०५

अयमूर्जावतो वृक्ष
ऊर्जीव फलिनी भव ।
पर्णँ वनस्पतेऽनु त्वानु त्वा सूयताँ रयिः १

येनादितेः सीमानं नयति
प्रजापतिर्महते सौभगाय ।
तेनाहमस्यै सीमानं नयामि
प्रजामस्यै जरदष्टिं कृणोमि २

राकामहँ सुहवाँ सुष्टुती हुवे
शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याच्छिद्यमानया
ददातु वीरँ शतदायुमुख्यम् ३

यास्ते राके सुमतयः सुपेशसो
याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि
सहस्रपोषँ सुभगे रराणा ४

किं पश्यसि ।
प्रजां पशून्त्सौभाग्यं मह्यं
दीर्घायुष्ट्वं पत्युः ५

या तिरश्ची निपद्यते
अहँ विधरणी इति ।
तां त्वा घृतस्य धारया
यजे सँ राधनीमहम् ।
सँ राधन्यै देव्यै देष्ट्र्यै ६

विपश्चित्पुच्छमभरत्
तद्धाता पुनराहरत् ।
परेहि त्वँ विपश्चित्
पुमानयं जनिष्यते
ऽसौ नाम ७

इयमाज्ञेदमन्नम्
इदमायुरिदममृतम् ८

मेधां ते मित्रावरुणौ
मेधामग्निर्दधातु ते ।
मेधां ते अश्विनौ देवाव्
आधत्तां पुष्करस्रजौ ९

स्यत्ते सुसीमे हृदयँ
हितमन्तः प्रजापतौ
वेदाहं मन्ये तद्ब्रह्म
माहं पौत्रमघं निगाम् १०

स्यत्पृथिव्या अनामृतं
दिवि चन्द्र मसि श्रितम् ।
वेदामृतस्याहं नाम
माहं पौत्रमघँ रिषम् ११

सिन्द्रा ग्नी शर्म यच्छतं
प्रजायै मे प्रजापती ।
यथायं न प्रमीयेत
पुत्रो जनित्र्! या अधि १२

स्यददश्चन्द्र मसि कृष्णं
पृथिव्या हृदयँ श्रितम् ।
तदहँ विद्वाँ स्तत्पश्यन्
माहं पौत्रमघँ रुदम् १३

स्कोऽसि कतमोऽस्य्
एषोऽस्यमृतोऽसि ।
आहस्पत्यं मासं प्रविशासौ १४

स्स त्वाह्ने परिददात्व्
अहस्त्वा रात्र्! यै परिददातु
रात्रिस्त्वाहोरात्राभ्यां परिददात्व्
अहोरात्रौ त्वार्धमासेभ्यः परिदत्ताम्
अर्धमासास्त्वा मासेभ्यः परिददतु
मासास्त्व र्तुभ्यः परिददत्व्
ऋतवस्त्वा सँ वत्सराय परिददतु
सँ वत्सरस्त्वायुषे जरायै परिददात्वसौ १५

सङ्गादङ्गात्सँ श्रवसि
हृदयादधि जायसे ।
प्राणं ते प्राणेन सन्दधामि
जीव मे यावदायुषम् १६

सङ्गादङ्गात्सम्भवसि
हृदयादधि जायसे ।
वेदो वै पुत्रनामासि
स जीव शरदः शतम् १७

सश्मा भव परशुर्भव
हिरण्यमस्तृतं भव ।
आत्मासि पुत्र मा मृथाः
स जीव शरदः शतम् १८

स्पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ १९