०७ सामविधानब्राह्मणम्

अथ सामविधानब्राह्मणम् प्रथमः प्रपाठकः ब्रह्म ह वा इदमग्र आसीत ॥१॥ तस्य तेजो रसोऽत्यरिच्यत । स ब्रह्मा समभवत् ॥२॥ स तूष्णीं मनसाऽध्यायत् । तस्य यन्मन आसीत् स प्रजापतिरभवत् ॥३॥ तस्मात् प्राजापत्यां मनसा जुह्वति । मनो हि प्रजापतिः ॥४॥ तस्य द्यौः शिर आसीदुरोऽन्तरिक्षं मध्यꣳ समुद्रः पृथिवी पादौ ॥५॥ स वा इदं विश्वं भूतमसृजत । तस्य सामोपजीवनं प्रायच्छत् ॥६॥ उपजीवनीयो भवति य एवं वेद ॥७॥ तद्योऽसौ क्रुष्टतम इव साम्नः स्वरस्तं देवा उपजीवन्ति योऽवरेषां प्रथमस्तं मनुष्या यो द्वितीयस्तं गन्धर्वाप्सरसो यस्तृतीयस्तं पशवो यश्चतुर्थस्तं पितरो ये चाण्डेषु शेरते यः पञ्चमस्तमसुररक्षाꣳसि योऽन्त्यस्तमोषधयो वनस्पतयो यच्चान्यज्जगत्तस्मादाहुः सामैवान्नमिति । साम ह्येषामुपजीवनं प्रायच्छत् ॥८॥ उपजीवनीयो भवति य एवं वेद ॥९॥ तस्य ह वा एतस्य साम्न ऋगेवास्थीनि स्वरो माꣳसानि स्तोभा लोमानि ॥१०॥ यो ह वै साम्नः स्वं यः सुवर्णं वेद स्वं च ह वै साम्नः सुवर्णं च भवति स्वरो वाव साम्नः स्वं तदेव सुवर्णम् ॥११॥ यो ह वै साम्नः प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिꣳश्च लोकेऽमुष्मिꣳश्च वाग्वाव साम्नः प्रतिष्ठा यद्वेतद्वागित्यृगेव सा। ऋचि साम प्रतिष्ठितम् ॥१२॥ स यदा गायत्रं बृहत्यां गायति बार्हतं जगत्यां जागतं त्रिष्टुभिस्समतां चापद्यते तस्मादेतत्सामेत्याह समा उ ह वा अस्मिꣳश्छन्दांसि साम्यादिति तत्साम्नः सामत्वम् ॥१३॥ क्रुष्टः प्राजापत्यो ब्राह्मो वा वैश्वदेवो वाऽऽदित्यानां प्रथमः साध्यानां द्वितीयोऽग्नेस्तृतीयो वायोश्चतुर्थः सौमो मन्द्रो मित्रावरुणयोरतिस्वार्यः॥१४॥ ते देवाः प्रजापतिमुपाधावन् तेऽब्रुवन् कथं नु वयꣳ स्वर्गंल्लोकमियाम इति तेभ्य एतान् यज्ञक्रतून् प्रायच्छदेतैः स्वर्ग्गंल्लोकमेष्यथ इति तैः स्वर्ग्गंल्लोकमायन् ॥१५॥ स्वर्गंुपल्लोकमेति य एवं वेद ॥१६॥ तेषामहीयन्ताजाः पृश्नयो वैखानसावसुरोचिषो ये चापूता ये च कामेप्सवस्तेऽब्रुवन् कथं नु वयं स्वर्ग्गंल्लोकमियाम इति तेभ्य एतत्स्वाध्यायाध्ययनं प्रायच्छत्, तपश्चैताभ्याꣳ स्वर्गंल्लोकमेष्यथेति ताभ्याँ स्वर्ग्गंल्लोकमायन् ॥१७॥ स्वर्ग्गंल्लोकमेति य एवं वेद य एवं वेद ॥१८॥ इति प्रथमः खण्डः॥१/१॥

1.2 अथातस्त्रीन् कृच्छ्रान् व्याख्यास्यामः ॥१॥ हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर्न्नाश्नीयात् ॥२॥ अथापरं त्र्यहं नक्तं भुञ्जीत ॥३॥ अथापरं त्र्यहं न कञ्चन याचेत ॥४॥ अथापरं त्र्यहमुपवसेत् ॥५॥ तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ॥६॥ सत्यं वदेदनार्य्यैर्न सम्भाषेत रौरवयौधाजये नित्यं प्रयुञ्जीत। अनुसवनमुदकोपस्पर्शनमापोहिष्ठीयाभिः। अथोदकतर्पणम्। नमोऽहमाय मोहमाय मꣳहमाय धून्वते तापसाय पुनर्वसवे नमो नमो मौञ्यापणयौर्म्याय सौम्याय शम्याय शिवाय नमो नमः पाराय सुपाराय महापाराय पारदाय पारविन्दाय नमो नमः पुरुषाय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमो नम इत्येतदेवादित्योपस्थानम् एता एवाज्याहुतयः । द्वादशरात्रस्यान्ते स्थालीपाकꣳ श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् अग्ग्नये स्वाहा सोमाय स्वाहा अग्ग्नीषोमाभ्यामिन्द्राग्ग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्ग्नये स्विष्टकृत इति अथो ब्राह्मणतर्पणम् ॥७॥ एतेनैवातिकृच्छ्रो व्याख्यातः॥८॥ यावत्सकृदाददीत तावदश्नीयात ॥९॥ अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥१०॥ प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति द्वितीयं चरित्वा यत्किञ्चिदन्यन्महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते ॥११॥ अथैताꣳस्त्रीन् कृच्छाꣳश्चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्वेषु देवेषु ज्ञातो भवति यश्चैवं वेद यश्चैवं वेद ॥१२॥ इति द्वितीयः खण्डः॥१/२॥

