३७३

क्षत्रं च राष्ट्रं चर्तं च सत्यं च तान्यवस्तात्तपश्च तेजश्च स्वधा चामृतं च तान्यु परस्तात् ।

तद्यदत्र क्षत्रमिन्द्रो वा वरुणो वा सोमो वा राजा तत्तत् ।

अथ यद्रा ष्ट्रं यद्देवविशो मरुतस्तत्तत् ।

ऋतं रात्रिः ।

सत्यं तदहः ।

तपो विद्युत् ।

तेजो यो विद्युतोऽशनिः पतति तत्तत् ।

स्वधा वृष्टिः ।

अन्नं तदमृतम् ।

तस्यैष श्लोकः

क्षत्रं राष्ट्रमृतं सत्यं ब्रह्मणो निहितावराः ।

तपस्तेज स्वधामृतं त ऊर्ध्वासु आसते । मध्ये ब्रह्म विराजति इति ।

एतदु हैतन्मध्ये ब्रह्म विराजति ।

य उ एवंविदस्त ऊर्ध्वास आसते ।

स यथा क्षत्रियः प्रतिनिहित स्यादेवमेवैतद्ब्रह्म प्रतिनिहितमनत्ययनाय ३७३