। रदति ददाति वसूनीति रदवसुः तादृश हे इन्द्र—इति सा०। यो रदेषु विलेखनेषु वसति तत्सम्बुद्धौ—इति ऋ० ७।३२।१८ भाष्ये द०। ३. रंसिषं दधामीत्यर्थः—इति वि०। रातेरिदं रूपम्, दद्याम्—इति भ०। न रंसिषम् न दद्याम्—इति सा०। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘राजपुरुषैः किमेष्टव्यम्’ इति विषये व्याख्यातः।
18_0310 यदिन्द्र यावतस्त्वमेतावदहमीशीय - 01 ...{Loading}...
लिखितम्
३१०-१। वैरूपे द्वे॥ द्वयोरिन्द्रो बृहतीन्द्रः॥य꣢दि꣡न्द्राऽ२३या꣤꣯वत꣥स्तुवाम्॥ ए꣢꣯ता꣡꣯वदहमी꣯शी꣯या। स्तो꣯ता꣯राऽ२३मी꣢त्। दा꣡धिषे꣢꣯। रदा꣡वा꣢ऽ१साऽ᳒२᳒उ॥ नपा꣡꣯पाऽ२३४त्वा꣥॥ या꣡रौ꣢वा᳐ओ꣣ऽ२३४वा꣥। सा꣤ऽ५इषोऽ६"हा꣥इ॥
18_0310 यदिन्द्र यावतस्त्वमेतावदहमीशीय - 02 ...{Loading}...
लिखितम्
३१०-२।
य꣥दिन्द्र꣣या꣢꣯व꣣त꣤स्तु꣥वाम्॥ आ꣡इता꣢ऽ३। वा꣡दा꣢ऽ३हा꣤मी꣥। शा꣡या꣢ऽ३ऽ᳒२᳒। स्तो꣡ता꣢꣯रा꣡मीऽ२३त्। द꣤धिषे꣥꣯रदा। वा꣡सा꣢ऽ३ऽ᳒२᳒उ॥ ना꣡पा꣢꣯पा꣡त्वाऽ२३॥ या꣡रौ꣢वा᳐ओ꣣ऽ२३४वा꣥। सा꣤ऽ५इशोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
त्व꣡मि꣢न्द्र꣣ प्र꣡तू꣢र्तिष्व꣣भि꣡ विश्वा꣢꣯ असि꣣ स्पृ꣡धः꣢। अ꣣शस्तिहा꣡ ज꣢नि꣣ता꣡ वृ꣢त्र꣣तू꣡र꣢सि꣣ त्वं꣡ तू꣢र्य तरुष्य꣣तः꣢ ॥ 19:0311 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।
अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्व꣢म्। इ꣣न्द्र। प्र꣡तू꣢꣯र्तिषु। प्र। तू꣣र्त्तिषु। अभि꣢। वि꣡श्वाः꣢꣯। अ꣣सि। स्पृ꣡धः꣢꣯। अ꣣शस्तिहा꣢। अ꣣शस्ति। हा꣢। ज꣣निता꣢। वृ꣣त्रतूः꣢। वृ꣣त्र। तूः꣢। अ꣣सि। त्व꣢म्। तू꣣र्य। तरुष्य꣢तः। ३११।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेध आङ्गिरसः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा वा राजा से शत्रुसंहार की प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) शूरवीर परमात्मन् वा राजन् ! (त्वम्) आप (प्रतूर्तिषु) झटापटीवाले देवासुरसंग्रामों में (विश्वाः) सब (स्पृधः) स्पर्धालु शत्रु-सेनाओं को (अभि-असि) परास्त करते हो। आप (अशस्तिहा) अप्रशस्ति को दूर करनेवाले, (जनिता) प्रशस्तिप्रद सद्गुणों और सच्चारित्र्यों को हृदय में वा राष्ट्र में उत्पन्न करनेवाले, (वृत्रतूः) पाप वा पापियों की हिंसा करनेवाले (असि) हो। (त्वम्) आप (तरुष्यतः) हिंसकों की (तूर्य) हिंसा करो ॥९॥ इस मन्त्र में अर्थश्लेष और कारण से कार्य का समर्थनरूप अर्थान्तरन्यास अलङ्कार है। ‘तूर्’ की तीन बार आवृत्ति तथा तकार की ग्यारह बार आवृत्ति होने से वृत्त्यनुप्रास अलङ्कार है। परमात्मा और राजा का उपमानोपमेयभाव व्यङ्ग्य है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे परमात्मा मानस देवासुर-संग्रामों में काम, क्रोध आदि असुरों को परास्त कर, अप्रशस्ति को दूर कर, प्रशस्ति दिलानेवाले श्रेष्ठ गुण-कर्म-स्वभावों को उत्पन्न कर, पापों का निर्मूलन कर स्तोता की कीर्ति का विस्तार करता है, वैसे ही राजा को भी राष्ट्र के अन्दर तथा बाहर के शत्रुओं का उन्मूलन करके, राष्ट्र की अप्रशस्ति का निवारण करके, प्रजाओं में सद्गुणों और सदाचार का प्रचार करके सुप्रबन्ध द्वारा कीर्ति उत्पन्न करनी चाहिए ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमात्मा राजा वा रिपुसंहाराय प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) शूर परमात्मन् राजन् वा ! (त्वम् प्रतूर्तिषु) त्वरामयेषु देवासुरसंग्रामेषु। ञित्वरा संभ्रमे, स्त्रियां क्तिन् ‘ज्वरत्वर०। अ० ६।४।२०’ इति वकारस्योपधायाश्च ऊठ्। (विश्वाः) सर्वाः (स्पृधः) स्पर्धाशीलाः शत्रुसेनाः (अभि असि) अभि भवसि। त्वम् (अशस्तिहा) अप्रशस्तीनां हन्ता, (जनिता) प्रशस्तिहेतूनां सद्गुणानां सच्चारित्र्याणां च हृदये राष्ट्रे वा जनयिता। ‘जनिता मन्त्रे। अ० ६।४।५३’ इति णिलोपो निपात्यते। (वृत्रतूः२) वृत्राणि पापानि पापिनो दुर्जनान् वा तूर्वति हिनस्ति सः। वृत्रोपपदात् तुर्वी हिंसायाम् धातोः क्विपि रूपम्, क्विपि परे ‘राल्लोपः। अ० ६।४।२१’ इति वकारलोपः। (असि) विद्यसे। (त्वम् तरुष्यतः) हिंसकान्। तरुष्यतिः हन्तिकर्मा। निरु० ५।२। (तूर्य) विनाशय। तूरी गतित्वरणहिंसनयोः दिवादिः, परस्मैपदं छान्दसम् ॥९॥३ अत्रार्थश्लेषः, ‘त्वं तूर्यं तरुष्यतः’ इति कार्यस्य कारणरूपेण शिष्टवाक्येन समर्थनात् कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः। ‘तूर्’ इत्यस्य त्रिश आवृत्तेरेकादशकृत्वस्तकारावृत्तेश्च वृत्त्यनुप्रासोऽलङ्कारः। परमात्मनृपत्योरुपमानोपमेयभावश्च व्यङ्ग्यः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमात्मा मानसेषु देवासुरसंग्रामेषु कामक्रोधादीनसुरान् पराभूय अप्रशस्तिं निरस्य प्रशस्तिहेतून् सद्गुणकर्मस्वभावान् जनयित्वा, पापानि निर्मूल्य स्तोतुः कीर्तिं विस्तारयति तथैव राज्ञापि राष्ट्राभ्यन्तरस्थान् बाह्यांश्च शत्रूनुन्मूल्य, राष्ट्रस्याप्रशस्तिं निवार्य, राष्ट्रवासिषु सद्गुणान् सदाचारांश्च प्रचार्य सुप्रबन्धेन प्रशस्तिः कीर्तिश्च जनयितव्या ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९९।५, य० ३३।६६, साम० १६३७, अथ० २०।१०५।१। २. वृत्रस्य शत्रोः तूर्विता हन्ता—इति वि०। वृत्रस्य तरिता गन्ता—इति भ०। सर्वस्य शत्रुवर्गस्य हिंसिता—इति सा०। ३. यजुर्भाष्ये दयानन्दर्षिणायं मन्त्रो राजधर्मविषये व्याख्यातः।
19_0311 त्वमिन्द्र प्रतूर्तिष्वभि - 01 ...{Loading}...
