अथ संहितोपनिषद्ब्राह्मणम्
प्रथमः खण्डः
११ अथातस्संहितोपनिषदो व्याख्यास्यामः॥ १॥
द्वितीयः खण्डः१२ अथैषा समावर्तनीयेति वेदितव्या संहिता भवति॥ १॥
अथ संहितोपनिषद्ब्राह्मणम्
प्रथमः खण्डः
सर्वपरोऽक्षा देवसंहिता भवति॥ २॥
सर्वप्रत्यक्षाऽसुरसंहिता भवति॥ ३॥
परोऽक्षप्रत्यक्षर्षिसंहिता भवति॥ ४॥ (परोक्षप्रत्यक्षा, ऋषिसंहिता)
यथाँ अधीमहे॥ ५॥
स्वर्ग्या देवसंहिता भवति, स्वर्गँ लोकङ्गच्छति- यस्तथाऽधीते॥ ६॥
पशव्याऽसुरसंहिता भवति, पशुमान्भवति- यस्तथाऽधीते॥ ७॥
ब्रह्मवर्चस्यर्षिसंहिता भवति, ब्रह्मवर्चसी भवति- यस्तथाऽधीते॥ ८॥अथैतास्तिस्रस्संहिता भवन्ति, देवहूरेका वाक्छबहूरेकाऽमित्रहूरेका॥ ९॥ (शबं - अत्यन्तशुभम्, तं ह्वयतीति शबहूः)
सा या मन्द्रस्वरवती- सा देवहू,रा हास्य देवा हवङ्गच्छन्ति- यस्तथाऽधीते॥ १०॥
अथ यत्क्लबितमिव निरुदितमिव सा वाक्छबहूः,ँ क्षिप्रं मरिष्यतीति विद्याद्यस्तथाऽधीते॥ ११॥ (क्लबितंबल्बलाकारवर्णैः अस्पष्टाक्षरैः ग्रस्तव्यस्ताक्षरैः, निरुदितम्- निकृष्टं रुदितमिव)
अथ यदाक्रन्दितमिव निक्रन्दितमिव- साऽमित्रहू,स्सर्वज्यानिञ्ज्यास्यतीति विद्या- द्यस्तथाऽधीते॥ १२॥
तद्वै खलु समृद्धिमेव ध्यायन्नुपाऽऽसीत॥ १३॥
सा याऽदीनतमा संपूर्णा संसृष्टा सँयता वाक्सा पुत्र्यपशव्या, तद्यथा वाते वाति- प्रजा निर्मुच्यन्त- एवमेतया॥ १४॥
अथ या मध्यायिनी संपूर्णा संसृष्टा सँयता वाक्सा पुत्र्यपशव्या, तद्यथा वातेऽप्सु शनैर्वान्सुायखी भवत्येवमेतया॥ १५॥ (मध्यायिनी- मध्यमस्वरवती)
अथ योत्सृष्टा गुल्मीभूताऽसंपूर्णाऽसंसृष्टाऽसँयता वाक्साऽपुत्र्यपशव्या,तद्यथा वातेनातिशीघ्रँ वाता- बहुविभग्नं प्रभग्नं शेत- एवमेतया॥ १६॥
अथैतास्तिस्रस्संहिता भवन्ति- शुद्वाऽदुस्पृष्टाऽनिर्भुजेति॥ १७॥
अथैषा शुद्धा संहिता भवति सर्वेभ्यᳲ कामेभ्य,स्तद्यथा समञ्जनवता रथेन- यङ्कामङ्कामयते तमभ्यश्नुत- एवमेतया॥ १८॥ (समञ्जनम्- पालिश, ग्रीज)अथैषाऽदुस्पृष्टा संहिता भवति सर्वेभ्यᳲ कामेभ्य,स्तद्यथा समञ्जनवता पूर्णखेन रथेन- यङ्कामङ्कामयते तमभ्यश्नुत- एवमेतया॥ १९॥ (पूर्णखम्- अलङ्कारैः खानि रिक्तानि पूर्णानि यस्मिन्)
अथैषाऽनिर्भुजा संहिता भवति सर्वेभ्य एव कामेभ्य,स्तद्यथा समञ्जनवता पूर्णखेन समाहितेन रथेन- यँ यङ्कामङ्कामयते तन्तमभ्यश्नुत- एवमेतया॥ २०॥ (समाहिताः - भक्ष्यायुधानि)
अथैतास्तिस्रस्संहिता भवन्ति- वायोरिन्द्रस्याग्ने,सर्वाऽवृद्धा वायो- स्सर्ववृद्धेन्द्रस्योत्सेधपरोऽक्षवृद्धाऽग्नेः॥ २१॥-
द्वितीयः खण्डः
लोपातिहार परोऽक्षसमापाद्याः॥ २॥
