सात्वळेकर-प्रस्तावः

उत्तरार्चिकस्य पूर्वार्चिकेन संबन्धः ।

साम-वेदस्य पूर्वाचिकोत्तरार्चिकाख्यौ द्वौ भेदौ । तत्र पूर्वाचिके ५८५ एकर्चानि सूक्तानि विद्यन्ते । तत्रोत्तरार्चिकस्थानि पूर्वार्चिक-पठितान्य् एकर्चानि सूक्तानि ‘योनि’-नाम्ना व्यवह्रियन्ते । एता एव योनीर् आश्रित्याधोनिर्दिष्टेषु गान-ग्रनथेषु नाना-स्वर-क्रम-पूर्वकं गानम् उप-वर्णितम् । यः कोऽपि स्वर-क्रमः पूर्वार्चिक-पठिताया योनेर् भवति, तेनैव स्वर-क्रमेण योनि-भूतर्क्-संयुक्तानाम् उत्तरार्चिक-पठितानां ऋचां गानं भवति +++(ऋचि स्वरसाम्ये सत्य् अपि गाने स्वरभेदस् स्यात् खलु??)+++।

तत्र पूर्वार्चिके षट् प्रपाठकाः, प्रत्येकं प्रपाठके च द्वावधौं, तयोश्च १० दशतयः । यद्यपि दशर्चामेका दशतिः सामान्यतो भवति, तथापि कासुचिद्दशतिषु न्यूनत्वमाधिक्यं वोपलभ्यते । अधस्ताच्च सूची दीयते

  • प्रपा० १= २ अर्धौ= १० दशतयः ( तत्र प्रथमार्धे तृतीयदशत्यां १४ ऋचः, द्वितीयाधे प्रथमदशत्यामष्टी, तृतीयवशत्या. मष्टौ, पन्चमदशत्यां षट् , शेषासु १०) योगेन = ९६ ऋचः।
  • प्रपा० २= २ अर्धौ= १० दशतयः (प्रथमार्धे द्वितीयदशस्यामष्टौ, द्वितीयार्धे पन्चमदशस्यां नव ) = ९७ ऋचः।
  • प्रपा० ३= २ अर्धौ= १० दशतयः (प्रथमाधै तृतीयदशत्यां नव) = ९९ ऋचः।
  • प्रपा० ४= २ अर्धौ= १० दशतयः (प्रथमार्धे चतुर्थदशत्यां नव, द्वितीयार्धे द्वितीयदशत्यामष्टी, चतुर्थदशत्यामेकादश) = ९८ ऋचः।
  • प्रपा० ५= २ अर्धौ= १० दशतयः (प्रथमार्धे प्रथमदशस्यामष्टौ, चतुर्थदशत्यामष्टौ ) = ९६ ऋचः।
  • प्रपा० ६= २ अर्धौ= ९ दशतयः ( प्रथमा द्वितीयदशत्यां १४, तृतीयदशत्या १२, पन्चम्यां दशत्यां १२, द्वित्तीयार्धे प्रथमदशत्यां नव, द्वितीयदशत्यां १२, तृतीयदशत्यां १२, चतुर्थदशत्यां ८) = ९९ ऋचः।
  • सम्पूर्ण-योगः = ५८५

उत्तरार्चिके च नव प्रपाठकाः, तेषु प्रथमानां पञ्चानां द्वौद्वाव् अर्धौ। शेषाणां चतुर्णां प्रपाठकानां तु प्रत्येकं त्रयोऽर्धाः । केषांचिन् मतानुसारं तु ११ प्रपाठकाः, प्रत्येक द्वयोर् द्वयोर् अर्धयोर् विभक्ताः । एवं २२ अर्धाः संजायन्ते । अर्धाश्च खण्डेषु विभक्ताः । अग्रत उत्तरार्चिक-सूक्तानां सूची दीयते ।

(सूच्य् अत्र दृश्यताम्।)

उत्तरार्चिके च ४०० सूक्तानि । तेषु १३ एकर्चकानि, ६६ सूक्तेषु द्वै ऋचौ, २८७ सूक्तेषु तिस्त्रः, ९ सूक्तेषु चतस्रः, ४ सूक्तेषु पञ्च, १० सूक्तेषु षट्, २ सूक्तयोः सप्त, १ सूक्ते अष्टौ, ३ सूक्तेषु नव, ३ सूक्तेषु दश, २ सूक्तयोश्च द्वादश ऋचो विद्यन्ते । अस्यां गणनायां च द्वयोः सक्तयोर् द्वयोश्च न्यूनत्वं, केषुचिद् ग्रंथेष्व् आधिक्यं च दृश्यते।

