३७१

तदाहुः कथं स्तोमा एक स्तोमो भवति । कथं छन्दांस्येकश्छन्दो भवति । कथमहान्येकमहर्भवति । अक्थं रूपाण्येकं रूपं भवति । कथं पृष्ठान्येकं यजुर्भवति । कथं सामान्येकं साम भवति । कथं वेदा एको वेदो भवति । कथमिदं सर्वमेकं भूत्वा कस्मिन्प्रतिष्ठितमिति ।

स ब्रूयात्स्तोम इति स्तोमा एकं भवन्ति । छन्द इति छन्दांस्येकं भवन्त्य् । अहरित्यहान्येकं भवन्ति । रूपमिति रूपाण्येकं भवन्ति । पृष्ठमिति पृष्ठान्येकं भवन्ति । देवतेति देवता एकं भवन्त्य् । ऋगित्यृच एकं भव न्त । यजुरिति यजूंष्येकं भवन्ति । सामेति सामान्येकं भवन्ति । वेद वेदा एकं भवन्ति । मन इदं सर्वमेकं भूत्वा प्राणे प्रतिष्ठितमिति ।

तदाहुर्यन्मन इदं सर्वमेकं भूत्वा प्राणे प्रतिष्ठितं कस्मिन्नु प्राणः प्रतिष्ठित इति ३७१