ये दक्षिणास्तद्द्वितीयं । ये प्रत्यञ्चस्तत्तृतीयं । य उदञ्चस्तच्चतुर्थं । य ऊर्ध्वास्तत्पञ्चमं । य अर्वाञ्चस्तत्षष्ठं । यदेव भाति तत्सप्तमं । यत्तपति तदष्टमं । यदेव ताम्रमिव तन्नवमं । मण्डलमेव दशममहः ।
स एष द्वादशाह आदित्ये प्रतिष्ठितः ।
स य एवमेतं द्वादशाहमादित्ये प्रतिष्ठितं वेद प्रत्यादित्ये तिष्ठति । सर्वमायुरेत्य् । अप पाप्मानं हते । गच्छति स्वर्गं लोकं य एवं वेद ।
इत्यधिदेवतम् ।
अथाध्यात्मम् ।
अयमेव द्वादशाहो योऽयं चक्षुषि पुरुषः ।
तस्य पक्ष्माण्येव प्रायणीयोदयनीयौ यान्यर्वाञ्चि पक्षमाणि स प्रायणीयो । यान्यूर्ध्वानि स उदयनीयः ।
तस्याधरैव वर्तनी प्रथममहः ३७८