विश्वास-प्रस्तुतिः
तस्मात् ते पराभूताः ।
ते ह्य् अस्य पापिष्ठम् उपासते ।
तं पितरः पितृलोके ऽन्वैच्छन् यममुखाः ।
ते ऽन्वविन्दन् यद् अपां रूपं तत् ।
तद् एवास्य त उपासते ।
(तं मनुष्या अन्वैच्छन् मृत्युमुखाः ।
ते ऽन्वविन्दन् यत् क्षीरोदनस्य रूपं तत् ।
तद् एवास्य त उपासते ।)
तद् एतद्+ध वा एतद् अग्रे ऽन्नस्य रूपम् आस यत् क्षीरौदनः ।
तस्येयं विकृतिर् यद् इदं मनुष्या उपासते ।
तं वयांस्य् अन्वैच्छन् मृत्युमुखान्य् उ एव ।
तान्य् अन्विन्दन् हिरण्यपक्षश् शकुन इति ।
तत् तद् एवास्य तान्य् उपासते ।
तं पशवो ऽन्वैच्छन् धातृमुखाः ।
ते ऽन्वविन्दन् हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति ।
(तत् तद् एवास्य त उपासते ।)
तद एतद् +ध वा एतस्यै देवतायै सात्ययज्ञयो रूपम् उपासते
हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति ।
स य एतद् एवं वेद ऋषभ एव स्वानां भवति ॥
अथो योऽयं तपति
मूलम्
तस्मात्ते पराभूताः ।
ते ह्यस्य पापिष्ठमुपासते ।
तं पितरः पितृलोकेऽन्वैच्छन्यममुखाः ।
तेऽन्वविन्दन्यत्क्षीरौदनस्य रूपं तत् ।
तदेवास्य त उपासते ।
तदेतद्ध वा एतदग्रेऽन्नस्य रूपमास यत्क्षीरौदनः ।
तस्येयं विकृतिर्यदिदं मनुष्या उपासते ।
तं वयांस्यन्वैच्छन्मृत्युमुखान्यु एव ।
तान्यन्वविन्दन्हिरण्यपक्षश्चकुन इति ।
तत्तदेवास्य तान्युपासते ।
तं पशवोऽन्वैच्छन्धातृमुखाः ।
तेऽन्वविन्दन्हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति ।
तत्तदेवास्य त उपासते ।
तदेतद्ध वा एतस्यै देवतायै सात्ययज्ञयो रूपमुपासते हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति ।
स य एतदेवं वेद ऋषभ एव स्वानां भवति ।
अथो योऽयं तपति ३८३
English (MT)
The humans find that in milk-rice: represents the formation of the Indians. 4. birds and mammals (?) find that in their “Platonic forms”.