३७२

पुरुष इति ब्रूयात् ।

पुरुषे ह वै प्राणः प्रतिष्ठितः ।

स यो ह स पुरुषे य एवं वेदैवंविदो ह वै प्राणः प्रतिष्ठितः ।

तस्मादु हैवं विद्वान्गुरु स्यान्न हीदं सर्वं लघयेद् ।

अथो ह विद्यादहमेवेदं सर्वमस्मि मयीदं सर्वं प्रतिष्ठितमिति ।

तस्य ह न लोको व्यृद्ध्यते ।

तदाहुस्स वाद्य द्वादशाहं विद्यात्स वा वेदेति मन्येत । य एनं सर्वासु दिक्षु प्रतिष्ठितं विद्यादिति ।

दश वै दिशः ।

दशो द्वादशाहस्याहानि ।

तस्येमावेव लोकौ प्रायणीयोदयनीयावयमेव लोकः प्रायणीयोऽसावुदयनीयः ।

तस्येयमेव प्राची दिक्प्रथममहर् । इयं द्वितीयम् । इयं तृतीयम् । इयं चतुर्थम् । इयं पञ्चमम् । इयं षष्ठम् । इयमेवान्तरदिक् सप्तममहर् । इयमष्टमम् । इयं नवमम् । इयं दशमम् ।

स एष द्वादशाहस्सर्वासु दिक्षु प्रतितिष्ठति । सर्वेषां देवानां सलोको भवति ।

नास्य तस्य देवाश्च नेशते यदेनान्स नान्वागच्छेत् ।

देवानां ह वै स एको य एवंविद् ।

प्रजापतिर्वै द्वादशाहः ।

तस्य दिश एव लोकाः ।

स एष द्वादशाहस्सर्वेषु लोकेषु प्रतिष्ठितः ।

स य एवमेतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद । सर्वेषु लोकेषु प्रतितिष्ठति ।

स एष वाव द्वादशाहो य एष तपत्य् । एष इन्द्र । एष प्रजापतिर् । एष एवेदं सर्वम् ।

तदेतत्कृते ब्रह्माध्याहितं तपति ३७२