1.3 अथातः स्वाध्यायाध्ययनस्य ॥१॥ काममुक्त्वोपक्रामेदन्ते वा त्रीन् कृच्छ्राꣳश्चरित्वा पूतो भवति अग्ग्निं प्रतिष्ठाप्याग्न्यभावे तूदकमादित्यं वोपसमाधाय दर्भानुपस्तीर्य्य दर्भेष्वासीनः प्राक्कूलेषूदक्कुलेषु वा दक्षिणेन पाणिना दर्भमुष्टिं गृहीत्वा ॥२॥ प्रथमं त्रिवर्ग्गं नवकृत्वो नवकृत्वो गायेत् ॥३॥ एवं सदा प्रयुञ्जानोऽग्न्याधेयमवाप्नोति ॥४॥ इन्द्राय पवते मद इति पवमान हवीꣳष्येतेन कल्पेन ॥५॥ सुवर्महाः सुवर्मया इत्येताभ्यां दर्शपूर्णमासावेतेनैव कल्पेन ॥६॥ भृत्यातिथिशेषभोजी काले दारानुपेयात् यथाशक्ति चातिथिभ्यो दद्यादप्युदकमन्ततः एवंव्रतो यदिन्द्राहं यथा त्वम् इत्येते सदा प्रयुञ्जीत सुवर्महाः सुवर्मया इत्येते च पर्व्वणि तथा हास्याग्ग्निहोत्रमविलुप्तꣳ सदा हुतं स दर्शपूर्णमासं भवति ॥७॥ कर्म्मान्तेऽग्ग्निं प्रतिष्ठाप्य व्रीहियवाँꣳस्तण्डुलाꣳस्त्रिः प्रक्षाल्य जुहुयात् अग्ग्नये स्वाहा सोमाय पवित्रवते वरुणाय धन्वन्तरये मनसा प्राजापत्यां ब्रह्मणे अग्ग्नये स्विष्टकृत इति पश्चात् ॥८॥ अथातः पाञ्चरात्रिकाणाम्। व्रीहियवौ भोजनमसौहित्यमन्ते त्वग्न्यादिरुक्तः कल्पः काम्यानां चाविप्रतिषेधस्तमिन्द्रं वाजयामसीति चतुर्वर्गेण चातुर्मास्यान्यवाप्नोति, अस्य प्रेषेति पाशुकानि ॥९॥ त्रातारमिन्द्रं यजामह इत्येताभ्यां पशुबन्धम् ॥१०॥ पयोव्रत एतेन कल्पेन बृहदिन्द्राय गायतेति चतुर्वर्गेण सौत्रामण्यौ सौत्रामण्यौ ॥११॥ इति तृतीयःखण्डः॥१/३॥ 1.4 अथातः साप्तरात्रिकाणां भैक्षं पयो वा व्रतमेके भैक्षार्थायैव ग्रामं प्रविशेन्नान्यत्र स्वाध्यायाद्वाचमुत्सृजेदधः शयीत नापोऽभ्यवेयादन्ते त्वग्न्यादिरुक्तः कल्पः। काम्यानां चाप्रतिषेधः ॥१॥ ईङ्खयन्तीरिति दशतꣳ रथन्तरं च वामदेव्यं चैतान्यनुसवनं प्रयुञ्जानोऽग्निष्टोममवाप्नोति ॥२॥ यज्ञायज्ञा वो अग्ग्नय इति चतुर्वर्गेणात्यग्निष्टोमं नमस्ते अग्ग्न ओजस इति दशतोक्थ्यम् पुनानः सोम धारयेति वर्गेण षोडशिनं परीतो षिञ्चता सुतमिति वर्गेणातिरात्रम् ॥३॥ पयोव्रत एतेन कल्पेन तिस्रो वाच उदीरत इति वर्गेण वाजपेयम् ॥४॥ मासमेतेन कल्पेनाव इन्द्रं कृविं यथेति दशताप्तोर्य्यामाणम् ॥५॥ मासं चतुर्थे काले भुञ्जान आजुहोता हविषा मर्जयध्वमिति दशता द्वादशाहम् ॥६॥ सँवत्सरमेतेन कल्पेनाबोध्यग्ग्निरिति दशतं रथन्तरं च वामदेव्यं च बृहच्च वैरूपञ्च वैराजं च महानाम्न्यश्च रेवत्यश्चैतान्यनुसवनं प्रयुञ्जानो गवामयनमवाप्नोति ॥७॥ राजनरौहिणाभ्यां तापश्चिते ॥८॥ पयोव्रत एतेन कल्पेन सोमः पवते जनिता मतीनामिति चतुर्व्वर्गेण चातुर्मास्यानि सौमिकान्यवाप्नोति ॥९॥ संवत्सरमष्टमे काले भुञ्जानो ग्राम्यमन्नं प्र तु द्रवेति दशतमावर्तयन् नैमिशीयं द्वादश सँवत्सरमवाप्नोति ॥१०॥ आग्नेयमैन्द्रं पावमानमित्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानः शतसँवत्सरमवाप्नोति ॥११॥ सर्वं प्रयुञ्जानः सहस्रसँवत्सरमवाप्नोत्यनश्नन् सँहिता सहस्रेण वा पृष्ठोपतापशतसहस्रेण वा ॥१२॥ प्रथमस्त्रिवर्गः सावित्र्यां गायत्रं महानाम्न्यश्चैषामृता नाम सँहितैतया वै देवा अमृतत्वमायन् ॥१३॥ अमृतत्वमेति य एवं वेद ॥१४॥ इदꣳ ह्यन्वोजसेति प्रथमोत्तमे त्वामिदा ह्यो नरः स पूव्यो महोनां पुरां भिन्दुर्युवा कविरुपप्रक्षे मधुमति क्षियन्तः पवस्व सोम मधुमाँ ऋतावा सुरूपकृद्राहसं माधुच्छन्दसमेषा माधुच्छन्दसी नाम सँहितैतया वै देवाः स्वर्ग्गंल्लोकमायन् ॥१५॥ स्वर्ग्गंल्लोकमेति य एवं वेद ॥१६॥ आ वो राजा तद्वोवर्ग्ग आज्य दोहानि देवव्रतानि चैषा रौद्री नाम सँहितैतां प्रयुञ्जन् रुद्रं प्रीणाति ॥१७॥ इदं विष्णुः प्रक्षस्य वृष्णः प्रकाव्यमुशनेव ब्रुवाण इति वाराहमन्त्यं पुरुषव्रते चैषा वैष्णवी नाम सँहितैतां प्रयुञ्जन् विष्णुं प्रीणाति ॥१८॥ अदर्दः सुष्वाणास आ तू न इति वर्ग्गा मृज्यमानः सुहस्त्या इति प्रथमषष्ठे चैषा वैनायकी नाम संहितैतां प्रयुञ्जन् विनायकं प्रीणाति ॥१९॥ आ मन्द्रैरिन्द्र हरिभिरा नो विश्वासु हव्यं प्र सेनानीरिति वर्ग्गाः पवित्रन्त इति द्वे एषा स्कन्दस्य सँहितैतां प्रयुञ्जन् स्कन्दं प्रीणाति ॥२०॥ यद्वा उ विश्पतिः सनादग्ग्नेऽक्षन्नमीमदन्त ह्यभित्रिपृष्ठमक्रान्त्समुद्रः कनिक्रन्तीति द्वे एषा पित्र्या नाम सँहितैतां प्रयुञ्जन् पितॄन् प्रीणाति ॥२१॥ आस्यदघ्न उदके तिष्ठन्नक्ये नाकी इत्येतत् त्रिःसप्तकृत्वो गायेदेतत सर्व्ववाचोगतसंमितमेतेन सर्वान् कामानवाप्नोति ॥२२॥ यश्चैवँ वेद यश्चैवँ वेद ॥२३॥ इति चतुर्थः खण्डः॥१/४॥

1.5 अथातः प्रायश्चित्तानाम् ॥१॥ अनादेशे मन्त्रा बलवन्तस्तपोऽन्विताः पावना भवन्ति ॥२॥ आपन्नः प्रायश्चित्तं चरेत ॥३॥ अभ्यासः साम्नाꣳ शतं दशावरम् ॥४॥ काहलमुक्त्वा दधिक्राव्णो अकारिषमित्येतद्गायेत् ॥५॥ परुषमुक्त्वेदं विष्णुर्विचक्रम इति ॥६॥ ब्राह्मणमुक्त्वा त्रिः ॥७॥ भ्रातरं मातुलं पितृव्यमिति गुरुजातीयान् प्रसाद्य पक्षिणीꣳ रात्रिमुपोष्य तवाहँ सोम रारणेति प्रथममेकविꣳशतिकृत्वः ॥८॥ उपाध्यायं मातरं पितरमित्येतेषु त्रिरात्रमुपवसन्नेतस्यैवान्त्यम् ॥९॥ अनध्याप्यमध्याप्य सप्तरात्रमुपवसन् सदा गावः शुचयो विश्व धायस इत्येतद्गायेत्॥१०॥ अयाज्ययाजने दक्षिणास्त्यक्त्वा मासं चतुर्थे काले भुञ्जानः कानी इत्येतद्गायेत् ॥११॥ अमेध्यदर्शने ये ते पन्था अधो दिव इति तथामेध्यघ्राणे ॥१२॥ अभोज्यभोजने ऽमेध्यप्राशने वा निष्पुरीषी भावस्त्रिरात्रावरं तूपवसन्नेतोन्विन्द्रꣳ स्तवाम शुद्धमिति पूर्वं सदा सहस्रकृत्व आवर्तयन् ॥१३॥ बहून्यप्युपपतनीयानि कृत्वा त्रिभिरनश्नत्पारायणैः पूतो भवति ॥१४॥ सुरां पीत्वा संवत्सरमष्टमे काले भुञ्जानो यत्पाण्योः सम्भवेदवाङ्नाभ्यूर्ध्वं जानु बर्हितस्त्रिरह्न उपस्पृशꣳस्तथा रात्रौ स्थानासनाभ्यां तिष्ठेदहनि रात्रावासीत पवित्रन्त इत्युत्तरेणाहोरात्राणि जपन् ग्रामद्वारे स्थानासन भोजनानि यत्र लभेत्तत्र वसेन्न प्रवसेत् । स्वकर्मणाभिभाषेत। चतुर्णां ब्राह्मणानामग्रतः प्राश्नीयात् ग्रामद्वारस्यैवाग्रत आवश्यकायामभिक्रामेदतोऽन्यथा शङक्यम्। पूर्णे संवत्सरे तैलँ लवणं क्षुरमग्ग्निं गां बीजानीत्यालब्धवन्तं ब्राह्मणा ब्रूयुश्चरितं तवेत्यों भो इति ब्रूयात् सप्तावरान् सप्तपरान् हन्त्यनृतं चरितं तव सुचरितं तवेत्यों भो इति ब्रूयादत ऊर्ध्वं केशश्मश्रु लोमनखानि वापयित्वाहतँ वसनं परिधाय ब्राह्मणान् स्वस्ति वाचयित्वा पूतो भवति ॥१५॥ एतेन कल्पेन भ्रूणहा पूर्वमेतेन ब्रह्महा शुद्धाशुद्धीयमुत्तरमेतेन सुवर्णस्तेनोऽभित्रिपृष्ठमित्यभित्रि पृष्ठमिति ॥१६॥ इति पञ्चमः खण्डः ॥१/५॥

