होमः

द्रव्यसंस्कारः

उल्लेखनम्

अथातोऽग्निं प्रणेष्यन् प्राग् उदक् प्रवणम् अभ्युक्ष्य
स्थण्डिलं लक्ष्मं कुर्यान् -
मध्ये प्राचीं रेखाम् उल्लिख्योदीचीं च +++(प्राचीरेखया)+++ संहितां +++(तत्)+++पश्चात्+++(भागे)+++
तिस्रो मध्ये प्राच्यो +++(येन त्रिशूलाकृतिः)+++

अग्निस्थापनम्

ऽभ्युक्ष्याग्निं प्रतिष्ठापयेद् - भूर्भुवः स्वर् इति।
लक्षणावृद् एषा सर्वत्र।

अथातः पाकयज्ञान् व्याख्यास्यामो - हुतोऽहुतः प्रहुतः प्राशित +++(श्राद्धवत्)+++ इति।
तेषाम् एकाग्नौ होमो, नित्ये यज्ञोपवीतोदकाचमने।
दर्शपूर्णमास-तन्त्राः स्वतन्त्रा वा।

दक्षिणतोऽग्नेः +++(अन्न-)+++पूर्ण-पात्रम् उपनिदधाति +++(ब्रह्मदक्षिणायै)+++ स्रुवं चापां पूर्णम्।
उत्तरतो ऽग्नेर् इध्माबर्हिर्-
“देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रोक्षामी"ति,
+++(इध्माबर्हिः)+++ प्रोक्षितम् उपकॢप्तं भवति - सकृद् यजुषा, द्विस् तूष्णीम्।

द्रव्य-निर्देशः

खादिरः पालाशो वेध्मस्, तदलाभे +++(अभिचारादिविशिष्ट-)+++ विभीतक+++(=Terminalia bellirica)+++-तिल्वक+++(=Symplocos racemosa)+++-बाधक-निम्ब-राजवृक्ष+++(=आरग्वध)+++-शल्मल्य्+++(=ಬೂರುಗದ ಮರ, silk-cotton)+++-अरलु+++(=Bignonia Indica)+++-दधित्थ+++(=wood-apple)+++-कोविदार-श्लेष्मातक-वर्जं सर्ववनस्पतीनाम् इध्मः।

कुशालाभे शूकतृण+++(=तीक्ष्णाग्रधान्य)+++-शर+++(=मुञ्ज)+++-शीर्य-बल्बज+++(=Crowfoot grass)+++-मुतव-नल+++(=Arundo donax)+++-शुण्ठ-वर्जं सर्वतृणानि।
शुक्लाः सुमनसस् तासाम् अलाभे जपारूप+++(=Hibiscus?)+++-काकुत्थाभण्डी-कुरण्डक+++(=yellow amaranth)+++-वर्जं गन्धवत्यो वा सर्व-वर्णाः।
चतस्र आज्य-प्रकृतयो +++(तदलाभे)+++ भवन्त्य् - ऊधन्यं+++(=नवनीतम्?)+++ वा वाह्यं+++(=घनीभूतम्?)+++ वा दधि वा पयो वा।

आचमनम्

पश्चाद् अग्नेर् आचमनं -
त्रिराचामेद्
द्विः +++(ओष्टौ)+++ परिमृजेत्
सकृद् उपस्पृशेत्
पादाव् अभ्युक्ष्य
शिरश् च शीर्षण्यान्+++(=शिरस्स्थान्)+++ प्राणान्+++(=इन्द्रियाणि)+++ उपस्पृशेद्

भूसंस्कारः

अप उपस्पृश्य पश्चाद् अग्नेर् +++(इन्धनदानादिना)+++ उपसमाहितस्योपविश्य
दक्षिणेन पाणिना भूमिम् आरभ्य जपतीदं -
“भूमेर् भजामह - इदं भद्रं सुमङ्गलं परा सपत्नान् बाधस्वाऽन्येषां विन्द ते धनम्” इति,
वस्व्-अन्तं रात्रिश् चेत्।

इमं-स्तोम्येन तृचेनाग्निं परिसमूहेद् - आद्यया +++(ऋचा)+++ वा त्रिः।

परिस्तरणम्

प्रस्तरम्+++(=दर्भमुष्टिम्)+++ उपसङ्गृह्य प्रतिदिशं परिस्तृणाति -
दक्षिण-पुरस्ताद्+++(=आग्नेयाया)+++ उपक्रम्य +++(←दक्षिणम्, पश्चात्, उत्तरम्, पूर्वम् इति क्रमः)+++
अग्रैर् मूलानि छादयन्
पश्चाद् वोपस्तीर्य +उलप+++(=Saccharum Cylindricum)+++-राजिभ्याम्, +++(तथैव)+++ उपहरेद् +++(त्रिकोणम् अग्निम् परितः यथा)+++, +++(यथा)+++ दक्षिणोत्तरः सन्धिः +++(→ दक्षिणराज्योर् अग्रौ यथोपरि स्याताम्)+++१

