विश्वास-प्रस्तुतिः
तदाहुर् यत् त्रयोदश मासास् संवत्सरस्
संवत्सरश् च चतुर्दशो
ऽथ केन त्रयोदशं च मासम् उपाप्नुवन्ति संवत्सरं च चतुर्दशम् इति ।
मूलम्
तदाहुर्यत्त्रयोदश मासास्संवत्सरस्संवत्सरश्च चतुर्दशोऽथ केन त्रयोदशं च मासमुपाप्नुवन्ति संवत्सरं च चतुर्दशमिति ।
विश्वास-प्रस्तुतिः
अतिरात्राभ्याम् इति ब्रूयात् ।
प्रायणीयेनातिरात्रेण त्रयोदशं मासम् उपाप्नुवन्त्य्,
उदयनीयेन संवत्सरं चतुर्दशम् ।
मूलम्
अतिरात्राभ्यामिति ब्रूयात् । प्रायणीयेनातिरात्रेण त्रयोदशं मासमुपाप्नुवन्त्य् । उदयनीयेन संवत्सरं चतुर्दशम् ।
विश्वास-प्रस्तुतिः
तदाहुस्स वाद्य द्वादशाहं विद्यात् ।
स वा वेदेति मन्येत ।
य एनं सर्वेषु लोकेषु प्रतिष्ठितं विद्याद् इति ।
मूलम्
तदाहुस्स वाद्य द्वादशाहं विद्यात् । स वा वेदेति मन्येत । य एनं सर्वेषु लोकेषु प्रतिष्ठितं विद्यादिति ।
विश्वास-प्रस्तुतिः
मासा वै द्वादशाहस्याहानि ।
त एव लोका ।
एत एव देवलोकाः ।
मूलम्
मासा वै द्वादशाहस्याहानि । त एव लोका । एत एव देवलोकाः ।
विश्वास-प्रस्तुतिः
फाल्गुनो वै मासो द्वादशाहस्य प्रथमम् अहश् ।
चैत्रो द्वितीयं,
वैशाखस् तृतीयम् ।
आषाढापौर्णमासश् चतुर्थं,
श्रोणा-श्रविष्ठः पञ्चमं,
शातभिषजष् षष्ठं,
प्रोष्ठपदः सप्तमम् ।
आश्वयुजोऽष्टमं,
कार्तिको नवमम् ।
मार्गशीर्षो दशमं,
तैष एकादशं,
माघो द्वादशं,
प्रायणीय एवातिरात्रस् त्रयोदशो +++(ऽधिक-)+++मास,
उदयनीयस् संवत्सरश् चतुर्दशः +++(ऽधिक-मासः)+++।
मूलम्
फाल्गुनो वै मासो द्वादशाहस्य प्रथममहश् । चैत्रो द्वितीयं वैशाखस्तृतीयम् । आषाढापौर्णमासश्चतुर्थं । श्रोणाश्रविष्ठः पञ्चमं । शातभिषजष्षष्ठं । प्रोष्ठपदः सप्तमम् । आश्वयुजोऽष्टमं । कार्तिको नवमम् । मार्गशीर्षो दशमं । तैष एकादशं । माघो द्वादशं । प्रायणीय एवातिरात्रस्त्रयोदशो मास । उदयनीयस्संवत्सरश्चतुर्दशः ।
विश्वास-प्रस्तुतिः
स एष द्वादशाहस् सर्वेषु लोकेषु प्रतिष्ठितः ।
स य एवमेतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद
सर्वेषु लोकेषु प्रतितिष्ठति ।
मूलम्
स एष द्वादशाहस्सर्वेषु लोकेषु प्रतिष्ठितः ।
स य एवमेतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद सर्वेषु लोकेषु प्रतितिष्ठति ।
विश्वास-प्रस्तुतिः
स एष वाव द्वादशाहो
य एष तपत्य्
एष इन्द्र ।
एष प्रजापतिर् ।
एष एवेदं सर्वम् इत्युपासितव्यम् ।
एष एवेदं सर्वम् इत्य् उपासितव्यम्।
मूलम्
स एष वाव द्वादशाहो य एष तपत्येष इन्द्र । एष प्रजापतिर् । एष एवेदं सर्वमित्युपासितव्यम् ।
एष एवेदं सर्वमित्युपासितव्यम्
English (MT)
The 12 months are listed & finally the 2 intercalary months for the saMvatsara cycle. This then concludes with a statement to reconcile the prAjApatya and aindra strands of the religion:
य एष तपत्य् एष इन्द्र एष प्रजापतिर् एष एवेदं सर्वम् इत्य् उपासितव्यम् ।
it is finally termed sarva. The connection with the realm measured by the thousand pillars, the units of time & terms sarva itself present this meditation as the direct cognate of the para-Zoroastrian tradition of zurvan in the Iranic realm. Hence, we posit that this tradition recorded in the jaminIya was an earlier Indo-Iranian expression of the worldview from which the zurvanistic lineage arose among the Iranians.
३८६