1.6 ब्राह्मणस्वꣳ हृत्वा मासमुदके वासश्चतुर्थे काले भोजनं दिवा बहिरास्याद् व्रतान्ते शुक्रं ते अन्यद्यजतं ते अन्यदित्येतद्गायेत् ॥१॥ अन्यस्य हृत्वा कृच्छ्रं चरन्नयꣳ सहस्रमानव इति द्वितीयम् ॥२॥ गुरुदारान् गत्वा सुरापकल्पेन अक्रानित्येतद्गायेत् ॥३॥ ब्राह्मणदारान् गत्वा त्रीन् कृच्छ्राꣳश्चरन् ब्रह्मजज्ञानमिति पूर्वम् ॥४॥ अन्यस्य गत्वा कृच्छ्रश्चरनरण्योरित्येतत् ॥५॥ शूद्रां गत्वा त्रिरात्रमुपवसन्निडामग्ग्न इत्येतत् ॥६॥ अकाले दारानुपेत्य त्रीन् प्राणायामानायम्य कयानाया द्वितीयमावर्त्तयेत् ॥७॥ ब्राह्मणाद्वार्धुषिꣳ हृत्वा त्रीन् कृच्छ्राꣳश्चरन् ब्रह्मजज्ञानमित्युत्तरम् ॥८॥ अन्यस्य हृत्वा कृच्छ्रंश्चरन्ननु हित्वा सुतꣳ सोमेत्यनु हि त्वा सुतꣳ सोमेति ॥३॥ इति षष्ठः खण्डः॥१/६॥

1.7 राज्ञः प्रतिगृह्य मासमुदके वसन् दिवा भुञ्जानो महत्तत्सोमो महिषश्चकारेत्येतद्गायेत् ॥१॥ अन्यस्याप्रतिग्राह्यस्य कृच्छ्रंश्चरꣳस्त्रिकद्रुकेष्वित्येतत् ॥२॥ अदत्तादान एकरात्रमुपवसन्नग्ग्निस्तिग्मेनेति द्वितीयम् ॥३॥ ब्राह्मणायावगूर्य्य प्राणं गायेन्निहत्यापानँ शोणिते क्षरति प्र सोम देववीतय इति द्वितीयम् ॥४॥ राजन्यवैश्यौ सवनगतौ हत्वा ब्राह्मणस्वकल्पेन शुद्धाशुद्धीयमुत्तरम् ॥५॥ शूद्रꣳ हत्वा द्वादश रात्रमुपवास उदके च वासोऽयं त इन्द्र सोम इति द्वितीयम् ॥६॥ गाꣳ हत्वा द्वादशरात्रमुपवास उदके च वासो वयं घ त्वा सुतावन्त इति द्वितीयम् ॥७॥ अन्यत्प्राणिहत्वैकरात्रमुपवसन् अग्ग्निस्तिग्मेनेति द्वितीयम् ॥८॥ अवकीर्णी त्रीन् कृच्छ्राꣳश्चरन् परीतो षिञ्चता सुतमिति चतुर्थमावर्त्तयेत् ॥९॥ एतेन कल्पेन परिवेत्ता परिविन्दश्च सोमꣳ राजानं वरुणमित्येतत् ॥१०॥ अयोनौ रेतः सिक्त्वाग्निर्मूर्द्धा घृतवती द्वितीयं यदितस्तन्वो ममेति च ॥११॥ शूद्रजीविकायां सेवित्वोपरम्य त्रीन कृच्छाꣳश्चरꣳश्चक्रमित्येतद्गायेत् ॥१२॥ वैश्यजीविकायाँ वयः सुपर्णा इत्येतत् राजन्यजीविकायां पवस्व सोम मधुमाँ ऋतावेत्येतदभित्यं मेषमिति वा ॥१३॥सदा प्रयोगः ॥१४॥ ब्राह्मणमनृतमभिशस्य तत्पापं प्रतिपद्यते गुह्यं प्रकाशयन्नर्धभाग्भवति ॥१५॥ अग्ग्निस्तिग्मेन इति वर्गं प्रयुञ्जानस्तेन तत्तरति तेन तत्तरति ॥१६॥ इति सप्तमः खण्डः ॥१/७॥

1.8 रसान्विक्रीय कृच्छ्रंश्चरन् घृतवती द्वितीयम् ॥१॥ उभयतोदन्तान् विक्रीय कृच्छ्रंश्चरन् को अद्य युङ्क्त इत्येतत् ॥२॥ तान् प्रतिगृह्यैतेनैव कल्पेन शं पदमि त्येतत् ॥३॥ अदत्तां कन्यां प्रकृत्य कृच्छ्रंश्चरन्नभ्रातृव्यो अनात्वमित्येतद्गायेत् ॥४॥ तां प्रतिगृह्यैतेनैव कल्पेन शं पदमित्येतत् ॥५॥ अभ्युदितो भद्रो नो अग्ग्निराहुत इत्येतद्गायेदभ्यस्तमितो न तस्य मायया च नेति ॥६॥ दुःस्वप्नेष्वद्या नो देव सवितरिति द्वितीयम् ॥७॥ अन्यस्मिꣳस्त्वनाज्ञाते कयानाया द्वितीयमावर्त्तयेत् ॥८॥ अग्निदग्धे घताक्तान यवाञ्जुहुयाज्जातः परेण धर्मणे त्येतेनाग्ग्नये स्वाहेति च ॥९॥ मूषिकजग्धे तिलाञ्जुहुयान्नकि देवा इनीमसीतीन्द्राय स्वाहेति च ॥१०॥ कूर्च्चनाश एकरात्रमुपवसन्नग्निस्तिग्मेनेति द्वितीयम् ॥११॥ अन्यस्मिꣳस्त्वनाज्ञाते यँ वृत्रेष्विति द्वितीयम् ॥१२॥ मनुष्येष्वभि वातेषु घृताक्तानाँ यवानामाढकं जुहुयादग्ग्ने त्वन्नो अन्तम इति चतुर्वर्गेण सामान्तेषु स्वाहाकारैरग्ग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहेति च स्नेहवदमाꣳसमन्नं ब्राह्मणान भोजयित्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति ॥१३॥ गोष्वभिवातासु घृताक्तानां यवानामाढकं जुहुयादा वो राजानमित्येतेन रुद्राय स्वाहेति च यावतीर्धूमः स्पृशति स्वस्ति हासां भवति ॥१४॥ अश्वेष्वभिवातेषु घृताक्तानाँ यवानामाढकं जुहुयादश्वी रथी द्वितीयेनाश्विभ्याꣳ स्वाहेति च यावतीर्धूमः स्पृशति स्वस्ति हैषां भवति स्वस्ति हैषां भवति ॥१५॥ इत्यष्टमः खण्डः॥१/८॥ इति प्रथमः प्रपाठकः

2.1 अथ द्वितीयः प्रपाठकः अथातः काम्यानाम् ॥१॥ अनादेशे त्रिरात्रमुपवासः पुष्येणारम्भः ॥२॥ आयुष्याण्येव प्रथमम् ॥३॥ अबोध्यग्निर्म्महित्रीणामिति द्वे त्वावत इन्द्रꣳ नरो ग्रामे गेयमायुरिति चास्य निधनं कुर्य्यात्, त्यमूषु द्वे त्रातारमिन्द्रꣳ हविरित्येतस्य स्थाने स्वस्ति न इति सोमः पुनान्त्यꣳ ससुप्रथमं विश्वतो दावन्निति पूर्वं रहस्य उदुत्तमं वरुण पाशमित्येषोऽरिष्टवर्ग एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः शतँ वर्षाणि जीवति । जरयैव विस्रꣳसते ॥४॥ भ्राजाभ्राजे शुक्रचन्द्रे राजनरौहिणके शुक्रियाद्ये हाउ स्वरतादीनि चत्वारि सेतुषाम चैषः पवित्रवर्ग एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः पूतो भवति ॥५॥ बहुप्रतिगृह्य याजयित्वा वासन्नमात्मानं मन्यमानो गौषूक्ताश्वसूक्ते शुद्धाशुद्धीये तरत्समन्दीत्येतानि प्रयुञ्जानः पूतो भवति ॥६॥ तवश्यावीयं प्रयुञ्जानः शुचिः पूतो ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्त्तते॥७॥ उदुत्तमँ वरुणपाशमित्येतत् सदा प्रयुञ्जानः सम्बाधं न निगच्छति निगतश्च प्रमुच्यते ॥८॥ गौरसर्षपाꣳ स्तुचे तुनाय तत्सु न इत्येतेन प्राश्नीयाद्दीर्घायुर्भवति॥९॥ त्रीन्वोदकाञ्जलीन् सदाचामेत् पिबा सोममिन्द्र मन्दतु त्वेत्येताभ्यां दीर्घायुर्भवति दीर्घायुर्भवति ॥५॥ इति प्रथमः खण्डः॥२/१॥

