+संहितोपनिषत्

+++(अत्र स्वरा व्यकरणाद् अपेता भान्ति। )+++

वि॒द्या ह वै॑ ब्राह्म॒णमा ज॒गाम॒
गोपा॑य मा॒ शेव॑धिष् टेऽहम् अ॑स्मि ।
असू॑यका॒यानृ॑जवे ऽय॒ताय॒
न मा॑ ब्रूया वी॒र्य॑व॑ती त॒था स्या॑म् ॥

शाखान्तर-रूपम् मध्वोक्तम् (द्रष्टुं नोद्यम्)

विद्या ह वै ब्राह्मणमाजगाम
गोपाय मां शेवधिष्टेऽहम् अस्मि । अनार्यकायानृजवे शठाय
न मां ब्रूया ऋजवे ब्रूहि नित्यम्॥

य आ॑तृ॒णत्य् अ॑वित॒थेन॒ कर्णा॒य दुः॑खं
कु॒र्वन्न् अ॒मृते॑ सं॒ प्रय॑च्छन् ।
तं म॑न्येत पि॒तरं॑ मा॒तरं॑ च॒
तस्मै॒ न द्रु॑ह्येत् क॒तम॑च्च॒ना॑ह ॥

अ॒ध्या॑पि॒ता ये गु॒रुं ना॑द्रिय॒न्ते
विप्रा॑ वा॒चा मन॑सा कर्म॒णा वा॑ ।
यथै॑व॒ ते न॒ गुरो॑र् भोज॒नीया॒स्
तथै॑व॒ तान्न॒ भुन॑क्ति श्रुतं॒ तत् ॥

य॒म् ए॒व वि॒द्याः शु॒चिम् अ॑प्र॒मत्तं॒
मेधा॑विनं॒ ब्रह्म॑चर्योपप॑न्नम् ।
यस् ते॒ न द्रु॒ह्येत् क॒तम॑च्च॒नाह॒
तस्मै॑ मा ब्रूया नि॒धिपा॑य॒ ब्रह्म॑न्