अत्रेदं विचारणीयं यद् उत्तरार्चिके २८७ तृचानि विद्यन्ते । एषां मध्ये केवलं २२६ तृचानां प्रथमा ऋचः पूर्वार्चिक उपलभ्यन्ते । अवशिष्टानां ६१ तृचानां संबन्धियः प्रथमा ऋचः पूर्वार्चिके नैवोपलभ्यन्ते । कारणं चेदम् अस्य यद् इमाः ६१ उत्तरार्चिक-योनयः प्रातःसवने प्रयुज्यन्ते, गायत्रेण च रागेण गीयन्ते । उक्तं च " गायत्रं वै प्रातःसवनम् " ( ऐतरेय ब्रा.२८)।+++(5)+++ यासां २२६ तृचयोनीनां यज्ञान्तरे सवनान्तरे वा प्रयोगस् तासाम् एवारम्भिका ऋचः पूर्वाचिके संगृहीताः ।

राणायनीय-कौथुम-भेदः

वर्तते तावद् एषा सामसंहिता राणायनीयानां कौथुमानां च । तयोर्मन्त्रभेदो नास्ति, केवलं गणनापद्धतिभेद एव । एके प्रपाठक-अर्धप्रपाठक-दशतिभिः, अन्ये तु अध्यायः खण्डैश्च मन्त्रान् गणयन्ति ।+++(5)+++ एषा गणनास्माभिर् अस्मिन्पुस्तके यथास्थानं सुविन्यस्ता । अत एषा संहिता राणायनीयानां कौथुमानां च भवति । जैमिनीयानां तु संहिता पाठ-भेद-सहिता पुस्तकान्ते प्रदर्शयिष्यते । कौथुमी-राणायनीय-शाखयोर् मध्ये क्वचित् स्वरभेदोऽपि दृश्यते, क्वचित् पाठभेदोऽपि । यथा कौथुमीया ‘हाउ’ इति वदन्ति राणायनीयास् तु ‘हावु’ इति ।+++(5)+++ ‘राइ’ इत्यस्य स्थाने ’ रायि’ इति च । ‘पाजेषु नो’ इति ऋग्वेदिनः कौथुमीयाश्च पठन्ति ‘बाजेषु णो’ इत्य् अन्ये । एवम् उच्चारणभेदाः सन्ति ।

कौथुम-व्युत्पत्तिः

अत्र केचन कुसुम-शब्दाद् व्युत्पन्नं ‘कौसुम’-पदं ’ कौथुम’-शब्दस्य पूर्वरूपं मन्यन्ते । अत्र सामप्रातिशाख्यस्य ‘पुष्पसूत्रं, कुसुमसूत्रं, कौसुमं सूत्रम्’ इति संज्ञाया विद्यमानत्वात्। तत्-प्रातिशाख्यं कदाचित् कौथुम्या एव शाखाया स्यात् ।

सामस्वरगणना

सामवेदस्य स्वरगणना अत्यन्तमेव समीचीना वर्तते । नैतादृशी परिगणना स्वराणां केनापि कृता ऽन्येषां वेदानाम् । अत्र अस्या गणनाया विषये किञ्चिद् अवश्यं वक्तव्यम् -

रे꣣व꣡ती꣢र्नः सध꣣मा꣢द꣣ इ꣡न्द्रे꣢ सन्तु तु꣣वि꣡वा꣢जाः। क्षु꣣म꣢न्तो꣣ या꣢भि꣣र्म꣡दे꣢म॥ 14-1:1084 ॥ आ꣢ घ꣣ त्वा꣢वा꣣न् त्म꣡ना꣢ यु꣣क्तः꣢ स्तो꣣तृ꣡भ्यो꣢ धृष्णवीया꣣नः꣢। ऋ꣣णो꣢उक्षं꣣ न꣢ च꣣꣬क्रयोः꣢꣯ ॥ 14-2:1085 ॥ आ꣡ यद्दुवः꣢꣯ शतक्रत꣣वा꣡ कामं꣢꣯ जरितृ꣣णा꣢म्। ऋ꣣णो꣢उक्षं꣣ न꣡ शची꣢꣯भिः ॥ 14-3:1086 ॥ ॥14 (ठी)॥ [धा. 18 । उ 2 । स्व. 4।]