पवित्रसृष्टिः

प्रस्तरात् पवित्रे गृह्णाति प्रादेश-मात्रे समे अप्रशीर्णाग्रे अनन्तर्-गर्भे
अङ्गुष्ठेनोपकनिष्ठिकया च धारयन्न् अनखेन छिनत्ति - “पवित्रे स्थो वैष्णव्याव्” इति

त्रिर् ऊर्ध्वम् अद्भिर् अनुमार्जयेद् - “विष्णोर् मनसा पूते स्थ” इति - सकृद् यजुषा, द्विस् तूष्णीम्।

आज्याद्य्-उत्पवनम्

पात्रस्योपरिष्टात् पवित्रे धारयन्न् आज्यम् आसिच्य
+उत्तरेणाऽग्निम् अङ्गारान् निरूह्य
तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां, +++(तौ)+++ प्रत्यस्य,
+++(दर्भतरुणाभ्यां)+++ त्रिः पर्यग्नि कृत्वोदग् +++(अग्नौ)+++ उद्वास्य
प्रत्यूह्याङ्गारान्
उदग्-अग्राभ्यां पवित्राभ्यां त्रिर्-उत्पुनात्य् आज्यं च हविश् च प्रणीताश् च स्रुवं च “देवस्त्वा सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिर्” इति - +++(किञ्च)+++ “देवो व” इति प्रणीताः,
पुनर् आहारम् +++(अग्रे नयनं विना)+++ आज्यस्य,
+++(सर्वेषाम् -)+++ सकृद् यजुषा द्विस् तूष्णीम्।

उत्तरतो ऽग्नेः प्रणीताः प्रणीय
दर्भैः प्रच्छाद्य

विरूपाक्षध्यानम्

दक्षिणतोऽग्नेः प्रस्तरं निधाय प्रस्तरस्योपरिष्टात् पवित्रे निधाय विरूपाक्षं जपत्य् -

विरूपाक्ष-दन्ताञ्जि-ध्यानम् ...{Loading}...

ॐ तपश् च तेजश् च सत्यं चात्मा च धृतिश् च धर्मश् च सत्त्वं च त्यागश् च ब्रह्मा च ब्रह्म च -
तानि प्रपद्ये। तानि माम् अवन्तु।
भूर् भुवः स्वर् ॐ।
महान्तम् आत्मानम् अध्यारोहामि।
विरूपाक्षोऽसि दन्ताञ्जिस्;
तस्य ते शय्या पर्णे, गृहा अन्तरिक्षे, ते विमितं+++(=विमानम् → अपरिच्छिन्नम्)+++ हिरण्मयम्।
तद्+++(→तस्माद्)+++ देवानां हृदयान्य् अयस्मये कुम्भे अन्तः सन्निहितानि तानि।
बलभूश् च बलधा च - रक्ष णो मा प्रमदः।
सत्यं ते द्वादश पुत्रास् - ते त्वा संवत्सरे-संवत्सरे कामप्रेण+++(=काम-पूरकेण)+++ यज्ञेन याजयित्वा पुनर् ब्रह्मचर्यम् उपयन्ति।
त्वं देवानां ब्राह्मणोऽस्य्, अहं मनुष्याणाम्।
ब्राह्मणो वै ब्राह्मणम् उपधावति। तं त्वोपधावामि।
जपन्तं मा मा प्रतिजाप्सीर्, जुह्वन्तं मा मा प्रतिहौषीः।
कुर्वन्तं मा मा प्रतिकार्षीस् - त्वां प्रपद्ये।
त्वया प्रसूत इदं कर्म करिष्यामि। तन् मे समृध्यताम्!
विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठायामोघाय कर्माधिपतये नमः।

इति २

स्रुवसंस्कारः

स्रुवं प्रणीतासु प्रणीय,
निष्टप्य
दर्भैः सम्मृज्य
+++(तान्)+++ सम्मार्गान् +++(दर्भान्)+++ अभ्युक्ष्याग्नाव् आधाय

पुनः शोधनम्

दक्षिणं जान्वाच्याऽमेध्यं चेत् किञ्चिद् आज्ये ऽवपद्येत - घुणस् त्र्यम्बुका+++(=कीटविशेषः)+++ मक्षिका पिपीलिकेत्य् आ पञ्चभ्य उद्धृत्याभ्य्-उक्ष्योत्पूय जुहुयात्

