०३

लेखासन्धिषु पक्ष्मस्व्
आवर्तेषु च यानि ते ।
तानि ते पूर्णाहुत्या
सर्वाणि शमयाम्यहम् १

केशेषु यच्च पापकम्
ईक्षिते रुदिते च यत् ।
तानि ते पूर्णाहुत्या
सर्वाणि शमयाम्यहम् २

शीले च यच्च पापकं
भाषिते हसिते च यत् ।
तानि ते पूर्णाहुत्या
सर्वाणि शमयाम्यहम् ३

आरोकेषु च दन्तेषु
हस्तयोः पादयोश्च यत् ।
तानि ते पूर्णाहुत्या
सर्वाणि शमयाम्यहम् ४

ऊर्वोरुपस्थे जङ्घयोः
सन्धानेषु च यानि ते ।
तानि ते पूर्णाहुत्या
सर्वाणि शमयाम्यहम् ५

यानि कानि च घोराणि
सर्वाङ्गेषु तवाभवन् ।
पूर्णाहुतिभिराज्यस्य
सर्वाणि तान्यशीशमम् ६

ध्रुवा द्यौर्ध्रुवा पृथिवी
ध्रुवँ विश्वमिदं जगत् ।
ध्रुवासः पर्वता इमे
ध्रुवा स्त्री पतिकुले इयम् ७

अन्नपाशेन मणिना
प्राणसूत्रेण पृश्निना ।
बध्नामि सत्यग्रन्थिना
मनश्च हृदयं च ते ८

यदेतद्धृदयं तव
तदस्तु हृदयं मम ।
यदिदँ हृदयं मम
तदस्तु हृदयं तव ९

सन्नं प्राणस्य पड्विँ शस्
तेन बध्नामि त्वासौ १०

स्सुकिँ शुकँ शल्मलिँ विश्वरूपँ
सुवर्णवर्णँ सुकृतँ सुचक्रम् ।
आरोह सूर्ये अमृतस्य नाभिँ
स्योनं पत्ये वहतुं कृणुष्व ११

स्मा विदन्परिपन्थिनो
य आसीदन्ति दम्पती ।
सुगेभिर्दुर्गमतीताम्
अपद्रा न्त्वरातयः १२

सिह गावः प्रजायध्वम्
इहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो
ऽपि पूषा निषीदतु १३

सिह धृतिरिह स्वधृतिर्
इह रन्तिरिह रमस्व ।
मयि धृतिर्मयि स्वधृतिर्
मयि रमो मयि रमस्व १४