अत्र +अङ्कचिह्न-रहितान्य् अक्षराण्य् एतानि

  • ( प्रथममन्त्रे ) नः । स । स । न्तु । इति चत्वारि ।
  • (द्वितीयमन्त्रे ) धृ । ष्ण । वि। र । इति चत्वारि ।
  • (तृतीयमन्त्रे ) य। दु । श । त । क । का। ज। रि । र । श। इति दश ।

सर्वाण्य् एतानि मिलित्वा अष्टादश भवन्ति । एतानि (धा. १८) इति संकेतेन संलिखितानि । अत्र त्व् अयं विशेषः, यान्यन्त्याक्षराणि “जाः। म। भिः।” इति त्रीणि, तानि अङ्क-चिह्न-रहितान्य् अपि नैव गण्यन्ते, तेषाम् अन्ते अवस्थानात् ।+++(5)+++ चिह्न-रहितान्य् अन्त्याक्षराणि नैव गणनीयानीति नियमात् । एवं अस्मिन्मन्त्रत्रये अष्टादशाक्षराणि चिह्न-रहितानीति दृष्टव्यम् ।

उकार-चिह्निते द्वे एवाक्षरे । द्वितीयमन्त्रे’णो’ इति, तृतीयमन्त्रेऽपि तदेवाक्षरम् उकारित - एवम् उकार-चिह्नितौ द्वाव् एवात्रोदात्तौ, तौ तु - ‘उ० २’ इति संकेतेनात्र प्रदर्शितौ ।

रकार-चिह्निताः स्वरितास् तु भत्र चत्वारः । द्वितीयमन्त्रे ( क्योः ) इत्येकः । तृतीये मन्त्रो त्रयः " वः। म ची।" इति । एवं चत्वारो भवन्ति । ते ’ स्व. ४ ’ इति संकेतेन दर्शिताः । एतया स्वर-गणनया मन्त्राणां मध्ये स्वर-प्रमादो न भवितुं कदाचिद् अपि शक्नोति । अतः एवं-विधा गणना स्वरस्थिरी-करणाय सर्वेषु वेदेषु कर्तुं योग्यैव ।

अस्याश् च गणनाया सङ्केतो ‘ठी’ इति दृश्यतेऽत्र । ‘ठी’ इत्यस्माद् एवाक्षराद् एषा स्वरगणना ज्ञायते, यथा ‘ठी’ इत्यत्र ‘+ ई’ इति द्वावेव वर्णौ स्तः । ई इति ‘अ-आ-इ-ई’ इत्यत्र, चतुर्थः स्वरो वर्तते, स तु ‘स्व. ४’ इति संकेतेन सुच्यते । ठ इति ट- वर्गस्य द्वितीयं व्यञ्जनं, तत्तु ’ उ०२’ इति सङ्केतेन सूच्यते, द्वितीयम् एवैतद् व्यञ्जनं ट-वर्गे।

‘धा. १८’ इति सङ्केते स्थिता १८ संख्या तस्याः पञ्चभिर् भाग-हारे+++(←modulo)+++ ऽवशिष्टास् त्रयः । तृतीयस्य वर्गस्यैषा संख्या सूचिका । क च-ट-त-प इति पञ्चैव वर्गाः, तत्र तृतीयः ‘ट’ इति वर्गोऽनया संख्यया सूच्यते । अस्मिन् वर्गे च द्वितीयं ‘ठ’ इति व्यञ्जनं, तत् सूचितं ’ उ० २’ इत्येतया उकार-सहितया द्वि-संख्यया। ‘स्व० ४ ’ इत्येतेन चतुर्थः स्वर सूचित; ‘ई’ इति । एवं (+ई ) ‘ठी ’ इति सर्वेषां संकेतानां बोधकम् अक्षरं भवति । पञ्चभिर् भागहारेणावशिष्टया संख्यया वर्गाणामेवं बोधो भवति -

अवशिष्टा संख्या वर्गः

यत्र १५, २०, ४० इत्येवं धारीसंख्या भवेत् तदा तत्र पवर्गेणैव भाव्यम् ।

उदात्तस्वरेण वर्गस्थं व्यञ्जनं बुध्यते, तद्यथा

संख्या वर्ग-व्यञ्जनम्
उ.१ क च ट त प
उ.२ ख छ ठ थ फ
उ.३ ग ज ड द ब
उ.४ घ झ ढ ध भ
उ.५ ङ ञ ण न म

