देवा यदयजन्त तेषां बृहस्पतिरेवोद्गायत् ।
गौश्चायास्यश्च प्रस्तोतृप्रतिहर्तारावास्ताम् ।
प्रजापतिरेव गृहपतिरासीत् ।
इन्द्र एव ब्रह्मासीत् ।
स ब्राह्मणादशंसत् ।
मित्रावरुणावेव मैत्रावरुणावास्ताम् ।
अग्निरेव होतासीत् ।
स आग्नीध्रमकरोद् । अश्विनावध्वर्यू । मरुतो नेष्टापोतारौ विश्वे देवा अच्छावाकोऽर्बुदो ग्रावस्तुत् ।
विष्णुर्वा यज्ञमभ्यष्टौत् ।
सोम उन्नेता । ब्रह्मैव सुब्रह्मण्यामाह्वयद्वा गायत्रेयः ।
स एष सर्वदेवतायज्ञो यद्द्वादशाहः ।
एताभिर्ह सर्वाभिर्देवताभिर्द्वादशाहस्तायते ।
एता हि सर्वा देवता द्वादशाहे क्रियन्ते ।
तस्माद्यदेतासु देवतासूपहवमिच्छेताथर्त्विक्षूपहवमिच्छेत ।
यदो यजत एता एव देवता भूतो यजते । यदो याजयत्येता एव देवता भूतो याजयति ।
तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद ।
य एवैनमुपवदति स आर्तिमार्च्छति ३७४