३७६

आप्नोति वा एष स्तोमान् । आप्नोति छन्दांस्य् । आप्नोति देवान् । आप्नोति लोकानाप्नोति कामान्यो द्वादशाहेन याजयति ।

स उ दुग्छ आभिरलोको भवति ।

अथो ये च विजानन्ति ये च न त एनं मन्यन्ते कृतं करोतीति ।

तस्माद्द्वादशाहेन नैव याजयेत्तदु वा आहुर्याजयितव्यमेव ।

प्रजापतिर्वै वादशाहः । प्रजापतिरुद्गाता । प्रजापतिर्यजमानः ।

समानी वै देवतोद्गाता च यजमानश्च ।

समानीम्वा एतावृद्धिमृध्नुतस् । समानं लोकं जयत । समान्यां देवतायां प्रतितिष्ठतः ।

अथो यज्ञो वै यजमानो । ब्रह्मोद्गाता ।

यज्ञ एव तत्प्रतिष्ठाय ब्रह्मणस्सलोकतां जयति ।

सलोकितरो यजमानाद्भवति ।

तदाहुर्यदेकैवेदं देवता सर्वमभवद्द्वादशाह एव । कतमा सा देवतेति ३७६