वास्तोष्पते प्रतिजानीह्यस्मान्
स्वावेशो अनमीवो भवा नः ।
यत्त्वेमहे प्रति तन्नो जुषस्व
शं नो भव द्विपदे शं चतुष्पदे १
हये राके सिनीवलि
सिनीवलि पृथुष्टुके ।
सुभद्रे पथ्ये रेवति
पथा नो यश आवह । स्वाहा २
ये यन्ति प्राञ्चः पन्थानो
य उ चोत्तरत आययुः ।
ये चेमे सर्वे पन्थानस्
तेभिर्नो यश आवह । स्वाहा ३
यथा यन्ति प्रपदो
यथा मासा अहर्जरम् ।
एवं मा श्रीधातारः
समवयन्तु सर्वतः । स्वाहा ४
यथा समुद्र ँ! स्रवन्तीः
समवयन्ति दिशोदिशः ।
एवं मा सखायो ब्रह्मचारिणः
समवयन्तु दिशोदिशः । स्वाहा ५
वसुवन एधि वसुवन एधि वसुवन एधि ६
वशङ्गमौ देवयानौ युवँ स्थो
यथा युवयोः सर्वाणि भूतानि वशमायन्त्य्
एवं ममासौ वशमेतु । स्वाहा ७
शङ्खश्च मनआयुश्च देवयानौ युवँ स्थो
यथा युवयोः सर्वाणि भूतानि वशमायन्त्य्
एवं ममासौ वशमेतु । स्वाहा ८
आकूतीं देवीं मनसा प्रपद्ये
यज्ञस्य मातरँ सुहवा मे अस्तु ।
यस्यास्त एकमक्षरं परँ
सहस्रा अयुतं च शाखास्
तस्यै वाचे निहवे जुहोम्य्
आ मा वरो गच्छतु श्रीर्यशश्च । स्वाहा ९
सिदमहमिमँ विश्वकर्माणँ श्रीवत्समभिजुहोमि । स्वाहा १०
स्पूर्णहोमँ यशसे जुहोमि
योऽस्मै जुहोति वरमस्मै ददाति
वरँ वृणे यशसा भामि लोके । स्वाहा ११
सिन्द्रा मवदात्
तमो वः पुरस्ताद्
अहँ वो ज्योतिर्
मामभ्येत सर्वे । स्वाहा १२
सन्नँ वा एकच्छन्दस्यम्
अन्नँ ह्येकं भूतेभ्यश्छन्दयति । स्वाहा १३
स्श्रीर्वा एषा यत्सत्वानो
विरोचनो मयि सत्त्वमवदधातु । स्वाहा १४
सन्नस्य घृतमेव रसस्
तेजःसम्पत्कामो जुहोमि । स्वाहा १५
स्क्षुधे स्वाहा १६
स्क्षुत्पिपासाभ्याँ स्वाहा १७
स्मा भैषीर्न मरिष्यसि
जरदष्टिर्भविष्यसि ।
रसँ विषस्य नाविदम्
उग्रस्फेनमिवास्यम् १८
स्तुर गोपाय मा नाथ गोपाय माशस्तिभ्योऽरातिभ्यः
स्वस्त्ययनम् असि १९
६