2.2 अथ यस्या जातानि प्रमीयेरन् न्यग्रोधशुङ्गाꣳ शरमूलं चोत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्ग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायाबोध्यग्ग्निरित्येतेनाभिजुहुयात् । सहस्रकृत्वः शतावरं तृतीये गर्भमासि निदध्यादाज्यशेषं मेखलायां मणिं धारयेत् पुमाꣳसꣳ ह जनयति जातस्य कण्ठेऽवसजेत् कुमारमाज्यशेषं प्राशयेत् सर्वाणि स्रोताꣳसि तर्पयेदभ्यञ्जीताहरहस्तत ऊर्ध्वमुपयुक्ते पुनः प्रयोगः। शतँ वर्षाणि जीवति जरयैव विसँसते ॥१॥ अथ यो रक्षसा गृहीतः स्यादशनिहतस्य वृक्षस्येध्मः, शुक्लाया गोः सरूपवत्साया अन्यस्या वाज्यं, बैल्वं मणिमुत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायेन्द्र त्रिधातु शरणमित्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयन् मुच्यते रक्षसा यद्वा उ विश्पतिरिति चैतत्सदा प्रयुञ्जीत स्वस्ति हास्य भवति ॥२॥ आमयावी कौम्भ्यं घृतं विश्वाः पृतना अभिभूतरं नर इत्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरं जीवेति चास्य निधनं कुर्यादेतेनैव सदा प्राश्नीयान्मुच्यते आमयाव्यानो मित्रा वरुणेति चैतत्सदा प्रयुञ्जीत स्वस्ति हास्य भवति स्वस्ति हास्य भवति ॥३॥ इति द्वितीयः खण्डः ॥२/२॥

2.3 अथ यदस्य रुजेच्छन्नो देवी रहस्येन घृतमभिगीयाभ्यञ्ज्याच्छाम्यति ह ॥१॥ द्विकाद्येन वोदकं पाययेच्छीताभिरद्भिरभिषेचयेत्सोमꣳ राजानꣳ सनादग्ग्नेऽग्ग्निꣳ होतारमित्येतानि चैनमभिश्रावयेच्छाम्यति ह ॥२॥ शङ्खपुष्पीꣳ सर्पसुगन्धां चोत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्ग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय चर्षणीधृतमिति वर्गेणाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयतो न सर्पभयं भवति कयानायां च सर्पसाम सदा प्रयुञ्जीत स्वस्ति हास्य भवति ॥३॥ श्वेतपुष्पां बृहतीमुत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्ग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय मोषु त्वा वाघतश्च न इत्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयतो न शस्त्रभयं भवति यत इन्द्र भयामह इति चैतत्सदा प्रयुञ्जीत स्वस्ति हास्य भवति ॥४॥ श्वेतपुष्पमर्क्कमुत्थाप्य तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय स्वाशिरामर्क्केणाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयन बह्वन्नो भवति ॥५॥ दीर्घतमसोऽर्कोऽर्क्कशिरोऽर्कग्रीवा इति चैतानि प्रयुञ्जानः सर्वत्रान्नं लभते ॥६॥ समन्यायन्ती निधनं प्रयुञ्जानो न पिपासया म्रियते ॥७॥ इष्टाहोत्रीयं प्रयुञ्जानो नाप्सु म्रियते ॥८॥ अचोदस इति तृतीयं प्रयुञ्जीत नैनं यक्ष्मा गृह्णाति ॥९॥ त्वमिमा ओषधीरित्येतत्सदा प्रयुञ्जानो न गरेण म्रियते ॥१०॥ सं ते पयाँसीति पूर्वेण प्रथमं ग्रासं ग्रसेदुत्तरेण निगिरेद्विषमप्यस्यान्नं भवति । नैनꣳ हिꣳसति नैनꣳ हिꣳसति ॥७॥ इति तृतीयः खण्डः ॥२/३॥

2.4 करवीरदण्डमुत्थाप्य देवव्रतैरभिजुहुयादनुगानशस्तेन हस्तगतेन यत्र क्व च गच्छति सर्वत्र हास्य स्वस्ति भवति ॥१॥ तेन नगरं वा निगमँ वा ग्रामँ वा गोष्ठं वाऽऽगारं वा मनसा ध्यायन्परिलिखेन्नात्रानिष्ठाः प्रविशन्ति ॥२॥ प्रतिभयेऽध्वनि देवव्रतमाद्यं गीत्वा मध्यममावर्त्तयेत् गतेऽध्वन्युत्तमꣳ समापयित्वा विरमेत् ॥३॥ उद्यतशस्त्रान् शत्रून् दृष्ट्वा देवव्रतानि ध्यायन्नैनꣳ हिꣳसन्ति ॥४॥ अमानुषे भये कयानायास्तृतीयमावर्त्तयेन्नैनꣳ हिꣳसन्ति ॥५॥ अध्वानमभ्युत्थित आमन्द्रैरिति वर्गं गीत्वाऽनपेक्षमाणो व्रजेत् स्वस्त्यर्थचरितः पुनरैति नाध्वनि च प्रमीयते ॥६॥ अन्यो वैनमनुगायेत् कदाचनस्तरीरसीत्येतेन चैनमभिश्रावयेदर्धसाम्नि प्रदक्षिणमावर्त्तयेत् समाप्यानपेक्षमाणः परो व्रजेत स्वस्त्यर्थचरितः पुनरैति नाध्वनि च प्रमीयते ॥७॥ एषो उषा अपूर्व्येति सँविशन् सदा प्रयुञ्जीताकालꣳ स्वस्त्ययनमुदिते यदद्य कच्च वृत्रहन्नित्याकालꣳ स्वस्त्ययनम् ॥८॥ मूलफलैरुपवसथं कृत्वा मासमुपवसेदरण्ये निस्तान्तवो मुनिर्य्या रौहिणी वा पौषी वा पौर्णमासी स्यात्तदहरुद्यन्तमादित्यमुपतिष्ठेतोद्वयं तमसस्परीत्येतेन तत ऊर्ध्वं तद्व्रतस्तद्भक्षश्चत्वारि वर्षाणि प्रयुञ्जानो जरामृत्यू जहाति जरामृत्यू जहाति ॥९॥ इति चतुर्थः खण्डः ॥२/४॥

2.5 अथैकमनुष्याणामावर्त्तनँ स्त्रिया वा पुँसो वा ॥१॥ श्रवणेन व्रतमुपेत्य पूर्वैः प्रोष्ठपदैः ॥२॥ पाꣳसुभिः प्रतिकृतिं कृत्वा प्राक्शिरसं पूर्वाह्णे दक्षिणशिरसं मध्याह्ने प्रत्यक्शिरसमपराह्णेऽर्धरात्र उदक्शिरसं तस्या हृदयदेशमधिष्ठाया यन्त इन्द्र सोम इति ब्राह्मणस्येदन्त एकमिति क्षत्रियस्यैष प्रकोश इति वैश्यस्य विभोष्ट इन्द्र राधस इति शूद्रस्योद्वयन्तमसस्परीति वा सर्वेषाꣳ सौवर्णी प्रतिकृतिं कुर्य्याद् ब्राह्मणस्य राजतीं क्षत्रियस्यौदुम्बरीं वैश्यस्यायसीꣳ शूद्रस्यौदुम्बरीं वा सर्वेषामयमसाविति प्राक्शिरसमग्ग्नौ प्रतिष्ठाप्यौदुम्बरेण स्रुवेणाज्येनाभिजुहुयाच्छाव इतीनिधनेन गुणी हास्य भवति ॥३॥ कृष्णव्रीहीणां नखनिर्भिन्नानां पिष्टमयीं प्रतिकृतिं कृत्वा पिष्टस्वेदꣳ स्वेदयित्वा सर्षपतैलेनाभ्यज्य तस्याः क्षुरेणाङ्गान्यवदायाग्नौ जुहुयात् प्र मन्दिन इत्येतेन शेषꣳ स्वयं प्राश्नीयादितरथाभावे म्रियेत ॥४॥ अथ यः कामयेता वर्त्तयेयमित्येकरात्रं क्षुरसँयुक्तस्तिष्ठेत् सुतासो मधुमत्तमा इति वर्गमेतेषामेकमनेकँ वा सर्वाणि वा प्रयुञ्जान एकरात्रेण कुटुम्बिनमावर्त्तयति ॥५॥ द्विरात्रेण राजोपजीविनं त्रिरात्रेण राजानं चतूरात्रेण ग्रामं पञ्चरात्रेण नगरꣳ षड्रात्रेण जनपदꣳ सप्तरात्रेणासुररक्षाꣳस्यष्टरात्रेण पितृपिशाचान्नवरात्रेण यक्षान् दशरात्रेण गन्धर्वाप्सरसोऽर्धमासेन वैश्रवणं मासेनेन्द्रं चतुर्भिः प्रजापतिꣳ सँवत्सरेण यत्किञ्च जगत्सर्वꣳ हास्य गुणी भवति गुणी भवति ॥६॥ इति पञ्चमः खण्डः ॥२/५॥

