३८०

इदमेवेदमग्रेऽन्तरिक्षमासीत् ।

तद्वेवाप्येतर्हि ।

तदेतद्वितानं यदिमाल्ँ लोकान्व्याप्तम् ।

तस्माद्द्वि नाम ।

तदकामयत स्यां प्रजायेय भूमानं गच्छेयमिति ।

तत्तपोऽतप्यत ।

तत्तप्यमानमद्योतत ।

वीव वा इदमद्युतदिति ।

सैषा विद्युदभवत् ।

एषोऽर्चिरेतज्ज्योतिः ।

विद्युद्भूत्वातप्यत ।

तत स्तनयित्नुरजायत ।

तस्माद्यदा विद्योततेऽथ स्तनयति ।

स्तनयित्नुर्भूत्वातप्यत ।

ततो वृष्टिरजायत ।

तस्माद्यदा स्तनयत्यथ वर्षति ।

तदिदमापो महत्सलिलमासीत् ।

यद्ध वा इदमाहुरापो वा इदमग्रे महत्सलिलमासीदित्येतास्ता आपः ।

आपो भूत्वातप्यत ।

ततोऽन्नमजायत ।

अन्नं भूत्वातप्यत ।

ततोऽन्नमयः पुरुषोऽजायत प्रजानां जनयिता ।

स आस्वप्स्वन्तर्भूर्भुव स्वरिति व्याहरत् ।

त एवेमे लोका अभवन् ।

तद्दिशोऽन्वसृज्यन्त ।

अथ यत्करज्जनद्वृधदिति व्याहरत्त एवैते लोका अभवन् ।

तदृतवोऽन्वसृज्यन्त ।

सोऽब्रवीदिमा वै मे सदभूदिति ।

त एव मासा अभवन् ।

तदृतवोऽन्वसृज्यन्त ।

सोऽब्रवीदिमा वै मे सदभूदिति ।

त एव मासा अभवन् ।

ऋद्धिष्वा इति तेऽर्धमासाः ।

अहमरात्समोषमिति यदहमिति तान्यहान्यभवन् ।

यदरात्समिति ता रात्रयो । यदोषमिति ता उषसः ।

स यां जायमानो वाचमवदत्स एव त्रयो देवोऽभवत् ।

यद्धैवैषाग्रे किं च देवता जायमानोवाद तदु ह ब्रह्मैव बभूव ।

स षक्षत यमिमं त्रयं वेदमसृक्षि हन्तास्मात्सृजा इति ३८०