लिखितम्
३११-१। वैश्वदेवम्॥ विश्वेदेवा बृहतीन्द्रः॥
त्व꣤मि꣥न्द्रो꣤हाइ। प्र꣥तू꣯र्तिश्वो꣤वा꣥॥ आ꣡भिवि꣢श्वाः꣯। असा꣡इस्पा꣢ऽ१र्द्धाऽ᳒२ः᳒। आ꣡शस्ति꣢हा꣯जनिता꣯वृ॥ त्रा꣡तू꣢ऽ१रासाऽ᳒२᳒इ॥ त्वा꣡न्तू꣢ऽ१र्याऽ२᳐॥ त꣣रुष्य꣢ता꣡। औ꣢ऽ३᳐हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ यो रि꣢꣯रि꣣क्ष꣡ ओज꣢꣯सा दि꣣वः꣡ सदो꣢꣯भ्य꣣स्प꣡रि꣢। न꣡ त्वा꣢ विव्याच꣣ र꣡ज꣢ इन्द्र꣣ पा꣡र्थि꣢व꣣म꣢ति꣣ वि꣡श्वं꣢ ववक्षिथ ॥ 20:0312 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।
न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। यः। रि꣣रिक्षे꣢। ओ꣡ज꣢꣯सा। दि꣣वः꣢। स꣡दो꣢꣯भ्यः। प꣡रि꣢꣯। न। त्वा꣣। विव्याच। र꣡जः꣢꣯। इ꣣न्द्र। पा꣡र्थिव꣢꣯म्। अ꣡ति꣢। वि꣡श्व꣢꣯म्। व꣣वक्षिथ। ३१२।
अधिमन्त्रम् (VC)
- इन्द्रः
- नोधा गौतमः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र की महिमा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशाली परमात्मन् ! (यः) जो आप (ओजसा) बल और प्रताप से (दिवः) द्यौ लोक के (सदोभ्यः) सदनों—सूर्य-तारामण्डल आदियों से (परि) ऊपर होकर (प्र रिरिक्षे) महिमा में उनसे बढ़े हुए हो, (त्वा) ऐसे आपको (पार्थिवं रजः) पार्थिव लोक भी (न विव्याच) नहीं छल सकता है, अर्थात् महिमा में पराजित नहीं कर सकता है। सचमुच आप (विश्वम् अति) सारे विश्व को अतिक्रमण करके (ववक्षिथ) महान् हो ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा का बल, महत्त्व, प्रताप और प्रभाव द्यावापृथिवी आदि सारे ब्रह्माण्ड से अधिक है ॥१०॥ इस दशति में प्राकृतिक उषा के वर्णन द्वारा आध्यात्मिक उषा के आविर्भाव को सूचित कर, अश्विनौ के नाम से परमात्मा-जीवात्मा, आत्मा-मन और अध्यापक-उपदेशक का स्तवन कर, इन्द्र नाम से जगदीश्वर की स्तुति करके उससे धन, शत्रुविनाश आदि की प्रार्थना कर उसकी महिमा का वर्णन होने से और इन्द्र नाम से राजा, सेनापति आदि के भी कर्तव्यों का बोध कराने से इस दशति के विषय की पूर्वदशति के विषय के साथ संगति जाननी चाहिए ॥ चतुर्थ प्रपाठक में प्रथम अर्ध की द्वितीय दशति समाप्त ॥ तृतीय अध्याय में अष्टम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रस्य महिमानमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (यः) यः त्वम् (ओजसा) बलेन प्रतापेन च (दिवः) द्युलोकस्य (सदोभ्यः) सदनेभ्यः सूर्यतारामण्डलादिभ्यः (परि) उपरि उत्थाय (प्र रिरिक्षे२) प्र रिरिचिषे, महिम्ना तान्यतिशेषे। प्र पूर्वाद् रिचिर् विरेचने, स्वादेर्लडर्थे लिटि मध्यमैकवचने रूपम्, इडभावश्छान्दसः। तादृशम् (त्वा) त्वाम् (पार्थिवं रजः) पार्थिवो लोकोऽपि। लोका रजांसि उच्यन्ते। निरु० ४।