2.6 अथातः सौभाग्यानाम् ॥१॥ यदिन्द्रो अनयदुच्चा ते जातमन्धस इति नवमदशमे एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः सुभगो भवति ॥२॥ द्वन्द्वाद्यायाः सप्तमाष्टमाभ्यामिन्द्राणीꣳ सदा तर्पयन् सुभगो भवति ॥३॥ अपामार्गं दन्तपवनं घृतमधुलिप्तं भद्रो नो अग्ग्निराहुत इत्येतेनानिष्ठीवन् सँवत्सरं भक्षयन् सुभगो भवति ॥४॥ भगो न चित्र इत्येताभ्यामञ्जयन् सुभगो भवति ॥५॥ इममिन्द्रेति वर्गं प्रयुञ्जानः सर्वजनस्य प्रियो भवति ॥६॥ परि प्रिया दिवः कविरित्येते यां कामयेत्ताँ श्रावयेत्कामयते हैनम् ॥७॥ अथ यास्य न गुणी स्यात्तां ब्रूयादाचामेतीन्द्रो विश्वस्य राजतीत्येताभ्यामाचामेत् ॥८॥ पदपाꣳसून्वास्याग्नौ जुहुयाद्ये ते पन्था अधो दिव इति ॥९॥ तैलँ वैनाँ याचित्वा पाणी परिमृद्वन्नग्नौ प्रतापयेदग्ग्न आयाहि वीतय इति द्वितीयेन नानागतायाँ विरमेत् ॥१०॥ गोजरायुकमहस्तस्पृष्टꣳ शोषयित्वा प्रियङ्गुकाꣳ सहाꣳ सहदेवा मध्यण्डां भूमिपाशकाꣳ सचां काचपुष्पीमित्येता उत्थाप्य तदहश्चूर्णानि कारयेदा नो विश्वासु हव्यमित्येतेन त्रिः सम्पाताꣳश्चूर्णेषु कृत्वा अग्ग्न आयाहि वीतय इति रहस्येनाद्भिः सँयूय तानि नाशुचिः पश्येद्वोपस्पृशेद्वा तदनुलेपनमेतेनानुलिप्तो याँ यामुपस्पृशते सा सैनं कामयते ॥११॥ गम्यां नास्नात उपस्पृशेत् ॥१२॥ उत्पले बुद्धे प्रियङ्गुका आवपेद्यदा पर्णानि सँहरेदथैनमुत्थाप्य चतुरङ्गुलमुभयतः परिच्छिद्य मध्यमुद्धरेत्तदनुलेपनम्, तेनानुलिम्पेदवाꣳशं च नि त्वा नक्ष्य विश्पत इत्येतेनास्य वेशस्थाः प्रव्रजिताश्च वश्या भवन्ति ॥१३॥ कन्याप्रवहण एकरात्रोपोषितोऽमावास्यायां निशि चतुष्पथ एह्यूषु ब्रवाणि त इत्येतेनाभिषिञ्चेत् त्रिरभिषिक्ता प्रदीयते ॥१४॥ आ ते वत्साः इति पुंसः ॥१५॥ त्रिरात्रोपोषितः कृष्णचतुर्दश्याꣳ शवादगारमाहृत्य चतुष्पथे बाधकमिध्ममुपसमाधाय मत्स्यं कृकरमित्येतौ जुहुयादग्ग्ने मृड महाꣳ असीति पूर्वेणाग्ग्निर्वृत्राणीति द्वितीयां। ते आहुती कोशे कृत्वा हरितालेन गोहृदयशोणितेन चोत्तरेण संनयेद्यं द्विष्यात् प्रमꣳहिष्ठीयेनास्य शय्यामवकिरेदगारं च भस्मना नैकग्रामे वसति ॥१६॥ अथातो यशस्यानां त्वमिन्द्र यशा असि, पवते हर्य्यतो हरिरित्येतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानो यशस्वी भवति ॥१७॥ प्रियङ्गुका वा पुष्येणाभिजुहुयाद्यशो मेति तदनुलेपनम् तेनानुलिम्पेत् संवत्सरम्। यशस्वी भवति यशस्वी भवति ॥१८॥ इति षष्ठः खण्डः ॥२/६॥

2.7 अथातो ब्रह्मवर्चस्यानाँ। रथन्तरं वामदेव्यं नौधसꣳ श्यैतं महानाम्न्यो यज्ञायज्ञीयमित्येतेषामेकमनेकँ वा सर्वाणि वा प्रयुञ्जानो ब्रह्मवर्चसी भवति ॥१॥ कस्तमिन्द्रेति द्विकं प्रयुञ्जानो ब्रह्मवर्चसी भवति श्रद्धा चास्य भवति ॥२॥ जगृह्मा त इति षड्वर्गं प्रयुञ्जानो ब्रह्मवर्चसी भवति ॥३॥ अष्टरात्रोपोषितो ब्राह्मीमुत्थाप्य प्रजापतेर्हृदयेनाभिगीय सहस्रकृत्वः प्राश्नीयाच्छ्रुतनिगादी भवति ॥४॥ पुष्पाणि वास्या उदकेन संवत्सरं यण्वेन प्राश्नीयाच्छ्रुतनिगादी भवति ॥५॥ मासꣳ सोमभक्षः स्यात्सदसस्पतिमद्भुतमित्येतेन श्रुतनिगादी भवति ॥६॥ सदा वैतत्प्रयुञ्जीत श्रुतनिगादी भवति ॥७॥ भारद्वाजिकाया जिह्वामुत्थाप्य तदहश्चूर्णं कारयित्वा मधुसर्पिभ्याꣳ सँयूय प्रागन्नप्राशनात्कुमारं प्राशयेदिन्द्रमिद्गाथिनो बृहदित्येतेन श्रुतनिगादी भवति ॥८॥ हरिद्रायास्तुलावरार्द्धं चूर्णयित्वैतेनैव कल्पेन संवत्सरं यण्वेन प्राश्नीयाच्छ्रुतनिगादी भवति ॥९॥ वचामेतेन कल्पेन वाचोव्रतेन पूर्वेण प्राश्नीयाच्छ्रुतनिगादी भवति ॥१०॥ मत्स्याक्षक शङ्खपुष्पी वचा केरडी घृतानि बार्ह द्गिरेणाभिजुहुयात्सहस्रकृत्वः शतावरमेतेनैव प्राश्नीयाच्छ्रुतनिगादी भवति ॥११॥ वचायास्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधाय वाचोव्रतेनोत्तरेणाभिजुहुयात् सहस्रकृत्वः शतावरन्तं मणिं कण्ठेन शिरसा वा धारयन् कथासु श्रेयान् भवति ॥१२॥ वचां मधुकमित्येते आस्येऽवधायापां फेनेनेत्येतन्मनसानुद्रत्यान्ते स्वाहाकारेण निगीर्य्य राजन्वानहमराजकस्त्वमसीत्युक्त्वा विवदेत् पर्षदि राजनि चोत्तरवादी भवत्युत्तरवादी भवति॥१३॥ इति सप्तमः खण्डः॥२/७॥

