३८२

विश्वास-प्रस्तुतिः

तम् अस्यां प्राच्यां दिशि वसवो ऽन्वैच्छन्न् अग्निमुखाः
ते ऽन्वविन्दन् यद्, अर्चिषो रूपं तत् ।
तद् एवास्य त उपासते ।

तम् अस्यां दक्षिणायां दिशि रुद्रा अन्वैच्छन्न् इन्द्रमुखाः
ते ऽन्वविन्दन् यद्, आदित्यस्य रूपं तत् ।
तद् एवास्य त उपासते ।

तम् अस्यां प्रतीच्यां दिश्य् आदित्या अन्वैच्छन् वरुणमुखाः
ते ऽन्वविन्दन् यच् चन्द्रमसो रूपं तत् ।
तद् एवास्य ते उपासते ।

तम् अस्याम् उदीच्यां दिशि विश्वे देवा अन्वैच्छन् विष्णुमुखाः
ते ऽन्वविन्दन् यद् विद्युतो रूपं तत् ।
तद् एवास्य त उपासते ।

तम् अस्याम् ऊर्ध्वायां दिशि मरुतो ऽन्वैच्छन्न् ईशानमुखाः
ते ऽन्वविन्दन् यत् श्वेतं रूपं तत् । तद् एवास्य त उपासते ।

तम् एतस्मिन् परे लोके साध्याश् चाप्त्याश् चान्वैच्छन् सवितृमुखाः
ते ऽन्विन्दन् यत् कृष्णं रूपं तत् ।
तद् एवास्य त उपासते ।

तम् अस्मिन्न् एवान्तरदेशे गन्धर्वा अन्वैच्छन् मित्रमुखाः
ते ऽन्वविन्दन् यत् सुवर्णस्य हिरण्यस्य रूपं तत् ।
तद् एवास्य त उपासते ।

(तम् अस्मिन्न् एवान्तरदेशे ऽप्सरसो ऽन्वैच्छंस् त्वष्टमुखाः
ता अन्वविन्दन् यद् रजतस्य हिरण्यस्य रूपं तत् ।
तद् एवास्य ता उपासते ।)

(तं सर्पा अन्वैच्छन्न् अङ्गिरोमुखाः
ते ऽन्वविन्दन् यन् मधुनो रूपं तत् ।
तद् एवास्य त उपासते ।)

तम् अङ्गिरसो ऽन्वैच्छन्न् अथर्वमुखाः
ते ऽन्विन्दन् यद् घृतस्य रूपं तत् । तद् एवास्य त उपासते ।

तम् असुरा अन्वैच्छन्न् असितमुखाः
ते ऽन्वविन्दन् यत् सुरायै रूपं तत् ।
तद् एवास्य ते उपासते ।

मूलम्

तमस्यां प्राच्यां दिशि वसवोऽन्वैच्छन्नग्निमुखाः ।
तेऽन्वविन्दन्यदर्चिषो रूपं तत् ।
तदेवास्य त उपासते ।

तमस्यां दक्षिणायां दिशि रुद्रा अन्वैच्छन्निन्द्र मुखाः ।
तेऽन्वविन्दन्यदादित्यस्य रूपं तत् ।
तदेवास्य त उपासते ।

तमस्यां प्रतीच्यां दिश्यादित्या अन्वैच्छन्वरुणमुखाः ।
तेऽन्वविन्दन्यच्चन्द्र मसो रूपं तत् ।
तदेवास्य त उपासते ।

तमस्यामुदीच्यां दिशि विश्वे देवा अन्वैच्छन्विष्णुमुखाः ।
तेऽन्वविन्दन्यद्विद्युतो रूपं तत् ।
तदेवास्य त उपासते ।

तमस्यामूर्ध्वायां दिशि मरुतोऽन्वैच्छन्नीशानमुखाः ।
तेऽन्वविन्दन्यत्श्रेतं रूपं तत् ।
तदेवास्य त उपासते ।

तमेतस्मिन्पर्लोके साध्याश्चाप्त्याश्चान्वैच्छन्सवितृमुखाः।
तेऽन्वविन्दन्यत्कृष्णं रूपं तत् ।
तदेवास्य त उपासते ।

तमस्मिन्नेवान्तरदेशे गन्धर्वा अन्वैच्छन्मित्रमुखाः ।
तेऽन्वविन्दन्यन्मधुनो रूपं तत् ।
तदेवास्य त उपासते ।

तमङ्गिरसोऽन्वैच्छन्नथर्वमुखाः ।
तेऽन्वविन्दन्यद्घृतस्य रूपं तत् ।
तदेवास्य त उपासते ।

तमासुरा अन्वैच्छन्नसितमुखाः ।
तेऽन्वविन्दन्यत्सुरायै रूपं तत् ।
तदेवास्य त उपासते ३८२

English (MT)

That “sarva” is formulaically expressed thus in the above-mentioned upaniShadic section of the jaiminIya:

It contains several points of interest, e.g.,

  1. the asura-s saw that in beer/distilled alcohol – thus they lost – a censure of alcohol.
  2. the rudra-s are interestingly paired with the indra & the marut-s with IshAna (rudra).
  3. It has a clear “atharvanic” feel to it with respect to the mention of the atharvan at head of the aNgiras-es & aNgiras-es at the head of the snakes.