१९ (न विव्याच३) न छलयति, न पराजयते, पार्थिवं रजोऽपि त्वामतिशयितुं नालमित्यर्थः। व्यच व्याजीकरणे तुदादिः, लिटि रूपम्। सत्यं त्वम् (विश्वम् अति) समस्तं ब्रह्माण्डम् अतिक्रम्य (ववक्षिथ४) महान् असि। ववक्षिथ इति महन्नामसु पठितम्। निघं० ३।३। वह प्रापणे धातोः सन्नन्तस्य लडर्थे लिटि रूपम्। वोढुमिच्छसीति शब्दार्थः। यो यं वहति स तदपेक्षया महत्तरो भवतीति कृत्वा ‘महानसि’ इत्यर्थः सम्पद्यते ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मनो बलं महिमा प्रतापः प्रभावश्च द्यावापृथिव्यादिकात् सकलादपि ब्रह्माण्डादतिरिच्यते ॥१०॥ अत्र प्राकृतिक्या उषसो वर्णनमुखेनाध्यात्मिक्या उषस आविर्भावं संसूच्य, अश्विनाम्ना परमात्मजीवात्मानौ, आत्ममनसी, अध्यापकोपदेशकौ च संस्तूय, इन्द्रनाम्ना जगदीश्वरं स्तुत्वा धनशत्रुविनाशादिकं च सम्प्रार्थ्य तन्महिमवर्णनाद्, इन्द्रनाम्ना नृपतिसेनापत्यादीनां चापि कर्तव्यबोधनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धे द्वितीया दशतिः। इति तृतीयाध्यायेऽष्टमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।८८।५, ‘यो’, ‘दिवः सदोभ्यस्परि’, ‘पार्थिवमति विश्वं’ एतेषां स्थाने क्रमेण ‘हि’, ‘दिवो अन्तेभ्यस्परि’, ‘पार्थिवमनु स्वधां’ इति पाठः। २. रुष रिष हिंसायाम् इत्यस्य मध्यमपुरुषैकवचने एतद्रूपम्, यस्त्वं प्रकर्षेण हिनस्सीत्यर्थः—इति वि०। प्रकर्षेण अतिरिच्यसे—इति भ०। रिचेर्लटि ‘बहुलं छन्दसि (अ० २।४।७६)’ इति श्लुः। प्रत्ययस्वरः—इति सा०। ३. न तं त्वा विव्याच न व्याप्नोति माहात्म्येन—इति वि०। न व्याप्नोति—इति भ०। पार्थिवं पृथिव्यां भवं रजो लोकः त्वा त्वां महता स्वशरीरेण न विव्याच न व्याप्नोति। द्यावापृथिव्योरपि स्वतः स त्वं बलेन समर्थोऽसीत्यर्थः—इति सा०। विव्याच छलयति—इति ऋ० ३।३६।४ भाष्ये द०। ४. वहेः सन्नन्तस्य छान्दसे लिटि रूपम्। मन्त्रत्वादामभावः—इति सा०। वोढुमिच्छसि। अत्र लडर्थे लिट्, सन्नन्तस्य वह धातोरयं प्रयोगः, ‘बहुलं छन्दसि’ इत्यनेन अभ्यासस्येत्त्वाभावः—इति ऋ० १।१०२।८ भाष्ये द०।
20_0312 प्र यो - 01 ...{Loading}...