2.8 अथातः पुत्रीयाणाम् ॥१॥ नि त्वा नक्ष्य, नि त्वामग्ग्ने, प्रयोरायेऽयमग्निः सुवीर्य्यस्य, जातः परेण, न हि वश्चरमञ्च न, सोमः पवते जनिता मतीनामिति सर्वाण्यपत्यं नित्यवत्साः , रथन्तरं, व्याहृतिवर्ग्गोऽरूरुचदिति द्वे एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः सुरूपान् दीर्घायुषः पुत्राँल्लभते ॥२॥ रोहिण्याँ वा रोहिण्या गोः सरूपवत्सायाः पयसि रक्तशालीनां स्थालीपाकꣳ श्रपयित्वा परमेष्ठिनः प्राजापत्यस्य व्रतेनाभिजुहुयात् सहस्रकृत्वः शतावरमेतेनैवाभिगीयोद्धृत्य सभार्यः प्राश्नीयात् सुरूपान् दीर्घायुषः पुत्राँल्लभते॥३॥ कृष्णाया गोस्सरूपवत्सायाः पयसि कृष्णषष्टिकाणाꣳ स्थालीपाकꣳ श्रपयित्वा कृष्णपञ्चम्यामुदिते सोमे त्वमिमा ओषधीरित्येतेनाभिजुहुयात् सहस्रकृत्वः शतावरमेतेनैवाभिगीयोद्धृत्य सभार्यः प्राश्नीयात् सुरूपान् दीर्घायुषः पुत्राँल्लभते ॥४॥ कौम्भ्यं घृतं पुरुषव्रतेनाभिजुहुयादनुगानश उत्तरेण सदा प्राश्नीयात् सुरूपान् दीर्घायुषः पुत्राँल्लभते ॥५॥ उडङ्गवानाँ योऽग्रे गच्छेत् तं गृहीत्वा तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायोच्चा ते जातमन्धस इति तृतीयेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयञ्च्छतानुचरो भवति शतानुचरो भवति ॥६॥ इत्यष्टमः खण्डः॥२/८॥ इति द्वितीयः प्रपाठकः

अथ तृतीयः प्रपाठकः अथातो धन्यानाम् ॥१॥ शुक्लवाससा प्रयोगः स्नानमवलेखनमनिष्ठीवनꣳ सदा चाञ्जनꣳ सत्यवचनꣳ सुमनसां धारणं केशश्मश्रुलोमनखानां तु नान्यत्र व्रताद्दारानेवोपेयात् काले । एवँ व्रतो यदुदीरत आ हर्यतायेति वर्ग एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः श्रीमान्यशस्वी पुष्टिमान्धन्यो भवति॥२॥ गिर्वणः पाहि नः सुतमिति चैतत्सदा प्रयुञ्जीत मयि श्रीरिति चास्य निधनं कुर्य्याच्छ्रीमान् भवति ॥३॥ त्रीन्वोदकाञ्जलीन्सदाचामेदयꣳ सहस्रमानव इत्येताभ्याꣳ श्रीरिति चोत्तरस्य निधनं कुर्याच्छ्रीमान्भवति ॥४॥ सक्तुमन्थं दधिमधुघृतमिश्रमा त्वा विशन्त्विन्दव इत्यनेन सन्नयेदा मा विशन्त्विन्दवो न मामिन्द्रातिरिच्यत इत्येतेन पिबेदलक्ष्मीं नुदते ॥५॥ तिष्येण घृतं क्रीणीयादायाहि सुषुमा हि त इत्येतेन पिबेदलक्ष्मीं नुदते ॥६॥ गौरान् सर्षपाꣳस्तिष्येण चूर्णं कारयित्वेन्द्रेहि मत्स्यन्धस इत्येतेन सँयूय तैर्मुखं पाणी पादौ च सर्वाणि चाङ्गानि सर्वाꣳश्च सँश्लेषानुत्सादयन्नलक्ष्मीं नुदते ॥७॥ गौरसर्षपानग्ग्नौ जुहयाद्यद्वीडाविन्द्र यत् स्थिर इत्येतेन हिरण्यं लभते ॥८॥ व्रीहियवानग्नौ जुहुयात् सुनीथो घा स मर्त्य इत्येतेन धान्यं लभते ॥९॥ व्रीहियवौ सर्पिर्मधुमिश्रावास्येऽवधाय सपूर्व्यो महोनामित्येतेन मनसानुद्रुत्यान्ते स्वाहाकारेण निगिरेदेवँ सदा प्रयुञ्जानः सहस्र लभते ॥१०॥ इम उ त्वा विचक्षत इत्येतेनाहुतिसहस्रं जुहुयात्सहस्रं लभते ॥११॥ मासोपोषितो बिल्वानां दधिमधुघृताक्तानां श्रायन्तीयेनाष्टसहस्रं जुहुयात् । सिद्धे सौवर्णान्यसिद्धे राजतानि ॥१२॥ नैयग्रोधं दन्तपवनं घृतमधुलिप्तं गव्योषुण इत्येताभ्यामनिष्ठीवन्त्संवत्सरं भक्षयन्त्सहसँ लभते सहसँ लभते ॥१३॥ इति प्रथमः खण्डः ॥३/१॥

3.2 त्रिरात्रोपोषितो भद्रो नो अग्ग्निराहुत इत्येतेनाहुतिसहस्रं जुहुयात्सहस्रं लभते ॥१॥ औदुम्बरीर्व्वा समिधो घृताक्ताः सहस्रं जुहुयाद्गा लभते ॥२॥ व्रीहियवानग्नौ जुहुयाद्धान्यं लभते ॥३॥ द्वादशरात्रोपोषितः एवा ह्यसि वीरयुरित्येतेनाहुतिसहस्रं जुहुयाद्ग्रामँ लभत एताँश्च सर्वान् कामानवाप्नोति ॥४॥ श्रत्ताष्टकं प्रयुञ्जानः प्रथमेन हिरण्यं लभते द्वितीयेन धान्यं तृतीयेन पशूंश्चतुर्थेन पुत्रान् पञ्चमेन ग्रामान् षष्ठेन यशः सप्तमेन ब्रह्मवर्चसमष्टमेन स्वर्गंल्लोकमवाप्नोति ॥५॥ सँवत्सरं गोर्ग्रासमाहरेद्गावश्चिद्धा समन्यव इत्येतेनानन्त्याँ विन्दते श्रियम् ॥६॥ वैरूपाष्टकं नित्यं प्रयुञ्जानो लक्ष्मीर्जुषते ॥७॥ अन्त्यं वा जानुदघ्न उदके तिष्ठन् ॥८॥ नाभिदघ्ने धान्यं कक्षदघ्ने पशूनास्यदघ्ने पुत्रान् ग्रामं च ॥९॥ अनपेक्षितो वाऽसकृद्गीत्वोत्तीर्णः संहस्रं लभते ॥१०॥ आहुतिसहस्रं वा जुहुयात्सामान्तेषु स्वाहाकारैः ॥११॥ एतेषां कल्पानाँ यथा भूयस्तथा श्रेयस्तथा श्रेयः॥१२॥ इति द्वितीयःखण्डः॥३/२॥

