३८५

English (MT)

The sprawling jaiminIya brAhmaNa of the sAmaveda has a section which we would call an upaniShat even though it is not widely taught as such in uttaramImAMsA traditions. After starting with a prAjApatya element it presents the following verse.

तस्यैष श्लोकः ।

विश्वास-प्रस्तुतिः

इतः परस्तात् पर उ परस्मात्
परस् तृतीयाद् उत वा चतुर्थात् ।
सहस्र-स्थूणे विमिते दृढ उग्रे
यत्र देवानाम् अधिदेव आस्ते॥

मूलम्

इतः परस्तात्पर उ परस्मात्परस्तृतीयादुत वा चतुर्थात् ।
सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते॥

English (MT)

Beyond this, indeed beyond the yonder (realm);
verily beyond the third and also the fourth;
in the firm and formidable (realm) measured by the thousand pillars
is where the foremost god of the gods resides.

The object of this verse is connected units of time, the days, nights, forthnights, months, year & 12 days intercalary difference between 12 synodic moon cycles & the solar year.

इति ।

विश्वास-प्रस्तुतिः

एष ह वाव स देवानाम् अधिदेवो - य एष तपति ।

तस्यैतत् सहस्र-स्थूणं विमितं दृढम् उग्रं
यत् संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्य् उषसः ।

मूलम्

एष ह वाव स देवानामधिदेवो य एष तपति ।

तस्यैतत्सहस्रस्थूणं विमितं दृढमुग्रं यत्संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्युषसः ।

विश्वास-प्रस्तुतिः

स य एवम् एतत् सर्वं
द्वादशाहम् आत्मानम् अभि सम्पद्यमानं वेद
सर्व एनं कामा अभि सम्पद्यन्ते ।
+++(1 solar year - 12 synodic months ~ 12 days.)+++

मूलम्

स य एवमेतत्सर्वं द्वादशाहमात्मानमभि सम्पद्यमानं वेद सर्व एनं कामा अभि सम्पद्यन्ते ।

विश्वास-प्रस्तुतिः

द्वादशाहे वै सर्वे स्तोमा, सर्वाणि पृष्ठानि, सर्वाणि छन्दांसि,
सर्वाणि सवनानि, सर्वे पशवस्, सर्वे देवास्, सर्वे लोकास् सर्वे कामा ।

मूलम्

द्वादशाहे वै सर्वे स्तोमा सर्वाणि पृष्ठानि सर्वाणि छन्दांसि सर्वाणि सवनानि सर्वे पशवस्सर्वे देवास्सर्वे लोकास्सर्वे कामा ।

विश्वास-प्रस्तुतिः

द्वादशाहम् अन्वायत्ता ।
द्वादशाहम् अन्वाभक्ता ।
द्वादशाहम् अनुसन्तृप्यन्ति ।
द्वादशाहे सम्पन्ना ।
द्वादशाहे प्रतिष्ठिताः ।

मूलम्

द्वादशाहमन्वायत्ता । द्वादशाहमन्वाभक्ता । द्वादशाहमनुसन्तृप्यन्ति । द्वादशाहे सम्पन्ना । द्वादशाहे प्रतिष्ठिताः ।

विश्वास-प्रस्तुतिः

तदाहुर् यद् एतानि दशैवाहान्य्
अथ कस्माद् द्वादशाह इत्य् आख्यायत इति ।

स ब्रूयाद्- यद् एवैते द्वादशाग्निष्टोमा सम्पद्यन्ते, तेनेति।

मूलम्

तदाहुर्यदेतानि दशैवाहान्यथ कस्माद्द्वादशाह इत्याख्यायत इति ।

स ब्रूयाद्यदेवैते द्वादशाग्निष्टोमा सम्पद्यन्ते तेनेति

३८५