लिखितम्
३१२-१। पुरीषम्॥ अथर्वा बृहतीन्द्रः॥
प्र꣥यो꣯रिरिक्षओ꣯जसाऽ६ए꣥॥ दि꣢व꣡स्सदो꣰꣯ऽ२भ्यस्प꣡रि। नत्वावि꣪व्या। औ꣢꣯हो꣭ऽ३वा꣢। चा꣡। रजः। औ꣢꣯हो꣭ऽ३वा꣢इ। द्रपा꣡꣯र्थिवाम्॥ अतिवाऽ२३इश्वा꣢म्॥ वा꣡वक्षि꣢थ। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
[[अथ नवम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
अ꣡सा꣢वि दे꣣वं꣡ गोऋ꣢꣯जीक꣣म꣢न्धो꣣꣬ न्य꣢꣯स्मि꣣न्नि꣡न्द्रो꣢ ज꣣नु꣡षे꣢मुवोच। बो꣡धा꣢मसि त्वा हर्यश्व य꣣ज्ञै꣡र्बोधा꣢꣯ न꣣ स्तो꣢म꣣म꣡न्ध꣢सो꣣ म꣡दे꣢षु ॥ 21:0313 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच ।
बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मन्ध॑सो॒ मदे॑षु ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡सा꣢꣯वि। दे꣣व꣢म्। गो꣡ऋजी꣢꣯कम्। गो। ऋ꣣जीकम्। अ꣡न्धः꣢꣯। नि। अ꣣स्मिन्। इ꣡न्द्रः꣢꣯। ज꣣नु꣡षा꣢। ई꣣म्। उवोच। बो꣡धा꣢꣯मसि। त्वा꣣। हर्यश्व। हरि। अश्व। यज्ञैः꣢। बो꣡ध꣢꣯। नः꣣। स्तो꣡म꣢꣯म्। अ꣡न्ध꣢꣯सः। म꣡दे꣢꣯षु। ३१३।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में परमेश्वर को श्रद्धारस अर्पण करने का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हमारे द्वारा (देवम्) दीप्तियुक्त, तेजस्वी, (गोऋजीकम्) इन्द्रियरूप गौओं की सरलगामिता में हेतुभूत (अन्धः) श्रद्धारस (असावि) अभिषुत कर लिया गया है। (अस्मिन्) इसमें (इन्द्रः) परमेश्वर (जनुषा ईम्) स्वभावतः ही (नि उवोच) अतिशय संबद्ध हो गया है। हे (हर्यश्व) वेगवान् भूमि, चन्द्र, विद्युत् आदि व्याप्त पदार्थों के स्वामी परमात्मन् ! हम (यज्ञैः) योगाभ्यासरूप यज्ञों से (त्वा) आपको (बोधामसि) जानते हैं, आप (अन्धसः) आनन्द रस की (मदेषु) तृप्तियों में (नः) हमें बोध जानिये ॥१॥ इस मन्त्र में इन्द्र तथा उसके स्तोताओं द्वारा परस्पर एक बोधनरूप क्रिया किये जाने का वर्णन होने से अन्योन्य अलङ्कार है। ‘बोधा’ की एक बार आवृत्ति में यमक तथा ‘मन्धो, मन्ध’ में छेकानुप्रास है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर की उपासना से योगाभ्यासी मनुष्य की इन्द्रियाँ सरल मार्ग पर चलनेवाली हो जाती हैं। इसलिए सबको श्रद्धापूर्वक परमेश्वर की अर्चना करनी चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