सर्वत्र गतास्स्तोभास्सर्वत्र निवृत्तास्सर्वत्र प्रवृत्ताः॥ ३॥
सर्वत्र प्राच्यपाञ्चालीषु मुक्तं- सर्वत्रामुक्तम्॥ ४॥
सर्वत्र सौष्टव्यम्।
लुप्तेषु रेफसन्धयस्सर्वत्र॥ ५॥
सर्वत्र ह रोहपूर्वेष्वरोहपूर्वाणि॥ ६॥सर्वत्रोदात्तेष्वनुदात्तानि॥ 7॥
अभिगीतेष्वनभिगीतानि सर्वत्र॥ 8॥
विनामितप्रणामितेष्वविनामितान्यप्रणामितानि॥ 9॥
सर्वत्र विसर्गोपग्रहेष्वविसृष्टान्यनुपगृहीतानि॥ 10॥
सर्वत्र ह्रस्वकर्षणेषु दीर्घकर्षणानि- दीर्घकर्षणेषु मन्द्रकर्षणानि- मन्द्रकर्षणेष्वात्तकर्षणानि॥ 11॥
सर्वत्र तीधेनावामर्तयोर्विप्रवाकः॥ 12॥ (तीधेनावा - मर्ता इत्युच्चारणं यत्र तत्, विप्रवाकः- प्रयोगः)
तीधेनावान्वृष्टिकामाय कुर्यान्मर्तामन्नाद्यकामाय॥ 13॥
सर्वत्र चतुर्थस्वरा- मन्द्रस्वराश्च प्रस्तावाः॥ 14॥
चतुर्थमन्द्रातिस्वार्यस्वराश्च भवन्ति॥ 15॥
प्रथमस्वराश्च- द्वितीयस्वराश्च- प्रथमद्वितीयतृतीयस्वराश्च भवन्ति॥ 16॥रथन्तरेऽन्वक्षरं भकारान्॥ १७॥
स्वरवन्ति व्यञ्जनानि- यथाऽक्षरन्दर्शयेत्॥ १८॥
तद्यथा स्वरेण सर्वाणि व्यञ्जननि व्याप्ता,न्येवं सर्वान्कामानवाऽऽप्नोति- यश्चैवँ वेद॥ १९॥
यस्यैते स्वरवन्तᳲ प्रयुज्यन्ते- यश्चैवँविद्वान्प्रयुङ्ते- यथा चाग्निचन्द्रसूर्या भास्वन्तो ऽपहततमस्का- स्तद्वदुद्गातृयजमानौ भवतः॥ २०॥
एवं ह्याह, भात्यग्निर्भाति चन्द्रमा- भाति सूर्यो- भान्ति ज्योतींषि- भाति रथन्तरमिति, भकाराणामेव दीप्तिन्दर्शयति स्वरवताम्॥ २१॥
रथन्तरस्य स्तोभा स्स्वरवन्तᳲ प्रयोक्तव्याः॥ २२॥
यत्र तु व्यञ्जनवन्तᳲ प्रयुज्येरन्क्षोधुकाववध्यायिनावप्रजसा- वुद्गातृयजमानौ स्याता,- न्तस्मादन्बक्षरं प्रयुञ्जान- स्स्वरवन्ति व्यञ्जनानि- यथाऽक्षर न्दर्शयेत्॥ २३॥-
तृतीयः खण्डः
१३ अथैते आनुदेशिक्यौ संहिते यज्ञेन कर्मणा चरिते भवतो,ऽन्ततोनिधनसामान्यादन्तस्सामिकानि निधनानि संप्रसारयन्ति॥ १॥
चतुर्थोदात्ततमा- न्स्वदेरान्द्व्यन्तरानुदूहन्ति- प्रागुपाया,न्न चेत्समानपुरुषवचने॥ २॥तृतीयप्रभृतीना मुदात्ततमᳲ कश्चित्स्वरो भवति, तमुदूह इत्याचक्षते॥ ३॥
तथा च यज्ञे क्रियते॥ ४॥
अरण्येगेयञ्चाधीमहे॥ ५॥
ग्रामेगेयञ्च लाङ्गलानामेवैके बहुलम्॥ ६॥
अनुदात्तमुदात्त मुदात्तञ्चानुदात्त- मवृद्धँ वृद्धँ वृद्धञ्चावृद्ध- मकृष्टङ्कृष्ट- ङ्कृष्टञ्चाकृष्टमि,त्येवं स्तोत्रीयतमं भवति॥ ७॥
अथापि याज्ञिका यज्ञे युक्ता अनुदिशन्त्युदात्तानुदात्तयो रुदात्तं सेवेत- वृद्धावृद्धयोरवृद्धङ्कृष्टाकृष्टयोरकृष्ट,मित्येवं स्तोत्रीयतमं भवति॥ ८॥
विद्या ह वै ब्राह्मणमाजगाम- तवाहमस्मि- त्वं मा पालयस्वा,ऽनर्हते मानिने नैव मा दा- गोपाय मा- श्रेयसे तेऽहमस्मि॥ ९॥
