उत्तरा द्वितीयं । सममेषस्तृतीयं । शुक्लं चतुर्थं । कृष्णं पञ्चमं । कनीनिका षष्ठम् ।
य एवैष पुरुषस्तस्य ये प्राणास्तान्युत्तराण्यहानि ।
प्राण एव सप्तममहश् । चक्षुरष्टमं । श्रोत्रं नवमं । वागेव दशममहः ।
स यद्द्वाचिति द्वावेव हेमौ पुरुषो दृश्येते ।
अथ यद्दा इत्येष हीदं सर्वं दत्ते ।
अथ यच्छा इत्येष हीदं सर्वं शं स्पृशति ।
अथ यद्धा इत्येष हीदं सर्वं दत्ते ।
अथ यच्छा इत्येष हीदं सर्वं शं स्पृशति ।
अथ यद्धा इत्येष हीदं सर्वं हरति ।
स एष एवोक्थ्यम् ।
एष हीदं सर्वमुत्थापयतीव ।
तस्मादेष एवोक्थम् ।
स एष एवोक्थ्यम् ।
एष हीदं सर्वं शं स्पृशति ।
अथ यद्धा इत्येष हीदं सर्वं हरति ।
स एष एवोक्थ्यम् ।
एष हीदं सर्वमुत्थापयतीव ।
तस्मादेष एवोक्थम् ।
स एष एवर्क् ।
ऊर्घ वै नामैष ।
तमृगिति परोक्षमाचक्षते ।
तस्मादेष एवोक्थम् ।
स एष एव यजुः ।
एष हीदं सर्वं जरयतीव ।
तस्मादेष एव यजुः ।
स एष एव साम ।
एतं ह तं हीदं सर्वं समेतम् ।
तस्मादेष एव साम ।
स एष एवोद्गीथः ।
स यदुदित्येतेन हीदं सर्वमुत्तब्धम् ।
अथ यद्गीत्येष हीदं सर्वं गिरति ।
अथ यत्थ इत्यन्नमेवास्यैतत् ।
तस्मादेष एवोद्गीथः ।
स एष एव ब्रह्म ।
एष हीदं सर्वं जरयतीव ।
तस्मादेष एव यजुः ।
स एष एव साम ।
एतं ह तं हीदं सर्वं समेतम् ।
तस्मादेष एव साम ।
स एष एवोद्गीथः ।
स यदुदित्येतेन हीदं सर्वमुत्तब्धम् ।
अथ यद्गीत्येष हीदं सर्वं गिरति ।
अथ यत्थ इत्यन्नमेवास्यैतत् ।
तस्मादेष एवोद्गीथः ।
स एष एव ब्रह्म ।
एष हीदं सर्वं बिभर्ति ।
तस्मादेष एव ब्रह्म ।
भर्म ह वै नामैषः ।
तद्ब्रह्मेति परोक्षमाचक्षते ।
बिभर्ति हैनमेषा देवतास्मिंश्च लोकेऽमुष्मिंश्च य एवं वेद ।
स य एवमेतं द्वादशाहमधिदेवतमधिसूर्यमधिपुरुषमध्यात्मन्प्रतिष्ठितं वेद प्रत्यादित्ये तिष्ठति । सर्वे हास्मै वेदास्सर्वे देवास्सर्वे लोकाः कामान्दुह्रे ।
अतीत्य देवान्ब्रह्मणस्सलोकतां जयति ।
स एष एवोक्थमेष ऋगेष यजुरेष सामैष उद्गीथ एष ब्रह्मैष एवेदं सर्वमित्युपासितव्यम् ३७९