तदाहुर्यदन्यानि सत्राणि रात्रिभिराख्यायन्तेऽथ कस्माद्द्वादशाहोऽहोभिराख्यायत इति ।
स ब्रूयाद्विश्वे वै देवाः पितरं प्रजापतिमुपेत्याब्रुवन्कियान्स्विद्भवानिति ।
सोऽब्रवीद्द्वादशाहमस्मीति ।
यदब्रवीद्द्वादशाहमस्मीति तद्द्वादशाहस्य द्वादशाहत्वम् ।
एष ह वाव संवत्सरः प्रजापतिरास ।
एतानेव तद्द्वादश मास उवाच द्वादशाहमस्मीति ।
तदाहुः किं द्वाः किं दश किमहरिति ।
स ब्रूयादादित्य एव द्वारादित्यो दशादित्योऽहरिति ।
स यदादित्य एव द्वारित्येष ह्येव स्वर्गस्य लोकस्य द्वारम् ।
अथ यदादित्यो दशेत्येष ह्येवासु दशसु दिक्षु तपति ।
अथ यदादित्योऽहरित्येष ह्येवाहः ।
तदाहुर्याजयितव्यं द्वादशाहेना३ना३इति ।
नेति ब्रूयात् ३७५