३७०

तदाहुः कस्मिन्स्तोमे कस्मिंश्छन्दसि कस्यां देवतायां द्वादशाहोऽन्ततः प्रतिष्ठित इति ।

स ब्रूयात्त्रिवृति स्तोमे । गायत्र्यां छन्दस्य् । अग्नौ देवतायां । द्वादशाहोऽन्ततः प्रतिष्ठित इति ।

त्रिवृता ह्येव स्तोमेन प्रयन्ति गायत्र्या छन्दसाग्निना देवतया ।

तैरु एवोद्यन्ति ।

तदाहुः क स्तोम एकः । किं छन्द एकं । का देवतैका द्वादशाहं वहतीति ।

स ब्रूयात्त्रिवृत्स्तोम एको । गायत्री छन्द एकं । वाग्देवतैका द्वादशाहं वहतीति ।

स ब्रूयात्त्रिवृत्स्तोम एको । गायत्री छन्द एकं । वाग्देवतैका द्वादशाहं वहतीति ।

त्रिवृतो ह्येव सर्वे स्तोमाः प्रजाता गायत्र्यास्सर्वाणि छन्दांसि ।

वाग्देवतैका द्वादशाहं वहति ।

तदाहुः क स्तोमः । किं छन्दः । का देवता द्वादशाह इति ।

स ब्रूयादेकविंश स्तोमो विराट्छन्द आदित्यो देवता द्वादशाह इति ।

आदित्यो ह्येवैकविंश । आदित्यो विराड् । आदित्यो देवता द्वादशाहः ।

तदाहुर्यत्साम द्वादशाहस्स साम इदं सर्वम् ।

कस्साम्न स्तोभः किं पदं किमक्षरमिति ।

स ब्रूयादादित्य एव साम्न स्तोभोऽन्तरिक्षं पदं । वागक्षरमिति ।

तदाहुः क स्तोभस्य स्तोभः । किं पदस्य पदं किमक्षरस्याक्षरमिति ।

स ब्रूयाच्चक्षुरेव स्तोभस्य स्तोभो । मन एव पदस्य पदं । प्राण एवाक्षरस्याक्षरमिति ३७०