त्रिवृता स्तोमेन गायत्रीमभ्यक्रन्दत् ।
ततो वसूनसृजताग्निमुखान् ।
पञ्चदशेन स्तोमेन त्रिष्टुभमभ्यक्रन्दत् ।
ततो रुद्रा नसृजतेन्द्र मुखान् ।
सप्तदशेन स्तोमेन जगतीमभ्यक्रन्दत् ।
तत आदित्यानसृजत वरुणमुखान् ।
एकविंशेन स्तोमेनानुष्टुभमभ्यक्रन्दत् ।
ततो विश्वान्देवानसृजत विष्णुमुखान् ।
त्रिणवेन स्तोमेन पङ्क्तिमभ्यक्रन्दत् ।
ततो मरुतोऽसृजतेशानमुखान् ।
त्रयस्त्रिंशेन स्तोमेनातिछन्दसमभ्यक्रन्दत् ।
ततस्साध्यांश्चाप्त्यांश्चासृजत सवितृमुखान् ।
पञ्चविंशेन स्तोमेन बृहतीमभ्यक्रन्दत् ।
ततो गन्धर्वानसृजत मित्रमुखान् ।
विराजमभ्यक्रन्दत् ।
ततोऽप्सरसोऽसृजत त्वष्टृमुखाः ।
ककुभमभ्यक्रन्दत् ।
ततस्सर्पानसृजताङ्गिरसोमुखान् ।
उष्णिहमभ्यक्रन्दत् ।
ततोऽङ्गिरसोऽसृजताथर्वमुखान् ।
अक्षरपङ्क्तिमभ्यक्रन्दत् ।
ततोऽसुरानसृजतासितमुखान् ।
विष्टारपङ्क्रिमभ्यक्रन्दत् ।
ततः पितॄनसृजत यममुखान् ।
द्विपदामभ्यक्रन्दत् ।
ततो मनुष्यानसृजत मृत्युमुखान् ।
एकपदामभ्यक्रन्दत् ।
ततो वयांस्यसृजत मृत्युमुखान्यु एव ।
अमितच्छन्दोऽभ्यक्रन्दत् ।
ततः पशूनसृजत धातृमुखान् ।
स इदं सर्वं सृष्ट्वोर्ध्व उदक्रामत् ।
सोऽगच्छद्यत्रैनमेतदुपरि वेदयन्ते ३८१