०७

हतस्ते अत्रिणा कृमिर्
हतस्ते जमदग्निना ।
गोतमेन तृणीकृतो
ऽत्रैव त्वा कृमे ब्रह्मवद्यमवद्यम् १

भरद्वाजस्य मन्त्रेण
सन्तृणोमि कृमे त्वा २

कृमिँ ह वक्रतोदिनं
कृमिमान्त्रानुचारिणम् ।
कृमिं द्विशीर्षमर्जुनं
द्विशीर्षँ ह चतुर्हनुम् ३

हतः कृमीणां क्षुद्र को
हता माता हतः पिता ।
अथैषां भिन्नकः कुम्भो
य एषाँ विषधानकः ४

कृमिमिन्द्र स्य बाहुभ्याम्
अवाञ्चं पातयामसि ५

हताः कृमयः साशातिकाः सनीलमक्षिकाः ६