वयं परमेश्वराय श्रद्धारसमर्पयाम इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - अस्माभिः (देवम्) दीप्तियुक्तम्, तेजस्वि (गोऋजीकम्२) इन्द्रियरूपाणां गवाम् ऋजुमार्गगामित्वे हेतुभूतम् (अन्धः) श्रद्धारसरूपं सोमसलिलम् (असावि) अभिषुतम्। (अस्मिन्) अन्धसि श्रद्धारसे (इन्द्रः) परमेश्वरः (जनुषा ईम्) स्वभावतः खलु (नि उवोच३) नितरां सम्बद्धो जातः। उच समवाये दिवादिः, लिटि रूपम्। हे (हर्यश्व) हरयो वेगवन्तः अश्वाः व्याप्ता भूमिचन्द्रविद्युदादयो यस्य तादृश परमात्मन् ! वयम् (यज्ञैः) योगाभ्यासरूपैः (त्वा) त्वाम् (बोधामसि) जानीमः। बुध अवगमने भ्वादिः, ‘इदन्तो मसि’ अ० ७।१।४६ इति मस इकारागमः। त्वम् (अन्धसः) आनन्दरसस्य (मदेषु) तृप्तिषु (नः) अस्माकम् (स्तोमम्) स्तोत्रम् (बोध) जानीहि। संहितायाम् ‘द्व्यचोऽतस्तिङः’। अ० ६।३।१३५ इति दीर्घः ॥१॥ अत्र इन्द्रस्य तत्स्तोतॄणां च मिथः बोधनरूपैकक्रियाकरणाद् अन्योन्यालङ्कारः४। ‘बोधा’ इत्यस्य सकृदावृत्तौ यमकम्, ‘मन्धो, मन्ध’ इत्यत्र च छेकानुप्रासः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरोपासनेन योगाभ्यासिनो जनस्येन्द्रियाणि ऋजुमार्गगामीनि संजायन्ते। अतः सर्वैः परमेश्वरो भक्त्याऽर्चनीयः ॥१॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।२१।१। २. ‘गोऋजीकम्’—गावः इन्द्रियाणि ऋजीकानि सरलानि येन तम् इति ऋ० ६।२३।७ भाष्ये द०। गोविकारैः पयआदिभिर्मिश्रितम्—इति वि०। गोभिः संस्कृतं गव्येन मिश्रितम्—इति भ०, सा०। ३. उवाच उक्तवान्—इति वि०। नि उवोच नितरां सङ्गतो भवति। उच समवाये—इति भ०, सा०। ४. अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः। सा० द० १०।७२ इति तल्लक्षणात्। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘विद्वान् किं कुर्या’दिति विषये व्याख्यातवान्।
21_0313 असावि देवम् - 01 ...{Loading}...
लिखितम्
३१३-१। प्राकर्षम्॥ प्रकर्षस्त्रिष्टुबिन्द्रः॥
अ꣢सौ꣯हो꣯वाऽ३हा꣢᳐इ। वी꣣ऽ२३४दे꣥। वा꣡ङ्गो꣯ऋ। जी꣢᳐क꣣म꣤न्धाः꣥॥ न्यौ꣢꣯हो꣯वाऽ३हा꣢᳐। स्मी꣣ऽ२३४नी꣥। द्रो꣡जनु। षे꣢᳐मु꣣वो꣤चा꣥॥ बो꣢꣯धौ꣯हो꣯वाऽ३हा꣢᳐इ। मा꣣ऽ२३४सी꣥। त्वा꣡हरि। अ꣢श्व꣣य꣤ज्ञैः꣥॥ बो꣢꣯धौ꣯हो꣯वाऽ३हा꣢᳐इ। ना꣣ऽ२३४स्तो꣥। म꣢म꣡न्ध। सो꣢ऽ३४३। मा꣢ऽ३दा꣤ऽ५"इषूऽ६५६॥
21_0313 असावि देवम् - 02 ...{Loading}...
लिखितम्
३१३-२। निहवः॥ निहवम् वा। वसिष्ठस्त्रिष्टुबिन्द्रः॥
आ꣡इही꣢ऽ३। आ꣡इही꣢᳐। ए꣣꣯हिया꣢᳐। ओ꣣ऽ२३४वा꣥। हा꣢इ। असा꣯विदे꣯वङ्गो꣯ऋजी꣯कऽ३मा꣡न्धा꣢ऽ३ः। आ꣡न्धाः꣢᳐। अ꣣न्धा꣢᳐। ओ꣣ऽ२३४वा꣥। हा꣢इ॥ न्यस्मिन्निन्द्रो꣯जनुषे꣯मुऽ३वो꣡चा꣢ऽ३। वो꣡चा꣢᳐। वो꣣꣯चा꣢᳐। ओ꣣ऽ२३४वा꣥। हा꣢इ॥ बो꣯धा꣯मसित्वा꣯हर्यश्वऽ३या꣡ज्ञै꣢ऽ३ः। या꣡ज्ञैः꣢᳐। य꣣ज्ञा꣢᳐। ओ꣣ऽ२३४वा꣥। हा꣢इ॥ बो꣯धा꣯नस्तो꣯ममन्धसो꣯मऽ३दा꣡इषू꣢ऽ३। आ꣡इषू꣢᳐। ए꣣꣯षुवा꣢᳐। ओ꣣ऽ२३४वा꣥। हा꣢इ। आ꣡इही꣢ऽ३। आ꣡इही꣢᳐। ए꣣꣯हिया꣢᳐। ओ꣣ऽ२३४वा꣥। हा꣢ऽ३४। औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