3.3 गाः प्रकाल्यमानाश्चोपकाल्यमानाश्च सदोपतिष्ठेत गव्यो षु ण इत्येताभ्याँ स्फीयन्ते बहुला भवन्ति ॥१॥ सदा भोजनस्योपनीतस्याग्रमग्नौ जुहुयादग्ने विवस्वदुषस इति पूर्वेण बलिं चोत्तरेण कुर्याद्बहुपशुधनधान्यो भवति ॥२॥ अष्टरात्रोपोषितोऽमावास्यायां निश्येकवृक्षे क्षीरिण्यरण्ये माꣳसꣳ सुसꣳस्कृतमेकतृप्त्यवरार्द्ध्यं माणिभद्रायोपहरेदेष स्य ते मधुमाꣳ इन्द्र सोम इत्येतेन। हिरण्यद्रोणं लभते ॥३॥ त्रिरात्रोपोषितः शुक्लचतुर्दश्याꣳ शौनं माꣳसं पायसँ वोपहरेत् त्रिरस्मै सप्त धेनवो दुदुह्रिर इत्येतेन दैवान्पोषान्पुष्यति बहुपुरुषं चास्य भवति क्रियाश्चानेन कुरुते ॥४॥ त्रिरात्रोपोषितः कृष्णचतुर्दश्यां मत्स्यानुपहरेन्महाराजाय सँश्रवस इति वर्गेणासुरान् पोषान् पुष्यति बहुपुरुषं चास्य भवति क्रियाश्चानेन कुरुते ॥५॥ अथातो वास्तुशमनम् ॥६॥ प्रदक्षिणं प्रतिदिशं रज्ज्वा यच्छेदवान्तरदेशेषु च । यत्राभिसमेयुस्तत्रोपलिम्पेत् रज्वन्तेषु च शमीपलाशश्रीपर्णीनां पत्रैर्वास्तूपकिरेदक्षतैश्च सुमनोभिश्च पूर्वैः प्रोष्ठपदैर्ग्गृहेऽग्ग्निं प्रतिष्ठाप्य धानावन्तं करम्भिणमित्येतद्गीत्वा पायसमग्नौ जुहुयात्परेषां च पलाशपर्णमध्येषु बल्युपहारः प्रजापतये स्वाहेति मध्य उपहरेदिन्द्रायेति पुरस्ताद्वायव इत्यवान्तरदेशे यमायेति दक्षिणतः पितृभ्य इत्यवान्तरदेशे वरुणायेति पश्चान्महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरतो महेन्द्रायेत्यवान्तरदेशे वासुकय इत्यधस्तादूर्ध्वं नमो ब्रह्मण इति दिवि बहुपशुधनधान्यहिरण्यमायुष्मत्पुरुषं वीरसूः सुभगाविधवस्त्रीकꣳ शिवं पुण्यं वास्तु भवति, चतुर्षु मासेषु प्रयोगः संवत्सरे वा पुनः प्रयोगः पुनः प्रयोगः ॥७॥ इति तृतीयः खण्डः॥३/३॥

3.4 अथातोऽदृष्टदर्शनानाम् ॥१॥ सङ्करात् सङ्करेवासिनीमावहेच्छूर्पेणाक्षतान्गन्धान्सुमनसश्चात्र कृत्वा सँविष्टः प्राक्शिराः शुचौ देशे शिरस्तः कृत्वा क इममुहुवेत्येतद्गीत्वा वाग्यतः प्रस्वपेत् पश्यति ह ॥२॥ गरगोलिकाँ वा समुद्रेऽवधाया याहि सुषुमा हि त इत्येतद्गीत्वा वाग्यतः प्रस्वपेत् पश्यति ह ॥३॥ कन्याँ वोपवासयेददृष्टरजसमादर्शं च अयमग्ग्निः श्रेष्ठतम इत्येतेन व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य ब्रूयात् पश्येति पश्यति ह ॥४॥ उदशरावं वोपवासयेत् प्र मित्राय प्रार्य्गम्ण इत्येतेन व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य ब्रूयात् पश्येति पश्यति ह ॥५॥ वंशमय्यौ वा शलाके गन्धैः प्रलिप्य मध्यमेनोपवासयेद् व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य ब्रह्मचारिणौ ब्रूयाद्धारयत मिति सन्नमत्योः सिद्धिं विद्यात् ॥६॥ यष्टिं वान्त्येन चतुरङ्गुलशो निमायोपवासयेत् व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य प्रमिणुयादङ्गुलिपर्वभिः पूर्यमाणेषु सिद्ध्यति ॥७॥आषाढ्यां पौर्णमास्यां बीजानि धारयित्वोपवासयेत्तुलां च इन्द्रमिद्देवतातय इत्येतेन व्युष्टायाँ रात्रावेतेनैवाभिगीय परिमृज्य प्रोक्ष्य धारयेत यानि गरीयाँसि तान्यृध्यन्ते॥८॥अक्षतानां द्वौ राशी कुर्याद्भावाभावयोरा नो विश्वासु हव्यमित्येतेन व्युष्टायाꣳ रात्रावेतेनैवाभिगीय प्रोक्ष्य ब्रूयादालभस्वेति भावमालभमाने सिद्ध्यति ॥९॥ ज्योतिष्मताँ विधूमानामङ्गाराणां द्वौ राशी कुर्याद् यावन्तो वा स्युस्तेनार्थिनः श्रुष्ट्यग्ग्ने नवस्य म इत्येतेनैनान् युगपद्धृतेनाभिषिञ्चेत् यः पूर्वः प्रज्वलितो विधूमेनार्चिषा प्रदक्षिणमभि पर्यावर्त्तते स जयतीति विद्यात् ॥१०॥ ज्योतिष्कान् कुर्य्यान्मानुषीणां घृतेन सद्यो मथितेन प्र सोम देववीतय इत्येतेनैनान्ज्वलयेद् यः पश्चाच्छाम्यति स चिरं जीवति स चिरं जीवति ॥११॥ इति चतुर्थः खण्डः॥३/४॥

3.5 राजानमभिषेचयेत्तिष्येण श्रवणेन वा ॥१॥ व्रीहियवैस्तिलमाषैर्दधि मधुसुमनोजातरूपैर्यशस्विनीभ्यो नदीभ्यः समुद्राच्चोदकान्याहृत्यौदुम्बरे भद्रासने वैयाघ्रे चर्मण्युत्तरलोम्न्यासीनं जीवन्तीनां गवाꣳ शृङ्गकोशैरभिषिञ्चेदभ्रातृव्य इति रहस्येन ॥२॥ यं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येतेत्येकवृषेणाभिषिञ्चेत् ॥३॥ अभिषेक्त्रे दद्याद् ग्रामवरं दासीशतꣳ सहस्रं तदधीनश्च भवेत ॥४॥ अद्भुते यवद्रोणं जुहुयाद्वात आ वातु भेषजमित्येतेन शाम्यति ह ॥५॥ कृष्णाꣳस्तिलानग्ग्नौ जुहुयात्प्र दैवोदासो अग्ग्निरित्येतेन। नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति ॥६॥ व्रीहियवानग्नौ जुहुयात्पञ्चनिधनेन वामदेव्येन नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति ॥७॥ ताम्ररजतजातरूपायसीं मुद्रां कारयित्वोच्चा ते जातमन्धस इति चतुर्थेनाभिजुहुयात् सहस्रकृत्वः शतावरं तां मुद्रां दक्षिणेन पाणिना धारयेन्नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति तान्येव प्रतिगच्छन्ति ॥८॥ इति पञ्चमः खण्डः॥३/५॥

3.6 सङ्ग्रामं युयुत्समानस्योदकमभिजुहुयात् सोमꣳ राजानँ वरुणमित्येतेन। तत एनं पाययेद्यो राजा चर्षणीनामिति पूर्वेण । ये चात्र मुख्याः स्युस्तानुत्तरेणाभिषिञ्चेत् ॥१॥ अथ हैनꣳ संनाहयेत् प्र सेनानीरिति वर्गेण ॥२॥ अथास्य रथं युञ्ज्यादा त्वा सहस्रमाशतमिति वर्गेण ॥३॥ बृहद्रथन्तराभ्यां चक्रे वामदेव्येनाधिष्ठानम् ॥४॥ स घा तं वृषणꣳ रथमित्येतेनाधितिष्ठेत् प्रयान्तं चैनमनुगायेदिन्द्रस्य नु वीर्य्याणि इति ॥५॥ आजिशीर्षं गत्वा त्रीनिषूनस्येदु त्वा मन्दन्तु सोमा इत्यनेन जयति न पराजीयते ॥६॥ सन्दर्शने धूम्रायाः गोः सरूपवत्साया घृतद्रोणं जुहुयात् सत्यमित्थेति रहस्येन जयति न पराजीयते ॥७॥ बाधकमयीनाꣳ समिधां घृताक्तानाꣳ सहस्रं जुहुयादभित्वा पूर्वपीतय इति वषट्कारं चास्य निधनं कुर्याज्जयति न पराजीयते ॥८॥ सैध्रकमयीनाꣳ समिधां घृताक्तानां सहस्रं जुहुयादभित्यं मेषमितीन्द्र इव दस्यूꣳ प्रमृण इति चास्य निधनं कुर्याज्जयति न पराजीयते ॥९॥ सप्तरात्रोपोषितः सप्तमुख्यानुद्दिश्य सद्यः पीडितेन सर्षपतैलेन सप्तहेनाहुतिसहस्रं जुहयात्सप्तरात्रान्न भवन्ति ॥१०॥ हस्त्यश्व रथपदातीनां पिष्टमयीः प्रतिकृतीः कृत्वा पिष्टस्वेदꣳ स्वेदयित्वा सर्षपतैलेनाभ्यज्य तासां क्षुरेणाङ्गान्यवदायाग्ग्नौ जुहुयादभि त्वा शूर नोनुम इति रहस्येन यत्र हीशब्दो यावतां जुहोति सर्वे न भवन्ति ॥११॥ त्रिरात्रोपोषितः कृष्णचतुर्दश्याꣳ शवादङ्गारमाहृत्य चतुष्पथे बाधकमिध्ममुपसमाधाय वैभीतकेन स्रुवेण सर्षपतैलेनाहुतिसहस्रं जुहुयात् संमील्येन यत्र वृश्चशब्दः स्यात्तत्र पुरुषः शूलहस्त उत्तिष्ठति तं ब्रूयादमुं जहीति हन्त्येनम् ॥१२॥ आमगर्भस्य वा क्षुरेणाङ्गान्यवदाय्याग्नौ जुहुयात् कक्षवर्गाद्यैश्चतुर्भिः सपत्नं मनसा ध्यायन्त्सद्यो न भवति सद्यो न भवति ॥१३॥ इति षष्ठः खण्डः॥३/६॥

