३६९

छन्दांसि यदयजन्त तेषां बृहत्येवोदगायत् ।

अथ यावेता उत्तरौ प्रगाथौ तौ प्रस्तोतृप्रतिहर्तारावास्ताम् ।

अमितच्छन्दो गृहपतिर् । विराड्ब्रह्म । गायत्री मैत्रावरुणा । जगती होता । पङ्क्तिरध्वर्युः ।

तस्य यत्पञ्चमं पदं स प्रतिप्रस्थाता त्रिष्टुब्ब्राह्मणाच्छंस्य् । उष्णिक्ककुभौ छन्दसी नेष्टाप्तोतारावनुष्टुबच्छावाको । द्विपदोन्नेता । अक्षरपङ्क्तिर्ग्रावस्तुद् । एकपदा सुब्रह्मण्योऽतिच्छन्दा आग्नीध्रः ।

गायत्रेयस्स एष सर्वच्छन्दा यज्ञो यद्द्वादशाहः ।

एतैर्हि सर्वैश्छन्दोभिर्द्वादशाहस्तायते ।

एतान्येव सर्वाणि छन्दांसि द्वादशाहे क्रियन्ते ।

तस्माद्यदेतेषु छन्दस्सूपहवमिच्छेत । अथर्त्विक्षूपहवमिच्छेत ।

यदो यजत एतान्येव छन्दांसि भूतो यजते ।

यदो याजयत्येतान्येव छन्दांसि भूतो याजयति ।

तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद ।

य एवैनमुपवदति स आर्तिमार्च्छति ३६९