परिधिः

परिधीन् परिदधाति -
मध्यमं स्थवीयसं पश्चाद्
दीर्घं मध्यमं दक्षिणतः
कनीयसम् उत्तरतः
संस्पृष्टान्।

पूर्वाङ्गम्

अनुज्ञा

दक्षिणतो ऽग्नेर् अपां कोशं++(→धारां)+++ निनयत्य् - अदितेऽनुमन्यस्वेत्य्
अनुमतेऽनुमन्यस्वेति
पश्चात् सरस्वते ऽनुमन्यस्वेत्य्
उत्तरतो देव सवितः प्रसुवेति।

परिषेचनम्

त्रिः प्रदक्षिणमग्निं परिषिञ्चेद् -
देव सवितः प्रसुव। यज्ञं प्रसुव, यज्ञपतिं भगाय +++(च)+++।
दिव्यो गन्धर्वः केतपूः केतं++(=गृहं/ प्रज्ञां/ मन्त्रणं‌‌‌)+++ नः पुनातु,
वाचस्पतिर् वाचं नः स्वदत्व्
इति सकृद् यजुषा द्विस् तूष्णीम्।

प्रधानाहुतयः

इध्माधानम्

अथेध्मम् आदाय स्रुवेणाज्यं गृहीत्वाभिघार्याग्नाव् अभ्यादधात्य् -
“अयं त इध्म आत्मा जातवेदस्,
तेन वर्धस्व चेध्यस्व चेन्द्धि वर्धय चास्मान् प्रजया पशुभिर् ब्रह्म-वर्चसेनान्नाद्येन समेधय स्वाहे"ति।

आघारौ, आज्यभागौ च

मनसाघारौ जुहोति सन्ततम् अक्ष्णया+++(=अखण्डया)+++ -
प्रजापतये स्वाहेत्युत्तरं परिधि-सन्धिम् अन्ववहृत्य स्रुवम्
इन्द्राय स्वाहेति दक्षिणं परिधि-सन्धिम् अन्ववहृत्याघारौ हुत्वा
ऽऽज्यभागौ जुहोत्य् - अग्नये स्वाहेत्य् उत्तरतः, सोमाय स्वाहेति दक्षिणतस् - तावन्तरेणाहुतिलोकः।

भूः स्वाहा
भुवः स्वाहा
स्वः स्वाहा
भूर्भुवः स्वः स्वाहेत्य्

स्थालीपाकाहुतयः

+++(ततः)+++ अग्नये ऽग्नीषोमाभ्याम् इति पौर्णमास्याम्
अग्नय इन्द्राग्निभ्याम् इत्य् अमावास्यायाम्

आहुतिस्थानानि

+++(क्रमश)+++ उत्तरपूर्वाम् आहुतिं जुहोत्य् +++(आहुतिमिश्रणं वारयितुम्)+++ अनभिजुह्वद् आहुत्या ऽऽहुतिं, प्रत्यक् सौविष्टकृतस्थानान् +++(→उत्तरपूर्वतमात्)+++। नित्यो ऽग्निः +++(उत्तर-)+++पुरस्तात् स्विष्टकृद् +++(आहुत्यै)+++ +++(होम-)+++अन्ते ऽन्यत्र वपा-होमाज्य-होमाभ्याम्।

उपस्तरणम्, अवदानम्, अभिघारः

न स्विष्टकृतं +++(पश्चाद् अवशिष्टम् अन्नम्)+++ प्रत्यभिघारयति।
स्रुवे सकृद् आज्यम् उपस्तृणाति,
द्विर् हविषो ऽवद्यति+++(=कर्तयति)+++ +++(ग्रहणाय)+++,
सकृद् आज्येनाभिघार्य +++(शिष्टं हविः)+++ प्रत्यभिघारयत्य्,
अङ्गुष्ठेनाङ्गुलिभ्यां च +++(अङ्गुलि)+++मांस-संहिताभां द्विर्हविषो ऽवद्यति।

द्विराज्येनाभिघार्य +++(शिष्टं हविः)+++ प्रत्यभिघारयति जामदग्न्यानां - तद्धि पञ्चावत्तं +++(←उपस्तरणम्, द्विर् ग्रहणम्, द्विर् अभिघार इति)+++ भवति +++(जामदग्न्योचितम्)+++।

अङ्गुल्या तृणकूर्चेन वा +++(अवद्यति हविः)+++।

एषा होमावृत् सर्वत्र ३

पौष्टिकं कर्म

लेपकर्म

सपवित्रं प्रस्तरम् आदत्ते। तस्याग्राणि स्रुवे ऽनक्ति - “दिव्य् अङ्क्ष्वे"ति,
मध्यम् आज्ये “ऽन्तरिक्षे ऽङ्क्ष्वे"ति,
मूलानि हविषि - “पृथिव्याम् अङ्क्ष्वे"ति।

