इदं भूमेर्भजामह
इदं भद्र ँ! सुमङ्गलम् ।
परा सपत्नान्बाधस्वान्येषाँ विन्दते धनम्
अन्येषाँ विन्दते वसु १
इमँ स्तोममर्हते जातवेदसे
रथमिव सम्महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य सँ सद्य्
अग्ने सख्ये मा रिषामा वयं तव २
भरामेध्मं कृणवामा हवीँ षि ते
चितयन्तः पर्वणापर्वणा वयम् ।
जीवातवे प्रतराँ साधया धियो
ऽग्ने सख्ये मा रिषामा वयं तव ३
शकेम त्वा समिधँ साधया धियस्
त्वे देवा हविरदन्त्याहुतम् ।
त्वमादित्याँ आवह ताँ ह्युश्मस्य्
अग्ने सख्ये मा रिषामा वयं तव ४
तपश्च तेजश्च श्रद्धा च ह्रीश्च सत्यं चाक्रोधश्च त्यागश्च धृतिश्च धर्मश्च
सत्वं च वाक्च मनश्चात्मा च ब्रह्म च
तानि प्रपद्ये तनि मामवन्तु ।
भूर्भुवः स्वरॐ
महान्तमात्मानं प्रपद्ये ५
विरूपाक्षोऽसि दन्ताञ्जिः ।
तस्य ते शय्या पर्णे गृहा अन्तरिक्षे विमितँ हिरण्मयम् ।
तद्देवानाँ हृदयान्ययस्मये कुम्भेऽन्तः सन्निहितानि ।
तानि बलभृच्च बलसाच्च रक्षतोऽप्रमणी अनिमिषतः सत्यम् ।
यत्ते द्वादश पुत्रास्
ते त्वा सँ वत्सरेसँ वत्सरे कामप्रेण यज्ञेन याजयित्वा
पुनर्ब्रह्मचर्यमुपयन्ति ।
त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु
ब्राह्मणो वै ब्राह्मणमुपधावत्युप त्वा धावामि ।
जपन्तं मा मा प्रतिजापीर्जुह्वन्तं मा मा प्रतिहौषीः
कुर्वन्तं मा मा प्रतिकार्षीः ।
त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिष्यामि
तन्मे राध्यतां तन्मे समृध्यतां तन्म उपपद्यताम् ।
समुद्रो मा विश्वव्यचा ब्रह्मानुजानातु
तुथो मा विश्ववेदा ब्रह्मणः पुत्रोऽनुजानातु
श्वात्रो मा प्रचेता मैत्रावरुणोऽनुजानातु ।
तस्मै विरूपाक्षाय दन्ताञ्जये समुद्रा य विश्वव्यचसे
तुथाय विश्ववेदसे श्वात्राय प्रचेतसे
सहस्राक्षाय ब्रह्मणः पुत्राय नमः ६
सहस्रबाहुर्गौपत्यः
स पशूनभिरक्षतु ।
मयि पुष्टिं पुष्टिपतिर्दधातु
मयि प्रजां प्रजापतिः । स्वाहा ७
कौतोमतँ सँ वननँ
सुभागङ्करणं मम ।
नाकुली नाम ते माताथाहं पुरुषामयः ।
यन्नौ कामस्य विच्छिन्नं
तन्नौ सन्धेह्योषधे ८
वृक्ष इव पक्वस्तिष्ठसि
सर्वान्कामान्भुवस्पते ।
यस्त्वैनँ वेद तस्मै मे
भोगान्धुक्ष्वाक्षतान्बृहन् ९
सृतँ सत्ये प्रतिष्ठितं
भूतं भविष्यता सह ।
आकाश उपनिरज्जतु
मह्यमन्नमथो श्रियम् १०
सभिभागोऽसि सर्वस्मिँ स्
तदु सर्वं त्वयि श्रितम् ।
तेन सर्वेण सर्वो मा
विवासन विवासय ११
स्कोश इव पूर्णो वसुना
त्वं प्रीतो ददसे धनम् ।
अदृष्टो दृष्टमाभर
सर्वान्कामान्प्रयच्छ मे १२
साकाशस्यैष आकाशो
यदेतद्भाति मण्डलम् ।
एवं त्वा देव यो वेदेशानेशां प्रयच्छ मे १३
स्भूर्भुवः स्वरोँ
सूर्य इव दृशे भूयासम्
अग्निरिव तेजसा वायुरिव प्राणेन
सोम इव गन्धेन बृहस्पतिरिव बुद्ध्याश्विनाविव रूपेणेन्द्रा ग्नी इव बलेन
ब्रह्मभाग एवाहं भूयासं
पाप्मभागा मे द्विषन्तः १४
४