प्राण इति ब्रूयात् ।
प्राणो वा इदं सर्वमभवत् ।
स यद्द्वारित्येतद्ध्येवेदं सर्वं द्वारमुपजीवति ।
अथ यद्दा इत्येष हीदं सर्वं ददाति ।
अथ यच्छा इत्येष हीदं सर्वं शं स्पृशति ।
अथ यद्धा इत्येष हीदं सर्वं हरति ।
स य एतदेवं वेद यदि च ह साधु करोति यदि च न । अथ हास्य साध्वेव कृतं भवति ।
अथो ह विद्यात्साध्वेवाहं करोमि । नासाधु ।
यस्साधुकृतो लोकस्स मे लोक इति ।
तस्य ह स एव लोको भवति ।
सर्वस्य ह वा अन्यस्य लोको जीर्यति ।
एवंविदो हैव लोको न जीर्यति ।
सैषा प्रणेता देवता ।
एषा हीदं देवता सर्वं प्राणयत ।
तद्यत्प्राणयत तस्मात्प्राणः ।
स यदस्माल्लोकादेवंवित्प्रैत्येषा हैवैनं देवतादायोत्पतति ।
सैनं तं लोकं गमयति । य एतस्यै । यतः परं नास्ति ।
तदाहुः स वाद्य द्वादशाहेन यजेत स वा द्वादशाहेन याजयेद् । य एतमादित्ये प्रतिष्ठितं विद्यादित्यादित्यो वै द्वादशाहस्तस्याहोरात्रावेव प्रायणीयोदयनीयौ ।
अहरेव प्रायणीयो । रात्रिरुदयनीयः ।
तस्य ये प्राञ्चो रश्मयस्तत्प्रथममहः ३७७