स्वरिताङ्केन स्वरा बुध्यन्ते, यथा -

संख्या स्वरः
स्व.१
स्व.२
स्व.३
स्व.४
स्व.५

इत्यादयः।

यत्र तूदात्तो नास्ति, तदा धारी-निर्दिष्टा संख्या एकोना संख्या कर्तव्या, यथा ( धा० १७ । उ, नास्ति । स्व० २ ) ( या ) (साम-मन्त्र-क्रमाङ्काः ८४१-८४३ ) इत्य् अत्र उदात्तस्याभावात् धारीसंख्या १७ इत्येकोना भूत्वा १६ भवति । उदात्तस्याभावात् य-र-ल-व-शा ग्राह्याः ।+++(5)+++ यत्र तूदात्तो न भवेत् तत्र यवर्गो ग्राह्य इति नियमः । अत्र १६ इति संख्या एकोना भूत्वा संजाता, तस्याः पञ्चभागहारेण एकोऽवशिष्टः । अतो य-वर्गस्य प्रथमेव ‘य’ इति व्यञ्जनमत्र ग्राह्यम् । अत्र स्वरितौ द्वौ, द्वितीय-स्वरो ‘आ’ इति, स चात्र यकारेण सह मिलित्वा ’ या ’ इति संकेतो जातः ।

यत्रोदात्तो न भवति, तत्र धारीसंख्या एकोनां कृत्वा, तां पञ्चभिर् हत्वा यदि किमपि नावशिष्येत्तहि तत्र ‘ह’ इति संकेताक्षर भवति यथा (साममन्त्रक्रमसंख्या ८८०-८८२ ) (धा. २१ । 3. नास्ति । स्व. १) -अत्र २१ संख्यायां एकोनायां कृतायां २० संजाता, सा पञ्चभिर्हस्वा न किञ्चिदप्यवशिष्यते, अतः ‘ह’ इति संकेताक्षरं स्वरितोऽप्य् अत्र एक एव, अतः - अत्र ‘ह’ इत्येव संकेतः।

यत्र उदात्तो वा स्वरितोऽपि वा न भवेत्, तदा तत्र ‘औ’ कारो भवति, यथा ( धा० १५ । उ० नास्ति । स्व० नास्ति ) (वौ)। ( साम-मन्त्र-संख्या १३२६-१३२८) उ- नास्ति अतः १५ संख्या एकोनां कृत्वा, सा संख्या १४ संजाता । सा तु पञ्चभिर्हत्वा ४ भवशिष्टाः, उकाराभावाद् यवर्गस्यैतच् चतुर्थाक्षरं य-र-क-व इति वकारः, स्वरितस्याभावात् औकारः, एवं ‘वौ’ कारः संजात इति । एवं सर्वत्र बोध्यम् ।

अत्रायं गणनाप्रकार उत्तरार्चिकस्य प्रदर्शितः । पूर्वार्चिकस्य गणनाप्रकारेऽस्ति कश्चिद् विशेषः । पूर्वार्चिके ‘स्वरितःप्रथमो भवति, मध्यम उदात्तो, धारी चान्त्य ’ इति ।+++(5)+++ +++(खण्डस्य दशतेर् वाऽन्ते वैषा दीयते।)+++ अत्र स्वरित-धार्योर् व्यत्ययेन निवेशनं भवति । यथा- (सामक्रमाङ्कः ११.२०) ‘नमस्ते अग्न ओजसे’ इति पूर्वार्चिकस्य द्वितीये खण्डे ’ स्वरिताः ६। उदात्तौ २ । धारीगणना ५२ । ( खा )।’ अत्र स्वरित-संख्यया कवर्गो लभ्यते पञ्चभिर् हारात् । उदात्तस्य संख्यया वर्गस्थं द्वितीयं व्यञ्जनम् । धारीसंख्यया च पञ्चभिराद् द्वितीयः स्वरः । तेन ‘खा’ इति संकेतो भवति । सर्वम् अन्यत् समानम् ।

महत् खल्व् अस्याः स्वर-गणनाया औचित्यम् अतीव वर्तते । अतः सर्वः सामवेदः पुनर् अनयैव रीत्या परिगणनीय इत्य् उचितम् प्रतिभाति । यतो मुद्रितेषु ग्रंथेषु, लिखितेषु च ग्रंथेषु गणना कुत्रापि समीचीना न दृश्यते । या च योरोपीयैः पण्डितैर् मुद्रिता - साप्य् अशुद्धैव । अतः पुनः परीक्षणीयोऽयं विषयः।