3.7 अथ यः कामयेतामुह्यन्त्सर्व्वाण्या जनित्राणि परिक्रामेयमिति महे नो अद्य बोधयेत्येतत्सदा प्रयुञ्जीतान्तवेलायां चैतत्स्मरेदमुह्यन्त्सर्व्वाण्याजनित्राणि परिक्रामति ॥१॥ अथ यः कामयेत सर्वत्राग्निर्म्मे ज्वलेदिति सँवत्सरꣳ शिरसाग्ग्निं धारयेदग्ग्न आ याहि वीतय इति प्रथमेनोपतिष्ठेत् द्वितीयेन परिहरेत् तृतीयेन परिचरेत् सर्वत्र हास्य ज्वलति यदिच्छति तद्दहति ॥२॥ अथ यः कामयेत पिशाचान् गुणीभूतान् पश्येयमिति संवत्सरं चतुर्थे काले भुञ्जानः कपालेन भैक्षं चरन् प्राणाः शिशुरित्यन्त्यꣳ सदा सहस्रकृत्व आवर्तयन् पश्यति ॥३॥ अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानः पितॄन् पश्यति ॥४॥ सँवत्सरमष्टमे काले भुञ्जानः पाणिभ्यां पात्रार्थं कुर्वाणो वृत्रस्य त्वा श्वसथादीषमाणारित्येतयोः पूर्वꣳ सदा सहस्रकृत्व आवर्तयन् गन्धर्वाप्सरसः पश्यति ॥५॥ अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानो देवान् पश्यति ॥६॥ यद्वर्च्च इति दिशाँव्रतं दशानुगानमेतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जीत निधयोऽस्य प्रकाशन्ते ये दैवास्ताँस्तेन ॥७॥ मासमुपवसेदेकमेकमयाचितं भुञ्जीत मयि वर्च इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जीत निधयोऽस्य प्रकाशन्ते ये पृथिव्याम् ॥४॥ अष्टरात्रोपोषितोऽमावास्यायां मुख आज्यं कृत्वाग्ग्निं नर इत्येतयोः पूर्वं मनसानुद्रुत्यान्ते स्वाहाकारेणाग्ग्नौ जुहुयात् व्युष्टायाँ रात्रौ भूतौ पश्यति पञ्च हास्य कार्षापणा भवन्ति व्ययकृताश्च पुनरायन्ति मूलमशून्यं कुर्यात् ॥९॥ गवां प्रविशन्तीनाँ या पश्चात् स्यात्तस्याः शिरोऽभ्यनुमृज्य पुच्छमनुमृज्य पाणी सꣳहृत्यानङ्गमेजयस्तिष्ठेत् सर्व्वाꣳ रात्रिं द्वितीयमावर्तयन्। जम्भका हास्य सार्वकामिका भवन्ति। सार्वकामिका भवन्ति ॥१०॥ इति सप्तमः खण्डः॥३/७॥

3.8 अथ यः कामयेत पुनर्न प्रत्याजायेयमिति ॥१॥ रात्रिं प्रपद्ये पुनर्भूम्मयोभूङ्कन्याꣳ शिखण्डिनीं पाशहस्ताँ युवतिं कुमारिणीमादित्यश्चक्षुषे वातः प्राणाय सोमो गन्धायापः स्नेहाय मनोऽनुज्ञाय पृथिव्यै शरीरम ॥२॥ सा हैनमुवाचास्मिन्न्सँवत्सरे मरिष्यस्यस्मिन्नयनेऽस्मिन्नृतावस्मिन्मासेऽर्धमासेऽस्मिन् द्वादशरात्रेऽस्मिन् षड्रात्रेऽस्मिꣳस्त्रिरात्रेऽस्मिन् द्विरात्रेऽस्मिन्नहोरात्रे ऽस्मिन्नहन्यस्याꣳ रात्रावस्याँ वेलायामस्मिन्मुहर्ते मरिष्यस्येहि स्वर्ग्गंल्लोकं गच्छ देवलोकँ वा ब्रह्मलोकँ वा क्षत्रलोकँ वा विरोचमानस्तिष्ठ विरोचमानामेहि योनिं प्रविश ॥३॥ नाहँ योनिं प्रवेक्ष्यामि भूतोत्तमाया ब्रह्मणो दुहितुः सꣳरागवस्त्राया जायते म्रियते सन्धीयते च ॥४॥ रात्रिस्तु मा पुनातु रात्रिः खमेतत् पुष्पान्तं यत्पुराणमाकाशं तत्र मे स्थानं कुर्वपुनर्भवाया पुनर्जन्मन एतावदेव रात्रौ रात्रेर्व्रतं च रात्रेर्व्रतं च ॥५॥ इत्यष्टमः खण्डः ॥

3.9 चतुरो मासान् पयोभक्षो गा अनु गत्वारण्ये शुचौ देशे मठं कृत्वा तत्र प्रविशेत् कमण्डलुमुदकोपस्पर्शनार्थमादाय त्रीन्सप्तरात्राननुदक उपवसन्नृचꣳ साम यजामह इत्येतयोः पूर्वꣳ सदा सहस्रकृत्व आवर्तयन यदि देवताः पश्यति सिद्धं तदित्यथोत्थानमन्तरिक्ष्या हास्य सिद्धा भवत्यन्तरिक्षक्रमणं च द्वाराणि चास्य विव्लीयन्ते ॥१॥ द्वितीयमेतेन कल्पेन प्रयुञ्जानः कामचारी मनोजवा भवति ॥२॥ शुक्लानुपवसेत् सर्वान् कालान्मृष्टः शुक्लवासाश्चन्दनेनानुलिप्तः सुमनसो धारयꣳ स्त्यमूषु पूर्वꣳ सदा सहस्रकृत्व आवर्तयन् ये मानुषाः कामास्तानवाप्नोति ॥३॥ द्वितीयमेतेन कल्पेन प्रयुञ्जानो ये दैवास्ताꣳस्तेन ॥४॥ मासमुपवसेदेकमेकमयाचितं भुञ्जीत मयि वर्च इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानस्त्रयाणाँ लोकानामाधिपत्यं गच्छति व्यृद्धावप्यस्यैकस्य ॥५॥ अथ यान्यनादिष्टकामकल्पानि तेषाँ यथाश्रुति स्मृतिलिङ्गैः कामा: क्षुरसँयुक्ताः ॥६॥ आभिप्रायिकं कर्म ॥७॥ सोऽयं प्राजापत्यो विधिस्तमिमं प्रजापतिर्बृहस्पतये प्रोवाच बृहस्पतिर्न्नारदाय नारदो विष्वक्सेनाय विष्वक्सेनो व्यासाय पाराशर्य्याय व्यासः पाराशर्यो जैमिनये जैमिनि: पौष्पिञ्ज्याय पौष्पिञ्ज्यः पाराशर्यायायणाय पाराशर्यामियणो बादरायणाय बादरायणस्ताण्डिशाट्यायनिभ्यां ताण्डिशाट्यायनिनौ बहुभ्यः ॥८॥ सोऽयमनूचानाय ब्रह्मचारिणे समावर्त्तमानायाख्येय: ॥९॥ उपाध्यायाय ग्रामवरꣳ सहस्रꣳ श्वेतं चाश्वं प्रदायानुज्ञातो वा यं कामं कामयते तमाप्नोति तमाप्नोति ॥१०॥ इति नवम: खण्ड: ॥३/९॥ इति तृतीयः प्रपाठकः॥ इति तृतीयं सामविधानब्राह्मणम्