०३ सामविधानब्राह्मणम्

(अपूर्णम् एतत्।)

अथ सामविधानब्राह्मणम्

प्रथमाध्यायः

प्रथम खण्डः

{१-१ ब्रह्म ह वा इद-मग्र आसीत्॥ १॥

द्वितीयः खण्डः

{१-२ अथात,स्स्त्री-न्कृच्छ्रा-न्व्याख्यास्यामः॥ १॥

तृतीयः खण्डः

{१-३ अथात-स्स्वाध्यायाध्ययनस्य॥ १॥

चतुर्थः खण्डः

{१-४ अथात स्साप्तरात्रिकाणाम्। भैक्षं पयो वा व्रत-मेके। भैक्षार्थायैव ग्रामं प्रविशेत्। नान्यत्र स्वाध्याया-द्वाच-मुत्सृजेत्। अध-श्शयीत। नापोऽभ्यवेयात्। अन्ते त्वग्न्यादि-रुक्तᳲ कल्पः। काम्याना-ञ्चाप्रतिषेधः॥ १॥पञ्चमः खण्डः

{1-5 अथातᳲ प्रायश्चित्तानाम्॥ 1॥

षष्ठः खण्डः

{1-6 ब्राह्मणस्वं हृत्वा- मास-मुदके वास-श्चतुर्थे काले भोजन- न्दिवा बहि-रास्या,द्व्रतान्ते शुक्र-न्ते अन्य द्यजत-न्ते अन्य-दित्येत-द्गायेत्॥ 1॥

सप्तमः खण्डः

{1-7 राज्ञᳲ प्रतिगृह्य- मास-मुदके वस-न्दिवा भुञ्जानो, मह-त्तत्सोमो महिष-श्चका-रेत्येत-द्गायेत्॥ 1॥

अष्टमः खण्डः

{1-8 रसान् विक्रीय- कृच्छ्रं-श्चर-न्घृतवती द्वितीयम्॥ 1॥

सामविधान ब्राह्मणे द्वितीयाध्यायः

प्रथमः खण्डः{२-१ अथातᳲ काम्यानाम्॥ १॥

द्वितीयः खण्डः

{२-२ अथ यस्या जातानि प्रमीयेर-न्न्यग्रोध-शुङ्गां शरमूल-ञ्चोत्थाप्य, तदह-स्रिवृत-ङ्कारये- न्मणि-मग्निं प्रतिष्ठाप्याऽऽवृता हुत्वा, मणि-न्निधाया-ऽबोध्यग्नि-रित्येतेनाभि जुहुया-त्सहस्रकृत्व श्शतावर,न्तृतीये गर्भमासि निदध्या-दाज्य शेषं,मेखलायां मणि न्धारये,त्पुमांसं ह जनयति, जातस्य कण्ठेऽवसजे,त्कुमार- माज्य-शेषं प्राशये,त्सर्वाणि स्रोतांसि तर्पये,दभ्यञ्जीताऽहरह- स्तत ऊर्ध्व-मुपयुङ्क्ते पुनᳲ प्रयोग, श्शतँ वर्षाणि जीवति- जरयैव विस्रंसते॥ १॥

तृतीयः खण्डः

{२-३ अथ यदस्य रुजे-च्छन्नो देवी रहस्येन, घृत-मभिगीयाऽभ्यञ्ज्या-च्छाम्यति ह॥ १॥

चतुर्थः खण्डः

{२-४ करवीर-दण्ड-मुत्थाप्य, देवव्रतै-रभिजुहुया-दनुगान-शस्तेन हस्त-गतेन, यत्र क्क च गच्छति- सर्वत्र हास्य स्वस्ति भवति॥ १॥

पञ्चमः खण्डः

{२-५ अथैकमनुष्याणा-मावर्त्तनम्। स्रिया वा- पुंसो वा॥ १॥

षष्ठः खण्डः{२-६ अथात-स्सौभाग्यानाम्॥ १॥

सप्तमः खण्डः

{२-७ अथातो ब्रह्मवर्चस्यानां, रथन्तरँ वामदेव्य न्नौधसं श्यैतं महानाम्न्यो यज्ञायज्ञीय-मि,-त्येतेषा मेक-मनेकँ वा सर्वाणि वा प्रयुञ्जानो- ब्रह्मवर्चसी भवति॥ १॥

अष्टमः खण्डः

{२-८ अथातᳲ पुत्रियाणाम्॥ १॥

सामविधान ब्राह्मणे तृतीयाध्यायः

प्रथमः खण्डः

{३-१ अथातो धन्यानाम्॥ १॥

द्वितीयः खण्डः

{३-२ त्रिरात्रोपोषितो- भद्रो नो अग्नि-राहुत इत्येतेनाऽऽहुति-सहस्र-ञ्जुहुया,त्सहस्रँ लभते॥ १॥तृतीयः खण्डः

{३-३ गाᳲ प्रकाल्यमाना-श्चोपकाल्यमानाश्च सदोपतिष्ठेत- गव्यो षु ण इत्येताभ्याँ, स्फीयन्ते बहुला भवन्ति॥ १॥ (प्रकाल्यमानाः- प्रस्थाप्यमानाः)

चतुर्थः खण्डः

{३-१ अथातोऽदृष्ट-दर्शनानाम्॥ १॥

पञ्चमः खण्डः

{३-५ राजान-मभिषेचये-त्तिष्येण श्रवणेन वा॥ १॥

षष्ठः खण्डः

{३-६ सङ्ग्रामँ युयुत्समान-स्योदक-मभि जुहुया-त्सोमं राजानँ वरुण मित्येतेन, तत एनं पायये-द्यो राजा चर्षणीना-मिति पूर्वेण, ये चात्र मुख्या-स्स्यु- स्ता-नुत्तरेणाभि षिञ्चेत्॥ १॥

सप्तमः खण्डः

{३-७ अथ यᳲ कामयेताऽमुह्य-न्त्सर्वा-ण्याजनित्राणि परिक्रामेय-मिति, महे नो अद्य बोधये-त्येत-त्सदा प्रयुञ्जीता,ऽन्तवेलाया-ञ्चैत-त्स्मरे,दमुह्य-न्त्सर्वा-ण्याजनित्राणि परिक्रामति॥ १॥अष्टमः खण्डः

{३-८ अथ यᳲ कामयेत- पुन-र्न प्रत्या-जायेय-मिति॥ १॥

नवमः खण्डः

{३-९ चतुरो मासा-न्पयोभक्षी, गा अनुगत्वा-ऽरण्ये शुचौ देशे- मठ-ङ्कृत्वा- तत्र प्रविशे, त्कमण्डलु मुदकोपस्पर्शनार्थ-मादाय, त्री-न्त्सप्तरात्रा-ननुदक उपवस-न्नृचं साम यजामह इत्येतयोᳲ पूर्वं, सदा सहस्रकृत्व आवर्तयन्, यदि देवताᳲ पश्यति- सिद्ध-न्तदि,त्यथोत्थान- मन्तरिक्ष्या हास्य सिद्धा भव-न्त्यन्तरिक्ष-क्रमणञ्च द्वाराणि चास्य विव्लीयन्ते॥ १॥