०८

अर्हणा पुत्रवास
सा धेनुरभवद्यमे ।
सा नः पयस्वती दुहा
उत्तरामुत्तराँ समाम् १

इदमहमिमां पद्याँ विराजम्
अन्नाद्यायाधितिष्ठामि २

या ओषधीः सोमराज्ञीर्
बह्वीः शतविचक्षणाः ।
ता मह्यमस्मिन्नासने
अच्छिद्रा ः! शर्म यच्छत ३

या ओषधीः सोमराज्ञीर्
विष्ठिताः पृथिवीमनु ।
ता मह्यमस्मिन्नासने
अच्छिद्रा ः! शर्म यच्छत ४

यतो देवीः प्रतिपश्याम्यापस्
ततो मा राद्धिरागच्छतु ५

सव्यं पादमवनेनिजे
ऽस्मिन्राष्ट्रे श्रियं दधे ६

दक्षिणं पादमवनेनिजे
ऽस्मिन्राष्ट्रे श्रियमावेशयामि ७

पूर्वमन्यमपरमन्यमुभौ पादाववनेनिजे
राष्ट्रस्यर्द्ध्या अभयस्यावरुद्ध्यै ८

अन्नस्य राष्ट्रिरसि
राष्ट्रिरहं भूयासम् । ९

स्यशोऽसि यशो मयि धेहि १०

स्यशसो यशोऽसि ११

स्यशसो भक्षोऽसि
महसो भक्षोऽसि
श्रीभक्षोऽसि
श्रियं मयि धेहि । स्वाहा १२

स्मुञ्च गाँ वरुण पाशाद्
द्विषन्तं मेऽभिधेहि
तं जह्यमुष्य चोभयोर्
उत्सृज गामत्तु तृणानि पिबतूदकम् १३

स्माता रुद्रा नां दुहिता वसूनाँ
स्वसादित्यानाममृतस्य नाभिः ।
प्र णु वोचं चिकितुषे जनाय
मा गामनागामदितिँ वधिष्ट
ओमुत्सृजत १४

इति द्वितीयो भागः