३८४

विश्वास-प्रस्तुतिः

सोऽस्याम् ऊर्ध्वायं दिश्य् अन्वैच्छत् ।
तम् एतैस् सर्वै रूपैस् सहासीनम् अन्वविन्दत् ।
तान्य् एतस्मा एव सर्वाणि रूपाणि प्रायच्छत् ।
तद् यद् इदम् इह कल्याणं रूपम् आजायते
यद् एवैष प्रयच्छति
तद् इदम् इहाजायते ।+++(5)+++

स यद् -
भूर्भुव स्वर्
इति व्याहरत्
त एवेमे त्रयो लोका अभवन्न्
उपोदक, ऋत-धामा, ऽपराजितः ।

अथ यत्
करज् जनद् वृधद्
इति व्याहरत्
त एवैते ऽपरे लोका अभवन्न्

  • अधिदिवः, प्रदिवो, रोचतः।

विष्टप एव सप्तमो ब्रह्मलोको यस्मिन्नेतत्सत्यं भाति ।
तम् एषा देवता सत्यं भूत्वानुप्राविशत् ।

तत् सद् वै प्राणस्
सत्याः प्रजाः ।

तेनास्य सत्येनेदं सर्वं सङ्गृहीतं भवति ।

यदि च ह सत्यं वदति
यदि च नाथ हास्य सत्यम् एवोदितं भवति ।

अथो ह विद्यात् - सत्यम् एवाहं वदामि, नानृतं ।
यत्सत्यं वदतो लोकस्
स मे लोक इति ।

तस्य ह स एव लोको भवति ।
तद् यथेदं वयं मीमांसामह
इदं ब्रह्मेदं ब्रह्मेत्य्
एवम् एवैषा देवतैतद् विदांसं मीमांसते - न हैष चन तद् वेद ।+++(5)+++

मासो देवता-प्रविष्टेति
य एव तद् वेद
स एव तद् वेद ।

एतं सा देवता प्रविष्टेति ।

न ह वा एवं-विदः किं चनाविदितं भवति
न का चन देवता ३८४

मूलम्

सोऽस्यामूर्ध्वायं दिश्यन्वैच्छत् ।

तमेतैस्सर्वै रूपैस्सहासीनमन्वविन्दत् ।

तान्येतस्मा एव सर्वाणि रूपाणि प्रायच्छत् ।

तद्यदिदमिह कल्याणं रूपमाजायते यदेवैष प्रयच्छति तदिदमिहाजायते ।

स यद्

भूर्भुव स्वर्

इति व्याहरत्त एवेमे त्रयो लोका अभवन्नुपोदक ऋतधामाऽपराजितः ।

अथ यत्

करज्जनद्वृधद्

इति व्याहरत्त एवैतेऽपरे लोका अभवन्नधिदिवः प्रदिवो रोचतः विष्टप एव सप्तमो ब्रह्मलोको यस्मिन्नेतत्सत्यं भाति ।

तमेषा देवता सत्यं भूत्वानुप्राविशत् ।

तत्सद्वै प्राणस्सत्याः प्रजाः ।

तेनास्य सत्येनेदं सर्वं सङ्गृहीतं भवति ।

यदि च ह सत्यं वदति यदि च नाथ हास्य सत्यमेवोदितं भवति ।

अथो ह विद्यात्सत्यमेवाहं वदामि नानृतं । यत्सत्यं वदतो लोकस्स मे लोक इति ।

तस्य ह स एव लोको भवति ।

तद्यथेदं वयं मीमांसामह इदं ब्रह्मेदं ब्रह्मेत्येवमेवैषा देवतैतद्विदांसं मीमांसते न हैष चन तद्वेद ।

मासो देवताप्रविष्टेति य एव तद्वेद स एव तद्वेद ।

एतं सा देवता प्रविष्टेति ।

न ह वा एवंविदः किं चनाविदितं भवति न का चन देवता ३८४

English

The following section of this upaniShat mentions that when all (sarva) forms were permeated the world was laid out as the vyAhR^iti-s which are listed as bhUH, bhuvas, suvar, karat, janat, vR^idhat, satyam.
This overlaps with the vyAhR^iti-s of the atharvan tradition again connecting this text of the jaiminIya to the atharvan-s.