प्रस्तरात् तृणं निरस्यत्य् - “आयुषे त्वे"ति,
प्रस्तरम् अग्नाव् अनुप्रहरत्य् “अग्नये ऽनुमतये स्वाहे"ति।
पश्चात् तृणम् अनुप्रहरति - “द्विषन्तं मे ऽभिधेहि। तं चैव प्रदह स्वाहे"ति।

समृद्ध्यै समिधः

घृतेनाक्ताः समिध आदधाति - “समृद्ध्यै स्वाहे"ति।

प्रायश्चित्ताहुतयः

भूमिमारभ्य शीर्षण्यान् प्राणान्+++(=इन्द्रियाणि)+++ उपस्पृशेद्, अप उपस्पृश्य -
द्वादश प्रायश्चित्ताहुतीर् जुहोत्य्

  • आकूत्यै स्वाहा १
  • कामाय स्वाहा २
  • समृद्ध्यै स्वाहा ३
  • ऋचा स्तोमं समर्धय, गायत्रेण रथन्तरं, बृहद् गायत्र-वर्तनि स्वाहा ४
  • उदु त्यं जातवेदसं
    देवं वहन्ति केतवः ।
    दृशे विश्वाय सूर्यं स्वाहा ५
  • चित्रं देवानाम् उदगाद् अनीकं
    चक्षुर् मित्रस्य वरुणस्याग्नेः ।
    आप्रा+++(=आपूरयन्)+++ द्यावापृथिवी अन्तरिक्षं
    सूर्य आत्मा जगतस् तस्थुषश् च स्वाहा ६
  • उद् वयं तमसस् परि
    स्वः पश्यन्तो ज्योतिरुत्तरम् ।
    देवं देवत्रा सूर्यम्
    अगन्म ज्योतिर् उत्तमं स्वाहा ७
  • प्रजापते न त्वद् एतान्य् अन्यो
    विश्वा जातानि परि ता बभूव ।
    यत्कामास् ते जुहुमस् तन्नोऽस्तु
    वयं स्याम पतयो रयीणां स्वाहा ८
  • भूः स्वाहा ९
  • भुवः स्वाहा १०
  • स्वः स्वाहा ११
  • “भूर् भुवः स्वः स्वाहे"ति। १२

मार्जनं दिशाम्

अथास्तीर्णान् दर्भान् आनीय
प्रणीतानां च स्रुवस्य चोपरिष्टात् कृत्वा
पस्रावयञ् जपति-
सदसि - सन् मे भूयाः
सर्वम् असि - सर्वं मे भूयाः
पूर्णम् असि - पूर्णं मे भूया
अक्षितम् असि - मा मे क्षेष्ठा
इति।

प्रतिदिशम् अप उत्सिञ्चति -
प्राच्यां दिशि - देवा ऋत्विजो +++(स्वान्)+++ मार्जयन्ताम् इति
प्राचीनावीती दक्षिणस्यां दिशि - मासाः पितरो मार्जयन्ताम् इति
यज्ञोपवीती भूत्वाप उपस्पृश्य, प्रतीच्यां दिशि - गृहाः पशवो मार्जयन्ताम् इत्य्
उदीच्यां दिश्य् - आप ओषधयो वनस्पतयो मार्जयन्ताम्
इत्य् ऊर्ध्वायां दिशि - यज्ञः संवत्सरो यज्ञपतिर् मार्जयन्ताम् इति

“समुद्रं वः प्रहिणोमी"त्य् अपो निनीय +++(भूमौ)+++ -
समुद्रं वः प्रहिणोम्य्
अक्षिताः स्वां योनिमपि गच्छत ।
अरिष्टा अस्माकं वीराः सन्तु
मा परासेचि नः स्वम्
इति

“यदप्सु ते सरस्वती"त्य् अङ्गुष्ठेनोपकानिष्ठिकया चाक्षिणी विमृजेद्,

समापनम्

दर्भ-परिधि-प्रहरणम्

“यद् अप्सु ते सरस्वति
गोष्व् अश्वेषु यन् मधु ।
तेन मे वाजिनीवति
मुखम् अङ्धि सरस्वती"ति दर्भान् परिधींश् चाग्नावाधाय

शान्तिः

वामदेव्येन शान्तिं कृत्वा
त्रिः पर्युक्षेत् +++(अग्निं)+++ सहविष्कं प्रदक्षिणम् - अन्वमंस्थाः प्रासावीर् इति मन्त्रान् सन्नमयेत्।

दक्षिणा

+++(अन्न)+++पूर्णपात्रम् उपनिहितं - सा दक्षिणा।
यथा-श्रद्ध-दक्षिणाः पाकयज्ञाः - पूर्णपात्रं वा। ४