विद्यया सार्धं म्रियेत- न विद्यामूषरे वपेत्॥ १०॥
ब्रह्मचारी- धनदायी- मेधावी- श्रोत्रियᳲ- प्रियो- विद्यया वा विद्याँ यᳲ प्राह- तानि तीर्थानि षण्ममेति॥ ११॥
अथैष आर्चिको निगदो भवति॥ १२॥ य आतृणोत्यवितथेन कर्णावतृप्तङ्कुर्वन्नमृतं संप्रयच्छन्। तं मन्येत पितरं मातरञ्च- तस्मै न द्रह्येत्कतमच्चनाह॥ १३॥
अग्निरिव कक्षन्दहति- ब्रह्मपृष्ठमनादृतम्॥ १४॥
तस्मै ब्रह्म न प्रब्रूयात्॥ १५॥
शक्यमान मकुर्वते॥ १६॥
अतिसंसिद्धमपि गच्छेत विद्यया सह॥ १७॥
ज्ञानवान्न त्वेनामसते दद्यात्॥ १८॥
सतश्च न विमानयेत्॥ १९॥
अथैता वेदस्याष्टावुपनिषदो भवन्ति। वित्तिश्चोपस्तवश्च- दमश्च- श्रद्धा च- संप्रश्नश्चाऽनाकाशीकरणञ्च- योगश्चाऽऽचार्यशुश्रूषा चेति॥ २०॥ (अनाकाशीकरणम् - असच्छिष्याय अप्रकाशः)
तदेतत्कौकुरुण्डेर्वचनँ वेदयन्ते- त्रिभिᳲ पर्यायैर्य स्संपूर्णं पश्यति- च्छन्दस्तो देवतातो निगमत इति- स मन्त्रदर्शी भवति॥ २१॥
अथ य एतैरसंपूर्णं पश्यति- स गाथादर्शी भवति॥ २२॥ते खल्विम एव पूर्वैराचार्यैᳲ प्रोक्ता धर्माᳲ- प्रोक्ता धर्माः॥ २३॥
चतुर्थᳲ खण्डः
ब्रह्मचारी- रूपवानहिंस्र उप पद्यते॥ २॥
स्वर्ग्यं- पर्णाशनात्॥ ३॥
दिविचरᳲ- पयोभक्षः॥ ४॥
स्थानवीराऽऽसनाद्वित्तवान्। ५॥
पितृमातृगुरुशुश्रूषाध्यानवान्स्व्नर्गी॥ ६॥
यᳲ काञ्चनदाता- यावानु वै रसस्तावानात्मा सः॥ ७॥
एष इम एव लोकाः।
अयं स लोक- स्स प्रतिष्ठित एव भवति॥ ८॥प्रतिष्ठित इव ह्ययँ लोकः॥ ९॥
अथ यदुत्तरं- सा द्यौ,र्मूर्तिमत्सु गृहेष्वभि जायते॥ १०॥
त्रीण्याहुरतिदानानि- गावᳲ पृथ्वी सरस्वती॥ ११॥
नरकादुद्धरन्त्येते- जपवापन- दोहना- दुपस्पर्शनात्॥ १२॥
षड्भागङ्करकँ यᳲ प्रयच्छ- त्यपिपासितश्च म्रियते- सोमपश्चाभि जायते- सोमपश्चाभि जायते॥ १३॥- (करकं - करकलक्षणं धनम् स्वार्जितस्य षष्ठमंशं गुरवे दद्यात्)
पञ्चमः खण्डः
अथैषा यजनीयेऽहनि सप्तच्छन्दाः॥ २॥ (सप्तच्छन्दाः विद्या)
अथैषाऽग्निरुपसमाहितो भवति॥ ३॥ (एषा विद्या)
ब्रह्मचारी भैक्षञ्चरति- निवेद्यँ लभते॥ ४॥
तिष्ठत्यहश्शेषो भवति॥ ५॥ (अधश्शयितः)व्रतमिति सारस्वतम्॥ ६॥
अन्नं प्रजापति मपृच्छत्पृच्छामि त्वामिति- वामेति वा॥ ७॥
सर्वत्र दानप्रतिग्रहस्सोमयाज्यपीतो भवति॥ ८॥ (सोमयाजी, अपीतः- अपि इतः आधिक्यन प्राप्तः)
स खलुत एतं- प्रजापतिर्वा इदमेकम्॥ ९॥
अह्नःँ क्षितयः॥ १०॥
पुरुषो वाऽयमीश्वरोऽभिजायते॥ ११॥
अनाकाशीकरणञ्च॥ १२॥
चतुर्ऋचो भवति- य एवँ वेद- य एवँ वेद॥ १३॥ इति संहितोपनिषद्ब्राह्मणं संपूर्णम्॥-